nikkyjain@gmail.com
Date : 17-Nov-2022
Index
!! श्रीसर्वज्ञवीतरागाय नम: !!
श्री-गुणभद्राचार्य-प्रणीत
श्री
उत्तर-पुराण
आभार :
🏠
!! नम: श्रीसर्वज्ञवीतरागाय !!ओंकारं बिन्दुसंयुक्तं नित्यं ध्यायन्ति योगिनः
कामदं मोक्षदं चैव ॐकाराय नमो नम: ॥1॥
अविरलशब्दघनौघप्रक्षालितसकलभूतलकलंका
मुनिभिरूपासिततीर्था सरस्वती हरतु नो दुरितान् ॥2॥
अज्ञानतिमिरान्धानां ज्ञानाञ्जनशलाकया
चक्षुरुन्मीलितं येन तस्मै श्रीगुरवे नम: ॥3॥
॥ श्रीपरमगुरुवे नम:, परम्पराचार्यगुरुवे नम: ॥सकलकलुषविध्वंसकं, श्रेयसां परिवर्धकं, धर्मसम्बन्धकं, भव्यजीवमन: प्रतिबोधकारकं, पुण्यप्रकाशकं, पापप्रणाशकमिदं शास्त्रं श्री-उत्तर-पुराण नामधेयं, अस्य मूल-ग्रन्थकर्तार: श्री-सर्वज्ञ-देवास्तदुत्तर-ग्रन्थ-कर्तार: श्री-गणधर-देवा: प्रति-गणधर-देवास्तेषां वचनानुसार-मासाद्य आचार्य श्री-गुणभद्राचार्य विरचितं ॥
॥ श्रोतार: सावधान-तया शृणवन्तु ॥मंगलं भगवान् वीरो मंगलं गौतमो गणी
मंगलं कुन्दकुन्दार्यो जैनधर्मोऽस्तु मंगलम् ॥
सर्वमंगलमांगल्यं सर्वकल्याणकारकं
प्रधानं सर्वधर्माणां जैनं जयतु शासनम् ॥
🏠
पर्व - 48
श्रीमान् जिनोऽजितो जीयाद् यद्वचांस्यमलान्यलम् । क्षालयन्ति जलानीव विनेयानां मनोमलम् ॥1॥
पुराणं तस्य वक्ष्येऽहं मोक्षलक्ष्मीसमागम: । श्रुतेन येन भव्यानामव्याहतमहोदय: ॥2॥
इह जम्बूमति द्वीपे विदेहे प्राचि विश्रुते । सीतासरिदपाग्भागे वत्साख्यो विषयो महान् ॥3॥
सुसीमानगरं तस्मिन् विभूत्या विस्मयावहम् । नाम्नास्यनृपति: प्राभूत् प्रभुर्विमलवाहन: ॥4॥
गुणा गुर्णार्थिभि: प्रार्थ्या न्यायोऽयं चित्रमत्र तत् । गुणा: प्रणयिन: सर्वे स्वयं तं वृण्वते स्म यत् ॥5॥
शक्तिसिद्धित्रयोपेतो यथान्यायमतन्द्रित: । प्रजा: स पालयामास विधाय स्वप्रजासमा: ॥6॥
धर्मादयस्ततोऽर्थोऽर्थात् कामोऽयेऽनिष्ठिते, न तौ । इति स्मरन् बभुवासौ जैनधर्मेण धार्मिक: ॥7॥
स कदाचित् समुत्पन्नबोधि: संज्वलनोदयी । स्वगतं जातसंवेदो रहस्येवमचिन्तयत् ॥8॥
आयुषो वसति: काये कायस्थस्य ममाप्यलम् । आयुर्जलं गलत्याशु मितकालघटीधृतम् ॥9॥
ततो गलति नि:शेषं न यावत्तावदेव हि । वत्स्र्याम्युत्सह्य सन्मार्गे जैने स्वर्गापवर्गयो: ॥10॥
इत्याशापाशमाच्छिद्य बहुभि: सह निस्पृह: । राजलक्ष्म्या स्वतन्त्रोऽपि दीक्षालक्ष्म्या वशीकृत: ॥11॥
तपस्यन् सुचिरं तीव्रं विस्पष्टैकादशांगक: । नाम्नोऽन्त्यमेष पुण्यात्मा स्वकार्षीद्भावनापर: ॥12॥
आयुषोऽन्ते समाधानं विधाय परमेष्ठिषु । त्रयर्स्त्रिशत्समुद्रायुरयात् स विजयं जयी ॥13॥
तत्रादायाद्यसंस्थानं शुल्क-लेश्याद्वयान्वित: । हस्तोच्छूायं शुभं देहं सुवर्णादिचतुष्टयम् ॥14॥
मासै: षोडशभि: पंचदशभिश्चोच्छ्वसन् दिनै: । त्रयर्स्त्रिशत्सहस्त्राब्दैर्मानसाहारमाहरन् ॥15॥
निजतेजोऽवधिव्याप्तलोकनालिर्निजावधि: । क्षेत्रोत्थापिबलस्तत्पूरककायजविक्रिय: ॥16॥
सातपंचशुभै: सौख्यमप्रवीचारमन्वभूत् । सप्रवीचारसत्सौख्यात्तदनन्तगुणाधिकम् ॥17॥
तस्मान्महीं महाभागे स्वर्गाद्रोरागमिष्यति । प्रागेव भावनोपात्ततीर्थकृन्नामपुण्यत: ॥18॥
द्वीपेऽस्मिन् भारते वर्षे साकेतनगराधिप: । इक्ष्वाकुर्जितशत्र्वाख्य: ख्यातो गोत्रेण काश्यप: ॥19॥
तस्य शक्राज्ञया गेहे षण्मासान् प्रत्यहं मुहु: । रत्नान्यैलविलस्तिस्त्र: कोटी: सार्ध न्यपीपतत् ॥20॥
ज्येष्ठे मासि कलाशेषशशिरोहिण्युपागमे । मुहूर्ताद् ब्रह्मण: पूर्वंदरनिद्राविलेक्षणाम् ॥21॥
देवीं विजयसेनाख्यां षोडशस्वप्नपूर्वकम् । प्रविशन्तं विलोक्यात्मवक्त्राब्जं गन्धसिन्धुरम् ॥22॥
प्रात: पृष्टवर्ती स्वप्नान् देशावधिविलोचन: । जितशत्रुर्महाराज: फलान्येषामबूबुधत् ॥23॥
विजयादागतं देवं तद्रर्भं स्फटिकामलम् । विमलानुगसन्ज्ञाननेत्रत्रितयभास्वरम् ॥24॥
दशम्यां माघमासस्य शुल्कपक्षे प्रजेश्वरम् । प्रजेशयोगे नीतिर्वा महोदयमसूत सा ॥25॥
सागरोपमकोटीनां लक्षा: पंचाशदुत्तरे । मुक्तिमाद्ये जिने याते तदभ्यन्तरजीविन: ॥26॥
तदा विधाय देवेन्द्रा मन्दरे सुन्दराकृते: । जन्माभिषेककल्याणमजिताख्यामकुर्वत ॥27॥
द्वासप्ततिगुणा लक्षा: पूर्वाणामस्य जीवितम् । चतु:शतानि पंचाशदुत्सेधो धनुषां मत: ॥28॥
भर्तु: सुवर्णवर्णस्य पादे स्वस्यायुषो गते । अजितस्य जिताशेषबाह्याभ्यन्तरविद्विष: ॥29॥
पूर्वाणां लक्षया हीनं भागत्रितयमायुष: । पूर्वांगमपि नार्पत्यं निर्जितादित्यतेजस: ॥30॥
त्वया सम्भोगसौख्यस्य पर्यन्तोऽयं ममेति वा । राज्यलक्ष्म्या परिष्वक्त: श्लाध्यान् भोगानभुड्क्त स: ॥31॥
स कदाचित्सुखासीन: सौधपृष्ठे विशां पति: । उल्कामलोकतानल्पां जल्पन्तीवाध्रु वां श्रियम् ॥32॥
विषयेषु तदैवासौ विदां निर्विविदे वर: । लक्ष्मीमभ्यर्णमोक्षाणां क्षेप्तुं र्कि वा न कारणम् ॥33॥
ब्रह्मलोकात्तदाभ्येत्य सुरा: सारस्वतादय: । मुनीश्वरा: प्रशस्योच्चैस्तत्तदेवान्ववादिषु: ॥34॥
तेषां तदुदितं तस्य लोकस्येवांशुमालिन: । स चक्षुषो यथार्थावलोकेऽगात्सहकारिताम् ॥35॥
सुतायाजितसेनाय राज्याभिषेकपूर्वकम् । दत्वा विवेकिनां त्याज्यं राज्यं भोज्यमिवोज्झितम् ॥36॥
लब्धनिष्क्रान्तिकल्याणमहाभिषवसम्मद: । सुप्रभाशिबिकारूढो ब्यूढो नरखगामरै: ॥37॥
माघे मासि सिते पक्षे रोहिण्यां नवमीदिने । सहेतुके वने सप्तपर्णद्रुमसमीपग: ॥38॥
अपराह्णे सहस्त्रेण राज्ञामाज्ञाविधायिनाम् । सार्थं षष्ठोपवासेन समास्थित स संयमम् ॥39॥
चतुर्थज्ञानसम्पन्नो द्वितीयेऽह्नि प्रविष्टवान् । साकेतं दानिनां तोषमपूर्वमुपपादयन् ॥40॥
तत्र ब्रह्मा महीपालस्तस्मै दानं यथाक्रमात् । दत्वा सातादिभि: पुण्यै: सहापाश्चर्यपंचकम्॥41॥
छाद्मस्थ्येन नयन्नब्दान्पौषे द्वादशशुद्धधी: । शुल्कैकादश्यह:प्रान्ते रोहिण्यामाप्ततामगात् ॥42॥
सिंहसेनादयस्तस्य नवति: स्युर्गणाधिपा: । खपंचसप्तवहयुक्तप्रमाणा: पूर्वधारिण: ॥43॥
शिक्षका: खद्वयर्त्वेकद्विप्रमागणना: क्रमात् । शून्यद्वयचतूरन्ध्रमितास्त्रिज्ञानलोचना: ॥44॥
केवलागवमास्तत्र ते सहस्त्राणि र्विशति: । चतु:शतै: सहस्त्राणां र्विशतिर्विकृतर्द्धय: ॥45॥
शून्यपंचचतुद्वर्येकमन:पर्ययवीक्षणा: । शून्यद्वयचतुद्वर्येकैस्तस्यानुत्तरवादिन: ॥46॥
सर्वे ते पिण्डिता: सन्तो लक्षमेकं तपोधना: । प्रकुब्जाद्यार्यिका: शून्यचतुष्कद्वयग्निसम्मिता: ॥47॥
श्रावकास्त्रीणि लक्षाणि श्राविका: पंचलक्षिका: । देवा देव्यस्त्वसड्.ख्याता: सड्.ख्यातो द्वादश गण: ॥48॥
एवं द्वादशभिर्देवो गणैरेभि: परिष्कृत: । संसारमोक्षतद्धेतुफलभेदान् प्रपंचयन् ॥49॥
मालिनी
समवसरणलक्ष्म्या वीक्ष्यमाण: कटाक्षै:
सुकृतविकृतचिह्नैरष्टभि: प्रातिहार्यै: ।
अविहतविहतारि: प्राज्यवैराग्यभाव:
स्वपरगुरूकृतार्थप्रार्थ्यसम्यक्प्रसिद्ध: ॥50॥
शार्दूलविक्रीडितम्
पापै: क्वापि न जीयतेऽयमिति वा दुर्वादिभिश्चाखिलै –
र्नामान्वर्थमवाप्तवानिति विदां स्तोत्रस्य पात्रं भवन् ।
आर्यक्षेत्रमशेषमेष विहरन् सम्प्राप्य सम्मेदकं
स्थित्वा दिव्यनिनादयोगरहितस्तत्रैव पक्षद्वयम् ॥51॥
कुर्वाण: समयं प्रति प्रकृतिषु स्रावं गुणासड्ख्यया
स्थित्यार्दि च विघातयन् स्वमितिकं दण्डादिकं वर्तयन् ।
सूक्ष्मध्याननिरूद्धयोगविभवो विश्लिष्टदेहत्रय –
स्तुर्यध्यानसमाश्रयात्समुपयंश्चाष्टौ गुणान् शुद्धिभाक् ॥52॥
आर्या
चैत्रज्योत्स्त्रापक्षे पंचम्यां रोहिणीगते चन्द्रे ।
प्रतिमायोगं बिभूत्पूर्वाह्णेऽवाप मुक्तिपदम् ॥53॥
द्रुतविलम्बितम्
विमलवाहनमाहवदुर्द्धरं दुरितदूरतपश्चरणोद्यतम् ।
सुखनिर्धि विजये सुरसत्तमं नमत भक्तिभरादजितं जिनम् ॥54॥
शार्दूलविक्रीडितम्
इत्थं पोडशभावनाहितमहापुण्योदयापादक:
सद्धयानात्खलकर्मजालमखिलं निर्मूलयन्निर्मल: ।
धर्म: शर्मपरम्परां प्रविदधद्धत्ते शिवे शाश्वते
तस्माद्धर्ममुपाद्ध्वमुज्झितमदा: शुद्धाप्तबुद्धं बुधा: ॥55॥
तीर्थकृत्सु द्वितीयोऽपि योऽद्वितीयपथस्तुत: । स विधेयात् पुराणोरूमार्गनिर्वहणं कवे: ॥56॥
सगर चक्रवर्ती का वर्णन
तत्तीर्थे सगराभिख्यो द्वितीयश्चक्रवर्तिनाम् । अभूत् पुराणमेतस्य श्रृणु श्रेणिक धीधन ॥57॥
द्वीपेऽत्र प्राग्विदेहस्य सीतापाग्भागभूषणे । विषये वत्सकावत्यां पृथिवीनगराधिप: ॥58॥
जयसेनो जनै: सेव्यो जनसेनास्य वल्लभा । रतिषेणस्तयो: सूनुर्घृतिषेणश्च तावुभौ ॥59॥
सर्याचन्द्रमसौ जित्वा सदा भात: कृतोदयौ । पितरौ च मरून्मार्गपृथिव्यौ वा तत: पृथक् ॥60॥
कदाचिद्रतिषेणोऽभूत् कृतान्तमुखगह्वरे । केनापि हेतुना किं वा न मृत्योर्हेतुतां व्रजेत् ॥61॥
सजार्नि जयसेनाख्यं सलतं चामरद्रुमम् । शोकाशनिरवाधिष्ट तन्मृत्युघननिर्गत: ॥62॥
प्रलय: प्राप्तकालस्तावालिलिगं यमाग्रग: । लब्धरन्ध्रा न तिष्ठेयुरकृत्वापकृर्ति द्विष: ॥63॥
भिषक्प्रायोर्जितोपायै: शनै: संलब्धचेतनौ । गुरूणा गुरूणेवैष तेन दु:खेन बोधित: ॥64॥
विग्रहं तद्गृहं मत्वा निगृहीतु कृताग्रह: । हन्तु यमं समुद्युक्तस्तद्धि युक्तं मनस्विनाम् ॥65॥
जीर्णपर्णवदागण्य प्राणप्रान्तान् परिग्रहान् । राज्यभोज्ये नियुज्यार्यं धृतिषेणं धृतायतिम् ॥66॥
यशोधरगुरूद्दिष्टं शुद्धमध्वानमाप स: । नृपैर्महारूताख्येन बहुभिर्मैथुनेन च ॥67॥
कालान्ते कृतसंन्यासविधि: कल्पेऽन्तिमेऽच्युते । देवो महाबलो नाम जयसेनोऽजनिष्ट स: ॥68॥
महारूतोऽपि तत्रैव मणिकेतु: सुरोऽजनि । आवयोर्योऽवतीर्ण: प्राक् तस्यान्यो बोधको भवेत् ॥69॥
इति तत्र तयोरासीदन्योन्यं सम्प्रधारणम् । तत्र द्वार्विशतिसागरोपमाण्यामरं सुखम् ॥70॥
अनुभूयात्र साकेतनगरे कौशले नृप: । समुद्रविजयस्तस्य सुबाला रमणी तयो: ॥71॥
महाबलोऽभवत्सूनुरिक्ष्वाकु: सागराह्वय: । पूर्वाणां सप्ततिर्लक्षा: तस्यायु:परमावधि: ॥72॥
चतु:शतानि पंचाशदुत्सेधेन धनूंषि स: । सर्वलक्षणसम्पूर्ण: श्रीर्माश्चामीकरच्छवि: ॥73॥
कुमारत्वे दशाष्टौ च लक्षा: पूर्वाण्ययुस्तत: । महामाण्डलिकत्वं च तस्य तावत्प्रमामितम् ॥74॥
तदोदपादि षट्खण्डभूचक्राक्रमणक्षमम् । चक्रं कीर्तिश्च दिक्चक्रमाक्रमन्त्यात्तविक्रमा ॥75॥
आद्यचक्रिवदेषोऽपि कृत्वा दिग्विजयं चिरम् । गृह्णन् तत्सारवस्तूनि सर्वान् स्वाज्ञामजिग्रहत् ॥76॥
ततो निवृत्य साकेतं साम्राज्यश्रीनिकेतनम् । भोगान् दशांगान् निर्भंग निर्विशन्नावसन् सुखम् ॥77॥
तस्य षष्ठिसहस्त्राणि पुत्राणां कृतिनोऽभवन् । तदाकारेण वा तस्य वेधसा व्यन्जिता गुणा: ॥78॥
तस्मिन् सिद्धिवने श्रीनाम्नश्चतुर्मुखयोगिन: । अन्यदाखिलभास्यासीत् केवलाधिगमस्तदा ॥79॥
तत्कल्याणस्य देवेन्द्रैर्मणिकेतु: सहागत: । महाबलोऽजनि क्वेति सोपयोगोऽवधित्विषा ॥80॥
सगरश्चक्रवर्त्येष शेषै: पुण्यैरभूदसौ । इति बुद्ध्वा विशां नाथमुपगम्येदमब्रवीत् ॥81॥
स्मरस्यावां वदिष्यावस्तत्त्वं कल्पेऽच्युताह्वये । प्राग्महीगतमत्रस्थो बोधयत्वावयोरिति ॥82॥
मनुष्यजन्मन: सारं साम्राज्यं चिरमन्वभूत् । किं भोगैर्भोगिभोगाभैर्भोभव्यैभिर्भयावहै: ॥83॥
उत्तिष्ठ स्वविभो मुक्तावित्यस्य विमुखोऽभवत् । चक्रवर्ती स सिद्धयध्वा काललब्ध्या विना कुत: ॥84॥
ज्ञात्वा तत्तस्य वैमुख्यमन्यालापैर्न्यवर्तयत् । हितेनापि न कुर्वन्ति विप्रियं क्रमवेदिन: ॥85॥
धिग्भोगानीदृशान्स्वोक्तेरेवं च्यावयतोऽघदान् । दुस्त्यजानिति निर्विण्णो मणिकेतुरगाद् दिवम् ॥86॥
उपायमेकमालोच्य ततो ग्राहयितु पुन: । मणिकेतुर्महीपालमवतीर्य महीतलम् ॥87॥
आलम्ब्य लक्षणैर्लक्ष्यं कान्त्येन्दुं भानुमाभया । वामेन वपुषा कामं निर्जित्य विजितेन्द्रिय: ॥88॥
चारणत्वं समासाद्य भावयन् संयमं परम् । तस्थौ जिनेन्द्रान् वन्दित्वा सगरस्य जिनालये ॥89॥
दृष्ट्वा तं विस्मयापन्नो वयस्यस्मिन्निदं कुत: । तपस्तवेति पपृच्छ नृप: सोऽप्यन्यथाब्रवीत् ॥90॥
यौवनं जरसा ग्रास्यं गलत्यायु: प्रतिक्षणम् । हेय: कायोऽशुचि: पापी दुर्धरो दु:खभाजनम् ॥91॥
सर्वदानिष्टसंयोगो वियोगश्चेष्टवस्तुभि: । गतोऽनादिर्भवावर्त: पुनश्चानन्त एव स: ॥92॥
कर्मारिभिरिदं सर्वं दग्ध्वा तानि तपोऽग्निना । यास्याम्यनश्वरीं शुर्द्धि यथाहं कनकोपल: ॥93॥
इत्युक्त: संसृतेर्भूपो वेपमानोऽपि नापतत् । पन्थानं निर्वृतेर्बद्ध: पुत्रश्रृंखलया दृढम् ॥94॥
मातिह्स्वोऽस्य संसार इत्ययात्स विषादवान् । उपायो निष्फल: कस्य न विषादाय धीमत: ॥95॥
वशीकृतेन साम्राज्यतुच्छलक्ष्म्या निधीशिना । विस्मृताऽच्युतलक्ष्मीश्च कामिनां कान्तरज्ञता ॥96॥
लाभो लाभेषु पुत्राणां लाभ: स्वर्गापधर्गयो: । लक्ष्म्योर्नासाविति स्मृत्वा मन्येऽस्यां सोऽनुषक्तवान् ॥97॥
कदाचित्ते सुता दृप्ता: सिंहपोता इवोद्धता: । इति विज्ञापयामासु: सभास्थं चक्रवर्तिनम् ॥98॥
यदि क्षत्रियपुत्राणां शौर्यसाहसशालिनाम् । यौवनं न पितु: प्रैषे दु:साध्ये साधितेप्सितम् ॥99॥
र्कि तेन जन्मना तेन जन्मिनो जीवितेन वा । ननु तत्सर्वसामान्यं जन्मजीवितयोर्द्वयम् ॥100॥
तदादिश विशामीश प्रैषं न: साहसावहम् । पात्रेसमिततादैन्यं येनैनो वा निरस्यते ॥101॥
तदाकर्ण्य मुदा पुत्रा: सर्वं चक्रेण साधितम् । भो किं यन्न मे सिद्धं मध्ये हिमसमुद्रयो: ॥102॥
एष एव मम प्रैषो राज्यलक्ष्मीमिमां मम । सम्भूय भूयर्सी यूयमनुभूध्वं यथोचितम् ॥103॥
इति भूयो नरेन्द्रेण तेन ते सुनिवारिता: । जोषमास्थुर्विधेया पितृणां शुद्धवंशजा: ॥104॥
तेऽन्येद्यु: पुनरासाद्य नृपं व्यज्ञापयन्निदम् । न भुज्महे न चेत्प्रैष इत्यभ्यर्णात्मशुद्धय: ॥105॥
तच्छ्रुत्वैष स क: प्रैष इति चिन्तयता मनाक् । नन्वस्ति कार्यशेषोऽयं धर्म इत्यात्तह्णष्टिना ॥106॥
राजाप्याज्ञापिता यूयं कैलासे भरतेशिना । गृहा: कृता महारत्नैश्चतुर्विशतिरर्हताम् ॥107॥
तेषां गंगा प्रकुर्वीध्वं परिखां परितो गिरिम् । इति तेऽपि तथा कुर्वन् दण्डरत्रेन सत्वरम् ॥108॥
मणिकेतु: पुनश्चास्य स्नेहसौजन्यचोदित: । सचिवैर्बोधनोपायं स सहैवं व्यचिन्तयत् ॥109॥
किन्चिद्धितं प्रियं चोक्तं किन्चिच्च हितमप्रियम् । किन्चित्प्रियं सदहितं परं चाहितमप्रियम् ॥110॥
अन्त्यद्वयं परित्पज्य शेषाभ्यां भाषता हितम् । इति निश्चित्य कैलासं तदैवागम्य दर्पिण: ॥111॥
कुमारान् भस्मरार्शि वा व्यधात् क्रूरोरगाकृति: । कुर्वन्ति सुह्णदोऽगत्या हितं चेदप्रियं च तत् ॥112॥
ज्ञात्वापि तन्मृर्ति भूपमाकर्णयितुमक्षमा: । तत्स्नेहं तेषु जानान: संवृत्य सचिवा: स्थिता: ॥113॥
तदा ब्राह्मणरूपेण मणिकेतुरूपेत्य तम् । महाशोकसमाक्रान्तो वावेदयदिदं वच: ॥114॥
देव देवे धराचक्रं रक्षति क्षेममत्र न: । किन्त्वन्तकेन मत्पुत्रोऽहार्यारा जीवितावधे: ॥115॥
प्रेयान् ममैक एवासौ नायुषा तेन जीवितम् । नानीतश्चेत्त्वया सोऽद्य तेन मामपि पश्यत: ॥116॥
तव विद्धयग्रतो नीतां किं कुर्वन्ति न गर्विता: । शलाटुभक्षणे लोल: किं पक्कं तत्त्यजेदिति ॥117॥
तदाकर्ण्यांह सन् राजा द्विज र्कि वेत्सि नान्तक: । सिद्धैरेव स वार्योऽन्यैर्नेत्यागोपालविश्रुतम् ॥118॥
अपवर्त्यायुष: केचिद्वद्धायुर्जीविन: परे । तान् सर्वान् संहरस्येष यमो मृत्योरगोचर: ॥119॥
तस्मिन् वहसि चेद्वैरं जीर्णो मा भूर्गृहे वृथा । मोक्षदीक्षां गृहाणाशु शोकं हित्वेत्युवाच तम् ॥120॥
इत्युक्ते देव र्कि सत्यमेतद्यन्नान्तकात्पर: । बलीति तन्न भेतव्यं मया किन्चिद्वदिष्यता ॥121॥
तेनान्तकेन ते नीता: सर्वेऽपि स्वान्तिकं सुता: । तस्मात्तदुक्तमार्गेण बहुवैर खलेऽन्तके ॥122॥
इत्याह सोऽपि तद्वाक्यवज्रनिर्भिन्नमानस: । गतासुरिव नि:स्पन्दो बभूव नृपति: क्षणम् ॥123॥
चन्दनोशीरसम्मिश्रसलिलै: सुह्णदुक्तिभि: । उत्क्षेपैश्च मृदूत्क्षेपै: पुनरागत्य चेतमाम् ॥124॥
मा माया मा वृथायामाभीम:कामोयमोऽधम: । भंगुर:संगम:प्रेम्ण: कायोऽश्रेयोऽशुचि: क्षयी ॥125॥
वार्मुक्कार्मुंकनिर्भासि यौवनं तद्ययौ वनम् । जानन् जिनोऽहमद्यापि मूढोऽत्रैवेति चिन्तयन् ॥126॥
भव्ये भगलिदेशेशसिंहविक्रमराड्भुव: । विदर्भाया: सुते राज्यं नियोज्यासौ भगीरथे ॥127॥
राजते स्म तपोराज्ये दृढधर्मजिनान्तिके । तावदेव गृहे सन्तो न हेतुर्यावदीक्ष्यते ॥128॥
सोऽपि गत्वा भवद्वार्तां महीपतिमबूबुधत् । अनाकर्ण्यामसौ श्रुत्वा गाढं शोकाग्निदीपित: ॥129॥
कृत्वा भगीरथे राज्यं तपोऽयादहमप्यत: । इहान्वेष्टुं समायात: शोकाद्युष्मत्कुलद्विज: ॥130॥
इति देव: समभ्येत्य मायाभस्मावगुण्ठितान् । कुमारान् बोधयामास मायापि सुह्णदां हिता ॥131॥
तेऽपि तद्वचनात्प्रापन् तपस्तज्जिनसंश्रयात् । चरमांगधरा युक्तं तदेवौचित्यवेदिनाम्॥132॥
भगीरथोऽपि तान् गत्वा कृत्वा भक्त्या नमस्क्रियाम् । धर्ममाकर्ण्य जैनेन्द्रमादत्त श्रावकव्रतम् ॥133॥
प्रकटीकृततन्मायो मणिकेतुश्च तान् मुनीन् । क्षन्तव्यमित्युवाचैतान् सगरादीन् सुह्णद्वर: ॥134॥
कोऽपराधस्तवेदं नस्त्वया प्रियमनुष्ठितम् । हितं चेति प्रसन्नोक्त्या ते तदा तमसान्त्वयन् ॥135॥
सोऽपि सन्तुष्य सिद्धार्थो देवो दिवमुपागमत् । परार्थसाधनं प्रायो ज्यायसां परितुष्टये ॥136॥
सर्वेऽते सुचिरं कृत्वा सत्तपो विधिवद् बुधा: । शुल्कध्यानेन सम्मेदे सम्प्रापन् परमं पदम् ॥137॥
निर्वाणगमनं श्रुत्वा तेषां निर्विण्णमानस: । वरदत्ताय दत्त्वात्मराज्यलक्ष्मीं भगीरथ: ॥138॥
कैलासपर्वते दीक्षां शिवगुप्तमहामुने: । आदाय प्रतिमायोगधार्यभूत्स्वर्धु नीतटे ॥139॥
सुरेन्द्रेणास्य दुग्धाब्धिपयोभिरभिषेचनात् । क्रमयोस्तत्प्रवाहस्य गंगाया: संगमे सति ॥140॥
तदाप्रभृति तीर्थत्वं गंगाप्यस्मिन्नुपागता । कृत्वोत्कृष्टं तपो गंगातटेऽसौ निर्वृर्ति गत: ॥141॥
शार्दूलविक्रीडितम्
अत्रामुत्र च मित्रवन्न हितकृत् कोऽप्यस्ति बन्धु: परो
गुह्याद् गुह्यतरं गुरोरपि न तद्वाच्यं यदस्योच्यते ।
दु:साध्यान्यपि साधयत्यगणयन्प्राणौश्च तत्र स्फुटो
दृष्टान्तो मणिकेतुरेव कुरूतां तन्मित्रमीदृग्विधम् ॥142॥
स जयति जयसेनो यो जितारातिसेन:
श्रुत इति महदादिर्यो बल: प्रान्तकल्पे ।
सगरसकलचक्री योजितो यश्च यश्च
प्रहतचरमदेहो देहमात्रात्मदेह: ॥143॥
🏠
पर्व - 49
श्रियं क्रियात्स मे निघ्नन् सम्भवो दम्भजृम्मणम् । सम्मुखीनायते यस्य सद्धोध: सम्मुखेऽखिलें ॥1॥
द्वीपेऽस्मिन्नादिमे पूर्वविदेहे नद्युदक्तटे । कच्छाख्ये विषये क्षेमपुरे विमलवाहन: ॥2॥
नाम्ना नरपतिस्तस्य सद्य: केनापि हेतुना । सति त्रिभेदे निर्वेदे स समासन्ननिर्वृति: ॥3॥
जन्तुरन्तकदन्तस्थो हन्त जीवितमीहते । मोहात्तन्निर्गमोपायं न चिन्तयति धिक् तम: ॥4॥
आयु: परमसड्.ख्याता: क्षणास्ते शरणीकृता: । प्राणिभिर्हानये चेमानर्पयन्त्यन्तकप्रभो: ॥5॥
अभिलाषातपातप्ताश्छायां भोग्यस्य संश्रिता: । जीर्णकूलस्य वासोsमून्न हि क्षेमेण पालयेत् ॥6॥
इत्यादि चिन्तयन् राज्यं दत्वा विमलकीर्तये । स्वयम्प्रभजिनस्यान्तेवासित्वं प्रतिपन्नवान् ॥7॥
एकादशांगधारी सन् त्रैलोक्यक्षोभकारणम् । भावनाभिर्निवृत्यान्त्यनामतीर्थकराह्णयम् ॥8॥
संन्यासविधिना त्यक्तदेहो ग्रैवेयकादिमे । सुदर्शने विमानेऽभूदहमिन्द्रो महर्द्धिक: ॥9॥
त्रयोर्विशतिवार्ध्यायु: स षष्ठयंगुलमानभाक् । शरीरो लेश्यया शुल्क: श्वसन् पक्षोनवत्सरे ॥10॥
खत्रयाग्नि द्विवर्षान्ते भोजनं मनसा स्मरन् । नि:प्रवीचारभोगोऽन्त्यनरकान्तगतावधि: ॥11॥
स्वावधिक्षेत्रसन्चारसमर्थस्तत्प्रमप्रभ: । प्राग्देहोत्थतनुव्याप्तया स्वावधिक्षेत्रपूरक: ॥12॥
अणिमादिगुणोपेतं पंचपुण्योदयार्पितम् । अहमिन्द्रसुखं श्रीमानन्वभूदमरोत्तम: ॥13॥
द्वीपेऽस्मिन् भारते वर्षे श्रावस्तिनगरेशिन: । राज्ञ: काश्यपगोत्रस्य दृढराजस्य सद्युते: ॥14॥
वल्लभेक्ष्वाकुवंशस्य सुषेणा तत्सुरागमे । षण्मासान् वसुधाराधिमाहात्म्यपदवीं गता ॥15॥
शुल्कफाल्गुनजाष्टम्यां स्वप्नान् षोडश पंचमे । प्रभातसमयेऽपश्यन्न्क्षत्रे सुकृतोदयात् ॥16॥
ततोऽनु वदनं तस्या: स्वप्ने प्राविशदग्रिम: । गिरीन्द्रशिखराकारो वारणश्चारूलक्षण: ॥17॥
सा तेषां फलमाकर्ण्य स्वपतेर्मुदमागता । नवमे मासि नक्षत्रे पंचमे सौम्ययोगगे ॥18॥
पौर्णमास्यामवापार्च्यमहमिन्द्रं त्रिविद्युतम् । स जन्मोत्सवकल्याणप्रान्ते सम्भव इत्यभूत् ॥19॥
सम्भवे तव लोकानां शं भवत्यद्य शम्भव । विनापि परिपाकेन तीर्थकृन्नामकर्मण: ॥20॥
तवांगचूते प्रीणन्ति लक्षणव्यंजनोद्रमे । प्रलम्बबाहुविटपे सुरदृग्भूमराश्चिरम् ॥21॥
परतेजांसि ते तेजो भाति देव तिरोदधत् । मतानि कपिलादीनां स्याद्वादस्येव निर्मलम् ॥22॥ हे देव ! जिसप्रकार स्याद्वादका निर्मल तेज कपिल आदिके मतों का तिरस्कार करता हुआ सुशोभित
समस्ताह्लादकेनासीदामोदेनेव चन्दन: । बोधेन सहजातेन त्रिविधेन जगद्धित: ॥23॥
त्वां लोक: स्नेहसंवृद्धो निर्हेतुहितकारणम् । प्रदीपवन्नमत्येष निधानमिव भास्वरम् ॥24॥
इति स्तुत्वादिकल्पेशो विहितानन्दनाटक: । पित्रोस्तमर्पयित्वामा स्वर्लोकमगमत्सुरै: ॥25॥
द्वितीयतीर्थसन्ताने समये सागरोपमै: । र्त्रिशच्छतसहस्त्रोक्तकोटिभि: प्रान्तमीयुषि ॥26॥
शम्भवाख्योऽभवत्स्वामी तदभ्यन्तरजीवित: । स पूर्वषष्टिलक्षायु: चतु:शतधनु:प्रम: ॥27॥
आयुषीते चतुर्भागे प्राप्तराज्यमहोदय: । सुखान्यन्वभवद्देवैरूपनीतान्यनुक्षणम् ॥28॥
चत्वार्रिशच्चतुर्लक्षा: पूर्वाणां समतिक्रमे । चतु:पूर्वांगयुक्तानामभूविभूमदर्शनात् ॥29॥
लब्धबोधि: समुत्पन्नवैराग्यो जीवितादिकम् । स्वगतं स्मरति स्मेति शम्भव: स भवान्तक: ॥30॥
आयुरेवान्तकोऽन्तस्थं भान्त्योक्तोऽन्योऽन्तक: परै: । जन्तवस्तदजानन्तो म्रियन्तेऽनन्तशोऽन्तकात् ॥31॥
अध्यास्य कायमेवायमन्तकेनाभिभूयते । भूयो जन्तुरिदं जाड्यमत्रैव वसतीति यत् ॥32॥
विरसान् सरसान् मत्वा विषयान् विषसन्निभान् । भुड.क्ते रागरसाविद्धो धिग् धियोऽनादिविप्लवम् ॥33॥
आत्मेन्द्रियायुरिष्टार्थसन्निधे: संसृतौ सुखम् । स्वसन्निधिरिह स्थेयान् किं न वेत्त्िा न तर्क्यते ॥34॥
विद्युदुद्युतिवल्ल क्ष्मीर्नेयं स्थेमानमृच्छति । व्युच्छिन्नेच्छ: श्रियं स्थातुं स्वच्छतद्वोधदीधितिम् ॥35॥
इत्यात्ततत्वसारं तं स्तुत्वा लौकान्तिका गता: । दत्वा राज्यं स्वपुत्राय प्राप्तनिष्क्रमणोत्सव: ॥36॥
सिद्धार्थशिबिकामूढां देवैरारूह्य निर्गत: । सहेतुकवने राज्ञां सहस्त्रेणाप संयमम् ॥37॥
मन:पर्ययसंज्ञान: श्रावस्तिनगरं प्रति । भिक्षाहेतोर्द्वितीयेऽह्नि प्राविशत् कनकप्रभ: ॥38॥
नृप: सुरेन्द्रदत्ताख्य: सुवर्णाभ: प्रतीक्ष्य तम् । दत्त्वा दानं स्फुरद्रत्नमापदाश्चर्यंपंचकम् ॥39॥
अथ मौनव्रतेनायं छद्मस्थोऽब्देषु शुद्धधी: । द्विसप्तसु गते दीक्षावने शालतरोरध: ॥40॥
जन्मर्क्षे कार्तिके कृष्णचतुर्थ्यामपराह्णग: । षष्ठोपवासो हत्वाघान् पापानन्तचतुष्टयम् ॥41॥
कल्पामरै: समं सर्वैस्त्रिविधैर्ज्यौतिषादिभि: । व्यधात् कैवल्यकल्याणं तदैवैत्यामराधिपा: ॥42॥
पंचोत्तरशतोद्दिष्टैर्गणेशै: परिवारित: । चारूषेणादिभि: सोऽभाद् गिरीन्द्रो गिरिभिर्यथा ॥43॥
शुन्यपंचैकपक्षोक्तचारूपूर्वधरावृत: । शून्यद्वयत्रिरन्ध्रद्वयेकोक्तशिक्षकलक्षित: ॥44॥
शून्यद्वितयषड् रन्ध्रमितावधिविलोचन: । शून्यत्रयेन्द्रियैकोक्तकेवलावगमान्वित: ॥45॥
शून्यद्वयाष्टरन्ध्रैकज्ञातवैक्रियकानुग: । शून्यपंचैकपक्षैकज्ञानतुर्यावबोधक: ॥46॥
शून्यत्रितयपक्षैकसड्ख्यावादिविभूषित: । पिण्डिताशेषदिग्वासो लक्षद्वयपरिष्कृत: ॥47॥
खचतुष्कद्विवह्णनयुक्तधर्मार्याद्यार्यिकागण: । त्रिलक्षोपासकोपेतश्राविकापंचलक्षग: ॥48॥
असड्.ख्यदेवदेवीडयस्तिर्यक्सड्.ख्यातसंस्तुत: । एवं द्वादशभेदोक्तधर्मभृद्रणनायक: ॥49॥
चतुर्स्त्रिशदतीशेषप्रातिहार्याष्टकप्रभु: । दिव्यवाग्ज्योत्स्नया कृत्स्नमाह्लाद्यानमितांशुमान् ॥50॥
शुद्ध एव चरन् पक्षे मोक्षलक्ष्म्या सहोद्रत: । निष्कलंको निरातंको निर्द्ध् तारि: कुपक्षह्णत् ॥51॥
मुनितारागणाकीर्ण: कामद्वेषी महोष्मधृत् । सद्वृत्त: सर्वदा पूर्ण: सदाभ्यर्णध्रु वोदय: ॥52॥
सदा त्रिभुवनासेव्यो भव्यपद्मावबोधन: । नित्यध्वस्तोभयध्वान्तो लोकालोके प्रकाशक: ॥53॥
विधुं सोऽधो विधायैवं विहरद् धर्मवृष्टये । पर्जन्यवत्सतां चेष्टा विश्वलोकसुखप्रदा ॥54॥
सम्मेदं पर्वतं प्राप्य त्यक्तमासविहारक: । सहस्त्रमुनिभि: सार्द्धं प्रतिमायोगमागत: ॥55॥
चैत्रे मासि सिते पक्षे पष्ठयामर्केऽस्तसम्मुखे । स्वकीयजन्मनक्षत्रे मोक्षलक्ष्मीं समागमत् ॥56॥
पंचमावगमेशं तं पंचमीं गतिमास्थितम् । पंचमेऽभ्यर्च्य कल्याणे सन्चिताया वयु: सुरा: ॥57॥
शार्दूलविक्रीडितम्
अष्टौ शिष्टतमानि संयमगुणस्थानान्यतीत्य क्रमा-
दष्टौ दुष्टतमानुपायनिपुणो निर्मथ्य कर्मद्विष: ।
अष्टाविष्टतमान् गुणानविकलान् कृत्वा तनुं शाश्वती-
मष्टम्यामवनौ स्म सम्भवविभु: शुम्भत्सुख: शोभते ॥58॥
विपुलविमललक्ष्मीर्वीक्षितानगंलक्ष्मीरिह भुवि विमलादिर्वाहनो देहदीप्त्या ।
हतरविरहमिन्द्रो रून्द्रकल्याणलक्ष्मीप्रकटितपरिरम्भ: सम्भव: शं क्रियाद्व: ॥59॥
🏠
पर्व - 50
अर्थे सत्ये वच: सत्यं सद्वक्तुर्वक्ति सत्यताम् । यस्यासौ पातु वन्दारून्नन्दयन्नभिनन्दन: ॥1॥
जम्बूपलक्षिते द्वीपे विदेहे प्राचि दक्षिणे । सीताया विषयो भागे व्यभासीन्मंगलावती ॥2॥
राजा महाबलस्तत्र नगरे रत्नसंचये । स्वामिसम्पत्समेतोऽभूच्चतुर्वर्ण्णाश्रमाश्रय: ॥3॥
पाति तस्मिन् महीं नासीद् ध्वनिरन्याय इत्ययम् । प्रावर्तना प्रजा: स्वेषु स्वेषु मार्गेष्वनर्गला: ॥4॥
षांगुण्यं तत्र नैर्गुण्यमगाद्विगतविद्विषि । निर्गुणोऽपि गुणैस्त्यागसत्यादिभिरसौ गुणी ॥5॥
नि:सपत्न: श्रिय: सोऽभूत्पतिस्तस्या: सरस्वती । कीर्तिवीरश्रियोऽभूवन् सपत्न्य: प्रीतचेतस: ॥6॥
अन्यवाक्श्रोत्रयो: कीर्तिस्तस्य वाचि सरस्वती । वीरलक्ष्मीरसौ वक्षस्यहमित्यतुषद्रमा ॥7॥
कान्ताकल्पलतारम्यो निजकायामरद्रम: । फलति स्म सुखं तस्य यद्यत्त्ोनाभिवान्च्छितम् ॥8॥
रम्यरामामुखाम्भोजसेवालोलाक्षिषट्पद: । सुखेन सोऽनयद्दीर्घं कालं कालकलामिव ॥9॥
कदाचिज्जातवैराग्य: कामभोगेऽप्यतर्पणात् । सूनवे घनपालाय दत्वा राज्यं महामना: ॥10॥
आदात् संयममासाद्य गुरूं विमलवाहनम् । एकादशांगधार्येष भावितद्वयष्टकारण: ॥11॥
तीर्थकृन्नाम सम्प्रापत् फलं कल्याणपंचकम् । येन तीर्थंकरोऽयं स्यात् किं नाप्स्यन्ति मनस्विन: ॥12॥
आयुषोऽन्ते स संन्यस्य विजयेऽनुत्तरादिमे । त्रयर्स्त्रिशत्समुद्रायुरहमिन्द्रत्वमाययौ ॥13॥
तत्रोक्तदेहलेश्याविद्ं गुण्योच्छ्वासादिसंयुत: । पंचशातसुखास्वादी भवान्ते शान्तमानस: ॥14॥
ध्यायन् वैराग्यसम्पत्त्या तत्रास्थाद्भक्तितोऽर्हत: । कृत्स्नकर्मक्षयं कर्तुं तस्मिन्नत्रागमिष्यति ॥15॥
द्वीपेऽस्मिन् भारते वर्षे साकेतनगराधिप: । इक्ष्वाकु: काश्यपो वंशगोत्राभ्यामद्भतोदय: ॥16॥
राजा स्वयंवरो नाम्ना सिद्धार्थाऽस्याग्रवल्लभा । षड्मासान् वसुधारादि-पूजामाप्नुवती सती ॥17॥
वैशाखस्य सिते पक्षे षष्ठयां भे सप्तमे शुभे । स्वप्नेक्षानन्तरं वक्त्रं विशन्तं वीक्ष्य सा गजम् ॥18॥
नृपात्स्वप्नफलैस्तुष्टा दिष्टयासूत तमुत्तमम् । माघे मास्यदितौ योगे धवलद्वादशीदिने ॥19॥
तत्प्रभावविशेषेण प्रकम्पितनिजासन: । त्रैलोक्येशसमुद्भूतिमवबुद्धयावधे: सुधी: ॥20॥
तं तदावाप्य देवेन्द्र: स्वदेव्या दिव्यमानवम् । देवावृतो द्रुतद्रावी देवाद्रौ दिव्यविष्टरे ॥21॥
बालार्कसन्निभं बालं जलै: क्षीरापगापते: । स्नापयित्वा विभूष्याख्यां प्रख्याप्यास्याभिनन्दनम् ॥22॥
बहुबाहु: सहस्त्राक्षो बहुभावरसान्वित: । विचित्रकरणारब्धैरंगहारैर्नभोंगणे ॥23॥
उद्यताभिनयप्रायं भक्त्यानृत्यत्सताण्डवम् । गतो राग: परां कोर्टि धीरोदात्तांश्च नाटयन् ॥24॥
निवृत्यागत्य साकेतं निष्कृष्य कृतकार्भकम् । पित्रो: पुरो विधायैनं सुरेडारामरं पदम् ॥25॥
सम्भवस्यान्तरे जाते दशलक्षाब्धिकोटिभि: । तदभ्यन्तरवर्त्यायुराबभासे विदां त्रिभि: ॥26॥
पंचाशल्लक्षपूर्वायु: सार्द्धत्रिशतचापम: । बालेन्दुरिव सज्ज्योत्स्न: पुण्यौघो वा स्फुरद्रस: ॥27॥
स श्रीवृर्द्धि च सम्प्रापत् सर्वानाह्लादयन् गुणै: । चामीकरच्छविर्याते कौमारे कामसारथौ ॥28॥
पूर्वद्वादशलक्षेषु सार्द्धेषु प्राप्तवान् स तत् । राज्यं नियोज्य भुड्.क्ष्वेति पितर्याप्ते तपोवनम् ॥29॥
इन्दु: कामयते कार्न्ति दीप्तिमिच्छत्यहर्पति: । वांछत्यैश्वर्यमस्येन्द्र: शममाशासते स्पृहा: ॥30॥
निजोत्कृष्टानुभागानामनन्तगुणवृद्धित: । तस्य पुण्याणव: सर्वे फलन्ति स्म प्रतिक्षणम् ॥31॥
अभिभूयान्यतेजांसि सर्वप्रकृतिरंजनात् । तारेशमंशुमन्तं च जित्वाराजत्स तेजसा ॥32॥
नमिताखिलभूपालमौलिरित्यत्र का स्तुति: । पुण्यात्मा जन्मतोऽयं चेदमरेन्द्रार्चितक्रम: ॥33॥
नेया श्रीरागिणी वास्याभूद्रक्ता कोऽत्र विस्मय: । मोक्षलक्ष्म्या च चेदेष कटाक्षैर्गोचरीकृत: ॥34॥
शुद्धश्रद्धानमक्षय्यमयस्तीर्थकराह्वय: । आत्मसम्पदित: कान्या जगत्त्रयजयैषिण: ॥35॥
स धीरललित: पूर्वं राज्पे धीरोद्धतो यमी । घीर: प्रशान्त: पर्यन्ते धीरोदात्तत्वमीयिवान् ॥36॥
अफलन् शक्तयस्तिस्त्र: सिर्द्धि धर्मानुबन्धिनीम् । ता एव शक्तयो या हि लोकद्वयहितावहा: ॥37॥
कीर्तौ श्रुति: स्तुतौ तस्य गीतिर्वर्णाक्षरांकिता । प्रीतिर्दृष्टौ जनस्यासीत्स्मृतिश्च गुणगोचरा ॥38॥
गुणै: प्रागेव सम्पूर्ण: स सर्वैराभिगामिकै: । न चेर्त्कि सेवितुं गर्भे निलिम्पा: कम्पितासना: ॥39॥
पुष्कलं प्राग्भवायातं बोधित्रितयमुत्तमम् । तस्य प्रज्ञागुणा: केऽन्ये वर्णनीया: मनीषिभि: ॥40॥
न वाच्य: पृथगुत्साहो यद्ययं हन्तुमीहते । मोहशत्रुं सशेषाघं खलं त्रैलोक्यकण्टकम् ॥41॥
उद्रमेऽपि प्रतापोऽस्य माध्यन्दिनदिनाधिपम् । नि:प्रतापं करोत्यद्य तमन्य: सहते नु क: ॥42॥
लिलंघयिषवोऽन्योन्यं वर्द्धन्तेऽस्याखिला गुणा: । समानं वर्द्धमानानां स्पर्द्धा केन निषिध्यते ॥43॥
एवं संसारसारोरूविसरद्भोगभागिन: । प्रान्तबोधदिनाधीशप्रोद्रमोदयभूभृत: ॥44॥
खचतुष्केन्द्रियर्त्वग्निमितपूर्वेषु निष्ठिते । राज्यकाले जगद्भर्तुरष्टपूर्वांगशेषत: ॥45॥
प्रादुर्भूतक्षणप्रान्तविनश्यत्सौधविभ्रमे । गन्धर्वनगरे साक्षाद्याते संजातबोधिक: ॥46॥
अवश्यं भंगुरा भोगा भंजयन्त्यत्र मां स्थितम् । न पातयति किं स्वस्थं भंगुरो विटप: स्फुटम् ॥47॥
तनुर्मयेप्सितै: सवै: स्वीकृतापि त्यजेद्ध्रुवम् । प्राय: पण्यांगनेवेति विरक्त: स तनावभूत् ॥48॥
सत्यायुषि मृतिस्तस्मिन्नसत्यत्रास्ति सापि न । बिभेति चेन्मृतेस्तेन भेतव्यं पूर्वमायुष: ॥49॥
गन्धर्वनगरेणैव संवाद: सर्वसम्पदाम् । विधाय्यम्रविलायित्वविधेरपधियामपि ॥50॥
इत्यपश्यत्तदैवैनमानर्चुरमरद्विजा: । सुरै: सम्प्राप्तनिष्क्रान्तिकल्याण: शमितेन्द्रिय: ॥51॥
हस्तचित्राख्ययानाधिरूढोऽग्रोद्यानमागत: । माघे सिते स्वगर्भर्क्षे द्वादश्यामपराह्णग: ॥52॥
दीक्षां षष्ठोपवासेन जैनीं जग्राह राजभि: । सहस्त्रसड्.ख्यैर्विख्यातैस्तदाप्तज्ञानतुर्यक: ॥53॥
द्वितीयेऽहनि साकेतं बुभुक्षु: प्राविशन् नृप: । तं प्रतीक्ष्येन्द्रदत्तोऽन्नं दत्तवापाश्चर्यपंचकम् ॥54॥
अथ मौनव्रतेनेते छाद्मस्थ्येऽष्टादशाब्दके । दीक्षावनेऽसनक्ष्माजमूले षष्ठोपवासिन: ॥55॥
सिते पौषे चतुर्दर्श्या सायाह्णे भेऽस्य सप्तमे । केवलावगमो जज्ञे विश्वामरसमर्चित: ॥56॥
त्रिखैकोक्तैर्गणाधीशैर्वज्रनाभ्यादिनामभि: । खद्वयेन्द्रियपक्षोक्तैस्त्यक्तांगै: पूर्वधारिभि: ॥57॥
खाक्षखद्वयवह्निद्विप्रमालक्षितशिक्षकै: । खद्वयाष्टनवज्ञेयै: प्राज्ञैस्त्रिज्ञानलोचनै: ॥58॥
खत्रयर्त्वेकसड्.ख्यानै: केवलज्ञानमानिभि: । शून्यत्रितयरन्ध्रैकमितवैक्रियकर्द्धिभि: ॥59॥
शून्यपंचर्तु रूद्रोक्तमन: पर्ययबोधनै: । एकादशसहस्त्रोद्यद्वादिभिर्वन्दितक्रम: ॥60॥
लक्षत्रितयसम्पिण्डिताशेषयतिनायक: । खद्वयर्तु खवह्नयग्निसड्.ख्याभिरभितो युत: ॥61॥
मेरूषेणार्यिकाद्यार्यिकाभिर्जगदधीश्वर: । लक्षत्रयोदितोपासकाभ्यर्चितपदद्वय: ॥62॥
लक्षपंचप्रमाप्रोक्तश्राविकालोकसंस्तुत: । असड्.ख्यदेवदेवीडय स्तिर्यक्सड्.ख्यातसेवित: ॥63॥
इति द्वादशनिर्दिष्टशिष्टभव्यगणाग्रणी: । धर्मवृर्ष्टि किरन् दूरं विह्णत्यार्यावनीतलम् ॥64॥
यदृच्छयाप्य सम्मेदं स्थित्वा मासं विना ध्वने: । तात्कालिकक्रियायुक्तो ध्यानद्वयमयोऽमल: ॥65॥
मुनिभिर्बहुभि: प्राह्णे प्रतिमायोगवानगात् । भे सिते सप्तमे षष्ठयां वैशाखेऽयं परं पदम् ॥66॥
तदा भक्तया नताष्टांगा सुरेन्द्रा: कृतपूजना: । नुत्वा तमगमन्नाकं त्रैलोक्येशं यथायथम् ॥67॥
शार्दूलविक्रीडितम्
येनाप्तानिमिषेश्वरैरयमयी श्री: पंचकल्याणजा
यस्यानन्तचतुष्टयोज्ज्वलतरा श्रीरक्षया क्षायिकी ।
यो रूपेण विनापि निर्मलगुण: सिद्धिश्रियालिगिंत:
स त्रिश्रीरभिनन्दनो निजपतिर्जीयादनस्तोदय: ॥68॥
वसन्ततिलका
यो रत्नसंचयपुरेशमहाबलाख्यो
योऽनुत्तरेषु विजयी विजयेऽहमिन्द्र: ।
यश्चाभिनन्दननृपो वृषभेशवंशे
साकेतपत्तनपति: स जिनोऽवताद्व: ॥69॥
हरिणीच्छन्द:
उभनयभेदाभ्यां विश्वं विभज्य विभावयन्
स्वभवविभवभ्रष्ठयै भक्तया द्युभूभिरभिष्टुत: ।
त्रिभुवनविभुर्भूयो भव्या भवाद्भवतां भवद्
भयमभिमवन् भूत्यै भूयादभीरभिनन्दन: ॥70॥
🏠
पर्व - 51
लक्ष्मीरनश्वरी तेषां येषां तस्य मते मति: । देयादादेयवाक् सद्भि: सोऽस्मभ्यं सुमतिर्मतिम् ॥1॥
अखण्डे धातकीखण्डे मन्दरे प्राचि पूर्वगे । विदेहे नद्युदक्कूले सुराष्ट्रं पुष्कलावती ॥2॥
पुरेऽस्मिन् पुण्डरीकिण्यां रतिषेणो महीपति: । प्राग्जन्मोपार्जितोदीर्णपुण्यपण्यात्मसात्कृतम् ॥3॥
राज्यं विनिर्जितारातिनि:कोपं नित्यवृद्धिकम् । स्वामिसम्पत्समेत: सन्नीत्या निर्व्यसनोऽन्वभूत् ॥4॥
या स्वस्यैवास्य सा विद्या चतुर्थी न प्रयोगिणी । यदेकस्यापि दण्डेषु बर्तन्ते न पथि प्रजा: ॥5॥
रक्तस्य मनसा तृप्ति: काम: करणगोचरे । स्वेष्टाशेषार्थसम्पत्ते: कामस्तस्य न दुर्लभ: ॥6॥
अर्थे चतुष्टयी वृत्तिरर्जनादि यथागमम् । देवोऽर्हनर्थधर्मौ च तदनीषल्लभौ मतौ ॥7॥
गच्छत्येवं चिरं काले हेलया पालितक्षिते: । परस्परानुकूल्येन वर्गत्रितयवर्द्धिन ॥8॥
जन्तो: र्कि कुशलं कस्मात्सुखमेषोऽधितिष्ठति । पर्यायावर्तदुर्जन्मदुर्मृत्यूरगदूरग: ॥9॥
न तावदर्थकामाभ्यां सुखं संसारवर्द्धनात् । नामुष्मादपि मे धर्माद्यस्मात्सावद्यसम्भव: ॥10॥
नि:सावद्योऽस्ति धर्मोऽन्यस्तत: सुखमनुत्तमम् । इत्युदर्को वितर्कोऽस्य विरक्तस्याभवत्तत: ॥11॥
राज्यस्य दुर्भरं भारं निवेश्यातिरथे तुजि । सुभरं तपसो भारं बभार स भवान्तकृत् ॥12॥
जिनार्हन्नदनाभ्यासे विदितैकादशागंक: । उदासीन: स्वदेहेऽपि मोहारातिजयेच्छया ॥13॥
यतोऽभीष्टार्थसंसिद्धिस्तंचरन्ति सुमेधस: । श्रद्धानविनयाद्युक्तकारणोपात्ततीर्थकत् ॥14॥
प्रान्ते संन्यस्य बद्ध्वायुरूत्कृष्टमहमिन्द्रताम् । वैजयन्तेऽत्र सम्प्रापदेकारन्निशरीरक: ॥15॥ मासै: षोडशभि: पंचदशभिश्च दिनै: श्वसन् । त्रयस्त्रिशत्सहस्त्राब्दैरन्धो मानसमाहरत् ॥16॥
शुल्कलेश्य: स्वतेजोऽवधीतविष्टपनालिक: । तत्क्षेत्रविक्रियर्द्धीशस्तदुद्धारिबलान्वित: ॥17॥
आहमिद्रं सुखं मुख्यमगिंनामाजवंजवे । निद्वंन्द्वं नि:प्रवीचारं चिरं नीरागमागमत् ॥18॥
आयुरन्ते समाधानात्तस्मिन्नत्रागमिष्यति । द्वीपेऽस्मिन् भारते वर्षे साकेते वृषभान्वये ॥19॥ तद्रोत्रे क्षत्रियोऽस्तारि: श्लाघ्यो मेघरथोऽभवत् । मंगलाऽस्य महादेवी वसुधारादिपूजिता ॥20॥
मघायां श्रावणे मासि दृष्ट्वा स्वप्नान् गजादिकान् । आस्यं सितद्वितीयायामैक्षिष्टागामुकं द्विपम् ॥21॥ उसने श्रावणशुल्क द्वितीया के दिन मघा नक्षत्र में हाथी आदि सोलह स्वप्न देखकर अपने मुख में
तत्फलान्यवबुध्यात्मपते: सम्प्राप्य सम्मदम् । नवमे मासि चित्रायां सज्ज्योत्स्नैकादशीदिने ॥22॥ त्रिज्ञानधारिणं दिव्यं पितृयोगे सतां पतिम् । जगत्त्रयस्य भर्तारमहमिन्द्रमलब्ध सा ॥23॥
देवेन्द्रास्तं सदा नीत्वा मेरौ जन्मसवोत्सवम् । कृत्वा सुमतिसन्ज्ञां च पुनस्तद्रेहमानयन् ॥24॥
नवलक्षाब्धिकोटीषु प्रयातेऽनन्तरेऽन्तरे । तदभ्यन्तरवत्यायुरूदपाद्युदितोदय: ॥25॥
शून्यषड्वार्धिपूर्वायु: शरासत्रिशतोछि्ति: । सन्तप्ततपनीयाभ: स्वभावसुभगाकृति: ॥26॥
शैशवोचितसर्वार्थै र्देवानीतै: सदैधितु: । अंशवो वा शिशोरिन्दोर्व्यक्त्यास्यावयवा बभु: ॥27॥
तनव: कुन्चिता: स्निग्धा: मूर्धजाजाम्बवत्विष: । मुखपंकजमाशड्.क्य मिलिता वास्य षट्पदा: ॥28॥
मया त्रैलोक्यराज्यस्य स्नपनान्ते सुरोत्तमै: । पट्टोऽलम्भीति वास्याधाल्ललाटतमुन्नतिम् ॥29॥
कर्णै लक्षणसम्पूर्णौ नास्य त्रिज्ञानधारिण: । पंचवर्षोर्ध्वशिष्यत्वपरिभूर्ति प्रतेनतु: ॥30॥
सुभ्रु वो न भ्रु वोर्वाच्यो विभ्रमोऽस्य पृथग्विदाम् । भ्रू क्षेपमात्रदत्तार्थसार्थसन्तपितार्थिन: ॥31॥
नेत्रे विलासिनी स्निग्धे त्रिवर्णे तस्य रेजतु: इष्टाखिलार्थसम्प्रेक्षासुखपर्यन्तगामिनी ॥32॥
मया विनाऽऽस्यशोभा सयान्नेस्यसौ नासिका, स्मयम् । उन्नता दधतीवाभाद्वक्त्राब्जामोदपायिनी ॥33॥
लक्ष्म्यौ कपोलयोर्लक्ष्म्या वक्ष:स्थलसमाश्रिते: । उत्तमांगाश्रयाद् द्वित्वात् जित्वर्यौ वास्य रेजतु: ॥34॥
जित्वास्य कुन्दसौन्दर्य द्विजराजिर्व्यराजत । वक्राब्जवाससन्तुष्टा सहासेव सरस्वती ॥35॥
नाधरस्याधराख्या स्यात्सप्तमास्वादशालिन: । अधरीकृतविश्वामराधरस्याद्रिशोभिन: ॥36॥
नालप्यते लपस्यास्य शोभा वाग्वल्लभोज्ज्वला । यदि दिव्यो ध्वनिर्विश्ववाचकोऽस्माद्विनि:सृता: ॥37॥
हावो वक्व्राबुजस्यास्य किं पुनर्वर्ण्यतेतराम् । यदि लोलालितां जम्मुर्निलिम्पेशा: सवल्ल्भा: ॥38॥
कण्ठस्य क: स्तवोऽस्य स्याद्यादि त्रैलोक्यकण्ठिका । बद्धामरेशै: स्याद्वादकुण्ठिताखिलवादिन: ॥39॥
तद्वाहुशिखरे मन्ये शिरसोऽप्यतिलघिंनी । वक्ष:स्थलनिवासिन्या लक्ष्म्या: क्रीडाचलायते ॥40॥
धरालक्ष्मीं समाहर्तु वीरलक्ष्मीप्रसारितौ । भ्राजेते जयिनस्तस्य भुजावाजानुलडि्.घनौ ॥41॥
पृथक् पृथक्त्वं नाख्येयं रम्यत्वं वास्य वक्षस: । मोक्षाभ्युदयलक्ष्म्यौ चेत्तदेवावसत: समम् ॥42॥
कृशमप्यकृशं मध्यं लक्ष्मीद्वयसमाश्रितम् । ऊर्ध्वदेहं महाभारं वहदेतस्य हेलया ॥43॥
नाभि: प्रदक्षिणावर्ता गम्भीरेति न कथ्यते । सा चेन्न तादृशी तस्मिन्न स्यादेवं सुलक्षणा ॥44॥
रूपशोभां विना नेम: स्वाश्रयादिति वाणव: । सन्त: सर्वेऽपि तत्रासन् रम्यस्तत्र कटीतट: ॥45॥
रम्भास्तम्भादयोऽन्येषामूर्वोर्यान्तुपमानताम् । उपमेयास्तदूरूभ्यां ते वृत्तत्वादिभिर्गुणै: ॥46॥
कुतो जानुक्रियेत्येतद् वेद्मि नान्येषु वेधस: । चेदस्मिन्नूरूजड्.घानां शोभास्पर्द्धानि वृत्तये ॥47॥
वज्रेण घटिते जृघें वेधसाऽस्यान्यथा कथम् । जगत्त्रयगुरोर्भारं बिभ्राते ते तनोस्तनू ॥48॥
धरेयं सर्वभावेन लग्नाऽस्मत्तलयोरिति । तत्क्रमौ प्रमदेनेव कूर्मपृष्ठौ शुभच्छवी ॥49॥
इयन्तोऽस्मिन् भविष्यन्ति धर्मा: कर्मनिवर्हणा: । इत्याख्यातुमिवाभान्ति विधिनांगुलय: कृता: ॥50॥
विधाय दशधाऽऽत्मानं विधुरह्नि निषेवते । कान्तिमाभ्यां परं प्राप्तुमित्याशंकावहा नखा: ॥51॥
एवं सर्वांगशोभास्य लक्षणैर्व्यंजनै: शुभा । स्वीकरिष्यति मुक्त्यंगनां वेस्यत्र न संशय: ॥52॥
कौमारमिति रूपेण सन्धत्ते रामणीयकम् । अनाप्तयौवनस्यास्य तद्विनापि मनोभवात् ॥53॥
ततो यौवनमालम्ब्य कामोऽप्यस्मिन् कृतास्पद: । सम्प्राप्य साधव: स्थानं नाधितिष्ठन्ति के स्वयम् ॥54॥
कुमारकाले पूर्वाणां दशलक्षेषु निष्ठिते । भुंजन् स्वर्लोकसाम्राज्यं नृराज्यं चाप स क्रमात् ॥55॥
न हिंसा न मृषा तस्य स्तेयसंरक्षणे न च । स्वप्नेऽपि तद्रतानन्द: शुल्कलेश्यस्य केन स: ॥56॥
तथा नानिष्टसंयोगो वियोगो नेष्टवस्तुनि । नासातं न निदानं च तत्सड्.ल्केशो न तद्रत: ॥57॥
गुणानां वृद्धिमातन्वन् संचयं पुण्यकर्मणाम् । विपाकं विश्वपुण्यानां गुणपुण्यसुखात्मक: ॥58॥
सेव्यमान: सदा रक्तै: सुरखेचरभूचरै: । निराकृतैहिकारम्भ: सम्भृत: सर्वसम्पदाम् ॥59॥
निश्चितं कामभोगेषु नित्यं नृसुरभाविषु । न्याय्यार्थपथ्यधर्मेषु शर्मसारं समाप स: ॥60॥
कान्ताभि: कमनीयाभि: सवयोभि: समीप्सुभि:। दिव्यांगरागस्त्रग्वस्त्रभूषासी रर्मते स्म स: ॥61॥
दिव्यश्रीर्मानुषी च श्री: समप्रेमप्रतोषिते । सुखं विदधतुस्तस्य मध्यस्थ: कस्य न प्रिय: ॥62॥
सुखं नाम तदेवात्र यदस्येन्द्रियगोचरम् । स्वर्वन्द्यसारभोग्यं चेत्सुरेशास्यैव रक्षितम् ॥63॥
एवं संगमयन् कालं दिव्यराज्यश्रियोर्द्वये । व्यरंत्सीत् संसृते: सा हि प्रत्यासन्नविनेयता ॥64॥इस प्रकार दिव्य लक्ष्मी और राज्यलक्ष्मी इन दोनों में समय व्यतीत करते हुए भगवान् सुमतिनाथ
सुधी: कथं सुखांशेप्सुविषयामिषगृद्धिमान् । न पापबडिशं पश्येन्न चेदनिमि पायते ॥65॥
मूढ: प्राणी परां प्रौढिमप्राप्तोऽस्त्वहिताहित: । अहितेनाहितोऽहं च कंथ बोधत्रयाहित: ॥66॥
निरड्.कुशं न वैराग्यं यादृग्ज्ञानं च तादृशम् । कुत: स्यादात्मन: स्वास्थ्यमस्वस्थस्य कुत: सुखम् ॥67॥
खपंचकनवद्वयुक्तै: पूर्वै राज्येऽवसाधिते । सह द्वादशपूर्वांगै: स्वस्मिन्नेवेत्यचिन्तयत् ॥68॥
स्तुतस्तदैव संस्तोत्रै: सर्वै: सारस्वतादिभि: । अभिषेकं सुरैराप्य देवोढाभययानक: ॥69॥
दीक्षां षष्ठोपवासेन सहेतुकवनेऽगृहीत् । सिते राज्ञां सहस्त्रेण सुमतिर्नवमीदिने ॥70॥
मघाशशिनि वैशाखे पूर्वाह्णे संयमाश्रयम् । तदैवाविरभूदस्य मन:पर्ययसंज्ञकम् ॥71॥
षुरं सौमनसं नाम भिक्षायै पश्चिमे दिने । प्राप्तं प्रतीक्ष्य पद्मोऽगात्पूजां द्युम्नद्युतिर्नृप: ॥72॥
सामायिकं समादाय समौन: शान्तकल्मष: । तपस्तेपे समाधानात्सहिष्णुर्दुस्सहं, परै: ॥73॥
विशर्ति वत्सरान्नीत्वा छद्मस्थ: प्राक्तने वने । प्रियड्.गुभूरूहोऽधस्तादुपवासद्वयं श्रित: ॥74॥
मघायां चैत्रमासस्य धवलैकादशीदिने । पश्चिमाभिमुखे भानौ कैवल्यमुदयादयत् ॥75॥
सुरै: सम्प्राप्ततत्पूजो गणेशैश्चामरादिभि: । स सप्तर्द्धिभिरभ्यर्च्य: सषोडशशतोन्मुखै: ॥76॥
शून्यद्वयचतु:पक्षमितपूर्वधरानुग: । खपंचत्रिचतु:पंचपक्षोक्तै: शिक्षकैर्युत: ॥77॥
एकादशसहस्त्रावधीद्धबोधविदीडित: । त्रयोदशसहस्त्रात्मसमानज्ञान संस्तुत: ॥78॥
शून्यद्वययुगाष्टैकमितवैक्रियकस्तुत: । शून्यद्वयचतु:खैकप्रमितोपान्तविद्धृत: ॥79॥
शून्यपंचचतु:खैकमितवाद्यभिवन्दित: । पिण्डितै: खचतुष्कद्वित्रिमितैस्तैर्विभूषित: ॥80॥
खचतुष्कत्रिबह्णयुक्तानन्तार्याद्यार्यिकानुग: । त्रिलक्षश्रावकाभ्यर्च: श्राविकापंचलक्षवान् ॥81॥
स देवदेव्यसंखयाततिर्यक्संखयातवेष्टित: । विह्णत्याष्ठदशक्षेत्रविशेषेष्वमरांचित: ॥82॥
प्रशस्ताशस्तभाषासु भव्यानां दिव्यमक्षिपत् । ध्वर्नि बीजविशेषं वा सुभूमिषु महाफलम् ॥83॥
विमुक्त विह्णतिर्मासं सहस्त्रमुनिभि: सह । प्रतिमायोगमास्थाय सम्मेदे निर्वृर्ति ययौ ॥84॥
एकादश्यां सिते चैत्रे मघायामपराह्णग:। अमरैरन्त्यकल्याणमवाप सुमतीश्वर: ॥85॥
मालिनी
रिपुनृपयमदण्ड: पुण्डरीकिण्यधीशो
हरिरिव रतिषेणो वैजयन्तेऽहभिद्र: ।
सुमतिरमितलक्ष्मीस्तीर्थकृद्य: कृतार्थ:
सकलगुणसमृद्धो व: स सिर्द्धि विदध्यात् ॥86॥
स्त्रग्धरा
सद्यो जातं जिनेन्द्रं स्वरवतरणसम्प्राप्तकल्याणकार्ये
वामं जन्माभिषेके सुरपबिरचितैर्भूषणैरिद्धशोभम् ।
सन्निष्कान्तावघोरं सुमतिमतिमर्ति केवलज्ञानसिद्धा-
वीशानं निर्वृतौ तत्पुरूषमपरूषं शान्तये संश्रयध्वम ॥87॥
🏠
पर्व - 52
पद्मेऽस्थास्त्रुर्न भातीव प्रभास्मिन्निति वाश्रिता । त्यक्त्वा तं यं स पद्मास्मान्पातु पद्मप्रभ: प्रभु: ॥1॥
द्वितीये धातकीखण्डे द्वीपे प्राग्भागपूर्वजे । विदेहे दक्षिणे कूले सीताया बत्सदेशजम् ॥2॥
सुसीमानगरं तस्मिन् महाराजोऽपराजित: । न परैर्जायते जेता स बाह्याभ्यन्तरद्विषाम् ॥3॥
विक्रमेणैव वक्राणां जेतुर्बाह्मपरिच्छद: । सप्तांगपूरणं तस्य बलं दोर्बलशालिन: ॥4॥
तस्य सत्येन वर्षन्ति जीमूता: कर्षकेच्छया । आदिमध्यान्तवापाश्च धान्यभेदा: फलप्रदा: ॥5॥
त्यागेन तस्य दारिद्रयशब्द: खकुसुमायते । भुवि प्राग्येषु दारिद्रयं तैरद्य धनदायितम् ॥6॥
राज्ञां महागुणास्तस्मिन् सुक्षेत्रोप्तसुबीजवत् । त्रयोऽप्येते फलन्ति स्म सजातीयान् परान् गुणान् ॥7॥
षरेषां वास्यरूपादिसम्पन्नोन्मार्गवृत्तये । तरूत्पाटी मरून्मेरूं क्षम: कम्पयितुं च किम् ॥8॥
स षट्प्रकृतिभिर्भूष्यस्ताश्च तेन ततोऽभवत् । तद्राज्यं न परैर्धृष्यं परेषां धर्षक: स्वयम् ॥9॥
एवं भवान्तरावर्जितोर्जितायोदयार्पितम् । नार्पत्यं सुचिरं भुक्त्वा संविभक्तं सुह्णद्वरै: ॥10॥
क्षणिका: सर्वपर्याया: पर्यायैश्चानुभृयते । सुखं कारणविध्वंसे कार्ये कौतस्कुती स्थिति: ॥11॥
इत्यृजुसूत्रभावेन स सर्व भंगुरं स्मरन् । दत्वा राज्यं सुमित्राय सुताय विजितात्मने ॥12॥
गत्वा तपोगुरूं कृत्वा जिनेन्द्रं पिहितास्त्रवम् । एकादशांगविद् बध्वा नाम्र तीर्थकराह्वयम् ॥13॥
संन्यस्यान्तपरित्यक्तदेहोऽयादहमिन्द्रताम् । ऊर्ध्वग्रैवेयके रम्ये प्रीतिंकरविमानज: ॥14॥
एकर्त्रिशत्समुद्रायुर्हस्तद्वयशरीरक: । शुल्कलेश्यो दिनै: पंचषट्चतु:सम्मितै: श्वसन् ॥15॥
एकर्त्रिशत्सहस्त्राब्दैर्मानसाहारतर्पित: । तेजोबलावधिज्ञानव्याप्तासप्तमभूतल: ॥16॥
तत्क्षेत्रविक्रियर्द्धीश: सुखमापाहमिन्द्रजम् । स्वायुरन्ते ततस्तस्मिन्नवनीमागमिष्यति ॥17॥
जम्बुद्वीपेऽत्र कौशाम्ब्यां पतिरिक्ष्वाकुवंशज: । गोत्रेण काश्यपो राजा धरणाख्यो महानभूत् ॥18॥
तस्य देवी सुसीमाख्या रत्नवृष्टयादिमानिता । प्रभाते माघकृष्णायां षष्ठयां चित्रेन्दुसंगमे ॥19॥
गजादिषोडशस्वप्नवीक्षणानन्तरास्यगम् । निरीक्ष्य वारणं ज्ञातैस्तत्फलै: प्रमदान्विता ॥20॥
कृष्णपक्षे त्रयोदर्श्या त्वष्टृयोगेsपराजितम् । कार्तिके मास्यसूतैषा रक्ताम्भोजदलच्छविम् ॥21॥
अस्तोत्पत्तौ समुत्पत्तिर्गुणानां दोषसन्तते: । ध्वंसो जात: शम: शोक: प्रमोदात्सर्वदेहिनाम् ॥22॥
मोहशत्रुर्हतच्छायो नष्टोऽहं वेति कम्पते । स्वर्गापवर्गयोमार्गे वाहकेऽस्मिन् भविष्यति ॥23॥
मोहनिद्रां विहास्यन्ति बहबोऽस्मिन् प्रबोघके । जन्मिनां जाति सम्बन्धविरोधश्च विनड्.क्ष्यति ॥24॥
लख्मीर्विकाश मस्यायात् प्रायात् कीर्तिर्जगत्त्रयम् । अभूदित्यादिसंलापो विदुषामितरेतरम् ॥25॥
तदानीमेव देवेन्द्रास्तं मेरौ क्षीरवारिभि: । स्त्रपयित्वा विधायानुमुदा पद्मप्रभाभिधाम् ॥26॥
अभिष्टुत्य पुनर्नीत्वा मातुरंके महाद्युतिम् । निधाय मुदिता नृत्यं विधाय प्रययुर्दिवम् ॥27॥
समस्तै: शैशवं तस्य मुदेन्दोरिव बन्द्यते । क: स य: सर्वमाह्लाद्य वर्द्धमाने पराड्.मुख: ॥28॥
न कामनीयकं कामेऽविकायेऽन्यत्र चेद्वशम् । तत्कामनीयकं तस्य न केनाप्युपमीयते ॥29॥
तथैव रूपमप्यस्य कथ्यते किं पृथक् पृथक् । यद्यत्तस्मिन्न तत्त्वज्ञैरन्यस्थैरूपमीयते ॥30॥
कामयन्ते स्त्रिय: पुंस: पुमांसस्ता इमं पुन: । ताश्च ते चास्य सौभग्यं नाल्पभाग्यैरवाप्यते ॥31॥
तत्तनावेव सर्वेषां दृष्टिस्तृर्प्ति परामिता । सन्ततं चूतमंजर्या मत्तालीनामिवावली ॥32॥
सर्वेन्द्रियसमाह्लादस्तस्मिन् चेन्न भृशायते । परत्रापूर्णपुण्येषु न कापीति वयं स्थिता: ॥33॥
खचतुष्केण कोटीनां नवभिश्चोक्तवार्द्धिभि: । मिते सुमतिसन्ताने पद्मप्रभजिनस्थिति: ॥34॥
षट्शून्यवाह्निपूर्वायु: शुन्यपंचद्विचापभाक् । जीवितस्य चतुर्भागे कुमारत्वेन निष्ठिते ॥35॥
अलब्ध राज्यं प्राप्तामरेज्यो द्वैराज्यवर्जितम् । क्रमायातं न हीच्छन्ति सन्तस्तच्चान्यथागतम् ॥36॥
पट्टबन्धेऽस्य सर्वस्य स्वस्य स्वस्येव सम्मद: । महाभयानि तद्देशे नष्टान्यष्टौ निरन्वयम् ॥37॥
दारिद्रयं विद्रुतं दूरं स्वैरं स्वं संप्रवर्तते । सर्वाणि मंगलान्यासन् संगम: सर्वसम्पदाम् ॥38॥
कस्य कस्मिन्समीप्सेति वदान्येष्वभवद्वच: । कस्यचिन्नैव कर्स्मिश्चिर्थितेत्यवदज्जन: ॥39॥
इत्यस्य राज्यसम्प्राप्तौ जगत्सुप्तमिवोत्थितम् । तदेव राज्यं राज्येषु प्रजानां यत्सुखावहम् ॥40॥
हीने षोडशपूर्वांगै: पूर्वलक्षायुषि स्थिते । कदाचिद् द्वारिवन्धस्थगजप्रकृतिसंश्रुते: ॥41॥
ज्ञातात्मान्यभवो धिक् धिक् संसारमिति तत्वबिद् । विरक्त: कामभोगेषु पापदु:खप्रदायिषु ॥42॥
अट्टष्टं र्कि किमस्पृष्टमनाघ्रातं किमश्रुतम् । र्कि किमस्वादितं येन पुनर्नवर्मिवेष्यते ॥43॥
भुक्तमेव पुनर्भुक्तं जन्तुनानन्तशो भवे । मध्यमप्यभिलाषाब्धेरितं वदत र्कि तत: ॥44॥
नेर्न्द्रियैरात्मनस्तृप्तिर्मिथ्यात्वादिविदूषितै: । वीतघात्युपयोगेऽस्य विश्वं यावन्नगोचरम् ॥45॥
रोगोरगाणां तु ज्ञेयं शरीरं वामलूरकम् । दष्टान् दृष्ट्वापि तैरेव किमिष्टान्नप्टजीवितान् ॥46॥
आहितो देहिनो देहे मोहोऽनेनाविनश्वर: । सहवास: कृत: कापि केनाप्यस्यायुषा किमु ॥47॥
र्हिसादिपंचकं धर्म: सुखं यस्येन्द्रियार्थजम् । संसृती रोचते तस्मै विपरीतार्थदर्शिने ॥48॥
पापापापोपलेपापक्षेपो येनोपपद्यते । तद्ध्येयं तदनुष्ठेयं तदध्येयं सदा बुधै: ॥49॥
इति त्रिविधनिर्वेदभूतबोधि: सुरोत्तमै: । प्रोत्साहित: सुरै: प्राप्तनिष्क्रान्तिस्नानसम्मद: ॥50॥
निवृत्याख्यां समारूह्य शिबिकां स मनोहरे । वने षष्ठोपवासेन दीक्षां शिक्षामिवाग्रहीत् ॥51॥
कार्तिके कालपक्षस्य त्रयोदश्यपराह्णग: । चित्रायां भूभुजां सार्द्ध सहस्त्रेणाहितादर: ॥52॥
चतुर्थज्ञानसम्पन्नश्चर्यायै पश्चिमे दिने । नगरं वर्द्धमानाख्यं प्राविशद्विदुषां वर: ॥53॥
सोमदत्तो नृपस्तस्मै दानादापार्जुनच्छवि: । आश्चर्यपंचकं किं वा पात्रदानान्न जायते ॥54॥
चिन्वन् शुभास्त्रवै: पुण्यं संवरं कर्मसंहते: । कुर्वन्गुप्त्यादिषट्केन तपसा निर्जरां च स: ॥55॥
षण्मासैमौर्नमास्थाय छाद्मस्थ्यमपनीतवान् । क्षपकश्रेणिमारूह्य नष्टघातिचतुष्टय: ॥56॥
पौर्णमास्यां सिते चैत्रे मध्यादह्नो रवौ गते । चित्रायां केवलज्ञानं प्रतिपेदे परार्थकृत् ॥57॥
समर्चितो महादेवै: शतेनेतो गणेशिनाम् । स वज्रचामरादीनां दशभिश्च जगद्धित: ॥58॥
शून्यद्वयाग्निपक्षोक्तसर्वपूर्वधरान्वित: । शून्यत्रिकनवर्तुद्विप्राक्तशिक्षकलक्षित: ॥59॥
शून्यत्रिकशदज्ञेयविविधावधिवीक्षण: । खत्रयद्वादशालक्ष्यकेवलावगमाश्रित: ॥60॥
खद्वयाष्टषडेकांकविक्रियर्द्धिसमृद्धिमान् । शून्यद्वयत्रिशून्यैकप्रोक्तस्तुर्यावबोधन: ॥61॥
शून्यद्वयर्तुरन्ध्रोक्तख्यातानुत्तरवादिक: । खचतुष्कादिवह्णनयुक्तसम्पिण्डितयतीश्वर: ॥62॥
खचतुष्कद्विवाराशिप्रमिताभिरभिष्टुत: । रात्रिषेणाख्यमुख्याभिरार्यिकाभि: समन्तत: ॥63॥
त्रिलक्षश्रावकोपेत: श्राविकापंचलक्षवान् । सदेवदेव्यसड्.ख्यातस्तिर्यक्सड्.ख्यातसंयुत: ॥64॥
कुर्वन् धर्मोपदेशेन मोक्षमार्गे तनूभृत: । भव्यान् पुण्योदयेनेव धर्मसत्वान् सुखोदये ॥65॥
सम्मेदपर्वते मासं स्थित्वा योगं निरूद्धवान् । सार्द्धं यतिसहस्त्रेण प्रतिमायोगमास्थित: ॥66॥
फाल्गुने मासि चित्रायां चतुर्थ्यामपराह्णग: । कृष्णपक्षे चतुर्थेन समुच्छिन्नक्रियात्मना ॥67॥
शुक्लध्यानेन कर्माणि हत्वा निर्वाणमापिवान् । तदैत्य चक्रु: शक्राद्या: परिनिर्वाणपूजनम् ॥68॥
शार्दूलविक्रीडितम्
र्कि सेव्यं क्रमयुग्ममब्जविजयामस्यैव लक्ष्म्यास्पदं
र्कि श्रव्यं सकलप्रतीतिजननादस्यैव सत्यं वच:।
र्कि ध्येयं गुणसन्ततिश्च्युतमलस्यास्यैव काष्ठाश्रया -
दित्युक्तस्तुतिगोचर: स भगवान् प्रद्मप्रभ: पातु व: ॥69॥
राजा प्रागपराजितो जितरिपु: श्रीमान् सुसीमेश्वर:
पश्चादाप्य तपोऽन्त्यनामसहितो ग्रैवेयकेऽन्त्येऽमर: ।
कौशाम्ब्यां कलितो गुणैरगणितैरिक्ष्वाकुवंशाग्रणी:
षष्ठस्तीर्थकर: परात्महितकृत् पद्मप्रभ: शं क्रियात् ॥70॥
🏠
पर्व - 53
तत्वं सत्वादिना येन नैकेनाप्यवधारितम् । तद्वित्तथाप्यसावेव स सुपार्श्वोऽस्तु मे गुरू: ॥1॥
विदेहे धातकीखण्डे प्राच्यां सीतोत्तरे तटे । सुकच्छविषये नन्दिषेण: क्षेमपुराधिप: ॥2॥
प्रज्ञाविक्रमयुक्तस्य स्वानुरक्तानुजीविन: । तस्यानुगुणदैवस्य राज्यश्री: सुखदायिनी ॥3॥
शरीरं न भिषप्रक्ष्यं न राज्यमपि मन्त्रिभि: । तथापि तद्द्वयं तस्य क्षेमवत्सुकृतोदयात् ॥4॥
पुरूषार्थत्रयं तस्मिन्नेकस्मिन्नेव सुस्थितम् । परस्परोपकारेण तस्मात्तस्योपकारिता ॥5॥
जितारिभूभुजस्यास्य विजिगीषैहलौकिकी । मा भून्नन्वस्ति सन्मार्ग रक्षत: पारलौकिकी ॥6॥
एवं राज्यसुखं श्रीमान् बन्धुमित्रानुजीविभि: । सहसानुभवाज्जातवैराग्यातिशय: सुधी: ॥7॥
मोहोदयोभयाविद्धकायवाक्चित्तवृत्तिभि: । बद्ध्वा कर्माणि तैर्नीतो जातो गतिचतुष्टये ॥8॥
संसारे चक्रकभ्रान्त्या दुस्तरे दु:खदूषित: । वीतादौ सुचिरं भ्राम्यन्नद्य भव्यो यदृच्छया ॥9॥
लब्धकालादिराप्तोऽपि मुक्तिमार्ग सुदुर्गमम् । रेमे रामादिभिर्मुग्धो धिग्धिग्मां कामुकाग्रिमम् ॥10॥
निर्मूल्याखिलकर्माणि निर्मलो लोकमूर्ध्वग: । किल नाप्नोमि निर्वाणं सार्वं सर्वज्ञभाषितम् ॥11॥
इत्याविष्कृतसंचिन्त: सुस्वान्त: स्वस्य सन्ततौ । सुस्थाप्यात्मजमात्मीयं पर्ति धनपर्ति सताम् ॥12॥
नरेन्द्रैर्बहुभि: सार्ध निर्धुनानो रजो मुदा । अर्हन्नन्दनपूज्यान्तेवासित्वं प्रत्यपद्मत ॥13॥
एकादशांगधारी सन्नुक्ततद्योग्यकारणै: । स्वीकृत्य तीर्थकृन्नाम संन्यस्यान्ते समाधिमान् ॥14॥
शुक्ललेश्यो द्विहस्तांगको ग्रैवेयकमध्यमे । अहमिन्द्र: सुभद्राख्ये विमाने मध्यमेऽजनि ॥15॥
चतु:शतेषु पंचोत्तरेष्वह:स्वेष नि:श्वसन् । शून्यत्रितयसप्तद्विप्रमिताब्देषु विश्वणन् ॥16॥
विक्रियावधिवीर्यत्विट्व्याप्तासप्तमभूमिक: । सप्तर्विशतिवार्ध्यायुरथ भुक्त्वाखिलं सुखम् ॥17॥
आयुरन्ते ततस्तस्मिन्नागमिष्यति भूतलम् । द्वीपेऽस्मिन् भारते काशीविषये वृषभान्वये ॥18॥
सुप्रतिष्ठमहाराजो पाराणस्या महीपति: । तस्यासीत् पृथिवीषेणा देवी तस्या गृहांगणे ॥19॥
षण्मासान् साररत्नानि ववृषु: सुरवारिदा: । सितषष्ठयां विशाखायां मासि भाद्रपदे शुभान् ॥20॥
स्वप्रान् षोडश संवीक्ष्य वारणं चाननागतम् । ज्ञात्वा पत्यु: फलं तेषां परितुष्टाग्निमित्र के ॥21॥
शुभयोगे सितज्येष्ठद्वादश्यां तं सुरोत्तमम् । सोदपीपददुत्तुंगमैरावतमिवोर्जितम् ॥22॥
सुरेन्द्रैर्मन्दरस्यान्ते कृतजन्ममहोत्सवै: । तस्याकारि सुपार्श्वाख्या तत्पादानतमौलिभि: ॥23॥
कोटीनवसहस्त्रेषु पद्मप्रभजिनान्तरे । सागरोपमसड्.ख्येषु गते तद्रतजीवित: ॥24॥
शुन्यषट् युगपक्षोक्तपूर्वजीवी धनु:शत - । द्वयोत्सेधो विधुं कान्त्या हे्पयन्नाप यौवनम् ॥25॥
लक्षपंच सुपूर्वाणां कौमार्ये गतवत्यत: । धनं त्यक्तुं वदान्यो वा साम्राज्यं स्वीचकार स: ॥26॥
शुश्रूषाद्यष्टधीधुर्यान् सर्वशास्त्रविशारदान् । नटान् सपेटकान् प्रेक्ष्यान्नर्तकान् नृत्यकोविदान् ॥27॥
सुकण्ठान् गायकान् श्रव्यानष्टार्धातोद्यवादकान् । सनर्मरूचिरानन्यान्नानाविद्याकलागुणान् ॥28॥
स्त्रीश्च तादृग्गुणोपेता गन्धर्वानीकसत्तमा: । आमीय तस्य देवेन्द्रो विनोदैरकरोत्सुखम् ॥29॥
शेषेन्द्रियत्रयार्थैश्च तत्रोत्कृष्टैर्निरन्तरम् । सुखं तदेव संसारे यदनेनानुभूयते ॥30॥
नि: स्वेदत्वादिसन्नामसम्भूतातिशयाष्टक: । सर्वप्रियहितालापी निर्व्यापारोरूवीर्यक: ॥31॥ प्रसन्नोऽनपवर्त्यायुर्गुणपुण्यसुखात्मक: । कल्याणकाय:त्रिज्ञान: प्रियड्.गुप्रसवच्छवि: ॥32॥
मन्दाशुभानुभागोऽयं शुभोत्कृष्टानुभावभाक् । निर्वाणाभ्युदयैश्वर्यकण्ठिकाकान्तकण्ठक: ॥33॥
स्वपादनखसंक्रान्तनिखिलेन्द्रमुखाम्बुज: । एधते श्रीधरोऽगाधतृप्त्म्भोधौ प्रबुद्धवान् ॥34॥
स्वायुराद्यष्टवर्षेभ्य: सर्वेषां परतो भवेत् । उदिताष्टकषायाणां तीर्थेशां देशसंयम: ॥35॥
ततोऽस्य भोगवस्तूनां साकल्पेऽपि जितात्मन: । वृत्तिर्नियमितैकाभूदसड्.ख्यगुणनिर्जरा ॥36॥
पूर्वांगर्विशतिन्यूनलक्षपूर्वायुषि स्थिते । विलोक्यर्तुपरावर्तं सर्वं भावयतोऽध्रुवम् ॥37॥
कदाचित्काललब्ध्यास्य विशुद्धोद्धोधदर्पणे । छायाक्रोडेव सा सर्वा साम्राज्यश्रीरभासत ॥38॥
ईदृशी नश्वरी ज्ञाता नेयं मायामयी मया । धिग्धिग्मां के न मुह्यन्ति भोगरागान्धचेतस: ॥39॥
इत्युदात्तो मनोऽम्भोघौ बोधिर्विधुरिवोद्रत: । देवर्षयस्तदैत्यैनं प्रस्तुतार्थै: समस्तुवन् ॥40॥
सुरैरूढां समारूह्य शिबिकां च मनोगतिम् । सहेतुकवने शुक्ले ज्येष्ठे षष्ठोपवासधृत् ॥41॥
गर्भागमर्क्षे द्वादश्यां सायाह्ने संयमं श्रित: । नृपै: सह सहस्त्रेण तदापोपान्त्यबोधनम् ॥42॥
पश्चिमे दिवसे सोमखेटे तं कनकद्युति: । नृपो महेन्द्रदत्ताख्य: प्रतीक्ष्यापामरार्चनम् ॥43॥
सुपार्श्वो मौनमास्थाय छाद्मस्थ्ये नववर्षक: । सहेतुकवने मूले शिरीषस्य द्वयुपोषित: ॥44॥ गर्भावतारनक्षत्रे कृष्णषष्ठयपराह्णग: । समुत्पत्रान्तदृग्ज्ञान: सम्प्राप्तामरपूजन: ॥45॥
बलाख्यमूख्यपंचान्तरन्ध्रोक्तगणभृद्वृत: । शुन्यत्रिशुन्यपक्षोक्तसर्वपूर्वधराधिप: ॥46॥ शून्यद्विरन्ध्रवार्ध्यब्धिपक्षमानोक्तशिक्षका: । शून्यत्रयनवज्ञाततृतीयावगमश्रित: ॥47॥ खत्रयैकैकनिर्दिष्टकेवलावगमान्वित: । शून्यद्वयत्रिपंचैकसड्.ख्यावैक्रियिकार्चित: ॥48॥ शून्यपंचैकरन्ध्रोक्तमन:पर्ययबोधन: । षट्शताष्टसहस्त्रोक्तवादिवन्दितवाक्पति: ॥49॥ पिण्डीकृतत्रिलक्षोक्तमुनिवृन्दारकाधिप: । मीनार्याद्यार्यिकार्त्रिशत्सहस्त्रान्तत्रिलक्षक: ॥50॥ त्रिलक्षश्रावक: पंचलक्षसत्श्राविकाचित: । असड्.ख्यदेवदेवीडयस्तिर्यक्सड्.ख्यातसंयत: ॥51॥
धर्मामृतमयीं वाणीं ग्राहयन् विहरन् महीम् । पश्चात्संह्णत्य सम्मेदे विहारं मासमुद्वहन् ॥52॥ प्रतिमायोगमापाग्यं सहस्त्रमुनिभि: समम् । फाल्गुने कृष्णसप्तम्यां राधायां दिनपोदये ॥53॥
कृतपंचमकल्याणा: कल्पपुण्या: सुरोत्तमा: । निर्वाणक्षेत्रमत्रेति परिकल्प्यागमन् दिवम् ॥54॥
शार्दूलविक्रीडितम्
दुर्वारां दुरितोरूशत्रुसमिर्ति निष्पन्नधीर्निष्क्रियन्
तूर्ष्णी युद्धमधिष्ठित: कतिपया: काष्ठा: प्रतिष्ठां गत: ।
निष्ठां दुष्टतमां निनाय निपुणो निर्वाणकाष्ठामित:
प्रेष्ठो द्राक्कुरूताचिरं परिचितान् पार्श्वेसुपार्श्व: स न: ॥55॥
वसन्ततिलका
क्षेमाख्यपत्तनपतिर्नुतनन्दिषेण:
कृत्वा तपो नवसुमध्यगतेऽहाकमद्र: ।
वाराणसीपुरि सुपार्श्वनृपो जितारि –
रिक्ष्वाकुवंशतिलकोऽवतु तीर्थंकृद् व: ॥56॥
🏠
पर्व - 54
नीत्वैकवर्णतां सर्वा सभां स: प्रभया स्वया । शुद्धितामनयच्छुद्ध: शुद्धयै चन्द्रप्रभोऽस्तु न: ॥1॥
देहप्रभेव वाग्यस्याह्लादिन्यपि च बोधिनी । तन्नमामि नभोभागे सुरतारापरिष्कृतम् ॥2॥
नामग्रहोऽपि यस्याघं निहन्त्यखिलमंगिनाम् । न हन्यात् किं नु तस्यार्च्यं चरितं श्रुतिगोचरम् ॥3॥
तत्पुराणं ततो वक्ष्ये भवादासप्तमादहम् । श्रोतव्यं भव्य ते श्रद्धां निधाय मगधाधिप ॥4॥
दानं पूंजा तथान्यच्च मुकत्यै ज्ञानेन संस्कृतम् । तत्पुराणश्रुते: श्रव्यं तत्तदेव हितैषिभि: ॥5॥
अर्हद्भिर्भाषितं सूक्तमनुयोगैश्चतुष्टयम् । तेषु पूर्वं पुराणानि तस्मात्प्रोक्त: श्रुतिक्रम: ॥6॥
सा जिह्वा तौ मन:कर्णौ यैर्वक्तिश्रुतिचिन्तना: । पूर्वादीनां पुराणानां पुरूषार्थोपदेशिनाम् ॥7॥
अस्त्यत्र पुष्करद्वीप: तन्मध्ये मानुषोत्तर: । नृसंचारस्य सीमासौ सर्वतो वलयाकृति: ॥8॥
तदभ्यन्तरभागे स्तो मन्दरौ पूर्वपश्चिमौ । पूर्वस्मिन् मन्दरे देशो विदेहे पश्चिमे महान् ॥9॥
सीतोदोदक्तटे दुर्गवनखन्याकरोचितै: । अकृष्टपच्यसस्याद्यै: सुगन्धिर्भूगुणैरभात् ॥10॥
तस्मिन्देशे जना: सर्वे वर्णत्रयविकल्पिता: । स्त्रिग्धा: सूक्ष्मेक्षणा: प्रेक्ष्या विलोचनविशेषवत् ॥11॥
ऋजवो धार्मिका वीतदोषा: केल्शसहिष्णव: । कर्षका: सफलारम्भा: तप:स्थाँश्चातिशेरते ॥12॥
जलाशयाश्च सुस्वच्छा: सुखभोग्या: सपद्मका: । सन्तापच्छेदिनोऽगाधा मनोनयनहारिण: ॥13॥
क्षेत्राणि सर्वधान्यानि सर्वतर्पीणि सर्वदा । सम्पन्नानि महीभर्तु: कोष्ठागाराणि वा बभु: ॥14॥
ग्रामा: कुक्कुटसम्पात्या: सारा बहुकृषीबला: । पशुधान्यधनापूर्णा: नित्यारम्भा निराकुला: ॥15॥
वीतदण्डादिबाधत्वान्निगमा: सर्वसम्पद: । वर्णाश्रमसमाकीर्णास्ते स्थानीयानुकारिण: ॥16॥
अंसवारिपथोपेत: सफलाकण्टकद्रुम: । अदृष्टाष्टभय: प्रान्तवीथितन्वीबनाश्रय: ॥17॥
यद्यज्जपदस्योक्तं नीतिशास्त्रविशारदै: । लक्षणं तस्य तस्यायं देशो लक्ष्यत्वमीयिवान् ॥18॥
हानिर्धनस्य सत्पात्रे सत्क्रियाया: फलावधौ । उन्नतेविंनयस्थाने प्राणस्य परमायुषि ॥19॥
तुंगेषु कुचयोरेव काठिन्यमतिवर्तते । गजेप्वेव प्रपातोऽपि तरूप्वेव दरीरिषु ॥20॥
दण्डश्छत्रे तुलायांच नागरादिषु तीक्ष्णता । रोधनं सेतुबन्धेषु शब्दशास्त्रेऽपवादभाक् ॥21॥
निस्त्रिंशशब्द: खंगेषु विश्वाशित्वं हुताशने । तापकत्वं खराभीषौ मारकत्वं यमाह्वये ॥22॥
धर्मो जैनेन्द्र एबास्मिन् दिवसे वा दिवाकर: । ततो नैकान्तवादानामुलूकानामिवोद्रम: ॥23॥
दुर्गाण्यासन् यथास्थानं सातस्येनानुसंस्थितै: । भृतानि यन्त्रशस्त्राम्बुयवसैन्धवरक्षकै: ॥24॥
तस्य मध्ये शुभस्थाने ललाटे वा विशेषकम् । विशेषै: सर्वरम्याणां श्रीपुरं बामरं पुरम् ॥25॥
विकसन्नीलनीरेजसरोजालिविलोचनै: । स्वस्छवारिसरोवक्त्रैर्हसत्परपुरश्रियम् ॥26॥
नानाप्रसूनसुस्वादकेसरासवपायिन: । तत्रालिनोऽलिनीवृन्दै: प्रयान्त्यापानकोत्सवम् ॥27॥
तदुत्तुंगमहासौधगेहै: समुरजारवै: । विश्राम्यन्तु भवन्तोऽत्रेत्याह्वयद्वा घनाघनान् ॥28॥
तदेव सर्ववस्तूनामाकरीभूतमन्यथा । तानि निष्ठां न किं यान्ति तथा भोगैनिंरन्तरम् ॥29॥
यद्यदालोक्यते तत्तत्स्ववग्रीणेषु सत्तमम् । भ्रान्ति: स्वर्गोऽयमेवेति करोति मरूतामपि ॥30॥
सत्कुलेषु समुद्भूतास्तत्र सर्वेऽपि सव्रता: । उत्पद्यन्ते यत: प्रेत्य स्वर्गजा: शुद्धद्दष्टय: ॥31॥
स्वर्ग: किमीद्दशो वेति तत्रस्थाश्चारूदर्शना: । मुक्त्यर्थमेव कुर्वन्ति धर्म न स्वर्गमेधया ॥32॥
तत्रोत्सवे जना: पूजां मंगलार्थ प्रकुर्वते । शोके तदपनोदार्यमेते जैनीं विवेकिन: ॥33॥
साध्यार्था इब साध्यन्ते जैनवादै: सहेतुभि: । धर्मार्थकामास्तज्जातैरमेयसुखदायिन: ॥34॥
द्वीपार्द्धचक्रवालो वा प्राकारो यत्परीतवान् । भियेव रविसन्तापाल्लीनोऽभून्मणिरश्मिषु ॥35॥
श्रीषेणो नाम तस्यासीत् पति: सुरपतिद्युति: । नतारिमौलिरत्नांशुवाविंकासिक्रमाम्बुज: ॥36॥नमस्कार करनेवाले शत्रु राजाओं के मुकुटोंमें लगे हुए रत्नों की किरणें रूपी जलमें जिसके चरण,
कमल के समान विकसित हो रहे हैं ऐसा, इन्द्रके समान कान्तिका धारक श्रीषेण नाम का राजा उस
पाति यस्मिन् भुवं जिष्णौ दुष्टा विगतविक्रिया: । अभूवन् शक्तिवन्मन्त्रसन्निधौ वा भुजंगमा: ॥37॥
उपाया येन संचिन्त्य यथास्थानप्रयोजिता: । ददु: फलमतिस्फीतं समादर्तृवदथिंतम् ॥38॥
श्रीकान्ता नाम तस्यासीद् वनिता विनयान्विता । सती मृदुपदन्यासा सत्कवेरिव भारती ॥39॥
रूपाद्या: स्त्रीगुणास्तस्या: समुत्पन्ना: सुखाबहा: । सुता इव सदा बाल्या वन्द्याश्च गुरूवत्सताम् ॥40॥
अरीरमन्जन: पत्युस्तस्या रूपादयो गुणा: । स्यादेवकारसंयुक्ता नया इव मनीषिण: ॥41॥
प्रतिच्छन्द: परस्त्रीणां वेधसैषा विनिमिंता । गुणानामिव मन्जूषा स्वमतिप्रतिपत्तये ॥42॥
अपापं सुखमच्छिन्नं सस्त्रेहं समतृप्तिदम् । मिथुनं सत्समापोच्चैमिंथुनं वामरं परम् ॥43॥
स कदाचिन्महीनाथो निष्पुत्रत्वाच्छुचाहित: । इति स्वगतमेकाकी सन्तत्यर्थमचिन्तयत् ॥44॥
स्त्रिय: संसारवल्लर्य: सत्पुत्रास्तत्फलायिता: । न चेते तस्य रामाभि: पापाभि: किं नृपापिन: ॥45॥
य: पुत्रवदनाम्भोजं नापश्यद्दैवयोगत: । षड्खण्डश्रीमुखाब्जेन दृष्टेनाप्यस्य तेन किम् ॥46॥
तत: पुरोधस: प्राप्तुं सुतं सदुपदेशत: । अनर्घैर्मणिभि: पंचवर्णैरन्चितकांचनै: ॥47॥
विधाय जिनबिम्बानि प्रातिहार्यै: सहाष्टभि: । भृंगारादिविनिर्दिष्टै: संगतान्यष्टमंगलै: ॥48॥
प्रतिष्ठाकल्पसम्प्रोक्तै: प्रतिष्ठाप्य क्रियाक्रमै: । कृत्वा महाभिषेकं च जिनसंगममंगलै: ॥49॥
गन्धोदकै: स्वयं देव्या सहैवास्त्रात्स्तुवन् जिनान् । व्यधादाष्टाह्निकीं पूजामैहिकामुत्रिकोदयाम् ॥50॥
यातै: कतिपयैर्देवी दिनै: स्वप्नान् व्यलोकत । गजसिंहेन्दुपद्माभिषेकानीषद्विनिद्रिता ॥51॥
तदैव गर्भसड्.क्रान्तिरभूत्तस्यास्तत: क्रमात् । आलस्यमरूचिस्तन्द्रा जुगुप्सा वा निमित्तिका ॥52॥
अशक्तयोरिवान्योन्यं विजेतुं सुचिरान्मुखम् । कुचयोरादधौ तस्या: कालिमानं दिने दिने ॥53॥
योषितां भूषणं लज्जा श्लाघ्यं नान्यद्विभूषणम् । इति स्पष्टयितुं वैषा सर्वचेष्टा स्थिता हिया ॥54॥
तस्या भाराक्षमत्वेन भूषणान्युचितान्यपि । दिवस्ताराकुलानीव निशान्ते स्वल्पतां ययु: ॥55॥
बाच: परिमिता: स्वल्पवित्तस्येव विभूतय: । चिरं विरम्य श्रव्यत्वान्नावाभ्भोदावलेरिव ॥56॥
कुर्यु: कुतूहलोत्पत्तिं बाढमभ्यर्णवर्तिनाम् । एवं तद्रर्भचिह्नानि व्यक्तान्यन्यानि चाभवन् ॥57॥
प्रमोदात्प्राप्य राजानं प्रणम्याननसूचितम् । इति चैत्याब्रुवन् कर्णे तन्महत्तरिकास्दा ॥58॥ किसी एक दिन रानीकी प्रधान दासियोंने हर्ष से राजा के पास जाकर और प्रणाम कर उनके कानमें
सरोजं वोदयाद्भानो: कुमुदं वा हिमद्युते: । व्यकसत्तन्मुखाम्भोजं श्रुतगर्भमहोदयात् ॥59॥
चन्द्रोदयोन्वयाम्भोधे: कुलस्य तिलकायित: । प्रादुर्भावस्तनूजस्य न प्रतोषाय कस्य वा ॥60॥
अदृष्टवदनाम्भोजमपत्यं गर्भगं च माम् । एवं प्रतोषयत्येतत् दृष्टवक्त्रं किमुच्यते ॥61॥
मत्वेति ताभ्यो दत्वेष्टं स्वाप्तै: कतिपयैर्वृत: । महादेवीगृहं गत्वा द्विगुणीभूतसम्मद: ॥62॥
अभ्रितां वाभ्रपदवीं रत्नगर्भामिव क्षितिम् । उपोदयार्कां प्राचीं वा तां ददर्श दृश: सुखम् ॥63॥
सापि दृष्ट्वा महीनाथमभ्युत्थातुं कृतोद्यमा । तथैव देवि तिष्ठेति स्थिता राज्ञा निवारिता ॥64॥
नृपस्तयैकशय्यायामुपविश्य चिंर मुदा । सलज्जया सहालाप्य ययौ तदुचितोक्तिभि: ॥65॥
दिनेषु केषुचित्पश्चाद्यातेषु प्रकटीभवत् । प्राक् पुण्याद् गुरूशुक्रादिशुभग्रहनिरीक्षणात् ॥66॥
हरेर्हरिदिवादित्यं सस्यपाकं यथा शरत् । महोदयमिवाख्यातिरसूत सूतमुत्तमम् ॥67॥
प्रवर्द्धमानभाग्यस्य योग्यस्य सकलश्रिय: । श्रीवर्मेति शुभं नाम तस्य बन्धुजनो व्यघात् ॥68॥
प्रबोधो मूर्छितस्येव दुविंधस्येव वा निधि: । जयो वात्यल्पसैन्यस्य राज्ञस्तोषं चकार स: ॥69॥ जिस प्रकार मूर्च्छितको सचेत होनेसे संतोष होता है, दरिद्रको खजाना मिलनेसे संतोष होता है
तस्यागंतेजसा रत्नदीपिका विहतत्विष: । विभावर्या सभास्थाने नैरर्धक्यं प्रपेदिरे ॥70॥
शरीरवृद्धिस्तस्यासीद् भिषक्शास्त्रोक्तवृत्तित: । शब्दशास्त्रादिभि: प्रज्ञावृद्धि: सुविहितक्रिया: ॥71॥
स राजा तेन पुत्रेण द्वीपोऽयमिव मेरूणा । तुंगेन संगत: श्रीमान् पालयन् वलयं क्षिते: ॥72॥
जिनं श्रीपवनामानमवतीर्णं यदृच्छया । शिवंकरवनोद्याने कदाचिद्वनपालत: ॥73॥
श्रुत्या सप्तपदानीत्वा तां दिशं शिरसाऽनमत् । तदानीमेव सम्प्राप्य विश्वेशं प्रश्रयाश्रय: ॥74॥
त्रि:परीत्य नमस्कृत्य तं यथास्थानमास्थित: । कृत्वा धर्मपरिप्रश्नं बुद्ध्वा वस्तु यथोदितम् ॥75॥
भोगतृष्णामपास्याशु धर्मतृष्णात्तमानस: । दत्वा श्रीवर्मणे राज्यं प्राव्राजीत्तज्जिनान्तिके ॥76॥
श्रीवर्मापि जिनेन्द्रोक्त्या धूतमिथ्यामहातमा: । आस्थात्तुर्यगुणस्थानमाद्यं सोपानमुच्यते ॥77॥
सन्निधाने च तस्याय: सन्निधापयति स्वयम् । यथाकाममशेषार्थास्तै: स प्रापेप्सितं सुखम् ॥78॥
असौ कदाचिदाषाढपौर्णमासीदिने जिनान् । उपोष्याभ्यर्च्य सत्स्वाप्तै रात्रौ हर्म्यतले स्थित: ॥79॥
विलोक्यापातमुल्काया भोगसारे विरक्तवान् । प्राग्विश्राणितसाम्राज्य: श्रीकान्तायाग्रसूनवे ॥80॥
अभ्यासे श्रीप्रभेशस्य दीक्षित्वा सुचिरं तप: । विधाय विधिवत्प्रान्ते संन्यस्य श्रीप्रभे गिरौ ॥81॥
श्रीप्रभे प्रथमे कल्पे विमाने सागरोपम - । द्वित्वायु: श्रीधरो नाम्ना देव: समुदपद्यत ॥82॥
अणिमादिगुण: सप्तहस्तो वैक्रियिकांगभाक् । चतुर्थलेश्यो मासेन नि:श्वसन् मनसाहरन् ॥83॥
वर्षद्वयसहस्त्रेण: पुद्रलानमृतात्मकान् । तृप्त: कायप्रवीचाराद् व्याप्ताद्यक्ष्मातलावधि: ॥84॥
बलतेजोमहाविक्रियाभि: स्वावधिसम्मित: । सुस्थितोऽनुभवन्सौख्यं स्वपुण्यपरिपाकजम् ॥85॥
दक्षिणे धातकीखण्डे प्राचीष्वाकारपर्वतात् । भारते विषये श्रीमदलकाख्ये पुरोत्तमम् ॥86॥
अयोध्याह्रं नृपस्तस्मिन्नाबभावजितन्जय: । आसीदजितसेनास्य देवी सुतसुखप्रदा ॥87॥
सा कदाचित्तनूजाप्त्यै परिपूज्य जिनेश्वरान् । सुप्ता तंचिन्तया स्वप्नान्विलोक्याष्टौ शुभानिमान् ॥88॥
गजेन्द्रवृषसिंहेन्दुरवीन् पद्मसरोवरम् । शंख पूर्णघटं चैतत् फलान्यप्यजितंजयात् ॥89॥
गजात्पुत्रं गभीरं गो: सिंहेनानन्तवीर्यकम् । चन्द्रेण तर्पकं तेज: प्रतापाढयं दिवाकरात् ॥90॥
सरसा शंखचक्रादि द्वात्रिंशल्लक्षणान्वितम् । शंखेन चक्रिणं पूर्णकुम्भाज्ज्ञात्वा निधीशिनम् ॥91॥
तुष्टा कतिपयैर्मासैस्तं श्रीधरमजीजनत् । व्यधादजितसेनाख्यां राजास्य जितविद्विष: ॥92॥
तेन तेजस्विना राजा सदाभाद् भास्करेण वा । दिवसो विरजास्तादृक् तनूज: कुलभूषणम् ॥93॥
स्बयम्प्रभाख्यतीर्थेशमशोकवनमागतम् । परेद्यु: सपरीवार: सम्प्राप्याभ्यर्च्य सन्नत: ॥94॥
श्रुत्वा धर्म सतां त्याज्यं राज्यं निर्जितशत्रवे । प्रदायाजितसेनाय संयम्यासीत्स केवली ॥95॥
राजलक्ष्म्या कुमारोsपि रक्तया स वशीकृत: । प्रौढ एव युवा कामं मुख्यं सौख्यमुपेयिवान् ॥96॥
तत्पुण्यपरिपाकेन चक्ररत्नादि चक्रिण: । यद्यत्तत्तत्समुत्पन्नं चेतनेतरभेदकम् ॥97॥
चक्रमाक्रान्तदिक्चक्रमस्य तस्योद्भवेऽभवत् । पुनर्दिग्विजयो जेतु: पुरबाह्यविहारवत् ॥98॥
नासुखोऽनेन कोऽप्यासीन्न परिग्रहमूर्च्छना । षट्खण्डाधीशिनोऽप्यस्य पुण्यं पुण्यानुबन्धि यत् ॥99॥
दु:खं स्वकर्मपाकेन सुखं तदनुपालनात् । प्रजानां तस्य साम्राज्ये तत्ताभि: सोऽभिनन्द्यते ॥100॥
देवविद्याधराधीशमुकुटाग्रेषु सद्युतीन् । विच्छायीकृत्य रत्नांशूंस्तदाज्ञैवोच्छिखा बभौ ॥101॥
नित्योदयस्य चेन्न स्यात् पद्मानन्दकृतो बलम् । चण्डद्युते:कथं पाति शक्रोऽध्यक्ष: स्वयं दिशम् ॥102॥
विधीर्वेधा न चेदर्ग्नि स्थापयेद्रक्षितुं दिशम् । स्वयोनिदाहिना कोऽपि कचित् केनापि रक्षित: ॥103॥
पालको मारको वेति नान्तकं सर्वभक्षिणम् । किं वेत्ति वेधास्तं पातुं पापिनं परिकल्पवन् ॥104॥
शुन: स्थाने स्थितो दीनो नित्यं यमसमीपग: । स्वजीवितेऽपि सन्देह्मो नैर्ऋत: कस्य पालक: ॥105॥
काललीलां विलव्यालं पाशहस्तो जलप्रिय: । स नदीनाश्रय: पाशी प्रजानां केन पालक: ॥106॥
धूमध्वजसखोऽस्थास्नु: स्वयमन्यांश्च चालयन् । पालक: स्थापितस्तादृक् स किमेकत्र तिष्ठति ॥107॥
लुब्धो न लभते पुण्यं विपुण्य: केन पालक: । धनेन चेददाता तत् गुह्यकोऽपि न पालक: ॥108॥
ईशानोऽन्स्यां दशां यातो गणने सर्वपश्चिम: । पिशाचावेष्टितो दुष्ट: कथमेष दिश: पति: ॥109॥
कृत्वैतान् बुद्धिवैकल्यात्तत्प्रमार्ष्टु प्रजापति: । व्यधादेकमिमं मन्ये विश्वदिक्पालनक्षमम् ॥110॥
इत्युदात्तवचोमाला विरचय्याभिसंस्तुत: । विक्रमाक्रान्तदिक्चक्र: शक्रादीन् सोऽतिलड्.घते ॥111॥
धनं दाने मतिर्धर्भे शौर्य भूताभिरक्षणे । आयु: सुखे तनुर्भोगे तस्य वृद्धिमवांचिरम् ॥112॥
अपरायत्तमच्छिन्नमबाधमयवर्द्धनम् । गुणान्पुष्णन् वितृष्ण: सन् सुखेन सुखमीयिवान् ॥113॥उसके पुण्यकी वृद्धि दूसरेके आधीन नहीं थी, कभी नष्ट नहीं होती थी और उसमें किसी तरहकी
बाधा नहीं आती थी । इस प्रकार वह तृष्णारहित होकर गुणोंका पोषण करता हुआ बड़े आरामसे सुखको
ऋतं वाचि दया चित्ते धर्मकर्मणि निर्मल: । स्वान् गुणान् वा प्रजा: पाति राजर्षि: केन नास्तु स: ॥114॥
मन्ये नैसर्गिकं तस्य सौजन्यं कथमन्यथा । प्राणहारिणि पापेऽपि रिपौ नोपैति विक्रियाम् ॥115॥
न हि मूलहर: कोऽपि नापि कोऽपि कदर्यक: । तादात्विकोऽपि तद्राज्ये सर्वे सद्व्ययकारिण: ॥116॥
इति तस्मिन् महीं पाति सौराज्ये सति भूपतौ । प्रजा: प्रजापतिं मत्वा तमैधन्त सुमेधसम् ॥117॥
रत्नानि निधयश्चास्य चतुर्दश नवाभवत् । नवयौवनसम्प्राप्तौ प्राप्तपुण्योदयात् प्रभो: ॥118॥
भाजनं भोजनं शय्या चमूर्वाहनमासनम् । निधीरत्नं पुरूं नाट्यमिति भोगान्दशान्वभूत् ॥119॥
श्रद्धादिगुणसम्पन्न: स कदाचिन्महीपति: । अरिन्दमाय दत्वान्नं सते मासोपवासिने ॥120॥
गृहीतनवपुण्यात्मा वसुधारादिपंचकम् । प्रापाश्चर्यमनाप्यं किं सदनुष्ठानतत्परै: ॥121॥
असौ मनोहरोद्याने गुणप्रभजिनेश्वरम् । परेद्यु: प्राप्य तत्प्रोक्तं धर्मसारं रसायनम् ॥122॥
पीत्वा स्वभवसम्बन्धश्रुतिबन्धुप्रचोदित: । सद्यो निर्विद्य साम्राज्यं वितीर्य जितशत्रवे ॥123॥
त्रैलोक्यजयिनं जेतु मोहराजं कृतोद्यम: । राजभिर्बहुभि: सार्द्ध गृहीत्वा साधनं तप: ॥124॥
चरित्वा निरतीचारं तनुं त्यक्त्वायुषोऽवधौ । नभस्तिलकगिर्यग्रे शान्तकारविमानग: ॥125॥
अच्युतेन्द्रोऽजनिष्टाप्तवार्द्धिद्वाविंशतिस्थिति: । हस्तत्रयप्रमाणात्तनिर्धातुतनुभास्कर: ॥126॥
शुक्ललेश्य: श्वसन्मासैरेकादशभिराहरन् । द्वाविंशतिसहस्त्राब्दैर्मनसाऽऽहारमामरम् ॥127॥
तम:प्रभावधिव्याप्तदेशावधिविलोचन: । तत्क्षेत्रव्यापिसत्तेजोबलोत्तरशरीरभाक् ॥128॥
दिव्यभोगांश्चिरं भुक्त्वा स्वायुरन्ते विशुद्धदृक् । प्राग्भागधातकीखण्डे सीतादक्षिणकूलगे ॥129॥
विषये मंगलावत्यां रत्नसंचय पू:पति: । देव्यां कनकमालायां वल्लभ: कनकप्रभ: ॥130॥
पद्यनाभ: सुतो जातस्तयो: सुस्वप्नपूर्वकम् । बालानुकूलपर्युष्टिविशेषै: सोऽभ्यवर्द्धत ॥131॥
उपयोगक्षमाशेषपर्याप्तिपरिनिष्टितम् । आरोप्य तं व्रतं राजा विद्यागृहमवीविशत् ॥132॥
अभिजातपरीवारो दासहस्तिपकादिकान् । दूरीकृत्य स नि:शेषा विद्या: शिक्षितुमुद्ययौ ॥133॥
तथेन्द्रियततिस्तेन पराजीयत सा यथा । निजार्थै: सर्वभावेन तनोति प्रीतिमात्मन: ॥134॥
स धीमान् वृद्धसंयोगं व्यधाद् विनयवृद्धये । विनय: शास्त्रनिर्णीत: कृत्रिम: सहजोsपर: ॥135॥
तं सम्पूर्णकलं प्राप्य कान्तं सहजकृत्रिमौ । राजानं गुरूशुक्रौ वा रेजतुविंनयौ भृशम् ॥136॥जिस प्रकार चन्द्रमा को पाकर गुरू और शुक्र ग्रह अत्यन्त सुशोभित होते हैं उसी प्रकार सम्पूर्ण
कलाओं को धारण करनेवाले अतिशय सुन्दर उस राजकुमार को पाकर स्वाभाविक और कृत्रिम –
स धीमान् षोडशे वर्षे विरेजे प्राप्य यौवनम् । वनं सुष्ठु विनीतात्मा संयतो वा जितेन्द्रिय: ॥137॥
रूपान्वयवय:शिक्षासम्पन्नं तमविक्रियम् । भद्रं गजं विनीतात्मा समालोक्य मुदा पिता ॥138॥
विद्यापूजां विधायास्य जिनपूजापुर:सरम् । संस्कृतस्येव रत्नस्य व्यधाद् बुद्धिं क्रियान्तरे ॥139॥
कलाभिरिव बालेन्दुं शुद्धपक्षसमाश्रयात् । रम्यं राजा तमूर्जो वा प्रमदाभिरपूरयन् ॥140॥
तस्य सोमप्रभादीनां देवीनामभवन् सुता: । शुभा: सुवर्णनाभाद्या: भास्करस्येव भानव: ॥141॥
पुत्रपौत्रादिभि: श्रीमान् परीत: कनकप्रभ: । स्वराज्यं पालयन्नेवं सुखेनान्येद्युरूद्धधी: ॥142॥
मनोहरवने धर्म श्रीधराज्जिनपुंगवात् । श्रुत्वा संयोज्य साम्राज्यं सूनौ संयम्य निर्वृत: ॥143॥
पद्यनाभश्च तत्रैव गृहीतोपासकव्रत: । तन्त्रावापगतव्याप्तिममात्यै: सम्प्रवर्तयन् ॥144॥
विश्रम्भहाससंस्पर्शविनोदैरतिपेशलै: । कामिनीनां कलालापै: सविलोलैविंलोकनै: ॥145॥
अनंगपूर्वरंगस्य पुष्पांजलिनिभै: शुभै: । समप्रेमसमुत्पन्नै: प्रसादं प्राप चेतस: ॥146॥
कामकल्पद्रुमोद्भ्ूातं परिकक्कं फलोत्तमम् । रामाप्रेमोपनीतं सा सीमाऽऽसीत्तस्य निर्वृते: ॥147॥कामदेव रूपी कल्प - वृक्ष से उत्पन्न हुए, स्त्रियों के प्रेमसे प्राप्त हुए और पके हुए भोगोपभोग रूपी
उत्तम फल ही राजा पद्मनाभके वैराग्यकी सीमा हुए थे अर्थात् इन्हीं भोगोपभोगों से उसे वैराग्य
प्राक्तनोपात्तपुण्यस्य फलमेतदिति स्फुटम् । प्रबोधयन्नसौ मूढानुद्यद्दीप्तिरभूत्सुखी ॥148॥
सोऽपि श्रीधरसान्निध्ये बुद्ध्वा धर्म बुधोत्तम: । संसारमोक्षयाथात्म्यमात्मन्येवमचिन्तयत् ॥149॥
यावदौदयिको भावस्तावत्संसृतिरात्मन: । स च कर्माणि तत्कर्म तावद्यावत्सकारणम् ॥150॥
कारणान्यपि पंचैव मिथ्यात्वादीनि कर्मण: । मिथ्यात्वे सत्यवश्यं स्यात्तत्र शेषं चतुष्टयम् ॥151॥
असंयमे त्रयं द्वे स्त: प्रमादे योगसंज्ञकम् । कषाये नि:कषायस्य योग एव हि बन्धकृत् ॥152॥
स्वस्मिन् स्वस्मिन् गुणस्थाने मिथ्यात्वादेविंनाशनात् । स्वहेतोस्तत्कृतो बन्धस्तत्र तत्र विनश्यति ॥153॥
सदादित्रितयं नंक्ष्यत् पश्चात्तश्च स्वकालत: । आपर्यन्तगुणस्थानात्तत्क्षयात्संसृते: क्षय: ॥154॥
संसारे प्रलयं याते पापे जन्मादिलक्षणे । क्षायिकैरात्मनो भावैरात्मन्यात्मा समेधते ॥155॥
इति तत्त्वं जिनोद्दिष्टमजानानोऽन्धवच्चिरम् । भ्रान्त: संसारकान्तारे दुर्गे दु:खी दुरन्तके ॥156॥
असंयमादिकं सर्वमुज्झित्वा कर्मकारणम् । शुद्धश्रद्धादिमोक्षांगपंचकं समुपैम्यहम् ॥157॥
इत्यन्तस्तत्त्वतो ज्ञात्वा पद्मनाभो हिताहिते । दत्वा सुवर्णनाभाय प्राभवं बाह्यसम्पद: ॥158॥
राजभिर्बहुभि: सार्ध संयमं प्रतिपद्य स: । समाचरंश्चतुर्भेदे प्रसिद्धे मुक्तिसाधने ॥159॥
द्वयष्टकारणसम्प्राप्तभावनो नामतीर्थकृत् । स्वीकृत्यैकादशांगाब्धिपारग: परमं तप: ॥160॥
सिंहनि:क्रीडिताद्युग्रं विधायाबुधदुस्तरम् । कालान्ते सम्यगाराध्य समुत्सृष्टशरीरक: ॥161॥
वैजयन्ते त्रयत्रिंशत्सागरायुरजायत । पूर्वोक्तदेहलेश्यादिविशेषो दिव्यसौख्यभाक् ॥162॥
तस्मिन् षण्मासशेषायुष्या गमिष्यति भूतले । द्वीपेऽस्मिन् भारते वर्षे नृपश्चन्द्रपुराधिप: ॥163॥
इक्ष्वाकु: काश्यपो वंशगोत्राभ्यामद्भुतोदय: । महासेनो महादेवी लक्ष्मणा स्वगृहांगणे ॥164॥
वसुधारां सुरै: प्राप्ता देवीभि: परिवारिता । दिव्यवस्त्रस्त्रगालेपशयनादिसुखोचिता ॥165॥
चैत्रस्य कृष्णपंचम्यां स्वप्नान् याममनोहरे । दृष्ट्वा षोडश संतुष्य समुत्थायोदिते रवौ ॥166॥
पुण्यप्रसाधनोपेता स्ववक्त्रार्पितसम्मदा । स्वप्नान् सिंहासनासीनं स्वानवाजीगमत् पतिम् ॥167॥
सोऽपि स्वावधिबोधेन तत्फलानि पृथक् पृथक् । राज्ञ्यै निवेदयामास सापि सन्तोषसम्भृता ॥168॥
कान्ति लज्जां धृतिं कीर्तिं बुर्द्धिं सौभाग्यसम्पदम् । श्रीह्रीधृत्यादिदेवीषु वर्धयन्तीषु सन्ततम् ॥169॥
पौषासितैकदश्यां सा शक्रयोगे सुराचितम् । अहमिन्द्रमतर्क्याभं त्रिबोधमुपपादयत् ॥170॥
तदैवाभ्येत्य नाकीशो महामन्दरमस्तके । सिंहासनं समारोप्य सुस्नाप्य क्षीरवारिभि: ॥171॥
विभूष्य भूषणै: सर्वैर्बद्ध्वा त्रैलोक्यकण्ठिकाम् । मुदा वीक्ष्य सहस्त्राक्षो व्यवहारप्रसिद्धये ॥172॥
कुलं कुवलयस्यास्य सम्भवे व्यकसत्तराम् । यतस्ततश्चकाराख्यां सार्था चन्द्रप्रभं प्रभो: ॥173॥
आनन्दनाटकं चास्य निर्वर्त्याग्ने शचीपति: । पुनरानीय तत्पित्रोरर्पयित्वा जगत्पतिम् ॥174॥
भोगोपभोगयोग्योरूवस्तुभि: परिचर्यताम् । भगवानिति सन्दिश्य यक्षेशं स्वाश्रयं ययौ ॥175॥
प्रबोधमहतां स्त्रीत्वमपि निन्द्यं जगत्पते: । लोकोपकारिण: प्राप्ते: सपुण्यां लक्ष्मणामिमाम् ॥176॥
पावनीं स्तुत्यतां नीत्वा देवाश्चापन् महाफलम् । स्त्रीतेदृशी वरिष्ठेति मेनिरेऽनिमिषांगना: ॥177॥
गतेऽनन्तरसन्ताने सागरोपमकोटिभि: । शतैर्नवभिरेषोऽभूत्तदभ्यन्तरजीवित: ॥178॥
शून्यषट्कैकपूर्वायु: सार्द्धचापशतोच्छि्ति: । अवर्द्धन्तेव शीतांशु: कलाशेषो जगन्नुत: ॥179॥
इत: स्वामिंस्त्वमेहीति कुतूहलविलासिनी । प्रसारितकरन्यस्ततलाम्भोजसमाश्रय: ॥180॥
अकारणसमुद्भूतस्मितकान्तमुखाम्बुज: । कदाचित्प्रस्खलतूपादविन्यासो मणिकुट्टिमे ॥181॥
इत्यादितद्वयोयोग्यमुग्धशुद्धविचेष्टितै: । नीत्वा बाल्यं स कौमारमाप प्रार्थ्य सुखार्धिभि: ॥182॥
अमृतैस्तनुमेतस्य कृतां मन्यामहे वयम् । वेधसेति जनालापा: प्रवर्तन्ते स्म कौतुकात् ॥183॥
आधिक्याद्भावलेश्येव निर्गतेवेक्षयाप्रिया । द्रव्यलेश्या व्यभासिष्ट जित्वा पूर्णेन्दुजद्युतिम् ॥184॥उनकी द्रव्य लेश्या अर्थात् शरीर की कान्ति पूर्ण चन्द्रमाकी कान्ति को जीतकर ऐसी सुशोभितहो रही थी मानो बाह्य वस्तुओं को देखनेके लिए अधिक होनेसे भाव लेश्या ही बाहर निकल आई हो ।
यशसा लेश्यया चास्य ज्योतिषां छादिता द्युति: । भोगभूमिर्निवृत्तेति प्रतोषमकरोज्जन: ॥185॥***उनके यश और लेश्यासे ज्योतिषी देवोंकी कान्ति छिए गई थी इसलिए ‘भोगभूमि लौट आई है’ यह
द्युतिस्तस्य द्युतिर्वाभात् मिश्रिता रविचन्द्रयो: । तत्सदा व्यकसन्मन्ये पद्मानि कुमुदान्यपि ॥186॥
कुन्दहासा गुणास्तस्य चन्द्रस्येवांशवोऽमला: । विकासयन्ति भव्यानां मन:कुवलयावलिम् ॥187॥
सहोत्पत्तौ श्रियोऽनेन सोदर्येन्दोरिति श्रुति: । अजानद्भिर्जनैरेतदन्यथा परिकल्पितम् ॥188॥
चन्द्रस्येवोदयेऽस्यापि सर्वसन्तापहारिण: । ह्लादते भासते वर्द्धते स्म लोको निराकुल: ॥189॥
एतस्यैव गुणैर्लक्ष्मी मन्ये कीर्तिश्च निर्मला । कारणानुगुणं कार्यमिति सत्यं भवेद्यदि ॥190॥‘कारण के अनुकूल ही कार्य होता है’ यदि यह लोकोक्ति सत्य है तो मानना पड़ता है कि इनकी लक्ष्मी और कीर्ति इन्हींके गुणों से निर्मल हुई थीं ।
महाविभूतिसम्पन्न: सज्जमज्जनमंगल: । सालंकारक्रियो वेलां कदाचिदनयत् कृती ॥191॥
वीणावाद्येन ह्लाद्येन गीतैर्मुरजवादनै: । कदाचिद्धनदानीतभूषावस्त्रावलोकनै: ॥192॥
वादिप्रवाद्युपन्यस्तपक्षादिसुपरीक्षणै: । कुतूहलेक्षणायातभव्यलोकात्मदर्शनै: ॥193॥
धर्मादयो व्यवर्द्धत गुणा: पापाद्ययात्क्षयम् । कौमारेऽस्मिन् स्थितेऽप्येवं किं वाच्यं संयमे सति ॥194॥
इति द्विलक्षपंचाशत्सहस्त्रप्रमितैर्गतै: । पूर्वै राज्याभिषेकाप्त्या परमानन्दसुन्दर: ॥195॥
नावतो मण्डलं राहो: स्वहस्ततलसस्मितम् । किं तेजोऽर्कस्य तेजोऽस्य तेजस्त्रैलोक्यरक्षिण: ॥196॥
शक्रादयोऽपि कैंकर्यं जन्मन: प्राग्वहन्ति चेत् । ऐश्वर्यादिभिरेषोऽन्यैर्वृत: कैरूपमीयताम् ॥197॥
तले कपोलयो: स्त्रीणां छेदे वा दन्तिदन्तयो: । स विलोक्य स्मरस्मेरं स्वमुखं सुखमेयिवान् ॥198॥
विलोकिनीनां कान्तानामुत्सुकानां विलासकृत् । त्यागीव स सुखी जात: स्ववक्त्ररसतर्पणात् ॥199॥
नान्तराय: परं तस्य कान्तावक्त्राब्जवीक्षणे । जातपंकेरूहाशंकैर्भ्रमद्भिर्म्रमरैविंना ॥200॥
मधुपैश्चपलैर्लोलैर्युक्तायुक्ताविचारकै: । मलिनै: किमकर्तव्यं प्रवेशो यदि लभ्यते ॥201॥
खचतुष्केन्द्रियर्तूक्तै: पूर्वै: साम्राज्यसम्पद: । चतुविंशतिपूर्वांगै: सम्मितौ क्षणवत्सुखम् ॥202॥
सत्यां प्रयाति कालेऽसावलंकारगृहेऽन्यदा । प्रपश्यन् वदनाम्भोजं दर्पणागतमात्मन: ॥203॥
तत्रावधार्यनिर्वेदहेतु’ कंचिन्मुखे स्थितम् । पातुक: पश्य कायोऽयमीतय: प्रीतयोऽप्यमू: ॥204॥
किं सुखं यदि न स्वस्मात्का लक्ष्मीश्चेदियं चला । किं यौवनं यदि ध्वंसि किमायुर्यदि सावधि ॥205॥
सम्बन्धो बन्धुभि: कोऽसौ चेद्वियोगपुरस्सर: । स एवाहं त एवार्थास्तान्येव करणान्यपि ॥206॥
प्रीति: सैवानुभूतिश्च वृत्तिश्चास्यां भवावनौ । परिवृत्तमिदं सर्व पुन: पुनरनन्तरम् ॥207॥
तत्र किं जातमप्येष्यत्काले किं वा भविष्यति । इति जानन्नहं चास्मिन्मोमुहीमि मुहुर्मुहु: ॥208॥
अनित्ये नित्यबुद्धिर्मे दु:खे सुखमिति स्मृति: । अशुचौ शुचिरित्यास्था परत्रात्ममतिर्यथा ॥209॥
अविद्ययैवमाक्रान्तो दुरन्ते भववारिधौ । चतुविंधोरूदु:खोग्रदुर्गदैराहितश्चिरम् ॥210॥
इत्ययेनायतेनैवमायासित इवाकुल: । काललब्धिं परिप्राप्य क्षुण्णमार्गजिहासया ॥211॥
गुणाढयं भावुको भाविकेवलावगमादिभि: । स्मरन्नित्याप सन्मत्या संफल्येव समागमम् ॥212॥
दीक्षालक्ष्म्या: स्वयं प्राप्ता सद्बुद्धि: सिद्धिदायिनी । इति प्रबुद्धतत्त्वं तं प्रपद्य सुरसंयता: ॥213॥
यथोचितमभिष्टुत्य ब्रह्मलोकं पुनर्ययु: । नृपोऽपि वरचन्द्रस्य कृत्वा राज्याभिषेचनम् ॥214॥
विनि:क्रमणकल्याणपूजां प्राप्य सुरेश्वरै: । आरूह्य सुरसन्धार्या शिबिकां विमलाह्वयात् ॥215॥
दिनद्वयोपवासित्वा वने सर्वर्तुकाह्वये । पौषे मास्यनुराधायामेकादश्यां महीभुजाम् ॥216॥
सहस्त्रेणाप्य नैर्ग्रन्थ्यं मन:पर्ययमाप्तवान् । द्वितीये दिवसे तस्मै पुरे नलिननामनि ॥217॥
सोमदत्तो नृपो गौर: प्रदायाहारमुत्तमम् । पुण्यानि नव सम्प्राप्य वसुधारादिपंचकम् ॥218॥
सुरैस्तद्दानसन्तुष्टैरापितं स्वीचकार स: । धृत्वा व्रतानि सम्पाल्य समितीस्त्यक्तदण्डक: ॥219॥
निगृहीतकषायारिर्वर्द्धमानविशुद्धिभाक् । त्रिगुप्त: शीलसम्पन्नो गुणी प्रोक्ततपोद्वय: ॥220॥
वस्तुवृत्तिवचोभेदान्नैरन्तर्येण भावयत् । दशप्रकारधर्मस्थ: षोढाशेषपरीषह: ॥221॥
अनित्याशुचिदु:खत्वं स्मरन् कायादिकं मुहु: । गत्वा सर्वत्र माध्यस्थयं परमं योगमाश्रित: ॥222॥
त्रीन् मासान् जिनकल्पेन नीत्वा दीक्षावनान्तरे । अधस्तान्नागवृक्षस्य स्थित्वा षष्ठोपवासभृत् ॥223॥
फाल्गुनेकृष्णसप्तम्यामनुराधापराह्णके । प्रागेव निहिताशेषश्रद्धानप्रतिपक्षक: ॥224॥
करणत्रयसंयोगात् क्षपकश्रेणिमाश्रित: । स्फुरत्तुरीयचारित्रो द्रव्यभावविकल्पत: ॥225॥
शुक्लध्यानोद्धसद्ध्यात्या मोहारातिं निहत्य स: । सावगाढदृगर्योऽभाद् विच्चतुष्कादिभास्कर: ॥226॥
द्वितीयशुल्कध्यानेन घातित्रितयघातक: । जीवस्यैवोपयोगाख्यो गुण: शेषेष्वसम्भवात् ॥227॥
घातीति नाम तद्घातादभूदघचतुष्टये । अघातिष्वपि केषांचिदेव तत्र विलोपनात् ॥228॥
परावगाढं सम्यक्त्वं चर्यान्त्यां ज्ञानदर्शने । दानादिपंचकं प्राप्य सयोग: सकलो जिन: ॥229॥
सर्वज्ञ: सर्वलोकेश: सार्व: सर्वैकरक्षक: । सर्वदृक् सर्वदेवेन्द्रवन्द्य: सर्वार्थदेशक: ॥230॥
चतुस्त्रिंशदतीशेषविशेषविभवोदय: । प्रातिहार्याष्टव्यक्तीकृततीर्थकरोदय: ॥231॥
देवदेव: समस्तेन्द्रमुकुटोढांघ्रि पंकज: । स्वप्रभाह्लादिताशेषविश्वो लोकविभूषण: ॥232॥
गतिजीवगुणस्थाननयमानादिविस्तृते: । प्रबोधक: स्थितो व्योस्नि श्रीमान् चन्द्रप्रभो जिन: ॥233॥
क्रौर्यधुर्येण शौर्येण यदंह: संचितं परम् । सिंहैर्हर्तु स्वजातेर्वा व्यूढं तस्यासनं व्यभात् ॥234॥
केवलद्युतिरेवैवं मूर्तिर्जातेव भास्वरा । देहप्रभा दिशो विश्वा भासयन्त्यस्य शोभते ॥235॥
चामरैरामरैरेष प्रभाप्रकटितायति: । हंसांसधवलैर्गंगातरंगैरिव सेव्यते ॥236॥
ध्वनिरेकोऽपि दिव्योऽस्य प्रकाशो वांशुमालिन: । द्रष्टृणां सर्वभावानां सश्रोत्राणां प्रकाशक: ॥237॥
त्रिभि: शिवं पदं प्राप्यमस्माभिरिति चावदत् । मोक्षमार्ग: पृथग्भूतो भाति छत्रत्रयं विभो: ॥238॥
भाति पिण्डीद्रुमो भर्तुरशोक: संश्रयादृहम् । इत्याविष्कृतरागो वा पल्लवै: प्रसवैरपि ॥239॥
अभात् सुमनसां वृष्टि: पतन्ती नभसो विभुम् । तारावलिरिवायान्ती सेवितुं भक्तिनिर्भरा ॥240॥
देवदुन्दुभयो बाढं दध्वनुस्तजिंताब्धय: । दिश: श्रावयितुं वास्य मोहारातिजयं विभो: ॥241॥
अभादस्य प्रभामध्ये प्रसन्नं वक्त्रमण्डलम् । नाकनद्यामिवाम्भोजमिव वा बिम्बमैन्दवम् ॥242॥
श्रीमद्रन्धकुटीमध्ये चतुभिंस्त्रिगुणैर्गणै: । तारागणै: शरंच्चन्द्र इव सेव्यो व्यराजत ॥243॥
🏠
पर्व - 55
विधाय विपुले मार्गे विनेयांश्चामले स्वयम् । स्वयं च सुविधिर्योऽभूद् विधेयान्न: स तं विधिम् ॥1॥
पुष्करार्द्धेन्द्रदिग्भागे मन्दरप्राग्विदेहभाक् । सीतासरिदुदक्कूले विषय: पुष्कलावती ॥2॥
तत्राभूत्पुण्डरीकिण्यां महीपद्मो महीपति: । दोर्दण्डखण्डितारातिमण्डलश्चण्डविक्रम: ॥3॥
पुराणमपि सन्मार्गं स स्ववृत्त्याऽकरोन्नवम् । पाश्चात्यानां तु तद्वृत्त्या पुराण: सोऽभवत्पुन: ॥4॥
सम्पोष्य पालयामास गां स्वां सा च स्वयं मुदा । प्रस्नुता निजसारेण तं सदा समतर्पयत् ॥5॥
स्वानुरक्तान् जनान् सर्वान् स्वगुणै: स व्यधात् सुधी: । ते च तं प्रीणयन्ति स्म प्रत्यहं सर्वभावत: ॥6॥
शेषा: प्रकृतयस्तेन विहिता वद्धिंताश्च या: । स्वेन स्वेनोपकारेण ताश्चैनं वृद्धिमानयन् ॥7॥
अवर्द्धन्त गुणास्तस्मिन् सद्वृत्ते शास्त्रशालिनि । मुनिवल्लब्धसंस्कारा बभुश्च मणयो यथा ॥8॥
विभज्य राज्यलक्ष्मीं स्वां यथास्वं स्वसमाश्रितै: । स्वोऽन्वभूच्चिरमच्छिन्न्ां सन्त: साधारणश्रिय: ॥9॥
वदन्तीन्द्रयमस्थानं राजानं नीतिवेदिन: । कृतीन्द्रस्थान एवायं दण्ड्याभावात्प्रजागुणात् ॥10॥
रतिरच्छिन्नसन्ताना तस्य भोग्याश्च तादृशा: । तस्मात्स्वसुखविच्छेदं नावेदक्षीणपुण्यक: ॥11॥उसके सुखकी परम्परा निरन्तर बनी रहती थी और उसके ‘भोगोपभोगके योग्य पदार्थभी सदा
उपस्थित रहते थे अत: विशाल पुण्यका धारी वह राजा अपने सुख के विरहको कभी जानता ही नहीं
इति स्वपुण्यमाहात्म्यसम्पादितमहोत्सव: । स कदाचिन्महैश्वर्य श्रुत्वा स्ववनपालकात् ॥12॥
जिनं मनोहरोद्याने स्थितं भूतहिताह्वयम् । गत्वा विभूत्या भूतेशं त्रि: परीत्य कृतार्चन: ॥13॥
वन्दित्वा स्वोचितस्थाने स्थित्वा मुकुलितांजलि: । आकर्ण्य धर्ममुत्पन्नबोधिरेवमचिन्तयत् ॥14॥
आत्मायमात्मनात्मायमात्मन्याविष्कृतासुखम् । विधायानादिकालीनमिथ्यात्वोदयदूषित: ॥15॥
उन्मादीव मदीवान्धो वावेशी वाविचारक: । यद्यदात्माहितं मोहात्तत्तदेवाचरँश्चिरम् ॥16॥
भ्रमित्वा भवकान्तारे प्रभ्रष्टो निर्वृते: पथ: । इत्यतोऽनुभवाद्भीत्वा मुक्तिमार्गप्रपित्सया ॥17॥
सूनवे धनदाख्याय वितीर्यै श्वर्यमात्मन: । प्राव्राजीद् बहुभि: सार्द्धं राजभिर्भवभीरूभि: ॥18॥
क्रमादेकादशांगाब्धिपारगो भावनापर: । बद्ध्वा तीर्थकरं नाम प्रान्ते स्वाराधनाविधि: ॥19॥
विंशत्यत्यब्ध्युपमात्तायु: सार्द्धहस्तत्रयोच्छ्रिति: । शुक्ललेश्य: श्वसन् मासैर्दशभिर्दशभिर्बली ॥20॥
स्मरन् सहस्त्रविंशल्या वत्सराणां तनुस्थितिम् । मानसोद्य: प्रवीचार: प्राप्तधूमप्रभावधि: ॥21॥
विक्रियाबलतेजोभि: स्वावधिक्षेत्रसम्मित: । उत्कृष्टाष्टगुणैश्वर्य: प्राणतेन्द्रोऽजनिष्ट स: ॥22॥
दीर्घं तत्र सुखं भुक्त्वा तस्मिन्नत्रागमिष्यति । द्वीपेऽस्मिन् भारते क्षेत्रे काकन्दीनगराधिप: ॥23॥
इक्ष्वाकु: काश्यपो वंशगोत्राभ्यां क्षत्रियाग्रिम: । सुग्रीवोऽस्य महादेवी जयरामेति रम्यभा: ॥24॥
सा देवैर्वसुधारादिपूजां प्राप्य परार्धिकाम् । फाल्गुने भूलनक्षत्रे तामसे नवमीदिने ॥25॥
प्रभाते षोडश स्वप्नान् दरनिद्राविलेक्षणा । विलोक्य तत्फलान्यात्मपतेर्ज्ञात्वा प्रमोदिनी ॥26॥
मार्गशीर्षे सिते पक्षे जैत्रयोगे तमुत्तमम् । प्रासूत प्रतिपद्याशु तदैत्येन्द्रा: सहामरै: ॥27॥
क्षीराभिषेकं भूषान्ते पुष्पदन्ताख्यमब्रुवन् । कुन्दपुष्पप्रभाभासि देहदीप्त्या विराजितम् ॥28॥
सागरोपमकोटीनां नवत्यामन्तरे गते । एष चन्द्रप्रभस्याभूत्तदभ्यन्तरजीवित: ॥29॥
पूर्वलक्षद्वयात्मायु: शतचापसमुच्छिूति: । लक्षार्द्धपूर्वकालेऽस्य कौमारमगमत् सुखम् ॥30॥
अथाप्य पूज्यं साम्राज्यमच्युतेन्द्रादिभिविंभु: । अन्वभूत्सुखमाश्र्लिष्टमिष्टै: शिष्टैरभिष्टुत: ॥31॥
कान्ताभि: करणै: सर्वैरमुष्मादपियत्सुखम् । ताभ्योऽनेन तयो: कस्य बहुत्वं कथ्यतां बुधै: ॥32॥ सब स्त्रियोंसे, इन्द्रियों से और इस राज्यसे जो भगवान् सुविधिनाथको सुख मिलता था और
भगवान् सुविधिनाथसे उन स्त्रियोंको जो सुख मिलता था उन दोनों में विद्वान् लोग किसको बड़ा अथवा
पुण्यवानस्त्वयं किन्तु मन्ये ता बहुपुण्यका: । या: समभ्यर्णनिर्वाणसुखमेनमरीरमन् ॥33॥
य: स्वर्गसारसौख्याब्धिमग्न: सन् भुवमागत: । तान्येव भोग्यवस्तूनि यानि तं चाभ्यलाषयन् ॥34॥
अनन्तशोऽहमिन्द्रत्वं प्राप्त तेनाप्यतृप्तवान् । सुखेनानेन चेदेष तृप्त: सौख्येष्विदं सुखम् ॥35॥
अष्टाविंशतिपूर्वांगयुतलक्षार्द्धपूर्वके । राज्यकाले गते प्रीत्या कुर्वतो दिग्विलोकनम् ॥36॥
आपतन्तीं विलोक्योल्कामस्यासीदीदृशी मति: । दीपिकेऽयं ममानादिमहामोहतमोऽपहा ॥37॥
इति तद्धेतुसम्भूतविमलावगमात्मक: । स्वयंबुद्धो विबुद्ध: सन् तत्त्मेवं विभावयन् ॥38॥
स्पष्टमद्य मया दृष्टं विश्वमेतद्विडम्बनम् । कर्मेन्द्रजालिकेनैवं विपर्यस्य प्रदर्शितम् ॥39॥
कामशोकभयोन्मादस्वप्नचौर्याद्युपद्रुता: । असत्सदिति पश्यन्ति पुरतो वा व्यवस्थितम् ॥40॥
न स्थास्नु न शुभं किंचिन्न सुखं मे न किंचन । ममाहमेव मत्तोऽन्यदन्यदेवाखिलं जगत् ॥41॥
अहमन्यदिति द्वाभ्यां शब्दाभ्यां सत्यमर्पितम् । तथापि कोऽप्ययं मोहादाग्रहो विग्रहादिषु ॥42॥
अहं मम शुभं नित्यं सुखमित्यतथात्मसु । अस्मादेव विपर्यासाद् भ्रान्तोऽहं भववारिधौ ॥43॥
जन्मदु:खजरामृत्युमहामकरभीकरे । इति साम्राज्यलक्ष्मीं स तितिक्षुरभवत्तदा ॥44॥
क्षिप्त्वा लौकान्तिकावाप्तपूजो राज्यभरं सुते । सुमतौ प्राप्तकल्याण: सुरेन्द्रै: परिवारित: ॥45॥
आरूह्य शिबिकां सूर्यप्रभाख्यां पुष्पके वने । मार्गशीर्षे सिते पक्षे प्रतिपद्यपराह्णके ॥46॥
दीक्षां षष्ठोपवासेन ससहस्त्रनृपोऽगृहीत् । मन:पर्ययसंज्ञानो द्वितीयेऽह्नि प्रविष्टवान् ॥47॥
चर्यां शैलपुरे पुष्पमित्रश्चामीकरच्छवि: । तत्र तं भोजयित्वाऽऽप पंचाश्चर्याणि पार्थिव: ॥48॥
एवं तपस्यतो याता: छाद्मस्थ्येन चतु:समा: । मूलर्क्षे कार्तिके शुद्धद्वितीयायां दिनक्षये ॥49॥
दिनद्वयोपवास: सन्नधस्तान्नागभूरूह: । दीक्षावने विधूताघ: प्राप्तानन्तचतुष्टय: ॥50॥
त्रतुविंधामराधीशविहितातर्क्यवैभव: । सुनिरूपितविश्वार्थदिव्यध्वनिविराजित: ॥51॥
विदर्भनाममुख्याष्टाशीतिसप्तर्द्धिसंयुत: । शून्यद्वयेन्द्रियैकोक्तश्रुतकेवलिनायक: ॥52॥
खद्वयेन्द्रियपंचेन्द्रियैकशिक्षकरक्षक: । शून्यद्वयाब्धिकर्मोक्तत्रिज्ञानधरसेवित: ॥53॥
शून्यत्रयमुनिप्रोक्तकेवलज्ञानलोचन: । खत्रयत्र्येकनिर्णीतविक्रियर्द्धिविवेष्टित: ॥54॥
शून्यद्वयेन्द्रियद्धर्युक्तमन:पर्ययबोधन: । शून्यद्वयर्तुषट्प्रोक्तवादिवन्द्याङ्घ्रिमंगल: ॥55॥
पिण्डितर्षिद्विलक्षेश: खचतुष्काष्टवह्निमान् । घोषार्याद्यार्यिकोपेतो द्विलक्षश्रावकान्वित: ॥56॥
श्राविकापंचलक्षार्च्य: संखयातीतमरूद्रण: । तिर्यक्सङ्ख्यातसम्पन्नो गणैरित्येभिरचिंत: ॥57॥
विह्णत्य विषयान् प्राप्य सम्मेदं रूद्धयोगक: । मासे भाद्रपदेऽष्टम्यां शुक्ले मूले पराह्नके ॥58॥
सहस्त्रमुनिभि: सार्द्ध मुक्तिं सुविधिराप्तवान् । निलिम्पा: परिनिर्वाणकल्याणान्ते दिवं ययु: ॥59॥
स्त्रग्धरा
दुर्ग मार्ग परेषां सुगममभिगमात्स्वस्य शुद्धं ब्यधाद्य:
प्राप्तुं स्वर्गापवर्गौ सुविधिमुपशमं चेतसा बिभ्रतां तम् ।
भक्तानां मोक्षलक्ष्मीपतिमतिविकसत्पुष्पदन्तं भदन्तं
भास्वन्तं दन्तकान्त्या प्रहसितवदनं पुष्पदन्तं ननाम: ॥60॥
वसन्ततिलका
शान्तं वपु: श्रवणहारि वचश्चरित्रं
सर्वोपकारि तव देव ततो भवन्तम् ।
संसारमारवमहास्थलरूद्रसान्द्र-
छायामहीरूहमिमे सुविधिं श्रयाम: ॥61॥
योऽजायत क्षितिभृदत्र महादिपद्म:
पश्चादभूद्दिवि चतुर्दशकल्पनाथ: ।
प्रान्ते बभूव भरते सुविधिर्नृपेन्द्र –
स्तीर्थेश्वर: स नवम: कुरूताच्छ्रियं व: ॥62॥
🏠
पर्व - 56
शीतलो यस्य सद्धर्म: कर्मघर्माश्वभीषुभि: । सन्तप्तानां शशीवासौ शीतल: शीतलोऽस्तु न: ॥1॥
पुष्करद्वीपपूर्वार्द्धमन्दरप्राग्विदेहभाक् । सीतापाक्तटवत्सस्थसुसीमानगराधिप: ॥2॥
भूपति: पद्मगुल्माख्यो दृष्टोपायचतुष्टय: । पंचांगमन्त्रनिर्णीतसन्धिविग्रहतत्त्ववित् ॥3॥
प्रज्ञावारिपरीषेकवृद्धिमद्राज्यभूरूह: । सप्तप्रकृतिशाखाभि: फलत्यस्य फलत्रयम् ॥4॥
प्रतापवाडवालोलज्वालामालापरिस्फुरन् । चन्द्रास्त्रिधारावार्वाद्धिंमग्नारातिमहीधर: ॥5॥
स्वयमुत्पाद्म दैवेन लक्ष्मीं बुद्धबोद्यमेन च । विधाय सर्वसम्भोग्यां भोक्तापि गुणवानसौ ॥6॥
न्यायाजिंतार्थसन्तपिंताथिंसार्थे निराकुलम् । पाति तस्मिन् धराचक्रं सर्वर्तुसुखशालिनि ॥7॥
कोकिलालिकलालापा विलसत्पल्लवाधरा । सौगन्ध्यान्वितमत्तालिकलितोद्रमलोचना ॥8॥
वीतनीहारसज्ज्योत्स्नाहासा स्वच्छाम्बराम्बरा । सम्पूर्णचन्द्रबिम्बास्या वकुलामोदवासिता ॥9॥
मलयानिलनि:श्वासा कणिंकारतनुच्छवि: । वसन्तश्रीरिवायाता तत्संगमसमुत्सुका ॥10॥
अनंगस्तद्वलेनैनं पंचवाणोऽपि निष्ठुरम् । अविध्यद्वहुवाणो वा को न कालबले बली ॥11॥
स सुखेप्सुर्वसन्तश्रीविवशीकृतमानस: । तया विवृद्धसम्प्रीतिराक्रीडति निरन्तरम् ॥12॥
सापि कालानिलोद्धूता घनाली वा व्यलीयत । तदपायसमुद्भूतशोकव्याकुलिताशय: ॥13॥
कामो नाम खल: कोऽपि तापयत्यखिलं जगत् । पापी सकलचित्तस्थो विग्रही विग्रहाद्विना ॥14॥
तं ध्यानानलनिर्दग्धमद्यैव विदधाम्यहम् । इत्याविर्भूतवैराग्यश्चन्दने निजनन्दने ॥15॥
राज्यभारं समारोप्य मुनिमानन्दनामकम् । सम्प्राप्य सर्वसंगांगवैमुख्यं स समीयिवान् ॥16॥
विपाकसूत्रपर्यन्तसकलांगधर: शमी । स्वीकृत्य तीर्थकृन्नाम विधाय सुचिरं तप: ॥17॥
सम्प्राप्य जीवितस्यान्तं त्रिधाराधनसाधन: । आरणाख्येऽभवत्कल्पे सुरेन्द्रो रून्द्रवैभव: ॥18॥
द्वाविंशत्यब्धिमानायु: हस्तत्रितयविग्रह: । शुक्ललेश्याद्वयो मासै: सदैकादशभि: श्वसन् ॥19॥
द्वाविंशतिसहस्त्राब्दैर्मानसाहारतपिंत: । श्रीमान् मन:प्रवीचार: प्राकाम्याद्यष्टधागुण: ॥20॥
प्राक्षष्ठनरकाद् व्याप्ततृतीयज्ञानभास्वर: । तत्प्रमाणबलस्तावत् प्रकाशतनुविक्रिय: ॥21॥
वीतबाह्यविकारोरूवरसौख्याब्धिपारग: । कलामिव किलासङ्ख्यामयमायुरजीगमत् ॥22॥
🏠
पर्व - 57
श्रेय: श्रेयेषु नास्त्यन्य: श्रेयस: श्रेयसे बुधै: । इति श्रेयोऽथिंभि: श्रेय: श्रेयांस: श्रेयसेऽस्तु न: ॥1॥ जो आश्रय लेने योग्य हैं उनमें श्रेयान्सनाथको छोड़कर कल्याणके लिए विद्वानोंके द्वारा और
पुष्करार्द्धेन्द्रदिग्मेरूप्राग्विदेहे सुकच्छके । सीतानद्युत्तरे देशे नृप: क्षेमपुराधिप: ॥2॥
नलिनप्रभनामाभून्नमिताशेषविद्विष: । प्रजानुरागसम्पादिताचिन्त्यमहिमाश्रय: ॥3॥
पृथक्त्रिभेदनिर्णातिशक्तिसिद्धयुदयोदित: । शमव्यायामसम्प्राप्तक्षेमयोगोऽयमैधत ॥4॥
भूभृत्त्व्रमर्थवत्तस्मिन्यस्मान्न्यायेन पालनात् । स्थितौ सुस्थाप्य सुस्त्रिग्धां धरामधित स प्रजा: ॥5॥
धर्म एवापरे धर्मस्तस्मिन्सन्मार्गवतिंनि । अर्थकामौ च धर्म्यौ यत्तत् स धर्ममयोऽभवत् ॥6॥
एवं स्वकृतपुण्यानुभावोदितसुखाकर: । लोकपालोपमो दीर्घ पालयन्निखिलामिलाम् ॥7॥
सहस्त्राभ्रवणेऽनन्तजिनं तद्यनपालकात् । अवतीर्ण विदित्वात्मपरिवारपरिष्कृत: ॥8॥
गत्वाऽभ्यर्च्य चिरं स्तुत्वा नत्वा स्वोचितदेशभाक् । श्रुत्वा धर्म समुत्पन्नतत्त्वबुद्धिरिति स्मरन् ॥9॥
कस्मिन् केन कथं कस्मात् कस्य किं श्रेय इत्यद: । अजानता मया भ्रान्तं श्रान्देनानन्तजन्मसु ॥10॥
आहितो बहुधा मोहान्मयैवैष परिग्रह: । तत्त्यागाद्यदि निर्वाणं कस्मात्कालविलम्बनम् ॥11॥
इति नाम्ना सुपुत्राय पुत्राय गुणशालिने । दत्त्वा राज्यं समं भूयैर्बहुभि: संयमं ययौ ॥12॥
शिक्षितैकादशांगोऽसौ, तीर्थकृन्नामधाम सन् । संन्यस्याजनि कल्पेऽन्ते सुराधीशोऽच्युताह्नय: ॥13॥
पुष्पोत्तरविमानेऽसौ द्वाविशत्यब्धिजीवित: । हस्तत्रयप्रमाणांग: प्रोक्तलेश्यादिभिर्युत: ॥14॥
देवीभिदिंव्यभावाभि: कमनीयाभिरन्वहम् । भवसाराणि सौख्यानि तत्र प्रीत्यान्वभूंचिरम् ॥15॥
कल्पातीता विरागास्ते परे चाल्पसुखास्तत: । संसारसौख्यपर्यन्तसन्तोषात्समतीयिवान् ॥16॥
अनुभूय सुखं तस्मिन् तस्मिन्नत्रागमिष्यति । द्वीपेऽस्मिन् भारते सिंहपुराधीशो नरेश्वर: ॥17॥
इक्ष्वाकुवंशविख्यातो विष्णुनामास्य वल्लभा । नन्दा षण्माससम्प्राप्तवसुधारादिपूजना ॥18॥
ज्येष्ठे मास्यसिते षष्ठयां श्रवणे रात्रिनिर्गमे । स्ववक्त्रावेशिनागेन्द्रात्स्वप्नानैक्षिष्ट षोडश ॥19॥
तत्फलान्यवबुध्यासौ पत्यु: सम्प्राप्य सम्मदम् । तदैवायातदेवेन्द्रविहितोरूमहोत्सवा ॥20॥
नवमासान् यथोक्तेन नीत्वा सन्तोष्य सुप्रजा: । फाल्गुने मासि कृष्णैकादश्यां त्रिज्ञानधारिणम् ॥21॥
विष्णुयोगे महाभागमसूताच्युतनायकम् । मेघावलीव सद्वृष्टिविशेषं विश्वतुष्टये ॥22॥
तदुद्भवे प्रसन्नानि मनांसि सकलांगिनाम् । जलस्थलानि वा सद्य: सर्वत्र शरदागमे ॥23॥
अर्थिनो धनसन्तृप्त्या धनिनो दीनतर्पणै: । ते च ते चेष्टसम्भोगात्सोद्धवा: स्युस्तदुद्भवे ॥24॥
तदा सर्वर्तवस्तत्र स्वै: स्वैर्भावैर्मनोहरै: । प्रादुर्बभूवु: सम्भूय सर्वांगिसुखहेतव: ॥25॥
सरोगा: प्रापुरारोग्यं शोकिनो वीतशोकताम् । धमिंष्ठतां च पापिष्ठाश्चित्रमीशसमुद्भवे ॥26॥
जनस्य चेदयं तोषस्तदानीमतिमात्रया । पित्रोस्तस्य प्रमोदस्य प्रमा केन विधीयते ॥27॥
सद्यश्चतुविंधा देवा: कृत्वा तेजोमयं जगत् । स्वांगाभरणभाभारैरापतन्ति स्म सर्वत: ॥28॥
नेदुर्दुन्दुभयो ह्णद्या: पेतु: कुसुमवृष्टय: । नेटुरामरनर्तक्यो जगु: स्वादु: द्युगायका: ॥29॥
लोकोऽयं देवलोको वा ततश्चात्यद्भुतोदय: । अपूर्व: कोऽप्यभूद्वेति तदासन् द्युसदां गिर: ॥30॥
पितरौ तस्य सौधर्म: स्वयं सद्भूषणादिभि: । शची देवीं च सन्तोष्य माययाऽऽदाय बालकम् ॥31॥
ऐरावतगजस्कन्धमारोप्यामरसेनया । सहलील: स सम्प्राप्य महामेरूं महौजसम् ॥32॥
पंचमावारपारात्तक्षीरवारिघटोत्करै: । अभिषिच्य विभूष्येशं श्रेयानित्यवदन्मुदा ॥33॥
तत: पुरं समानीय मातुरंके निधाय तम् । सुराधीश: सुरै: सार्द्धं प्रमुद्यार सुरालये ॥34॥इन्द्र मेरू पर्वत से लौटकर नगर में आया और जिन - बालक को माताकी गोदमें रख, देवों के साथ
गुणै: सार्द्धमवर्द्धन्त तदास्यावयवा: शुभा: । क्रमात्कान्ति प्रपुष्यन्तो बालचन्द्रस्य वांशुभि: ॥35॥
स खत्रयर्तुपक्षर्तुषड्वत्सरशताब्धिभि: । ऊनसागरकोव्यन्ते पल्यार्द्धे धर्मसन्ततौ ॥36॥
व्युच्छिन्नायां तदभ्यन्तरायु: श्रेय:समुद्भव: । पंचशून्ययुगाष्टाब्दजीवित: कनकप्रभ: ॥37॥
चापाशीतिसमुत्सेधो बलोजस्तेजसां निधि: । एकविंशतिलक्षाब्दकौमार सुखसागर: ॥38॥
प्राप्य राज्यं सुरै: पूज्यं सर्वलोकनमस्कृत: । तर्पयँश्चन्द्रवत्सर्वान् दपिंतान् भानुवत्तपन् ॥39॥
तेजोमहामणिर्वाद्धिंर्गाम्भीर्यं मलयोद्भव: । शैत्यं धर्म इव श्रेय: सुखं स्वस्याकरोंचिरम् ॥40॥
प्राग्जन्मसुकृतायेन कृतायां सर्वसम्पदि । बुद्धिपौरूषयोरूषयोर्व्याप्तिस्तस्याभूद्धर्मकामयो: ॥41॥पूर्व जन्ममें अच्छी तरह किये हुए पुण्य - कर्मसे उन्हें सर्व प्रकारकी सम्पदाएँ तो स्वयं प्राप्त हो गई थीं अत: उनकी बुद्धि और पौरूषकी व्याप्ति सिर्फ धर्म और काममें ही रहती थी ।
तथा शुभविनोदेषु देवै: पुण्यानुबन्धिषु । सम्पादितेषु कान्ताभिदिंनान्यारमतोऽगमन् ॥42॥
एवं पंचखपक्षाब्धिमितसंवत्सरावधौ । राज्यकालेऽयमन्येद्युर्वसन्तपरिवर्तनम् ॥43॥
विलोक्य किल कालेन सर्वं ग्रासीकृतं जगत् । सोऽपि कालो व्ययं याति क्षणादिपरिवर्तनै: ॥44॥
कस्यान्यस्य स्थिरीभावो विश्वमेतद्विनश्वरम् । शाश्वतं न पदं यावत् प्राप्यते सुस्थिति: कुत: ॥45॥
इति स चिन्तयन् लब्धस्तुति: सारस्वतादिभि: । श्रेयस्करे समारोप्य सुते राज्यं सुराधिपै: ॥46॥
प्राप्य निष्क्रमणस्त्रानमारूह्य विमलप्रभाम् । शिबिकां देवसंवाह्यां त्यक्ताहारो दिनद्वयम् ॥47॥
मनोहरमहोद्याने फाल्गुनैकादशीदिने । कृष्णपक्षे सहस्त्रेण पूर्वाह्ने भूभुजां समम् ॥48॥
श्रवणे संयमं प्राप्य चतुर्थावगमेन स: । दिने द्वितीये सिद्धार्थनगरं भुक्तयेऽविशत् ॥49॥
तस्मै हेमद्युतिर्नन्दभूपतिर्भक्तिपूर्वकम् । दत्त्वाऽन्नं प्राप्य सत्पुण्यं पंचाश्चर्यायजर्यधी: ॥50॥
द्विसंवत्सरमानेन छाद्मस्थ्ये गतवत्यसौ । मुनिर्मनोहरोद्याने तुम्बुरद्रुमसंश्रय: ॥51॥
दिनद्वयोपवासेन माघे मास्यपराह्नग: । श्रवणे कृष्णपक्षान्ते कैवल्यमुदपादयत् ॥52॥
तदा चतुर्थकल्याणपूजां देवाश्चतुविंधा: । तस्य निर्वर्तयामासुविंविधद्धिंसमन्विता: ॥53॥
सप्तसप्ततिकुन्थ्वादिगणभृद्वृन्दवेष्टित: । शून्यद्वयानलैकोक्तसर्वपूर्वधरान्वित: ॥54॥
खद्वयद्वयष्टवार्ध्युक्तशिक्षकोत्तमपूजित: । शून्यत्रितयषट्प्रोक्ततृतीयज्ञानमानित: ॥55॥
शून्यद्वयेन्द्रियर्तूक्तपंचमज्ञानभास्कर: । शून्यत्रिकैकैकाख्येयविक्रियद्धिंविभूषित: ॥56॥
षट्सहस्त्रप्रमाप्रोक्तमन:पर्ययवीक्षण: । शून्यत्रितयपंचोक्तवादिमुख्यसमाश्रित: ॥57॥
शून्यत्रययुगाष्टोक्तपिण्डिताखिललक्षित: । खचतुष्टयपक्षैकधारणाद्यार्यिकाचिंत: ॥58॥
द्विलक्षोपासकोपेतो द्विगुणश्राविकाचिंत: । पूर्वोक्तदेवतिर्यक्को विहरन् धर्ममादिशन् ॥59॥
सम्मेदगिरिमासाद्य निष्क्रियो मासमास्थित: । सहस्त्रमुनिभि: सार्द्ध प्रतिमायोगधारक: ॥60॥
पौर्णमास्यां धनिष्ठायां दिनान्ते श्रावणे सताम् । असङ्ख्यातगुणश्रेण्या निर्जरां व्यदधन् मुहु: ॥61॥
विध्वस्य विश्वकर्माणि ध्यानाभ्यां स्थानपंचके । पंचमीं गतिमध्यास्य सिद्ध: श्रेयान् सुनिवृत: ॥62॥
विफलानिमिषत्वा स्मो विनास्मादिति वा सुरा: । कृतनिर्वाणकल्याणास्तदैव त्रिदिवं ययु: ॥63॥
वसन्ततिलकावृत्तम्
निर्धूय यस्य निजजन्मनि सत्समस्त-
मान्ध्यं चराचरमशेषमवेक्षमाणम् ।
ज्ञानं प्रतीपविरहान्निजरूपसंस्थं
श्रेयान् जिन: स दिशतादशिवच्युतिं व: ॥64॥
शार्दूलविक्रीडितम्
सत्यं सार्वदयामयं तव वच: सर्वं सुह्णद्भयो हितं
चारित्रं च विभोस्तदेतदुभयं ब्रूते विशुद्धिं पराम् ।
तस्माद्देव समाश्रयन्ति विबुधास्त्वामेव शक्रादयो
भक्त्येति स्तुतिगोचरो स विदुषां श्रेयान् स व: श्रेयसे ॥65॥
राजाभून्नलिनप्रभ: प्रभुतम: प्रध्वस्तपापप्रभ:
कल्पान्ते सकलामराधिपपति: संकल्पसौख्याकर: ।
यस्तीर्थाधिपतिस्त्रिलोकमहित: श्रीमान् श्रियै श्रायसं
स्याद्वादं प्रतिपाद्य सिद्धिमगमत् श्रेयान् जिन: सोऽस्तु व: ॥66॥
जिनसेनानुगायास्मै पुराणकवये नम: । गुणभद्रभदन्ताय लोकसेनाचिंताङ्घ्रये ॥67॥
तीर्थेऽस्मिन् केशव: श्रीमानभूदाद्य समुद्यमी । भरतश्चक्रिणां वासौ त्रिखण्डपरिपालिनाम् ॥68॥
आतृतीयभवात्तस्य चरितं प्रणिगद्यते । उदितास्तगभूपानामुदाहरणमित्यद: ॥69॥
द्वीपेऽस्मिन् भारते क्षेत्रे विषयो मगधाह्नय: । पुरं राजगृहं तस्मिन् पुरन्दरपुरोत्तमम् ॥70॥
स्वर्गादेत्यात्र भूष्णूनां राज्ञां यद्गृहमेव तत् । भोगोपभोगसम्पत्त्या नाम तस्यार्थवत्तत: ॥71॥
विश्वभूति: पतिस्तस्य जैनी देव्यनयोस्सुत: । विश्वनन्दनशीलत्वाद्विश्वनन्दीति विश्रुत: ॥72॥
विश्वभूतिविंशाखादिभूतिर्जातोऽनुज: प्रिया । लक्ष्मणाख्यास्य नन्द्यन्तविशाखस्तनयोऽनयो: ॥73॥
विश्वभूतिस्तप: प्रायात् कृत्वा राज्ये निजानुजम् । प्रजा: प्रपालयत्यस्मिन्प्रणताखिलभूपतौ ॥74॥
नानावीरूल्लतावृक्षैविंराजन्नन्दनं वनम् । यद्विश्वनन्दिनस्तत्र प्राणेभ्योऽपि प्रियं परम् ॥75॥
विशाखभूतिपुत्रेण निर्भत्स्र्य वनपालकान् । स्वीकृतं तद्वलात्तेन तेनासीत्संयुगस्तयो: ॥76॥विशाखभूतिके पुत्रने वनवालोंको डाँट कर जबर्दस्ती वह वन ले लिया जिससे उन दोनों –
संग्रामासहनात्तत्र दृष्ट्वा तस्य पलायनम् । विश्वनन्दी विरक्त: सन् धिग्मोहमिति चिन्तयन् ॥77॥
त्यक्त्वा सर्वं समागत्य सम्भूतगुरूसन्निधौ । पितृव्यमग्रणीकृत्य संयमं प्रत्यपद्यत ॥78॥
स शीलगुणसम्पन्न: कुर्वन्ननशनं तप: । विहरन्नेकदा भोक्तुं प्राविशन् मथुरापुरम् ॥79॥
स बालवत्सया धेन्वा क्रुधा प्रतिहतोऽपतत् । दौष्टयान्निर्वासितो देशान् भ्राम्यंस्तत्रागतो विधी: ॥80॥
विशाखनन्दी तं दृष्ट्वा वेश्यासौधतले स्थित: । व्यहसद्विक्रमस्तेऽद्य क यात: स इति क्रुधा ॥81॥
सशल्य: सोऽपि तच्छ्रत्वा सनिदानोऽसुसङ्क्षये । महाशुक्रेऽभवद्देवो यत्रासीदनुज: पितु: ॥82॥
षोडशाब्ध्यायुषा दिव्यभोगान् देव्यप्सरोगणै: । ईप्सिताननुभूयासौ तत: प्रच्युत्य भूतले ॥83॥
द्वीपेऽस्मिन् भारते क्षेत्रे सुरम्यविषये पुरे । प्रजापतिर्महाराज: पोदनाख्येऽभवत्पति: ॥84॥
प्राणप्रिया महादेवी तस्याजनि मृगावती । तस्यां सुस्वप्नवीक्षान्ते त्रिपृष्ठाख्य: सुतोऽभवत् ॥85॥
पितृव्योऽपि च्युतस्तस्मात्तोको ऽभूत्तन्महीपते: । जयावत्यां पुरे चैत्य विक्रमी विजयाह्नय: ॥86॥
भ्रमन् विशाखनन्दी च चिरं संसारचक्रके । विजयार्द्धोत्तरश्रेण्यामलकाख्यपुरेशिन: ॥87॥
मयूरग्रीवसंज्ञस्य स्वपुण्यपरिपाकत: । हयग्रीवाह्नय: सूनुरजायत जितारिराट् ॥88॥और विशाखनन्दी चिरकाल तक संसार - चक्रमें भ्रमण करता हुआ विजयार्ध पर्वत की उत्तर श्रेणी
की अलका नगरी के स्वामी मयूरग्रीव राजा के अपने पुण्योदय से शत्रु राजाओं को जीतनेवाला
अशीतिचापदेहै: तावादिमौ रामकेशवौ । पंचशून्ययुगाष्टाब्दनिर्भंगपरमायुषौ ॥89॥
शंखेन्द्रनीलसंकाशौ हत्वाऽश्वग्रीवमुद्धतम् । त्रिखण्डमण्डितायास्ताविहाभूतां पती क्षिते: ॥90॥
द्विगुणाष्टसहस्त्राणां मुकुटांकमहीभुजाम् । खगव्यन्तरदेवानामाधिपत्यं समीयतु: ॥91॥
त्रिपृष्ठस्य धनु:शंखचक्रदण्डासिशक्तय: । गदा च सप्तरत्नानि रक्षितान्यभवत्सुरै: ॥92॥
रामस्यापि गदा रत्नमाला समुशलं हलम् । श्रद्धानज्ञानचारित्रतपांसीवाभवंन्छ्रिये ॥93॥
देव्य: स्वयम्प्रभामुख्या मुकुटेशप्रभा बभु: । केशवस्य तदर्द्धास्ता रामस्यापि मन:प्रिया: ॥94॥
स संरम्य चिरं ताभिर्बह्नरम्भपरिग्रह: । सप्तमीं पृथिवीं प्राप केशवश्चाश्वकन्धर: ॥95॥
सीरपाणिश्च तद्दु:खात्तदैवादाय सयमम् । सुवर्णकुम्भयोगीन्द्रादभूदगृहकेवली ॥96॥
शार्दूलविक्रीडितम्
कृत्वा राज्यममू सहैव सुचिरं भुक्त्वा सुखं तादृशं
पृथ्वीमूलमगात्किलाखिलमहादु:खालयं केशव: ।
रामो धाम परं सुखस्य जगतां मूर्द्धानमध्यास्त धिक्
दुष्टं क: सुखभाग्विलोमगविधिं यावन्न हन्यादमुम् ॥97॥
उपजातिच्छन्द:
प्राग्विश्वनन्दीति विशामधीशस्ततो महाशुक्रमधिष्ठितोऽमर: ।
पुनस्त्रिपृष्टो भरतार्द्धचक्री चिताघक: सप्तमभूमिमाश्रयत् ॥98॥
वंशस्थवृत्तम्
विशाखभूतिर्धरणीपतिर्यमी मरून्महाशुक्रगतस्ततश्च्युत: ।
हलायुधोऽसौ विजयाह्नय: क्षयं भवं स नीत्वा परमात्मतामित: ॥99॥
विशाखनन्दी विहतप्रतापो व्यसु: परिभ्रम्य भवे चिरं तत: ।
खगाधिनाथो हयकन्धराह्नयो रिपुस्त्रिपृष्ठस्य ययावधोगतिम् ॥100॥
🏠
पर्व - 58
वासोरिन्द्रस्य पूज्योऽयं वसुपूज्यस्य वा सुत: । वासुपूज्य: सतां पूज्य: स ज्ञानेन पुनातु न: ॥1॥
पुष्करार्द्धेन्द्रदिग्मेरूसीतापाग्वत्सकावती- । विषये ख्यातरत्नादिपुरे पद्मोत्तर: पति: ॥2॥
कीर्तिर्गुणमयी वाचि मूर्ति: पुण्यमयीक्षणे । वृत्तिर्धमयी चित्ते सर्वेषामस्य भूभुज: ॥3॥
साम वाचि दया चित्ते धाम देहे नयो मतौ । धनं दाने जिने भक्ति: प्रतापस्तस्य शत्रुषु ॥4॥
पाति तस्मिन् भुवं भूपे न्यायमार्गानुवतिंनि । वृद्धिमेव प्रजा: प्रापुर्मुनौ समितयो यथा ॥5॥
गुणास्तस्य धनं लक्ष्मीस्तदीयापि गुणप्रिया । तया सह ततो दीर्घं निर्द्वन्द्वं मुखमाप्नुवन् ॥6॥
स कदाचित् समासीनं मनोहरगिरौ जिनम् । युगन्धराह्नयं स्तोत्रैरूपास्य खलु भक्तिमान् ॥7॥
श्रुत्वा सप्रश्रयो धर्ममनुप्रेक्षानुचिन्तनात् । जातत्रिभेदनिर्वेग: पुनश्चेत्यप्यचिन्तयत् ॥8॥
श्रियो माया सुखं दु:खं विश्रसावधि जीवितम् । संयोगो विप्रयोगान्त: कायोऽयं सामय: खल: ॥9॥
कात्र प्रीतिरहं जन्मपंचावर्तान्महाभयात् । निर्गच्छाम्यवलम्ब्यैतां काललब्धिमुपस्थितान् ॥10॥
ततो राज्यभरं पुत्रे धनमित्रे नियोज्य स: । महीशैर्बहुभि: सार्द्धमदीक्षिष्टात्मशुद्धये ॥11॥ ऐसा विचार कर उसने राज्य का भार धनमित्र नामक पुत्र के लिए सौंपा और स्वयं आत्म - शुद्धि
अधीत्यैकादशांगानि श्रद्धानाद्याप्तसम्पदा । बद्ध्वा तीर्थकरं नाम प्रान्ते संन्यस्य शुद्धधी: ॥12॥
महाशुक्रविमानेऽभून्महाशुक्रोऽमराधिप: । षोडशाब्धिप्रमाणायुश्चतुर्हस्तशरीरभाक् ॥13॥
पद्मलेश्य: श्वसन्मासैरष्टभिस्तुष्टमानस: । षोडशाब्दसहस्त्रान्ते मानसाहारमाहरन् ॥14॥
सदा शब्दप्रवीचारश्चतुर्थक्ष्मागतावधि: । प्रमावधिरिवैतस्य विक्रियाबलतेजसाम् ॥15॥
तत्रामरीकलालापगीतवाद्यादिमोदिते । चोदिते कालपर्यायैस्तस्मिन्नत्रागमिष्यति ॥16॥
द्वीपेऽस्मिन् भारते चम्पानगरेंऽगनराधिप: । इक्ष्वाकु: काश्यप: ख्यातो वसुपूज्योऽस्य भामिनी ॥17॥
प्रिया जयावती प्राप्तवसुधारादिमानना । आषाढ़कृष्णषष्ठयन्ते चतुर्विशर्क्षलक्षिते ॥18॥
दृष्ट्वा स्वप्नान् फलं तेषां पत्युर्ज्ञात्वाऽतितोषिणी । अष्टौ मासान् क्रमान्नीत्वा प्राप्तफाल्गुनमासिका ॥19॥
कृष्णायां वारूणे योगे चतुर्दश्यां सुरोत्तमम् । सर्वप्राणिहितं पुत्रं सुखेनेयमजीजनत् ॥20॥
सुरा: सौधर्ममुख्यास्तं सुराद्रौ क्षीरसागरात् । घटैरानीय पानीयं स्त्रपयित्वा प्रसाधनम् ॥21॥
विधाय वासुपूज्यं च नामादाय पुनर्गृहम् । नीत्वा वासान् स्वकीयाँस्ते जग्मुर्जातमहोत्सवा: ॥22॥सौधर्म आदि देवों ने उसे सुमेरू पर्वत पर ले जाकर घड़ों द्वारा क्षीरसागरसे आये हुए जलके द्वारा
उसका जन्माभिषेक किया, आभूषण पहिनाये, वासुपूज्य नाम रक्खा, घर वापिस लाये और अनेक
श्रेयस्तीर्थान्तरे पंचाशंचतु:सागरोपमे । प्रान्तपल्यत्रिभागेऽस्मिन् व्युच्छित्तौ धर्मसन्तते: ॥23॥
तदभ्यन्तरवर्त्यायु: सोऽभवच्चापसप्तति: । पंचशून्यद्विसप्ताब्दजीवित: कुंकुमच्छवि: ॥24॥
इष्टाष्टादशधान्यानां बीजानां वृद्धिकारणम् । भेकलेह्यमिव क्षेत्रं गुणानाभेष भूपति: ॥25॥
धियमस्य गुणा: प्राप्य सर्वे सत्फलदायिन: । समां वृष्टिरिवाभीष्टां सस्यभेदा जगद्धिता: ॥26॥
त्रय: साप्ताहिका मेघा अशीति: कणशीकरा: । षष्टिरातपमेघानामेघवृष्टि: समा मता ॥27॥
अगुर्गुणा गुणीभावमन्येष्वस्मिस्तु मुख्यताम् । आश्रय: कस्य वैशिष्टयं विशिष्टो न प्रकल्पते ॥28॥
गुणी गुणमयस्तस्य नाशस्तन्नाश इष्यते । इति बुद्ध्वा सुधी: सर्वान् गुणान् सम्यगपालयत् ॥29॥
अष्टादशसमा: लक्षा: कौमारे प्राप्य संसृते: । निर्विद्यात्मगतं धीमान याथात्म्यं समचिन्तयत् ॥30॥
विर्धीविषयसंसक्तो बघ्नन्नात्मानमात्मना । बन्धैश्चतुर्विधैर्दु:खं भुंजानश्च चतुर्विधम् ॥31॥
अनादौ जन्मकान्तारे भ्रान्त्वा कालादिलब्धित: । सन्मार्ग प्राप्तवाँस्तेन प्रगुणं यामि सद्रतिम् ॥32॥
अस्तु काय: शुचि: स्थास्नु: प्रेक्षणीयो निरामय: । आयुश्चिरमनाबाधं सुखं सन्ततसाधनम् ॥33॥
किन्तु ध्रुवो वियोगोऽत्र रागात्मकमिदं सुखम् । रागी बध्राति कर्माणि बन्ध: संसारकारणम् ॥34॥
चतुर्गतिमय: सोऽपि ताश्च दु:खसुखावहा: । तत: किममुनेत्येतत्त्याज्यमेव विचक्षणै: ॥35॥
इति चिन्तयतस्तस्य स्तवो लौकान्तिकै: कृत: । सुरा निष्क्रमणस्नानभूषणाद्युत्सवं व्यधु: ॥36॥इधर भगवान् ऐसा चिन्तवन कर रहे थे उधर लौकान्तिक देवों ने आकर उनकी स्तुति करना
प्रारम्भ कर दी । देवों ने दीक्षा - कल्याणकके समय होनेवाला अभिषेक किया, आभूषण पहिनाये
शिबिकां देवसंरूढामारूह्य पृथिवीपति: । वने मनोहरोद्याने चतुर्थोपोषितं वहन् ॥37॥
विशाखर्क्षे चतुर्दश्यां सायाह्ने कृष्णफाल्गुने । सामायिकं समादाय तुर्यज्ञानोऽप्यभूदनु ॥38॥
सह तेन महीपाला: षट्सप्ततिमिताहिता: । प्रव्रज्यां प्रत्यपद्यन्त परमार्थविदो मुदा ॥39॥
द्वितीये दिवसेऽविक्षन् महानगरमन्धसे । सुन्दराख्यो नृपस्तस्मै सुवर्णाभोऽदिताशनम् ॥40॥
आश्चर्यपंचकं चापि तेन छाद्मस्थ्यवत्सरे । गते श्रीवासुपूज्येश: स्वदीक्षावनमागत: ॥41॥
कदम्बवृक्षमूलस्थ: सोपवासोऽपराह्नके । माघज्योत्स्त्राद्वितीयायां विशाखर्क्षेऽभवज्जिन: ॥42॥
सौधर्ममुख्यदेवेन्द्रास्तदैवेनमपूजयन् । तत्कल्याणं न विस्तार्य नाम्नोऽन्त्यस्योदये यत: ॥43॥
षट्षष्टिमितधर्मादिगणभृद्वृन्दवन्दित: । खद्वयद्वयेकविज्ञातपूर्वपूर्वधरावृत: ॥44॥
खद्वयद्विनवाग्न्युक्तशिक्षकाभिष्टुतक्रम: । शून्यद्वयचतु:पंचप्रोक्तावधिबुधश्रित: ॥45॥
शून्यत्रिकर्तुविख्यातश्रुतकेवलवीक्षण: । खचतुष्कैकनिर्णीतविक्रियद्धिंविभूषित: ॥46॥
षट्सहस्त्रचतुर्ज्ञानमानितक्रमपंकज: । खद्वयद्विचतु:प्रोक्तवादिसाधितमच्च्छूति: ॥47॥
शून्यत्रयद्विसप्तोक्तपिण्डिताखिलमण्डित: । शून्यत्रयर्तुशून्यैकसेनार्याद्यार्यिकादिधृत् ॥48॥
द्विलक्षश्रावकोपेत: श्राविकातुर्यलक्षक: । पूर्वोक्तदेवदेवीडय स्तिर्यक्सङ्ख्यातसंस्तुत: ॥49॥
स तै: सह विह्णत्याखिलार्यक्षेत्राणि तर्पयन् । धर्मवृष्ट्या क्रमात्प्राप्य चम्पामब्दसहस्त्रकम् ॥50॥
स्थित्वाऽत्र निष्क्रियं मासं नद्या राजतमालिका- । संज्ञायाश्चित्तहारिण्या: पर्यन्तावनिवतिंनि ॥51॥
अग्रमन्दरशैलस्य सानुस्थानविभूषणे । वने मनोहरोद्याने पल्यंकासनमाश्रित: ॥52॥
मासे भाद्रपदे ज्योत्स्त्राचतुर्दश्यापराह्नके । विशाखायां ययौ मुक्तिं चतुर्णवतिसंयतै: ॥53॥
परिनिर्वाणकल्याणपूजाप्रान्ते महोत्सवै: । अवन्दिषत ते देवं देवा: सेवाविचक्षणा: ॥54॥
विजिगीषोर्गुणै: षड्भि: सिद्धिश्चेत्सुप्रयोजितै: । मुमुक्षो: किं न सामीभि: लक्षाचतुरशीतिगै: ॥55॥
मालिनी
सदसदुभयमेतेनैकशब्देन वाच्ये
त्रितयमपि पृथक्तत्तुर्यभंगेन युज्यात् ।
इति सकलपदार्थासप्तभंगी त्वयोक्ता
कथमवितथवाक्त्वं वासुपूज्यो न पूज्य: ॥56॥
वसन्ततिलका
धर्मो दया कथमसौ सपरिग्रहस्य
वृष्टिर्धरातलहिता किमवग्रहेऽस्ति ।
तस्मात्वया द्वयपरिग्रहमुक्तिरूक्ता
तद्वासनासुमहितो जिन वासुपूज्य: ॥57॥ धर्म दया रूप है, परन्तु वह दयारूप धर्म परिग्रह सहित पुरूषके कैसे हो सकता है ॽ वर्षा
पद्मोत्तर: प्रथमजन्मनि पार्थिवेश:
शुक्रे महत्यमरषट्पदपद्मपाद: ।
यो वासुपूज्ययुवराट् त्रिजगत्प्रपूज्य:
राज्ये जिन: स दिशतादतुलं सुखं व: ॥58॥
अनुष्टुप्
तीर्थे श्रीवासुपूज्यस्य द्विपृष्ठो नाम भूपति: । त्रिखण्डाधिपतिर्जातो द्वितीय: सोऽर्द्धचक्रिणाम् ॥59॥
वृत्तकं तस्य वक्ष्यामो जन्मत्रयसमाश्रितम् । श्रुतेन येन भव्यानां भवेद् भूयो भवाद्भयम् ॥60॥
द्वीपेऽस्मिन् भारते वर्षे कनकादिपुराधिप: । सुषेणो नाम तस्यासीन्नर्तकी गुणमंजरी ॥61॥
रूपिणी सुभगानृत्यगीतवाद्यादिविश्रुता । सरस्वती द्वितीयेव सर्वभूपाभिवाच्छिता ॥62॥
अस्ति तत्रैव देशोऽन्यो मलयाख्यो मनोहर: । विन्ध्यशक्ति: पतिस्तस्त नृपो विन्ध्यपुरे वसन् ॥63॥
स रक्तो गुणमंजर्या: प्रेक्षायामिव षट्पद: । चूतप्रसवमंजर्या माधुर्यरसरंजित: ॥64॥
रत्नाद्युपायनोपेतं मितार्थ चितहारिणम् । सुषेणं प्रतिसम्मान्य प्राहिणोन्नर्तकीप्सया ॥65॥
दूतोऽपि सत्वरं गत्वा स सुषेणमहीपतिम् । दृष्ट्वा यथोचितं तस्मै दत्त्वोपायनमब्रवीत् ॥66॥
युष्मद्गृहे महारत्नं नर्तकी किल विश्रुता । विन्ध्यशक्तिर्भवद्बन्धुस्तं द्रष्टुमभिलाषुक: ॥67॥
तत्प्रयोजनमुद्दिश्य प्रहितोऽहं महीपते । त्वयापि सा प्रहेतव्या प्रत्यानीय समर्पये ॥68॥
इत्यतस्तद्वच: श्रुत्वा सुतरां कोपवेपिना । याहि याहि किमश्रव्यैर्वचोभिर्दर्पशालिभि: ॥69॥
इति निर्भत्सिंसतो भूय: सुषेणेन दुरूक्तिभि: । दूत: प्रत्येत्य तत्सव विन्ध्यशक्तिं व्यजिज्ञपत् ॥70॥
सोऽपि कोपग्रहाविष्टस्तद्वच:श्रवणाद् भृशम् । अस्तु को दोष इत्यात्मगतमालोच्य मन्त्रिभि: ॥71॥
शूरो लघुसमुत्थान: कृटयुद्धविशारद: । अवस्कन्देन सम्प्राप्य सारसांग्रामिकाग्रणी: ॥72॥
विधाय संगरे भंग तत्कीतिंमिव नर्तकीम् । तामाहरद् गते पुण्ये कस्य किें कोऽत्र नाहरत् ॥73॥
दन्तभंगो गजेन्द्रस्य दंष्ट्रभंगो गजद्विष: । मानभंगो महीभर्तुर्महिमानमपह्लुते ॥74॥
स तेन मानभंगेन स्वगृहाद्भग्नमानस: । पृष्ठभंगेन नागो वा न प्रतस्थे पदात्पदम् ॥75॥
स कदाचित्सनिर्वेद: सुव्रताख्यजिनाधिपात् । अनगारात्परिज्ञातधर्मान्निर्मलचेतसा ॥76॥
स कोऽपि पापपाको मे येन तेनाप्यहं जित: । इति संचित्य पापारिं निहन्तुं मतिमातनोत् ॥77॥
तपस्तनूनपात्तापतनूकृततसनुश्चिरम् । सारिकोप: स संन्यस्य सनिदान: सुरोऽमवत् ॥78॥
विमानेऽनुपमे नाम्ना कल्पे प्राणतनामनि । विंशत्यब्ध्युपमायु: सन् स्वष्टर्द्धिकृतसम्मद: ॥79॥
अत्रैव भारते श्रीमान् महापुरमधिष्ठित: । नृपो वायुरथो नाम भुक्त्वा राज्यश्रियं चिरम् ॥80॥
श्रुत्वा सुव्रतनामार्हत्पार्श्वे धर्म स तत्त्ववित् । सुतं घनरथं राज्ये स्थापयित्वाऽगमत्तप: ॥81॥
अधीत्य सर्वशास्त्राणि विधाय परमं तप: । तत्रैवेन्द्रोऽभवत्कल्पे विमानेऽनुत्तराह्नये ॥82॥
ततोऽवतीर्य वर्षेऽस्मिन् पुरीद्वारावतीपते: । ब्रह्माख्यस्याचलस्तोक: सुभद्रायामभूद्विभु: ॥83॥
तस्यैवासौ सुषेणाख्योऽप्युषायामात्मजोऽजनि । द्विपृष्ठाख्यस्तनुस्तस्य चापसप्ततिसम्मिता ॥84॥
द्वासप्ततिसमालक्षा: परमायुनिंरन्तरम् । राजभोगानभुक्तोच्चैरिक्ष्वाकूणां कुलाग्रणी: ॥85॥
कुन्देन्द्रनीलसंकाशावभातां बलकेशवौ । संगमेन प्रवाहो वा गंगायमुनयोरमू ॥86॥
अविभक्तां महीमेतावभुक्तां पुण्यनायकौ । सरस्वतीं गुरूद्दिष्टां समानश्राविकाविव ॥87॥
अविवेकस्तयोरासीदधीताशेषशास्त्रयो: । अपि श्रीकामिनीयोगे स एव किल शस्यते ॥88॥
स्थिरावत्युन्नतौ शुक्लनीलौ भात: स्म भूभृतौ । कैलासांजनसंज्ञौ वा संगतौ तौ मनोहरौ ॥89॥
इत: स विन्ध्यशक्त्याख्यो घटीयन्त्रसमाश्चिरम् । म्रान्त्वा संसारवाराशावणीय: पुण्यसाधन: ॥90॥
इहैव श्रीधराख्यस्य भोगवर्द्धनपू:पते । अभूदखिलविख्यातस्तनूजस्तारकाख्यया ॥91॥
बभार भास्वरां लक्ष्मीं भरतार्द्धे निवासिनीम् । स्वचक्राक्रान्तिसन्त्रासदासीभूत भूचर: ॥92॥
आस्तामन्यत्र तर्द्भ त्या मन्दमन्दप्रभे रवौ । मन्ये विकस्वरा पद्मा पद्मेष्वपि न जातुचित् ॥93॥
पुराणभूपमार्गस्य सोऽभवत्पारिपन्थिक: । सिंहिकानन्दनो वोग्र: पूर्णमास्यमृतद्युते: ॥94॥
गलन्ति गर्भास्तन्नाम्रा गभिंणीनां भयोद्भवात् । घनाघनावलीनां वा क्रूरग्रहविकारत: ॥95॥
अन्विष्य प्रतियोद्धारमलब्ध्वा क्रुद्धमानस: । स्वप्रतापाग्निधूमेन दूषितो वा मषीनिभ: ॥96॥स्याहीके समान श्याम वर्णवाला वह तारक सदा शत्रुओं को ढूँढ़ता रहता था और जब किसी शत्रु को
नहीं पाता था तब ऐसा जान पड़ता था मानो अपने प्रतापरूपी अग्निके धुएँसे ही काला पड़ गया
संतप्तसर्वमूर्धन्य: घर्मघर्माशुदुस्सह: । स पाताभिमुख: किं स्यु: स्थावरास्तादृशा: श्रिय: ॥97॥
अखण्डस्य त्रिखण्डस्याधिपत्यं समुद्वहन् । जन्मान्तरागतात्युग्रविरोधाराध्यचोदित: ॥98॥
द्विपृष्टाचलयोर्वृद्धिं प्ररूढां सोढुमक्षम: । करदीकृतनि:शेषमहीपालकृषीबल: ॥99॥
ब्रह्मवत्करदौ नैतौ दुर्मदेनापि दपिंतौ । दुष्टमाशीविषं गेहे वर्द्धमानं सहेत क: ॥100॥
उच्छेद्यकोटिमारूढौ ममेमौ येन केनचित् । सन्दूष्याहं हनिष्यामि निजप्रकृतिदूषितौ ॥101॥
इत्यपायं विचिन्त्यैकं दुर्वाक्यं कलहप्रियम् । ग्राहिणोत्सोऽपि तौ प्राप्य सहसैवाह दुर्मुख: ॥102॥
इत्यादिशति वां देवस्तारको मारको द्विषाम् । युष्मद्गृहे किलैकोऽस्ति ख्यातोगन्धगजो महान् ॥103॥
आश्वसौ मे प्रहेतव्यो नो चेद्युष्मच्छिरोद्वयम् । खण्डीकृत्याहरिष्यामि गजं मज्जयसेनया ॥104॥
इत्यसभ्यमसोढव्यं तेनोक्तं कलहाथिंना । श्रुत्वाऽचलोऽचलो वोच्चैर्धीरोदात्तोऽब्रवीदिदम् ॥105॥
गजो नाम कियान् शीघ्रमेत्वसावेव सेनया । तस्मै ददामहेऽन्यंच्च येनासौ स्वास्थ्यमाप्नुयात् ॥106॥
इत्यादि तेन गम्भीरमम्युद्य स बिसजिंत: । पवमान इव प्राप्य तत्कोपाग्निमदीपयत् ॥107॥इस प्रकार गम्भीर वचन कह कर अचल बलभद्रने उस दूतको विदा कर दिया और उसने भी
तच्छूत्वा सोऽपि कोपाग्निप्रदीप्त: पावकप्रभ: । तौ पतंगायितावित्थं मत्क्रोधाग्नेरवोचताम् ॥108॥
इत्यनालोच्य कार्यांग संगत: सचिवै: समम् । स्वयमभ्युत्थितं मत्वा प्रस्थित: प्राप्तुमन्तकम् ॥109॥
दुर्णयाभिमुखो मूर्खश्चालयित्वाऽखिलामिलाम् । षडंगेन बलेनासौ प्राप्य तावुदयोन्मुखौ ॥110॥
समुल्लंघितमर्याद: कालान्तजलधिं जयन् । अरूणद्दारूणस्तूर्णं पुरं स्वबलवेलया ॥111॥
बालवद्धेलया वेलां तत्सेनां निजसेनया । न्यरौत्सीज्जलनि:सारामचलोऽप्यचलस्थिति: ॥112॥
द्विपृष्ठो मत्तमातंग सिंहपोत इवोद्धत: । पराक्रमैकसाहाय्यादाक्रमद् बलिनं द्विषम् ॥113॥
तारकोऽपि चिरं युद्ध्वा तं निराकर्तुमक्षम: । भ्रामयित्वाऽक्षिपंचाक्रं यमचक्रमिवात्मन: ॥114॥
तत्परीत्य स्थितं बाहौ दक्षिणे दयितश्रिय: । तस्यासौ तेन चक्रेण नरकं तमजीगमत् ॥115॥
द्विपृष्ठ: सप्तसद्रत्नस्त्रिखण्डेशस्तदाभवत् । अचलो बलदेवोऽभूत्प्राप्तरत्नचतुष्टय: ॥116॥
कृत्वा दिग्विजयं जित्वा प्रतीपाख्यातभूभृत: । नत्वा श्रीवासुपूज्येशं प्रविश्य पुरमात्मन: ॥117॥
चिरं त्रिखण्डसाम्राज्यं विधाय विविधै: सुखै: । द्विपृष्ठ: कालनिष्ठायामवधिष्ठानमाश्रित: ॥118॥
अचलोऽपि तदुद्वेगाद्वासुपूज्यजिनाश्रयात् । सम्प्राप्य संयमं मोक्षलक्ष्म्या संगममीयिवान् ॥119॥भाईके वियोगसे अचलको बहुत शोक हुआ जिससे उसने श्रीवासुपूज्य स्वामी का आश्रय लेकर
वसन्ततिलका
पुण्यैकबीजमवलम्ब्य महीमिवाप्य लब्धोदयौ सममुपार्जितसत्स्वरूपौ ।
एकोऽगमत् फलितुमड्.कुरवत् किलोद्र्ध्व पापी परो विफलमूलसमस्त्वधस्तात् ॥120॥उन दोनों भाइयोंने किसी पुण्यका बीज पाकर तीन खण्ड की पृथिवी पाई, अनेक विभूतियाँ पाईं
मालिनी
इदमिति विधिपाकाद् वृत्तमस्मिन् द्विपृष्ठे
परिणतमचले च प्रत्यहं चिन्तयित्वा ।
विपुलमतिभिरार्यै: कार्यमुत्सृज्य पापं
सकलसुखनिधानं पुण्यमेव प्रतीपम् ॥121॥
पृथ्वी
पुरेऽत्र कनकादिके प्रथितवान् सुषेणो नृप:
ततोऽनु तपसि स्थितोऽजनि चतुर्दशस्वर्गभाक् ।
त्रिखण्डपरिपालकोऽभवदतो द्विपृष्ठाख्यया
परिग्रहमहाभरादुपगत: क्षितिं सप्तमीम् ॥122॥
वंशस्थवृत्तम्
महापुरे वायुरथो महीपति: प्रपद्य चारित्रमनुत्तरं ययौ ।
ततो बलो द्वारवतीपुरेऽचलस्त्रिलोकपूज्यत्वमवाप्य निर्वृत: ॥123॥
वसन्ततिलका
विख्यातविन्ध्यनगरेऽजनि विन्ध्यशक्ति-
र्भ्रान्त्वा चिरं भववने चितपुण्यलेश: ।
श्रीभोगवर्द्धनपुराधिपतारकाख्य:
प्राप द्विपृष्ठरिपुरन्त्यमहीं महांहा: ॥124॥
🏠
पर्व - 59
विमलेऽब्दसमे बोधे दृश्यते विमलं जगत् । विमलं यस्य मे सोऽद्य विमलं विमल: क्रियात् ॥1॥
प्रतीचि धातकीखण्डे देवाद्रयपरभागभाक् । नदीदक्षिणकूलस्थो विषयो रम्यकावती ॥2॥
पद्मसेनो महीशोऽत्र महानगरमास्थित: । प्रजाभ्य इव कल्पाग: समीप्सितफलप्रद: ॥3॥
तन्त्रावापविभागोक्तनीतिशास्त्रार्थनिश्चये । उदाहरणमित्याहुस्तद्वृत्तं शास्त्रवेदिन: ॥4॥
अर्जनानुभवावर्थे प्रजानामात्मवृत्तिभि: । व्यापारो रक्षके तस्मिन् महीशे मदिंतद्विषि ॥5॥
नाक्रामति प्रजा न्यायं तां नाक्रमति भूपति: । तं त्रिवर्गं त्रिवर्गस्य नान्योन्यातिक्रम: कचित् ॥6॥
प्रीतिंकरवने सर्वगुप्तकेवलसन्निधौ । धर्मतत्त्वं परिज्ञाय स्वैष्यज्जन्मद्वयं च स: ॥7॥
तदैव तीर्थकृज्जात इव जातमहोत्सव: । पद्मनाभाय दत्वैश्यं प्रारब्ध परमं तप: ॥8॥
प्रतीतैकादशांगार्थो भावनाहिततीर्थकृत् । शेषपुण्यसमग्रोऽयमाराध्यान्ते चतुष्टयम् ॥9॥
सहस्त्रारविमानेशस्तन्नामेन्द्रोऽजनिष्ट स: । अष्टादशाब्धिमानायुरेकचापतनूच्छिूति: ॥10॥
जघन्यशुक्लद्वयभाग् नवमासेषु नि:श्वसन् । अष्टादशसहस्त्राब्दैराहारं मनसाऽऽहरन् ॥11॥
तृप्तो रूपप्रवीचारात् प्राक्चतुर्थधरावधि: । तावन्मात्रप्रकाशादिरणिमादिगुणोन्नत: ॥12॥
स स्नेहामृतसम्पृक्तमुखाम्बुरूहदर्शनात् । सन्तपिंतामरीचेता: सुचिरं सुखमन्वभूत् ॥13॥
सुरलोकादिमं लोकमिन्द्रेऽस्मिन्नागमिष्यति । क्षेत्रेऽत्र पुरि काम्पिल्ये पुरूदेवान्वयो नृप: ॥14॥
कृतवर्मा महादेवी जयश्यामाऽस्य विश्रुता । देवेन्द्रकृतपूजार्हा वसुधारादिवस्तुभि: ॥15॥
शुचौ कृष्णदशम्यन्तरजन्यामुत्तरादिमे । ऋक्षे भाद्रपदे दृष्ट्वा स्वप्नान् षोडश सत्फलान् ॥16॥
तदानीमेव हस्तीन्द्रं विशन्तं वक्त्रवारिजे । व्यलोकिष्ट फलान्येषामवबुध्य महीपते: ॥17॥
तत: स्वविष्टराकम्पान्निवेदिततदुत्सवै: । सुरै: स्वर्गात्समायातैराप कल्याणमादिमम् ॥18॥
वर्द्धमानेन गर्भेण तेनावर्द्धत सम्मद: । ह्णदये बन्धुवर्गस्य दुर्गतस्य धनेन वा ॥19॥
प्रमोदाय सुतस्येह सामान्यस्यापि सम्भव: । किमुच्यते पुन: सूते: प्रागानम्रसुरेशिन: ॥20॥
माघशुल्कचतुर्थ्या सा तमहिर्बुध्रयोगत: । त्रिबोधं त्रिजगन्नाथं प्रासूत विमलप्रभम् ॥21॥
जन्माभिषेककल्याणप्रान्ते विमलवाहनम् । तमाहुरमरा: सर्वे सर्वसंस्तुतिगोचरम् ॥22॥
वासुपूज्येशसन्ताने त्रिंशत्सागरसम्मिते । प्रान्तपल्योपमे धर्मध्वंसे तद्रतजीवित: ॥23॥ भगवान् वासुपूज्यके तीर्थके बाद जब तीस सागर वर्ष बीत गये और पल्यके अन्तिम भाग में धर्म
षष्टिलक्षमिताब्दायु: षष्टिचापतनुप्रम: । अष्टापदप्रभ: सोऽभूत् सर्वपुण्यसमुच्चय: ॥24॥
खपंचकेन्द्रियैकाब्दकौमारविरतौ कृती । राज्याभिषेकपूतात्मा पावनीकृतविष्टप: ॥25॥
लक्ष्मी: सहचरी तस्य कीर्तिर्जन्मान्तारागता । सरस्वती सहोत्पन्ना वीरलक्ष्म्या स्वयं वृत: ॥26॥
गुणा: सत्यादयस्तस्मिन् वर्द्धन्ते स्म यथा तथा । मुनीन्द्रैरपि सम्प्रार्थ्या वर्णना तेषु का परा ॥27॥
सुखस्य तस्य को वेत्ति प्रमां मुक्तिमुखस्य चेत् । अनन्तरनितान्तत्वादानन्त्यादतिशुद्धित: ॥28॥
देवदेवस्तदैवासावासीद् विश्वसुरेश्वरै: । अभ्यचिंतांहिरागन्त्री केवलं केवलात्मता ॥29॥
यश: प्रकाशयत्याशा: श्रीश: कुन्देन्दुनिर्मलम् । काशप्रसवनीकाशमाकाशं चाकरोदद: ॥30॥
त्रिंशच्छतसहस्त्राब्दराज्यकालावसानग: । भोगान् विभज्य भुंजानो भूय: षड्ऋतुसम्भवान् ॥31॥
हिमानीपटलच्छन्नदिग्भूभूरूहभूधरे । हेमन्ते हैमनीं लक्ष्मीं विलीनां वीक्ष्य तत्क्षणात् ॥32॥
विरक्त: संसृते: पूर्वनिजजन्मोपयोगवान् । रोगीव नितरां खिन्नो मानभंगविमर्शनात् ॥33॥
संज्ञानैस्त्रिभिरप्येभि: किं कृत्यमवधौ स्थिते । वीर्येण च किमेतेन यद्युत्कर्षमनाप्तवत् ॥34॥ वे सोचने लगे कि इन तीन सम्यग्ज्ञानोंसे क्या होने वाला है क्योंकि इन सभीकी सीमा है – इन
सभीका विषय क्षेत्र परिमि̷त है और इस वीर्यसे भी क्या लाभ है ॽ जो कि परमोत्कृष्ट अवस्था को प्राप्त
चारित्रस्य न गन्धोऽपि प्रत्याख्यानोदयो यत: । बन्धश्चतुविंधोऽप्यस्ति बहुमोहपरिग्रह: ॥35॥
प्रमादा: सन्ति सर्वेऽपि निर्जराप्यल्पिकेव सा । अहो मोहस्य माहात्म्यं माद्याम्यहमि̷हैव हि ॥36॥
साहसं पश्य भुंजेऽहं भोगान्भोगानिवौरगान् । पुण्यस्य कर्मण: पाकादेतन्मे सम्प्रवर्तते ॥37॥
तस्य यावन्न याम्यन्तमनन्तं तत्सुखं कुत: । इतीवचित्तो विमलो विमलावगमोद्रमात् ॥38॥
तदैवायातसारस्वतादिभि: कृतसंस्तव: । सुरैस्तृतीयकल्याणे विहिताभिषवोत्सव: ॥39॥
देवदत्तां समारूह्य शिबिकाममरैर्वृत: । विभु: सहेतुकोद्याने प्राव्राजीद् द्युपवासभाक् ॥40॥
माघशुल्कचतुर्थ्याह:प्रान्ते षडि्वशकर्क्षके । सहस्त्रनरपै: सार्द्ध प्राप्य तुर्यावबोधनम् ॥41॥
द्वितीयेऽह्णन पुरं नन्दनाभिधं भुक्तयेऽविशत् । जयो नाम नृपस्तस्मै दत्त्वाऽन्नं कनकप्रभ: ॥42॥
पंचाश्चर्य समापाप्यं किन्न वा पात्रदानत: । सामायिकं समादाय संयमं शुद्धचेतसा ॥43॥
त्रिवत्सरमिते याते तपस्येष महामुनि: । निजदीक्षावने जम्बूद्रूममूले द्युपोषित: ॥44॥
माघे मासि सिते पक्षे षष्ठयां प्रेष्ठोपराह्नके । स्वदीक्षादाननक्षत्रे घातिकर्मविनाशनात् ॥45॥
केवलावगमं प्रापत्सद्यो व्याप्तचराचर: । तदैवापँश्च देवेन्द्रा: स्वानमन्मुकुटानना: ॥46॥
देवदुन्दुभिमुख्याष्टप्रातिहार्यादिवैभवम् । प्राप्य तैर्गन्धकुठयन्तर्गतसिंहासने स्थित: ॥47॥
मन्दरादिगणाधीशपंचपंचाशदावृत: । शतोत्तरसहस्त्रोक्तपूज्यपूर्वधरैर्वृत: ॥48॥
खत्रिपंचर्तुबह्नयुक्तशिक्षकैरूपलक्षित: । खद्वयाष्टचतुर्मेयत्रिविधावधिवन्दित: ॥49॥
खद्वयेन्द्रियपंचाभिधेयकेवललोचन: । शून्यत्रयनवज्ञातविक्रियद्धर्यु पबृंहित: ॥50॥
खद्वयेन्द्रियपंचाधिगम्यतुर्यावबोधन: । खद्वयर्त्वग्निनिर्णीतवादिसंयतसंयुत: ॥51॥
अष्टषष्टिसहस्त्रोक्तसर्वसंयमिसंस्तुत: । त्रिसहस्त्रैकलक्षोक्तपद्मार्याद्यायिंकाचिंत: ॥52॥
द्विलक्षश्रावकोपेतो द्विगुणश्राविकाचिंत: । पूर्वोक्तद्विगणोपेतो धर्मक्षेत्रेष्वनारतम् ॥53॥
भवातपपरिम्लानभव्यसस्याभितर्पक: । सम्मेदपर्वतं प्राप्य मासमेकं गतक्रिय: ॥54॥
खद्वयर्त्वष्टसम्प्रोक्तयतिभि: प्रतिमां गत: । आषाढस्योत्तराषाढे कृष्णाष्टम्यां निशामुखे ॥55॥
सद्य: कृत्वा समुद्घातं सू्क्ष्मं शुक्लं समाश्रित: । सम्यग्योगादयोग: सन् स्वास्थ्यं रोगीव सोऽगमत् ॥56॥
तदा प्रभृति लोकेऽस्मिन् पूज्या कालाष्टमी बुधै: । तदेवालम्बनं कृत्वा मिथ्यादृग्भिश्च पृज्यते ॥57॥
कृत्वाऽन्त्येष्टिं तदाभ्येत्य सौधर्मप्रमुखा: सुरा: । सिद्धस्तुतिभिंरर्थ्याभिरवन्दिषत निर्वृतम् ॥58॥
शार्दूलविक्रीडितम्
सन्तत्या मलसंचय: परिणतो हिंसादिभि: सन्ततं
संसारे सुकृतात्ततो निजगुणा नेयुविंशुद्धिं कक्चित् ।
तानद्याहमवाप्या बुद्धिममलां शुद्धिं नयामीत्ययं
शुल्कध्यानमुपाश्रितोऽतिविमलस्तस्माद्यथार्थाह्नय: ॥59॥
वसन्ततिलका
श्रद्धानबोधरदनं गुणपुण्यमूर्ति-
माराधना चरणमायतधर्महस्तम् ।
सन्मार्गवारणमघारिमभिप्रचोद्य
विध्वंसनाद्विमलवाहनमाहुरेनम् ॥60॥
मालिनी
विनिहतपरसेन: पद्मसेनो महीश:
सुरसमितिसमर्च्य: स्पष्टसौख्योऽष्टमेन्द्र: ।
विपुलविमलकीर्तिविंश्वविश्वम्भरेशो
विमलजिनपति: स्तात् सुष्ठुतस्तुष्टये व: ॥61॥
स्तिमिततमसमाधिध्वस्तनि:शेषदोषं
क्रमगमकरणान्तर्द्धानहीनावबोधम् ।
विमलममलमूर्ति कीर्तिभायं द्युभाजां
नमत विमलताप्त्यै भक्तिभारेण भव्या: ॥62॥
तीर्थे विमलनाथस्य संजातौ रामकेशवौ । धर्मस्वयम्भूनामानौ तयोश्चरितमुच्यते ॥63॥
विदेहेऽस्मिन् प्रतीच्यासीन्मित्रनन्दीति भूभुज: । स्ववशीकृतनि:शेषनिजभोग्यमहीतल: ॥64॥
प्रजानामेष रक्तत्वात् प्रजाश्चास्य प्रपालनात् । सर्वदा वृद्धयेऽभूवन् भवेत्स्वार्था परार्थता ॥65॥
स्वचक्रमिव तस्यासीत्परचक्रं च धीमत: । चक्रबुद्धे: स्वचक्रं च परचक्रमपक्रमात् ॥66॥
अतृप्यदेष भूपालस्तर्पयित्वाऽखिला: प्रजा: । परोपकारवृत्तीनां परतृप्ति: स्वतृप्तये ॥67॥
स कदाचित्समासाद्य सुव्रतं जिनपुंगवम् । श्रुत्वा धर्म सुधीर्मत्वा स्वांगभोगादि भंगुरम् ॥68॥
अंगिनो वत सीदन्ति संगमादाहितांहस: । नि:संगतां न गच्छति किं गतं न विदन्त्यमी ॥69॥
इति निर्विद्य संसाराद् गृहीत्वा संयमं परम् । संन्यस्यागात् त्रयस्त्रिंशद्वार्द्धिस्थितिरनुत्तरम् ॥70॥
ततो द्वारवतीपुर्यां सुतो भद्रमहीपते: । सुभद्रायाश्च धर्माख्य: सोऽभूत्सुस्वप्नपूर्वकम् ॥71॥
अमुस्मिन् भारते वर्षे कुणालविषये पुरम् । श्रावस्ती तत्र राजाऽभूत्सुकेतुर्भोगतत्पर: ॥72॥
कामजे व्यसने द्यूते संसक्त: कर्मचोदित: । निषिद्धो मन्त्रिभिर्बन्धुवरैश्च बहुशो हितै: ॥73॥
चोदितो वा स तैर्भूयो दीव्यन् दैवविलोमत: । राष्ट्रं वित्तं बलं देवी सर्वमस्यापहारितम् ॥74॥
क्रोधजेषु त्रिषूक्तेषु कामजेषु चतुर्षु च । नापरं व्यसनं द्युतान्निकृष्टं प्राहुरागमा: ॥75॥
महागुणेषु यत्सत्यमुक्तं प्राग् हार्यते हि तत् । द्यूतासक्तेन लज्जाभिमानं पश्चात्कुलं सुखम् ॥76॥
सौजन्यं बन्धवो धर्मो द्रव्यं क्षेत्रं गृहं यश: । पितरौ दारका दारा: स्वयं चातिप्रसंगत: ॥77॥
न स्नानं भोजनं स्वापो निरोधाद्रोगमृच्छति । न यात्यर्थान् वृथा केल्शी बहुदोषं चिनोत्यघम् ॥78॥
करोति कुत्सितं कर्म जायते पारिपन्थिक: । याचतेऽन्येषु वार्थार्थमकार्येषु प्रवर्तते ॥79॥
बन्धुभि: स परित्यक्तो राजभिर्याति यातनाम् । इति द्यूतस्य को दोषानुद्देष्टुमपि शक्नुयात् ॥80॥
सुकेतुरेव दृष्टान्तो येन राज्यं च हारितम् । तस्माल्लोकद्वयं वांछन् दूरतो द्यूतमुत्सृजेत् ॥81॥
सुकेतुरिति सर्वस्वहानिशोकाकुलीकृत: । गत्वा सुदर्शनाचार्य पादमूलं श्रुतागम: ॥82॥
सद्यो निर्विद्य संसारात्प्रव्रज्याप्यशुभाशय: । शोकादन्नं समुत्सृज्य तपोभिरतिदुष्करै: ॥83॥
दीर्घकालमलं तप्त्वा कलागुणविदग्धता । बलं चैतेन मे भूयात्तपसेत्यायुष: क्षये ॥84॥
कृत्वा निदानं संन्यस्य लान्तवकल्पमास्थित: । तत्र दिव्यसुखं प्रापत्स चतुर्दशसागरम् ॥85॥
तत: सोऽप्यवतीर्यात्र भद्रस्यैव महीभुज: । बभूव पृथिवीदेव्यां स्वयम्भू: सूनुषु प्रिय: ॥86॥
धर्मो बल: स्वयम्भूश्च केशवस्तौ परस्परम् । अभूतां प्रीतिसम्पन्नावन्वभूतां श्रियं चिरम् ॥87॥
सुकेतुजातौ द्युतेन निजिंत्य बलिना हठात् । स्वीकृतं येन तद्राज्यं सोऽभूद्रत्नपुरे मधु: ॥88॥
तज्जन्मवैरसंस्कारसमेतेनाधुनामुना । तन्नामश्रुतिमात्रेण सकोपेन स्वयम्भुवा ॥89॥
मधो: केनापि भूपे च प्रहितं प्राभृतं स्वयम् । घातयित्वोभयोर्दूतौ साधिक्षेपमगृह्यत ॥90॥
प्रीत्यप्रीतिसमुत्पन्न: संस्कारो जायते स्थिर: । तस्मादप्रीतिमात्मज्ञो न कुर्यात्कापि कस्यचित् ॥91॥
आकर्ण्य नारदाद् दूतमृत्युमावेशितक्रुधा । ययावभिमुखं योद्धुं रामकेशवयोर्मधु: ॥92॥
तौ च संग्रामसन्नद्धौ क्रुद्धौ युद्धविशारदौ । प्रापतु: सहसा हन्तुं तं यमानलसन्निभौ ॥93॥
सैन्ययोरूभयोरासीत् संग्राम: संहरन्निव । परस्परं चिरं घोर: शूरयोर्भीरूभीप्रद: ॥94॥
स्वयम्भुवं समुद्दिश्य तदा सोढा मधु: क्रुधा । ज्वलच्चक्रं विवर्त्याशु न्यक्षिपत्तज्जिघांसया ॥95॥
तद्रत्वाऽऽशु परीत्यैनं भुजाग्रे दक्षिणे स्थितम् । अवतीर्य मरून्मार्गाद्भास्करस्येव मण्डलम् ॥96॥
तदेवादाय सक्रोध: स्वयम्भूविंद्विषं प्रति । प्रहित्यादादसूंस्तस्य किं न स्यात् सुकृतोदयात् ॥97॥
आधिपत्यं तदावाप्य भरतार्द्धस्य केशव: । वासवो वोऽन्वभूद्भोगान्निर्विघ्नं स्वाग्रजान्वित: ॥98॥
मधु: सत्त्वं समुत्सृज्य भूय: संश्रितवान् रज: । बद्धध्वायुर्नारकं प्रापन्निरयं स तमस्तम: ॥99॥
केशवोऽपि तमन्वेष्टुमिव वैरानुबन्धनात् । तदेव नरकं पश्चात्प्राविक्षत् पापपाकत: ॥100॥
बलोऽपि तद्वियोगोत्थशोकसन्तप्तमानस: । निर्विद्य संसृते: प्राप्य जिनं विमलवाहनम् ॥101॥ स्वयंभूके वियोगसे उत्पन्न हुए शोकके द्वारा जिसका ह्णदय संतप्त हो रहा था ऐसा बलभद्र
सामायिकं समादाय संयमं संयताग्रणी: । विग्रहे विग्रहीवोग्रं निर्व्यग्रमकरोत्तप: ॥102॥
सद्वृत्तस्तेजसो मूर्तिर्धुन्वन्नभ्युदितस्तम: । असम्बाधमगादूर्ध्व भास्वानिव बलोऽमल: ॥103॥
वसन्ततिलका
द्यूतेन मोहविहितेन विधी: स्वयम्भू:
यातो मधुश्च नरकं दुरिती दुरन्तम् ।
धर्मादिकं त्रितयमेव कुमार्गवृत्या
हेतु: श्रितं भवति दु:खपरम्पराया: ॥104॥
क्रोधादिभि: सुतपसोऽपि भवेन्निदानं
तत्स्याद् दुरन्तदुरितोर्जितदु:खहेतु: ।
तेनाप मुक्तिपथगोऽप्यप्थं सुकेतु –
स्त्याज्यं तत: खलसमागमवन्निदानम् ॥105॥
मालिनी
द्युतिविनिहतमित्रो मित्रनन्दी क्षितीशो
यमसमितिसमग्रोऽनुत्तराधीश्वरोऽभूत् ।
अनुधरणिमित: सन् द्वारवत्यां सुधर्म:
परमपदमवापत्साधितात्मस्वरूप: ॥106॥ धर्म, पहले अपनी कान्ति से सूर्य को जीतनेवाला मित्रनन्दी नाम का राजा हुआ, फिर महाव्रत और
समितियों से सम्पन्न होकर अनुत्तरविमान का स्वामी हुआ, वहाँसे चयकर पृथिवीपर द्वारावती नगरी
पृथ्वी
कुणालविषये सुकेतुरधिराडभूद् दुर्मति –
स्तत: कृततपा: सुरोऽजनि सुखालये लान्तवे ।
कृतान्तसदृशो मधोरनुबभूव चक्रेश्वर –
स्ततश्च दुरितोदयात्क्षितिमगात्स्वयम्भूरध: ॥107॥
जिनस्यास्यैव तीर्थेsग्यौ गणेशौ मेरूमन्दरौ । तुंगौ स्थिरौ सुरै: सेव्यौ वक्ष्यामश्चरितं तयो: ॥108॥
द्वीपेऽपरविदेहेऽस्मिन् सीतोदानद्युदक्तटे । विषये गन्धमालिन्यां वीतशोकपुराधिप: ॥109॥
वैजयन्तो नृपस्तस्य देव्या: सर्वश्रिय: सुतौ । संजयन्तजयन्ताख्यौ राजपुत्रगुणान्वितौ ॥110॥
तावन्येद्युरशोकाख्यवने तीर्थकृतोऽन्तिके । धर्मं स्वयम्भुव: श्रुत्वा भोगनिर्वेदचोदितौ ॥111॥
संजयन्ततनूजाय बैजयन्ताय धीमते । दत्वा राज्यं समं पित्रा संयमं समवापतु: ॥112॥
सप्तमे संयमस्थाने क्षीणाशेषकषायक: । सामरस्यं समाप्याप वैजयन्तो जिनेशिताम् ॥113॥
पितु: कैवल्यसम्प्राप्तिकल्याणे धरणेशिन: । जयन्तो वीक्ष्य सौन्दर्यमैश्चर्य च महन्मुनि: ॥114॥
धरणेन्द्रोsभवन्मृत्वा दुर्मति: स निदानत: । अत्यल्पं बहुमौल्येन गृह्नतो न हि दुर्लभम् ॥115॥
अन्येद्यु: सन्जयन्ताख्यं प्रतिमायोगधारिणम् । मनोहरपुराभ्यर्णभीमारण्यान्तरे यतिम् ॥116॥
विद्युद्दंष्ट्राह्नयो विद्याधरो वीक्ष्याक्षमो रूषा । पूर्ववैरानुसन्धानस्मृत्युद्भूतातिवेगया ॥117॥
उद्धृत्येलाख्ययाप्यद्रेर्भरतेऽपाग्दिगाश्रिता । नदी कुसुमवत्याख्या हरवत्यभिधा परा ॥118॥
सुवर्णगजवत्यौ च चण्डवेगा च पन्चमी । न्यक्षिपत्संगमे तासामगाधे सलिले खल: ॥119॥
अयं पापी महाकायो दानवो मानवाशन: । सर्वानस्मान् पृथग्दृष्वा खादितुं निभृतं स्थित: ॥120॥
शरकुन्तादिशस्त्रौघैनिंर्घृणं सर्वभक्षिणम् । वयं सर्वेऽपि सम्भूय हनामोऽखिलविद्विषम् ॥121॥
उपेक्षितोऽयमद्यैव भुग्नकुक्षिर्बुभुक्षित: । भक्षयेल्लक्षितोऽवश्यं निशायां स्त्री: शिशून्पशून् ॥122॥
तस्मान्मद्वचनं यूयं प्रतीत किमहं वृथा । मृषा भाषे किमेतेन वैरमस्त्यत्र मे पृथक् ॥123॥
इति तेन खगा मुग्धा: पुन: सर्वेऽपि नोदिता: । तथेति मृत्युसन्त्रस्ता: समस्ता: शस्त्रसंहती: ॥124॥
आदाय साधुमूर्धन्यं समाहितमहाधियम् । समन्ताद्धन्तुमारब्धा विश्रब्धं लुब्धकोपमा: ॥125॥
सोऽपि सर्वसहिष्णु: सन् वज्रकायोऽचलाकृति: । निश्चलो निर्वृतिं यात: शुक्लध्यानेन शुद्धधी: ॥126॥
सर्वे निर्वाणकल्याणपूजां कर्तुं सुराधिपा: । चतुविंधा: समं प्रापंस्तदा तद्भक्तिचोदिता: ॥127॥
स्वाग्रजांगेक्षणोद्भूततृतीयावगम: क्रुधा । नागेन्द्रो नागपाशेन तान् बवन्धाखिलान् खगान् ॥128॥
नास्माकं देव दोषोऽस्ति विद्युद्दंष्ट्रेण पापिना । विदेहादमुमानीय भयं चास्मात्खचारिणाम् ॥129॥
प्रतिपाद्य जनैरेभिरकारि विविधो मुधा । महोपसर्ग इत्याहुस्तेषु केचिद्विचक्षणा: ॥130॥
श्रुत्वा तन्नागराजोऽपि तेषु कालुष्यमुत्सृजन् । विद्युद्दंष्ट्र पयोराशौ सबन्धुं क्षेप्तुमुद्यत: ॥131॥
आदित्याभस्तदा देवो गुणहेतुस्तयोरभूत् । मध्ये ज्ञातानुबन्धो वा धातुप्रत्यययो: पर: ॥132॥
कृतदोषोऽस्त्ययं नागनाथ किन्त्वनुरोधत: । ममास्य शम्यतां क्षुद्रे क: कोपस्त्वादृशां पशौ ॥133॥
पुरादितीर्थकृत्काले भवद्वंशसमुद्भवै: । वंशोऽस्य निर्मितो दत्त्वा विद्या विद्याधरेशिनाम् ॥134॥
संबद्धर्य विषवृक्षं च छेत्तुं स्वयमवैतु क: । इत्याबालप्रसिद्धं किं न वेत्सि विषभृत्यते ॥135॥
इत्युक्तस्तेन नागेन्द्र: प्रत्युवाच तपोधनम् । मदग्रसजयं दुष्टो निर्हेतुकममीमरत् ॥136॥
तद्ध्रुवं मम हन्तव्यो न निषेध्यं त्वयार्थितम् । मयेति सहसा देवस्तमाह मतिमान् वृथा ॥137॥
वैरं वहसि ते भ्राता जातौ जातोऽयमेव किम् । विद्युद्द्रंष्ट्रो न किं भ्राता संजात: संसृतौ भ्रमन् ॥138॥
बन्धु: क: को न वा बन्धु: बन्धुताबन्धुताद्वयम् । संसारे परिवर्तेत विदामत्राग्रह: कुत: ॥139॥
कृतापराधे भ्राता ते विद्युद्दंष्ट्र मदण्डयत् । ततोऽयं स्मृततज्जन्मा मुनेरस्यापकारक: ॥140॥
अग्रजं तव पापोऽयं प्राक्तज्जन्मचतुष्टये । महावैरानुबन्धेन लोकान्तरमजीगमत् ॥141॥
अस्मिन् जन्मन्यमुं मन्ये मुनेरस्योपकारकम् । खगमेतत् कृतं सोढायन्मुक्तिमयमेयिवान् ॥142॥ इस जन्ममें तो मैं इस विद्याधरको इन मुनिराजका उपकार करनेवाला मानता हूँ क्योंकि,
आस्तां ताबदिदं भद्र भद्रं निर्वृतिकारणम् । प्राक्तनस्यापकारस्य वद केन प्रतिक्रिया ॥143॥
इत्याकर्ण्य फणीन्द्रस्तत्कथ्यतां सा कथा मम । कथमित्यन्वयुङ्क्तासावादित्याभं समुत्सुका: ॥144॥
श्रृणु वैरं विसृज्यास्मिन् बुद्धिमन् शुद्धचेतसा । तत्प्रपंचं वदामीति देवो विस्पष्टमभ्यधात् ॥145॥
द्वीपेऽस्मिन् भारते सिंहपुराधीशो महीपति: । सिंहसेन: प्रिया तस्य रामदत्ताऽभवत्सती ॥146॥
श्रीभूति: सत्यघोषांको मन्त्री तस्य महीपते: । श्रुतिस्मृतिपुराणादिशास्त्रविद् ब्राह्मणोत्तम: ॥147॥
पद्मखण्डपुरे श्रेष्ठिसुदत्ताख्यसुमित्रयो: । भद्रमित: सुतो रत्नद्वीपे पुण्योदयात्स्वयम् ॥148॥
उपाजिंतपरार्धोरूरत्न: सिंहपुरे स्थिरम् । तिष्ठासुर्मन्त्रिणं दृष्ट्वा सर्वमावेद्य तन्मतात् ॥149॥
तस्य हस्ते स्वरत्नानि स्थापयित्वा स बान्धवान् । आनेतुं पद्मखण्डाख्यं गत्वा तस्मान्निवर्त्य स: ॥150॥
पुनरभ्येत्य रत्नानि सत्यघोषमयाचत । सोऽपि तद्रत्नमोहेन न जानामीत्यपाह्लुत ॥151॥
भद्रमित्रोऽपि पूत्कारं सर्वतो नगरेऽकरोत् । सत्यघोषोऽपि पापिष्ठैरेष चौरैरभिद्रुत: ॥152॥
सर्वस्वहरजोद्भूतशोकव्याकुलिताशय: । प्रलापीति जनानेतत् स्वप्रामाण्यादजिग्रहत् ॥153॥
समक्षं भूपतेरात्मशुद्धयर्थ शपथं च स: । धर्माधिकृतनिर्दिष्टं चकाराचारदूरग: ॥154॥
भद्रमित्रोऽपि पापेन वंचितोऽहं निजातिना । द्विजातिनेत्यनाथोऽपि नामुंजत् पूत्कृतिं मुहु: ॥155॥
चतुर्विधोपधा शुद्धं युक्तं जात्यादिभिर्गुणै: । त्वां सत्यं सत्यघोषांक मत्वा मन्त्रिगुणोत्तमम् ॥156॥
यथा न्यासीकृतं हस्ते तव रत्नकरण्डकम् । किमेवमपलापेन हेतुं तद्ब्रूहि युज्यते ॥157॥
सिंहसेनमहाराजप्रसादेन न तेऽस्ति किम् । छत्रसिंहासने मुक्तवा ननु राज्यमिदं तव ॥158॥
धर्म यशो महत्वं च किं वृथैव विघातये: । न्यासापह्लवदोषं किं न वेत्सि स्मृतिषूदितम् ॥159॥
एतदेवार्थशास्त्रस्य नित्यमध्ययने फलम् । यत्परानतिसन्धत्ते नातिसन्धीयते परै: ॥160॥
इत्यत्र परशब्दार्थे विपर्येषि परो मत: । तत्र शत्रुरहं किं भो: सत्यघोष रिपुस्तव ॥161॥
सद्भावप्रतिपन्नानां वंचने का विदग्धता । अंकमारूह्य सुप्तस्य हन्तु: किं नाम पौरूषम् ॥162॥
महामोहग्रहग्रस्त - श्रीभूते भाविजन्मना । त्वं तन्मा नीनशो देहि मह्यं रत्नकरण्डकम् ॥163॥ सद्भावनासे पासमें आये हुए मनुष्यों को ठगनेमें क्या चतुराई है ? गोद आकर सोये हुएको
मारने वालेका पुरूषार्थ क्या पुरूषार्थ है ? हे श्रीभूति ! तू महामोह रूपी पिशाचसे ग्रस्त हो रहा है, तू
ईदृश्येतत्प्रमाणानि जातिस्तेषामियं स्वयम् । जानंश्च मम रत्नानि किमित्येवमपह्नुषे ॥164॥
एवं नित्यं निशाप्रान्ते रोरौत्यारूह्य भूरूहम् । कृत्ये कृच्छेूऽपि सत्वाढया न त्यजन्ति समुद्यमम् ॥165॥
मुहुर्मुहुस्तदाकर्ण्य महादेव्या मनस्यभूत् । जानेऽहं नायमुन्मत्त: सर्वदानुगतं वदन् ॥166॥
इति सावेद्य भूपालं द्यूतोपायेन मन्त्रिणम् । जित्वा यज्ञोपवीतेन सार्द्ध तन्नाममुद्रिकाम् ॥167॥
दत्त्वा निपुणमत्याख्यधात्रीकरतले मिथ: । प्रहितं मन्त्रिणा देहि भद्रमित्रकरण्डकम् ॥168॥
अभिज्ञानं च तस्यैतदित्युक्त्वा सान्निधानृत: । तदानयेति सन्दिश्य धात्रीमानीनयत्तदा ॥169॥
तत्रान्यानि च रत्नानि क्षिप्त्वा क्षितिभुजा स्वयम् । भद्रमित्रं समाहूय रहस्येतद्भवेत्तव ॥170॥
इत्युक्त: स भवेद्देव ममैव तत्करण्डकम् । किन्तु रत्नान्यनर्घ्याणि मिश्रितान्यत्र कानिचित् ॥171॥
एतानि सन्ति मे नैव ममैतानीति शुद्धधी: । स्वरत्नान्येव सत्योक्तिर्जग्राहोत्काग्रणी: सताम् ॥172॥
सन्तुष्य भूपतिस्तस्मै सत्यघोषांकसंगतम् । ज्येष्ठं श्रेष्ठिपदं मद्रमित्रायादित वेदिता ॥173॥
सत्यघोषो मृषावादी पापी पापं समाचरन् । धर्माधिकरणोक्तेन दण्डयतामिति भूभुजा ॥174॥
प्रेरितास्तेन मार्गेण सर्वस्वहरणं तथा । चपेटा वज्रमुष्टाख्यमल्लस्य त्रिंशदूजिंता: ॥175॥
कांस्यपात्रत्रयापूर्णनवगोमयभक्षणम् । इति त्रिविधदण्डेन न्यगृह्नन् पुररक्षका: ॥176॥
नृपेऽनुबन्धवैर: सन् मृत्वार्त्तध्यानदूषित: । द्विजिह्नोऽगन्धनो नाम भाण्डागारेऽजनिष्ट स: ॥177॥ श्रीभूति राजा के साथ वैर बाँधकर आर्तध्यानसे दूषित होता हुआ मरा और मरकर राजा के भाण्डार
अन्यायेनान्यवित्तस्य स्वीकारश्चौर्यमुच्यते । नैसर्गिकं निमित्तोत्थं तदेवं द्विविधं स्मृतम् ॥178॥
आद्यमाजन्मनो लोभनिकृष्टस्पर्द्धकोदयात् । सत्यप्यर्थे गृहे स्वस्य कोटीकोठयादिसड्.ख्यया ॥179॥
न चौर्येण विना तोष: सत्याये सति च व्यये । तद्वतस्तादृशो भाव: सर्वेषां वा क्षुधादिंत: ॥180॥
स्त्रीसुतादिव्ययाशक्तेविनार्थादितरद्भवेत् । तंच्च लोभोदयेनैव दुविंपाकेन केनचित् ॥181॥
द्वयेन तेन बध्नाति दुरायुर्दुष्टचेष्टया । दुर्गतौ तंच्चिरं दु:खं दुरन्तं ह्यनुभावयेत् ॥182॥
सौजन्यं हन्यते भ्रंशो विश्रम्भस्य धनादिषु । विपत्ति: प्राणपर्यन्ता मित्रबन्ध्वादिभि: सह ॥183॥
गुणप्रसवसन्दृब्धा कीर्तिरम्लानमालिका । लतेव दावसंश्लिष्टा सद्यश्चौर्येण हन्यते ॥184॥
इतीदं जानता सर्वं सत्यघोषेण दुर्धिया । आद्यांशकेन चौर्येण साहसं तदनुष्ठितम् ॥185॥
सद्यो मन्त्रिपदाद् भ्रष्टो निग्रहं तादृशं गत: । दुर्गतिं च पुन: प्राप्तो महापापानुबन्धिनीत् ॥186॥
इत्यमात्यस्य दुर्वृत्तं राजाऽऽत्मनि विचिन्तयन् । धर्मिलाख्याय विप्राय तत्साचिव्यपदं ददौ ॥187॥
काले गच्छति सत्येवमन्येद्युरसनाटवी- । पर्यन्तविमलाद्युक्तिकान्तारक्ष्माभृति स्थितम् ॥188॥
वरधर्मयतिं प्राप्य भद्रमित्रवणिग्वर: । श्रुत्वा धर्मं धनं दाने त्यजन्तमतिमात्रया ॥189॥
तस्य माता सुमित्राख्यासहमानातिकोपिनी । काले मृत्वासनाटव्यां शार्दूलीभूयमागता ॥190॥
यदृच्छया वनं यातमवलोक्य दुराशया । साऽखादत्स्वसुतं कोपांच्चित्रं किं नाश्यमंगिनाम् ॥191॥
स स्नेहाद्रामदत्ताया: सिंहचन्द्र: सुतोऽभवत् । पूर्णचन्द्रोऽनुजस्तस्य भूपतेस्तावतिप्रियौ ॥192॥
भाण्डागारावलोकार्थं कदाचिन्नृपतिं गतम् । दशति स्म निजक्रोधाच्चक्षु:श्रुतिरगन्धन: ॥193॥
तदा गरूडदण्डेन सर्पानाहूय मन्त्रत: । निर्दोषोऽमुं प्रविश्यामि निर्गत: शुद्धिमाप्नुयात् ॥194॥
अन्यथा निग्रहीष्यामीत्युक्ता विषधरा: परे । जलाशयादिवाक्लेशान्निर्यान्ति स्म हुताशनात् ॥195॥
अगन्धनस्तु तद्वह्लौ भस्मित: कोपमानवान् । कालकाख्ये वने जज्ञे सलोभश्चमरो मृग: ॥196॥
🏠
पर्व - 60
अनन्तोऽनन्तदोषाणां हन्ताऽनन्तगुणाकर: । हन्त्वन्तर्ध्वान्तसन्तानमन्तातीतं जिन: स न: ॥1॥
धातकीखण्डप्राग्भागमेरूदग्विषये महत् । रम्यं पुरमरिष्टाख्यमैकध्यमिव सम्पदाम् ॥2॥
पति: पद्यरथस्तस्य पद्मासद्म स्वयं गुणै: । यस्मिन् महीं चिरं पाति प्रापन्प्रीतिं परां प्रजा: ॥3॥
पुण्योद्यात्सुरूपादिसामग्रीसुखसाधिनी । जन्तोस्तदुदयस्तस्मिन्पुष्कलोऽस्ति निरर्गल: ॥4॥
तदिन्द्रियार्थसान्निध्यसमुद्भूतसुखेन स: । शक्रवत्सुष्ठु सन्तृप्यन्संसारसुखमन्वभूत् ॥5॥
अथान्यदा समासाद्य स्वयम्प्रभजिनाधिपम् । सप्रश्रयमभिष्टुत्य श्रुत्वा धर्म सुनिर्मलम् ॥6॥
संयोगो देहिनां देहैरक्षाणां च स्वगोचरै: । अनित्योऽन्यतराभावे सर्वेषामाजवंजवे ॥7॥
आहितान्यमता: सन्तु देहिनो मोहिताशया: । अहं निहतमोहारिमाहात्म्यार्हत्क्रमाश्रय: ॥8॥
करवाणि कथंकारं मतिमेतेषु निश्चलाम् । इति मोहमहाग्रन्थिमुद्भिद्यास्योद्ययौ मति: ॥9॥
तत: परीतदावाग्निशिखासन्त्रासितैणवत् । चिरोषितां च संसारस्थलीं हातुं कृतोद्यम: ॥10॥
सूनौ घनरथे राज्यं नियोज्यादाय संयमम् । एकादशांगवाराशिपारगो बद्धतीर्थकृत् ॥11॥उसने धनरथ नामक पुत्र के लिए राज्य देकर संयम धारण कर लिया और ग्यारह अंगरूपी सागर
प्रान्ते स्वाराधनां प्राप्य परित्यक्तशरीरक: । अभूत् पर्यन्तकल्पेन्द्र: पुष्पोत्तरविमानज: ॥12॥
द्वाविंशत्यब्धिमानायुर्हस्तार्द्धोनधनुस्तनु: । शुक्ललेश्य: श्वसन्नेकादशमासैस्तु संखय्या ॥13॥
खत्रयायनक्षोक्तवर्षैराहारमाहरत् । सुखी मन:प्रवीचारात्तमस: प्राग्गतावधि: ॥14॥
तत्माणबलस्तेजोविक्रियाभ्यां च तत्प्रभ: । चिरं तत्र सुखं भुक्त्वा तस्मिन्नत्रागमिष्यति ॥15॥
द्वीपेऽस्मिन् दक्षिणे भागे साकेतनगरेश्वर: । इक्ष्वाकु: काश्यप: सिंहसेनो नाम महानृप: ॥16॥
जयश्यामा महादेवी तस्यास्या वेश्मन: पुर: । वसुधारां सुरा: सारां मासषट्कीमपीपतन् ॥17॥
कार्तिके मासि रेवत्यां प्रभातेऽह्नि तदादिमे । निरीक्ष्य षोडश स्वप्नान् विशन्तं वाऽऽननं गजम् ॥18॥
अवगम्य फलं तेषां भूभुजोऽवधिलोचनात् । गर्भस्थिताच्युतेनद्रासौ परितोषमगात्परम् ॥19॥
तत: स्वर्गावतरणकल्याणाभिषवं सुरा: । सम्पाद्य वस्त्रमाल्योरूभूषणैस्तावपूजयन् ॥20॥
सुखगर्भा जयश्यामा ज्येष्ठमास्यसिते सुतम् । द्वादश्यां पूषयोगेऽसौ सपुण्यमुदपादयत् ॥21॥
तदागत्य मरून्मुख्या मेरूशैलेऽभिषिच्य तम् । अनन्तजिनमन्वर्थनामानं विदधुर्मुदा ॥22॥
नवाब्ध्युपमसन्ताने पल्यपादत्रये स्थिते । धर्मेऽतीतार्हतो ध्वस्ते तदभ्यन्तरजीवित: ॥23॥
त्रिंशल्लक्षसमात्मायु: पंचाशंचापसम्मित: । कनत्कनकसंकाश: सर्वलक्षणलक्षित: ॥24॥
खचतुष्केन्द्रियद्धर्यब्देष्वतीतेष्वभिषेचनम् । राज्यस्यालभताभ्यर्च्यस्स नृखेशमरूद्वरै: ॥25॥
खपंचकेन्द्रियैकोक्तवर्षे राज्यव्यतिक्रमे । कदाचिदुल्कापतनहेतुनोत्पन्नबोधिक: ॥26॥ और जब राज्य करते हुए उन्हें पन्द्रह लाख वर्ष बीत गये तब किसी एक दिन उल्कापात देखकर
अज्ञानबीजसंरूढामसंयममहीधृताम् । प्रमादवारिसंसिक्तां कषायस्कन्धयष्टिकाम् ॥27॥
योगालम्बनसंवृद्धां तिर्यग्गतिपृथक्कृताम् । जराकुसुमसंछन्नां बह्नामयपलाशिकाम् ॥28॥
दु:खदु:फलसन्नम्रां दुष्कर्मविषवल्लरीम् । शुल्कध्यानासिनामूलं चिच्छित्सु: स्वात्मसिद्धये ॥29॥
लौकान्तिकै: समभ्येत्य प्रस्तुवद्भि: प्रपूजित: । अनन्तविजये राज्यं नियोज्य विजयी तुजि ॥30॥
सुरैस्तृतीयकल्याणपूजां प्राप्याधिरूढवान् । यानं सागरदत्ताख्यं सहेतुकवनान्तरे ॥31॥
ज्येष्ठे षष्ठोपवासेन रेवत्यां द्वादशीदिने । सहस्त्रेणासिते राज्ञामदीक्षिष्टापराह्नके ॥32॥
सम्प्राप्तोपान्त्यसंज्ञान: ससामायिकसंयम: । द्वितीयेऽह्नि स चर्यायै साकेतं समुपेयिवान् ॥33॥
विशाखभूपतिस्तस्मै दत्वाऽन्नं कनकच्छवि: । आश्चर्यपंचकं प्राप ज्ञापकं स्वर्गमोक्षयो: ॥34॥
संवत्सरद्वये याते छाद्मस्थ्ये प्राक्तने वने । अश्वत्थपादपोपान्ते कैवल्यमुदपीपदत् ॥35॥
चैत्रेऽमामास्यह:प्रान्ते रेवत्यां सुरसत्तमा: । तदैव तुर्यकल्याणपूजां च निरवर्तयन् ॥36॥
जयाख्यमुख्यपंचाशद्रणभृद्बृंहितात्मवाक् । सहस्त्रपूर्वभृद्वन्द्य: खद्वयद्वयग्निवाद्यधीट् ॥37॥
खद्वयेन्द्रियरन्ध्राग्निसंखयालक्षितशिक्षक: । शुन्यद्वयत्रिवार्ध्यक्ततृतीयज्ञानपूजित: ॥38॥
शून्यत्रयेन्द्रियप्रोक्तकेवलावगमान्वित: । शून्यत्रयवसूद्दिष्टविक्रियद्धिंविभूषित: ॥39॥
शून्यत्रयेन्द्रियप्रोक्तमन:पर्ययबोधन: । पिण्डीकृतोक्तषट्षष्टिसहस्त्रमुनिमानित: ॥40॥
सलक्षाष्टसहस्त्रोक्तसर्वश्र्याद्यार्यिकागण: । द्विलक्षश्रावकाभ्यर्च्यो द्विगुणश्राविकास्तुत: ॥41॥
असंखयदेवदेवीडचस्तिर्यक्संखयातसेवित: । इति द्वादशविख्यातभव्यवृन्दारकाग्रणी: ॥42॥ जय आदि पचास गणधरोंके द्वारा उनकी दिव्य ध्वनिका विस्तार होता था, वे एक हजार
सदसद्वादसद्भावमाविष्कुर्वन्ननन्तजित् । विह्णत्य विश्रुतान् देशान् विनेयान्योजयन् पथि ॥43॥
सम्मेदगिरिमासाद्य विहाय विह्णतिं स्थित: । मासं शताधिकै: षड्भि: सहस्त्रै: मुनिभि: सह ॥44॥
प्रतिमायोगधारी संचमादस्याग्ररात्रिभाक् । तुरीयध्यानयोगेन सम्प्रापत्परमं पदम् ॥45॥
सद्यो द्युसत्समूहोऽपि सम्प्राप्यान्त्येष्टिमादरात् । विधाय विधिवत्स्वौक: स्वर्लोकं सर्वतो ययौ ॥46॥
मालिनी
कुनयघनतमोऽन्घं कुश्रुतोलूकविद्विट्
सुनयद्मयमयूखै: विश्वमाशु प्रकाश्य ।
प्रकटपरमदीप्तिर्बोधयन् भव्यपद्मान्
प्रदहतु स जिनेनोऽनन्तजिद् दुष्कृतं व: ॥47॥
वसनततिलका
प्राक्पालक: प्रथितपद्मरथ: पृथिव्या:
पश्चाद्विनिश्चिमतिस्तपसाच्युतेन्द्र: ।
तस्माच्च्युतोऽभवनन्तजिदन्तकान्तो
य: सोऽवताद् द्रुतमनन्तभवान्तकाद् व: ॥48॥ जो पहले पद्मरथ नाम के प्रसिद्ध राजा हुए, फिर तपके प्रभाव से नि:शंक बुद्धि के धारक अच्युतेन्द्र
हुए और फिर वहाँसे चयकर मरणको जीतनेवाले अनन्तजित् नामक जिनेन्द्र हुए वे अनन्त भवोंमें
तत्रैव सुप्रभो राम: केशव: पुरूषोत्तम: । व्यावर्ण्यते भवेषूच्चै: त्रिषु वृत्तकमेतयो: ॥49॥
एतस्मिन् भारते वर्षे पोदनाधिपति: नृप: । वसुषेणो महादेवी तस्य नन्देत्यनिन्दिता ॥50॥
देवी पंचशतेऽप्यस्यां स राजा प्रेमनिर्भर: । रेमे वसन्तमंजर्यां चंचरीक इवोत्सुक: ॥51॥
मलयाधीश्वरो नाम्ना कदाचिच्चण्डशासन: । आजगामं नृपं द्रष्टुं तत्पुरं मित्रतां गत: ॥52॥
नन्दासन्दर्शनेनासौ मोहित: पापपाकवान् । आह्णत्य तामुपायेन स्वदेशमगमत्कुधी: ॥53॥
वसुषेणोऽप्यशक्तत्वात्तत्पराभवदु:खित: । चिन्तान्तकसमाकृष्यमाणप्राण: स्मृतेर्बलात् ॥54॥
श्रेयोगणधरं प्राप्य प्रव्रज्यां प्रतिंपद्म स: । सिंहनि:क्रीडिताद्युग्रं तपस्तप्त्वा महाबल: ॥55॥
यदि विद्येत चर्याया: फलमन्यत्र जन्मनि । अलड्.घ्यशासन: कान्तो भवामीत्यकरोन्मतिम् ॥56॥
ततो विहितसंन्यास: सहस्त्रारं जगाम स: । अष्टादशसमुद्रायुर्द्वादशं कल्पमुत्तमम् ॥57॥
अथ जम्बूमति द्वीपे प्राग्विदेहे महाद्धिंके । नन्दनाख्ये पुरे प्राभून्नराधीशो महाबल: ॥58॥
प्रजानां पालको भोक्ता सुखानामतिधार्मिक: । श्रीमान् दिक्प्रान्तविश्रान्तकीतिंरातिंहरोऽथिंनाम् ॥59॥
स कदाचिच्छरीरादियाथात्म्यावगमोदयात् । विरक्तस्तेषु निर्वाणपदवीप्रापणोत्सुक: ॥60॥
दत्वा राज्यं स्वपुत्राय प्रजापालार्हदन्तिके । गृहीतसंयम: सिंहनि:क्रीडिततप: श्रित: ॥61॥
संन्यस्यन्ति सहस्त्रारं प्राप्याष्टादशसागर- । स्थिति भोगांश्चिरं भुक्त्वा तदन्ते शान्तमानस: ॥62॥
अथेह भारते द्वारवत्यां सोमप्रभप्रभो: । जयवत्यामभूत्सूनु: सुरूप: सुप्रभाह्नय: ॥63॥
महायति: समुत्तुंग: सुरविद्याधराश्रय: । श्वेतिमानं दधत् सोऽभाद् विजयार्द्ध इवापर: ॥64॥
कलंकविकल: कान्त: सन्ततं सर्वचित्तह्णत् । पद्मानन्दविधायीत्थमतिशेते विधुं च स: ॥65॥
तस्यैव सुषेणाख्य: सीतायां पुरूषोत्तम: । तोकोऽजनि जनानन्दविधायी विविधैर्गुणै: ॥66॥
सेव्यस्तेजस्विभि: सर्वैरविलंघयमहोन्नति: । महारत्नसमुद्भासी सुमेरूरिव सुन्दर: ॥67॥
शुल्ककृष्णत्विषौ लोकव्यवहारप्रवर्तकौ । पक्षाविव विभात: स्म युक्तौ तौ रामकेशवौ ॥68॥
पंचाशद्धनुरूच्छूायौ त्रिंशल्लक्षसमायुषौ । समं समसुखौ कालं समजीगमतां चिरम् ॥69॥
अथ भ्रान्त्वा भवे दीर्घं प्राक्तनश्चण्डशासन: । चण्डांशुरिव चण्डोऽभूद्दण्डितारातिमण्डल: ॥70॥
काशिदेशे नृपो वाराणसीनगरनायक: । मधुसूदनशब्दाख्यो विख्यातबलविक्रम: ॥71॥
तौ तदोदयिनौ श्रुत्वा नारदादसहिष्णुक: । तव मे प्रेषय प्रार्थ्यगजरत्नादिकं करम् ॥72॥
तदाकर्णनकालान्तवातोद्धूतमनोऽम्बुधि: । युगान्तान्तकदु:प्रेक्ष्यश्चुक्रोध पुरूषोत्तम: ॥73॥ उसकी खबर सुनकर पुरूषोत्तमका मनरूपी समुद्र ऐसा क्षुभित हो गया मानो प्रलय - काल की
सुप्रभोऽपि प्रभाजालं विकिरन् दिक्षु चक्षुषो: । ज्वालावलिमिव क्रोधपावकाचिंस्तताशय: ॥74॥
न ज्ञात: क: करो नाम किं करो येन भुज्यते । तं दास्याम: स्फुरत्खंग शिरसाऽसौ प्रतीच्छतु ॥75॥
एतु गृह्नातु को दोष इत्याविष्कृततेजसौ । उभाववोचतामुच्चैर्नारदं परूषोक्तिभि: ॥76॥
ततस्तदवगम्यायात् संक्रुद्धो मधुसूदन: । हन्तुं तौ तौ च हन्तुं तं रोषादगमतां प्रति ॥77॥
सेनयोरूभयोरासीत्संग्राम: संहरन्निव । सर्वानहँस्तदारिस्तं चक्रेण पुरूषोत्तम: ॥78॥
त्रिखण्डाधिपतित्वं तौ चतुर्थौ रामकेशवौ । ज्योतिर्लोकाधिनाथत्वमन्वभूतामिवेन्द्विनौ ॥79॥ दोनों भाई चौथे बलभद्र और नारायण हुए तथा तीन खण्ड़के आधिपत्यका इस प्रकार अनुभव
केशवो जीवितान्तेऽगादवधिस्थानमायुषाम् । सुप्रभस्तद्वियोगोत्थशोकानलसमन्वित: ॥80॥
प्रबोधित: प्रसन्नात्मा सोमप्रभजिनेशिना । दीक्षित्वा श्रेणिमारूह्य स मोक्षमगमत्सुधी: ॥81॥
वसन्ततिलका
सम्भूय पोदनपुरे वसुषेणनामा कृत्वा तप: सुरवरोऽजनि शुक्ललेश्य: ।
तस्माच्च्युतोऽर्द्धभरताधिपतिर्हतारि: प्रापान्तिमां क्षितिमध: पुरूषोत्तमाख्य: ॥82॥
वियोगिनी
मलयाधिपचण्डशासनो नृपति: पापमतिर्भ्रमंश्चिरम् ।
भववारिनिधावभूदध: खलु गन्ता मधुसूदनाभिध: ॥83॥
वंशस्थवृत्तम्
महाबलाख्य: पुरि नन्दने नृप: महातपा द्वादशकल्पज: सुर: ।
पुनर्बल: सुप्रभसंज्ञयाऽगमत् परं पदं प्रास्तसमस्तसंगक: ॥84॥
आर्या
साम्राज्यसारसौख्यं सुप्रभपुरूषोत्तमौ समं भुक्त्वा ।
प्रथमो निर्वाणमगादपरोऽधो वृत्तिवैचित्र्यम् ॥85॥
🏠
पर्व - 61
धर्मे यस्मिंन् समुद्भूता धर्मा दश सुनिर्मला: । स धर्म: शर्म मे दद्यादधर्ममपह्नत्य न: ॥1॥
धातकीखण्डप्राग्भागे प्राग्विदेहे सरित्तटे । दक्षिणे वत्सविषये सुसीमानगरं समत् ॥2॥
पतिर्दशरथस्तस्य प्रज्ञाविक्रमदैववान् । स्ववशीकृतसर्वारि: निर्व्यायाम: समे स्थित: ॥3॥
सुखानि धर्मसाराणि प्रजापालनलालस: । बन्धुभिश्च सुह्णद्भिश्च सह विश्रब्धमन्वभूत् ॥4॥
माधवे शुक्लपक्षान्ते सम्प्रवृत्तजनोत्सवे । चन्द्रोपरागमालोक्य सद्यो निर्विण्णमानस: ॥5॥
कान्त: कुवलयाह्लादी कलाभि: परिपूर्णवान् । ईदृशस्यापि चेदीदृगवस्थाऽन्यस्य का गति: ॥6॥
इति मत्वा सुते राज्यभारं कृत्वा महारथे । नै:संगयाल्लाघवोपेतमंगीकृत्य स संयमम् ॥7॥
एकादशांगधारी सन् भावितद्वयष्टकारण: । निबद्धतीर्थकृत्पुण्य: स्वाराध्यान्ते विशुद्धधी: ॥8॥
त्रयस्त्रिंशत्समुद्रायु: एकहस्ततनूच्छिूति: । पंचरन्ध्रचतुर्मानदिनैरूच्छ्वासवान् मनाक् ॥9॥
लोकनाल्यन्तरव्यापिविमलावधिबोधन: । तत्क्षेत्रविक्रियातेजोबलसम्पत्समन्वित: ॥10॥
त्रिसहस्त्राधिकत्रिंशत्सहस्त्राब्दै: समाहरन् । मुहूर्ते मानसाहारं शुल्क-लेश्याद्वयश्चिरम् ॥11॥ तीस हजार वर्षमें एक बार मानसिक आहार लेता था, द्रव्य और भाव सम्बन्धी दोनों
सर्वार्थसिद्धौ सत्सौख्यं नि:प्रवीचारमन्वभूत् । ततो नृलोकमेतस्मिन् पुण्यभाज्यागमिष्यति ॥12॥
द्वीपेऽस्मिन्भारते रत्नपुराधीशो महीपते: । कुरूवंशस्य गोत्रेण काश्यपस्य महौजस: ॥13॥
देव्या भानुमहाराजसंज्ञस्य विपुलश्रिय: । सुप्रभाया: सुरानीतवसुधारादिसम्पद: ॥14॥
सितपक्षत्रयोदश्यां वैशाखे रेवतीविधौ । निशान्ते षोडशस्वप्ना: समभूवन् दृशो: स्फुटा: ॥15॥
सा प्रबुध्य फलान्यात्मपतेरवधिलोचनात् । तेषां विज्ञाय सम्भूतसुतेवासीत्ससम्मदा ॥16॥
तदैतानुत्तरादन्त्यादस्या गर्भेऽभवद्विभु: । सुरेन्द्राश्चादिकल्याणमकुर्वत समागता: ॥17॥
धवले नवमासान्ते गुरूयोगे त्रयोदशी । दिने माघे सुतं मासे साऽसूतावधिलोचनम् ॥18॥
तदैवानिमिषाधीशास्तं नीत्वाऽमरभूधरे । क्षीराब्धिवारिभिर्भूरिकार्तस्वरघटोद्धृतै: ॥19॥
अभिषिच्य विभूष्योच्चैर्धर्माख्यमगदन्मुदा । सर्वभूतहितश्रीमत्सद्धर्मपथदेशनात् ॥20॥
अनन्तजिनसन्ताने चतु:सागरसम्मिते । काले पर्यन्तपल्योपमार्द्धे धर्मेऽस्तमीयुषि ॥21॥
तदभ्यन्तरवर्त्यायुर्धर्मनामोदयादि स: । दशलक्षसमाजीवी तप्तकांचनसच्छवि: ॥22॥
खाष्टैकहस्तसद्देहो वय: कौमारमुद्वहन् । सार्द्धलक्षद्वयादन्ते लब्धराज्यमहोदय: ॥23॥
तुंगत्वादतिशुद्धत्वात्प्रेक्ष्यत्वात्स्वाश्रयात्तत: । अशेषपोषकत्वांच्च मेघान्तजलदोपम: ॥24॥
भद्रत्वात् बहुदानत्वात्सौलक्षण्यान्महत्त्वत: । सुकरत्वात्सुरेभत्वादपरो वा गजोत्तम: ॥25॥
निग्रहानुग्रहौ तस्य न द्वेषेच्छाप्रवर्तितौ । गुणदोषकृतौ तस्मान्निगृह्नन्नपि पूज्यते ॥26॥
कीतिंस्तस्य लता सत्यं नो चेद्विश्वविसर्पिणी । कथं कविवचोवारिषेकादद्यापि वर्द्धते ॥27॥
धरित्री सुखसम्भोग्या तस्य स्वगुणरंजिता । नायिकेवोत्तमा काममभीष्टफलदायिनी ॥28॥
धर्मादस्मादवाप्स्यन्ति कर्मारातिनिबर्हणात् । शर्म चेन्निर्मलं भव्या: शर्मास्य किमुवर्ण्यते ॥29॥
पंचलक्षसमाराज्यकालेऽतीते कदाप्यसौ । उल्कापातसमुद्भूतवैराग्यादित्यचिन्तयत् ॥30॥
कथं क्क कस्माज्जातो मे किम्मय: कस्य भाजनम् । किं भविष्यति कायोऽयमिति चिन्तामकुर्वता ॥31॥
दुविंदग्धेन सांगत्यमनेन सुचिरं कृतम् । अश्रता दु:खमावर्ज्य पापं पापविपाकत: ॥32॥
दु:खमेव सुखं मत्वा दुर्मति: कर्मचोदित: । शर्म शाश्वतमप्राप्य श्रान्तोऽहं जन्मसन्ततौ ॥33॥
बोधादयो गुणा: स्वेऽमी ममैतदविकल्पयन् । रागादिकान् गुणान्मत्वा धिग्मां मतिविपर्यात् ॥34॥
स्नेहमोहग्रहग्रस्तो मुहुर्बन्धुधनान्यलम् । पोषयन्नर्जयन्पापसंचयाद् दुर्गतीर्गत: ॥35॥
एवमेनं स्वयं बुद्धं मत्वा लौकान्तिका: सुरा: । तुष्टुवुनिंष्ठितार्थस्त्वं देवाद्येत्यातिभक्तिका: ॥36॥
सुधर्मनाम्नि स ज्येष्ठे पुत्रे निहितराज्यक: । प्राप्तनिष्क्रमणारम्भकल्याणाभिषवोत्सव: ॥37॥
शिबिकां नागदत्ताख्यामारूह्य सुरसत्तमै: । सह शालवनोद्यानं गत्वा षष्ठोपवासवान् ॥38॥
माघज्योत्स्नात्रयोदश्यामपराह्ने नृपै: समम् । सहस्त्रेण स पुष्यर्क्षे दीक्षां मौक्षीं समग्रहीत् ॥39॥
चतुर्थज्ञानसम्पन्नो द्वितीयेऽह्नयविशत्पुरीम् । भोक्तुं पाटलिपुत्राख्यां समुनद्धपताकिकाम् ॥40॥
धन्यषेणमहीपालो दत्तवाऽस्मै कनकद्युति: । दानमुत्तमपात्राय प्रापदाश्चर्यपंचकम् ॥41॥ वहाँ सुवर्ण के समान कान्तिवाले धन्यषेण राजा ने उन उत्तम पात्रके लिए दान देकर पंचाश्चर्य
तथैकवर्षच्छद्मस्थकालेऽतीते पुरातने । वने सप्तच्छदस्याध: कृतषष्ठोपवासक: ॥42॥
पूर्णमास्यां च पुष्यर्क्षे सायाह्ने प्राप केवलम् । आससाद च सत्पूजां तुर्यकल्याणसूचिनीम् ॥43॥
अरिष्टसेनाद्यनलयुगमानगणाधिप: । शून्यद्वयनवप्रोक्तसर्वपूर्वधरावृत: ॥44॥
शून्यद्वयद्धिंशून्याब्धिमितशिक्षकलक्षित: । षट्शतत्रिसहस्त्रोक्तत्रिविधावधिलोचन: ॥45॥
शून्यद्वयेन्द्रियाम्भोधिप्रोक्तकेवलवीक्षण: । शून्यत्रिकमुनिज्ञातविक्रियद्धिंविभूषित: ॥46॥
केवलज्ञानिमानोक्तमन:पर्ययविद्वृत: । खद्वयाष्टद्विविज्ञातवादिवृन्दाभिवन्दित: ॥47॥
पिण्डीकृतचतु:षष्टिसहस्त्रमुनिसाधन: । खखाब्धिपक्षषट्प्रोक्तसुव्रताद्यायिंकाचिंत: ॥48॥
द्विलक्षश्रावकोपेतो द्विगुणश्राविकावृत: । पूर्वोक्तदेवसन्दोहतिर्यक्संखयातसंश्रित: ॥49॥
इति द्वादशभेदोक्तगणसम्पत्समचित: । धर्मो धर्ममुपादिक्षद्धर्मध्वजविराजित: ॥50॥ इस प्रकार बारह सभाओंकी सम्पत्तिसे सहित तथा धर्म की ध्वजासे सुशोभित भगवान् ने
विहारमन्ते संह्णत्य सम्मेदे गिरिसत्तमे । मासमेकमयोग: सन्नवाष्टशतसंयतै: ॥51॥
शुचिशुल्कचतुर्थ्यन्त रात्रौ ध्यातिं पृथग्द्वयीम् । आपूर्य पुष्यनक्षत्रे मोक्षलक्ष्मीमुपागमत् ॥52॥
तदामृताशनाधीशा: सहसाऽऽगत्य सर्वत: । कृत्वा निर्वाणकल्याणमवन्दिषत तं जिनम् ॥53॥
आर्या
निजिंत्य दशरथ: स रिपून्नृपोन्त्याहमिद्रतां गत्वा ।
धर्म: स पातु पापैर्धर्मा युधि यस्य दशरथायन्ते ॥54॥
मालिनी
निहतसकलघाती निश्चलाग्रावबोधो
गदितपरमधर्मो धर्मनामा जिनेन्द्र: ।
त्रितयतनुविनाशान्निर्मल: शर्मसारो
दिशतु सुखमनन्तं शान्तसर्वात्मको व: ॥55॥
अस्मिंन्नेवाभवत्तीर्थे बल: श्रीमान् सुदर्शन: । केशव: सिंहशब्दान्तपुरूष: परिषद्वल: ॥56॥
तयोराख्यानकं वक्ष्ये भवत्रयसमाश्रयम् । इह राजगृहे राजा सुमित्रो नाम गविंत: ॥57॥
महामल्लो बहून् जित्वा लब्धपूज: परीक्षकै: । तृणायमन्यमानोऽन्यानमाद्यद् दुष्टदन्तिवत् ॥58॥
कदाचिद्राजसिंहाख्य: महीनाथो मदोद्धत: । तद्दर्पशातनायागात्तां पुरीं मल्लयुद्धवित् ॥59॥
सुमित्रस्तेन रंगस्थो निजिंत: सुचिराद्यथा । उत्खातदन्तदन्तीव तदास्थादतिदु:खित: ॥60॥
मानभंगेन भग्न: सन्नसौ राज्यभराक्षम: । नियुक्तवान् सुतं राज्ये मानप्राणा हि मानिन: ॥61॥
कृष्णाचार्य समासाद्य श्रुत्वा धर्मं यथोदितम् । प्रवव्राजातिनिर्विण्णस्तद्धि योग्यं मनस्विनाम् ॥62॥
क्रमेणोग्रं तप: कुर्वन् सिंहनि:क्रीडितादिकम् । स्वपराजयसंल्केशादिति प्रान्ते व्यचिन्तयत् ॥63॥
फलं चेदस्ति चर्यायास्तया सोऽन्यत्र जन्मनि । मम स्तां विद्विषो जेतुं महाबलपराक्रमौ ॥64॥
तथैव संन्यस्याभूच्च माहेन्द्रे सप्तसागर- । स्थितिर्देवश्चिरं भोगान् भुन्जान: सुखमास्थित: ॥65॥
द्वीपेऽस्मिन् मन्दरप्राचि वीतशोकापुरीपति: । नरादिवृषभो राजाऽजनि जातमहोदय: ॥66॥
भुक्त्वा कोपद्वयापेतं राज्यमूजिंतसौख्यभाक् । सद्य: सन्जातनिर्वेदोऽत्यजद्दमवरान्तिके ॥67॥
स घोरतपसा दीर्घं गमयित्वाऽऽयुरात्मन: । सहस्त्रारं जगामाष्टदशसागरसंस्थिति: ॥68॥
फलं स्वानिमिषत्वस्य प्राप्यानारतलोकनात् । प्राणप्रियाणां पर्यन्ते शान्तचेता निजायुष: ॥69॥
अस्मिन् खगपुराधीशसिंहसेनमहीपते: । इक्ष्वाकोविंजयायाश्च तनूजोऽभूत्सुदर्शन: ॥70॥
अम्विकायां सुतोऽस्यैव सुमित्र: केशवोऽभवत् । पन्चाब्धिधनुरूत्सेधौ दशलक्षासमायुषौ ॥71॥
परस्परानुकूल्येन मतिरूपबलान्वितौ । परानाक्रम्य सर्वान् स्वान् रन्जयामासतुर्गुणै: ॥72॥
अविभक्तापि दोषाय भुज्यमाना तयोरभूत् । न लक्ष्मी: शुद्धचित्तानां शुद्धयै निखिलमप्यलम् ॥73॥
अथाभूद्भारते क्षेत्रे विषये कुरूजांगले । हास्तिनाख्यपुराधीशो मधुक्रीडो महीपति: ॥74॥
राजसिंहचरो लंघिताखिलारातिसंहति: । असहँस्तौ समुद्यन्तौ तेजसा बलकेशवौ ॥75॥
करं परार्ध्यरत्नानि याचित्वा प्राहिणोद्वली । दण्डगर्भाभिधानाभिशालिनं सचिवाग्रिमम् ॥76॥
तद्वच:श्रवणात्तौ च गजकण्ठरवश्रुते: । कण्ठीरवौ वा संक्रुद्धौ रूद्ध्वाऽहर्पतितेजसौ ॥77॥
क्रीडितुं याचते मूढो गर्भव्यालं जड: करम् । समीपवर्ती चेत्तस्य समवर्ते तु दीयते ॥78॥
🏠
पर्व - 62
बुध्वा सपर्ययं सर्वं बोध्याभावाद्भवच्छिद: । यस्यावबोधो विश्रान्त: स शान्ति: शान्तयेऽस्तु व: ॥1॥
वक्तृश्रोतृकथाभेदान् वर्णयित्वा पुरा बुध: । पश्चाद्धर्मकथां ब्रूयाद् गम्भीरार्था यथार्थदृक् ॥2॥
विद्वत्वं संच्चरित्रत्वं दयालुत्वं प्रगल्भता । वाक्सौभाग्येंगितज्ञत्वे प्रश्नक्षोदसहिष्णुता ॥3॥
सौमुख्यं लोकविज्ञानं ख्यातिपूजाद्यभीक्षणम् । मिताभिधानमित्यादि गुणा धर्मोपदेष्टरि ॥4॥
तत्त्वज्ञेऽप्यपचारित्रे वक्तर्येतत्कथं स्वयम् । न चरेदिति तत्प्रोक्तं न गृह्नन्ति पृथग्जना: ॥5॥
सच्चारित्रेऽप्यशास्त्रज्ञे वक्तर्यल्पश्रुतोद्धता - । सहासयुक्तं सन्मार्गे विदधत्यवधीरणाम् ॥6॥
विद्वत्त्वसच्चरित्रत्वे मुख्यं वक्तरि लक्षणम् । अबाधितस्वरूपं वा जीवस्य ज्ञानदर्शने ॥7॥
युक्तमेतदयुक्तं चेत्युक्तं सम्यग्विचारयन् । स्थाने कुर्वन्नुपालम्भं भक्तया सूक्तं समाददन् ॥8॥
असारप्राग्ग्रहीतार्थविशेषाविहितादर: । अहसन्स्खलितस्थाने गुरूभक्त: क्षमापर: ॥9॥
संसारभीरूप्रोक्तवाग्धारणपरायण: । शुकमृद्धंससंप्रोक्तगुण: श्रोता निगद्यते ॥10॥
जीवाजीवादितत्त्वार्थो यत्र सम्यग्निरूप्यते । तनुसंसृतिभोगेषु निर्वेदश्च हितैषिणाम् ॥11॥
दानपूजातप:शीलविशेषाश्च विशेषत: । बन्धमोक्षौ तयोर्हेतुफले वाऽसुभृतां पृथक् ॥12॥
घटामटति युक्त्यैव सदसत्त्वादिकल्पना । ख्याता प्राणिदया यत्र मातेव हितकारिणी ॥13॥
सर्वसंगपरित्यागाद्यत्र यान्त्यंगिन: शिवम् । तत्त्वधर्मकथा सा स्यान्नाम्ना धर्मकथापरा ॥14॥
एवं पृथग्विनिर्दिश्य वक्त्रादित्रयलक्षणम् । अत: परं प्रवक्ष्यामि शान्तीशचरितं महत् ॥15॥
अथास्य द्वीपनाथस्य जम्बूद्वीपमहीपते: । लवणाम्भोधिनीलाम्भो लसद्विपुलवासस: ॥16॥
वक्त्रलीलां दधद्राष्ट्रमभीष्टं भरताह्नयम् । षट्खण्डमण्डितं वाद्धिंहिमवन्मध्यसंश्रितम् ॥17॥
भोगभूभूतभोगादिर्दशांगश्चक्रिणामपि । तत्र तीर्थकृतां वैश्यं सिद्धिश्चाघातिसंक्षयात् ॥18॥
तस्मात्तन्नाकलोकाच्च वरिष्ठं वर्ण्यते बुधै: । ऐरावतसमं वृद्धिहानिभ्यां परिवर्तनात् ॥19॥
मध्ये तस्य गिरिर्भाति भरतार्द्धविभागकृत् । पूर्वापरायतस्तुंगो यशोराशिरिवोज्ज्वल: ॥20॥
स्वर्गलोकजयाज्जाततोषाया वसुधास्त्रिय: । पुन्जीभूत: प्रहासो वा राजते राजताचल: ॥21॥
सफला सर्वदा वृष्टिर्ममोपरि न जातुचित् । युष्माकमिति शैलेन्द्रान् हसतीव स्वतेजसा ॥22॥
चलस्वभावे कुटिले जलाढये जलधिप्रिये । गुहास्यादिति नद्यौ योऽवमीदिति जुगुप्सया ॥23॥
देवविद्याधरै: सेव्य: सदा स्वाश्रयवर्तिभि: । सर्वेन्द्रियसुखस्थानमेष चक्रिणमन्वगात् ॥24॥
अपाच्यां चक्रबालान्तं पू:श्रेण्यां रथनूपुरम् । सबलाकमिव व्योम कुर्वती तत्र केतुभि: ॥25॥ उस विजयार्ध पर्वत की दक्षित श्रेणीमें रथनूपुर चक्रवाल नाम की नगरी है जो अपनी पताकाओं
वेष्टिता रत्नशालेन या पयोधरचुम्बिना । रत्नवेदिकयेवेयं जम्बूद्वीपवसुन्धरा ॥26॥
वर्द्धन्ते यत्र धर्मार्थकामा:संहर्षणादिव । यस्यां दरिद्रशब्दस्य बहिरंगार्थनिह्गुति: ॥27॥
प्रमाणनयनिक्षेपानुयोगैरन्यदुर्गमै: । पदार्थानां परीक्षेव गोपुरैर्यावभासते ॥28॥
अशीलभूषणा यत्र न सन्ति कुलयोषित: । वाचो जिनेन्द्रविद्यायामिवाचारित्रदेशिका: ॥29॥
ज्वलनादिजटी तस्या: पति: खगपति: कृती । मणीनामिव वाराशिर्गुणिनामाकरोऽभवत् ॥30॥
प्रतापाद्विद्विषो यस्य मम्लुर्वार्कस्य पल्लवा: । वृष्ठयाऽवर्द्धन्त वल्लर्यो वा नीत्या सफला: प्रजा: ॥31॥
तेन स्थाने यथाकालं शालयो वा सुयोजिता: । सामादय: सदोपाया: प्राफलन् बहुभोगत: ॥32॥
अतीतान् विश्वभूपेशान् संखयाभेदानिवोत्तर: । गुणस्थानकवृद्धिभ्यां विजित्य स महानभूत् ॥33॥
उभयायत्तसिद्धित्वाद् दैवपौरूषयोगत: । कोपद्वयव्यपेतत्वात्तन्त्रावापविमर्शनात् ॥34॥
शक्तिसिद्धयनुगामित्वाद्योगक्षेमसमागमात् । षड्गुणानुगुणत्वाच्च तद्राज्यमुदितोदितम् ॥35॥
तिलकान्तदिवीत्यासीत्पुरं तत्र महीपति: । चन्द्राभस्तत्प्रिया नाम्ना सुभद्रेति तयो: सुता ॥36॥
वायुवेगाजिताशेषवेगिविद्याधराधिपा । स्ववेगविद्यया प्रोद्यद्विद्युदुद्योतजिद्द्युति: ॥37॥
तस्य त्रिवर्गनिष्पत्यै सा विश्वगुणभूषणा । भूता पुरूषकारस्य सदैवस्येव शेमुषी ॥38॥
प्रतिपंचन्द्ररेखेव सा सर्वजनसंस्तुता । द्वितीयेव धरारक्ता भोग्या तेन स्वपौरूषात् ॥39॥
लक्ष्मी: परिकरस्तस्या व्यधायि विविधर्द्धिका । तत्प्रेमप्रेरणात्तेन वा लभ्ये न करोति किम् ॥40॥
कौलीन्यादनुरक्तत्वादभूत्सैकपति: सती । भूपतेश्चैकभार्यत्वं प्रेमाधिक्याज्जगुर्जना: ॥41॥
रूपादिगुणसम्पत्तिस्तस्या: किं कथ्यते पृथक् । तस्य चेच्छक्रवच्छच्यां तस्यां प्रीतिरमानुषी ॥42॥
दयावबोधयोर्मोक्ष इव सूनुस्तयोरभूत् । अर्ककीर्ति: स्वकीर्त्याभाप्रभासितजगत्त्रय: ॥43॥
नीतिविक्रमयोर्लक्ष्मीरिव सर्वमनोहरा । स्वयम्प्रभाभिधानाऽऽसीत्प्रभेव विधुना सह ॥44॥ जिस प्रकार नीति और पराक्रमके लक्ष्मी होती है उसी प्रकार उन दोनोंके सबका मन हरनेवाली
स्वयंप्रभा नाम की पुत्री भी उत्पन्न हुई जो अर्ककीर्तिके साथ इस प्रकार बढ़ने लगी जिस प्रकार कि
मुखेनाम्भोजमक्षिभ्यामुत्पलं मणिदर्पणम् । त्विषा कान्त्या विधुं जित्वा बभौ सा म्रूपताकया ॥45॥
उत्पन्नं यौवनं तस्यां लतिकायां प्रसूनवत् । खगकामिषु पुष्पेषुज्वरश्चोत्थापितस्तया ॥46॥
आपाण्डुगण्डभाभासिवक्त्रलोलविलोचना । मध्यांगकार्श्यसम्भूतसम्भ्रान्त्येव स्वयम्प्रभा ॥47॥
तन्व्या रोमावली तन्वी हरिनीलरूचिर्व्यभात् । आरूरूक्षुरिवोद्धत्या तुंगपीनघनस्तनौ ॥48॥
अनालीढमनोजापि व्यक्ततद्विक्रियेव सा । सम्पन्नयौवनेनैव जनानामगमद्दृशम् ॥49॥
अथान्येद्युर्जगन्नन्दनाभिनन्दनचारणौ । स्थितौ मनोहरोद्याने ज्ञात्वा पतिनिवेदकात् ॥50॥
चतुरंगबलोपेत: सपुत्रोऽन्त:पुरावृत: । गत्वाभिवन्द्य सद्धर्मश्रवणानन्तरं परम् ॥51॥
सम्यग्दर्शनमादाय दानशीलादि वादरात् । प्रणम्य चारणौ भक्त्या प्रत्येत्य प्राविशत्पुरम् ॥52॥
स्वयम्प्रभापि सद्धर्मं तत्रादायैकदा मुदा । पर्वोपवासप्रम्लानतनुरभ्यर्च्य वार्हत: ॥53॥
तत्पादपंकजश्लेषापवित्रां पापहां स्त्रजम् । चित्रां पित्रेऽदित द्वाभ्यां हस्ताभ्यां विनयानता ॥54॥
तामादाय महीनाथो भक्त्यापश्यत्स्वयम्प्रभाम् । उपवासपरिश्रान्तां परायेति विसर्ज्य ताम् ॥55॥
यौवनापूर्णसर्वांगरमणीया प्रियात्मजा । कस्मै देयेयमित्येवमात्मन्येव वितर्कयन् ॥56॥
मन्त्रिवर्ग समाहूय प्रस्तुतार्थ न्यवेदयत् । श्रुत्वा तत्सुश्रुत: प्राह परीक्ष्यात्मनि निश्चितम् ॥57॥
अमुस्मिन्नुत्तरश्रेण्यामलकाख्यापुरेशितु: । मयूरग्रीवसंज्ञस्य प्रिया नीलान्जना तयो: ॥58॥
अश्वग्रीवोऽग्रिमो नीलरथ: कण्ठान्तनीलसु । वज्राख्यातास्त्रय: सर्वेऽप्यभूवन् पंच सूनव: ॥59॥ कि इसी विजयार्धकी उत्तर श्रेणीमें अलका नगरी के राजा मयूरग्रीव हैं, उनकी स्त्री का नाम
अश्वग्रीवस्य कनकचित्रा देवी सुतास्तयो: । ते ग्रीवांगदचूडान्तरत्ना रत्नरथादिभि: ॥60॥
शतानि पंच मन्त्र्यस्य हरिश्मश्रु: श्रुताम्बुधि: । शतबिन्दुश्च नैमित्तिकोऽष्टांगनिपुणो महान् ॥61॥
इति सम्पूर्णराज्याय खगश्रेणीद्वयेशिने । अश्वग्रीवाय दातव्या कन्येत्येतद्विचारयन् ॥62॥
अस्त्येव सुश्रुताख्यातं सर्वमित्यवनीपतिम् । इदं बहुश्रुतोऽवोचदुत्तरं स्वमनोगतम् ॥63॥
स्वाभिजात्यमरोगत्वं वय: शीलं श्रुतं वपु: । लक्ष्मी: पक्ष: परीवारो वरे नव गुणा: स्मृता: ॥64॥
अश्वग्रीवे त एतेऽपि सन्ति किन्तु वयोऽधिकम् । तस्मात्कोऽपिवरोऽन्योऽस्तु सवयास्तद्गुणान्वित: ॥65॥
राजा सिंहरथ: ख्यात: पुरे गगनवल्लभे । पर: पद्मरथो मेघपुरे चित्रपुराधिराट् ॥66॥
अरिन्जयाख्यस्त्रिपुरे खगेशो ललितांगद: । कनकादिरथो विद्याकुशलोऽश्वपुरेश्वर: ॥67॥
महारत्नपुरे विश्वखगाधीशो धनन्जय: । कन्यैष्वेकतमायेयं दातव्येति विनिश्चितम् ॥68॥
अवधार्य वचस्तस्य विचार्य श्रुतसागर: । स्मृतिचक्षुरिमां वाचं व्याजहार मनोहराम् ॥69॥
कुलारोग्यवयोरूपाद्युपेताय यदीष्यते । दातुं कन्या मया किन्चिदुच्यते श्रूयतां मनाक् ॥70॥
पुरं सुरेन्द्रकान्तारमुदक्श्रेण्यां तदीश्वर: । मेघवाहननामास्य प्रियाभून्मेघमालिनी ॥71॥
तयोविंद्युत्प्रभ: सूनुर्त्योतिर्मालामला सुता । खगाधीशो ननन्दाभ्यामिवायेन धिया च स: ॥72॥
सिद्धकूटमगात्स्तोतुं कदाचिन्मेघवाहन: । तत्र दृष्ट्वाऽवधिज्ञानं वरधर्माख्यचारणम् ॥73॥
वन्दित्वा धर्ममाकर्ण्य स्वसूनो: प्राक्तनं भवम् । पप्रच्छ श्रृणु विद्याभृत्प्रणिधायेति सोऽब्रवीत् ॥74॥
द्वीपेऽस्मिन् प्राग्विदेहेऽस्ति विषयो वत्सकावती । पुरी प्रभाकरो राजा नन्दन: सुन्दराकृति: ॥75॥
सूनुविंजयभद्रोऽस्य जयसेनोदरोदित: । सोऽन्यदा फलितं चूतं वने वीक्ष्य मनोहरे ॥76॥
विफलं तत्समुद्भूतवैराग्य: पिहिताश्रवात् । गुरो सहस्त्रैर्भूपालैश्चतुर्भि: संयमं ययौ ॥77॥
प्रान्ते माहेन्द्रकल्पेऽभूद्विमाने चक्रकाह्नये । सप्ताब्धिजीवितो दिव्यभोगांस्तत्रान्वभूच्चिरम् ॥78॥
तत: प्रच्युत्य सूनुस्तेऽजायतायं प्रयाति च । निर्वाणमिति संस्तोतुं मया यातेन तच्छूतम् ॥79॥ वहाँसे च्युत होकर यह तुम्हारा पुत्र हुआ है और इसी भव से निर्वाणको प्राप्त होगा । श्रुतसागर
मन्त्री कहने लगा कि मैं भी स्तुति करने के लिए सिद्धकूट जिनालयमें वरधर्म नामक चारण मुनिके पास
तस्मै वरगुणै: सर्वै: पूर्णायेयं प्रदीयताम् । ज्योतिर्मालां च गृह्णीम सपुण्यामर्ककीर्तये ॥80॥
इति तद्वचनं श्रुत्वा सुमतिर्मतिवत्तम: । कन्यां सम्प्रार्थयन्तेऽमी खगाधीशा: पृथक् पृथक् ॥81॥
तस्मान्नास्मै प्रदातव्या बहुवैरं भवेत्तत: । स्वयंवरविधि: श्रेयानित्युक्त्वा विरराम स: ॥82॥
तदेवानुमतं सर्वैस्तत: सम्पूज्य मन्त्रिण: । विसर्ज्य खेचराधीश: सम्भिन्नश्रोतृसंज्ञकम् ॥83॥
स्वयम्प्रभाया: कश्चेतोवल्लभो भवतेति तम् । अपृच्छत् स पुराणार्थवेदीत्थं प्रत्युवाच तम् ॥84॥
गुरू: प्रथमचक्रेशं प्राक्पुराणनिरूपणे । आदिकेशवसम्बद्धमित्यवोचत्कथान्तरम् ॥85॥
द्वीपेऽस्मिन् पुष्कलावत्यां विषये प्राग्विदेहजे । समीपे पुण्डरीकिण्या नगर्या मधुके वने ॥86॥
पुरूरवा वनाधीशो मार्गभ्रष्टस्य दर्शनात् । मुने: सागरसेनस्य पथ: सन्चितपुण्यक:॥87॥
मद्यमांसनिवृत्तेश्च कृतसौधर्मसम्भव: । तत: प्रच्युत्य तेऽनन्तसेनायाश्च सुतोऽभवत् ॥88॥
मरीचिरेष दुर्मार्गदेशनानिरतश्चिरम् । भ्रान्त्वा संसारचक्रेऽस्मिन् सुरम्यविषये पुरम् ॥89॥
पोदनाख्यं पतिस्तस्य प्रजापतिमहानृप: । स तनूजो मृगावत्यां त्रिपृष्टोऽस्य भविष्यति ॥90॥ वह कहने लगा कि भगवान् ऋषभदेवने पहले पुराणोंका वर्णन करते समय प्रथम चक्रवर्तीसे, प्रथम नारायणसे सम्बन्ध रखनेवाली एक कथा कही थी । जो इस प्रकार है-
अग्रजोऽस्यैव भद्राया विजयो भविता सुत: । तावेतौ श्रेयसस्तीर्थे हत्वाऽश्वग्रीवविद्विषम् ॥91॥
त्रिखण्डराज्यभागेशौ प्रथमौ बलकेशवौ । त्रिपृष्ट: संसृतौ भ्रान्त्वा भावी तीर्थकरोऽन्तिम: ॥92॥
भवतोऽपि नमे: कच्छसुतस्यान्वयसम्भवात् । वंशजे नास्ति सम्बन्धस्तेन बाहुबलीशितु: ॥93॥
त्रिपृष्ठाय प्रदातव्या त्रिखण्डश्रीसुखेशिने । अस्तु तस्य मनोहर्त्री कन्या कल्याणभागिनी ॥94॥
तेनैव भवतो भावि विश्वविद्याधरेशिता । निश्चित्येतदनुष्ठेयमादितीर्थकरोदितम् ॥95॥
इति तद्वचनं चित्ते विधाय तमसौ मुदा । नैमित्तिकं समापूज्य रथनूपुरभूपति: ॥96॥
सुदूतमिन्दुनामानं सुलेखोपायनान्वितम् । प्रजापतिमहाराजं प्रतिसम्प्राहिणेत्तदा ॥97॥
स्वयम्प्रभापतिर्भावी त्रिपृष्ठ इति भूपति: । नैमित्तिकाद्विदित्वैतज्जयगुप्तात्पुरैव स: ॥98॥
खचराधिपदूतं खादवतीर्णं महोत्सव: । प्रतिगृह्य ससन्मानं वने पुष्पकरण्डके ॥99॥
स दूतो राजगेहं स्वं सम्प्रविश्य सभागृहे । निजासने समासीन: प्राभृतं सचिवार्पितम् ॥100॥
विलोक्य रागाद् भूपेन स्वानुराग: समर्पित: । प्राभृतेनैव तुष्टा: स्म इति दूतं प्रतोषयन् ॥101॥
श्रीत्रिपृष्ठ: कुमाराणां वरिष्ठ: कन्ययाऽनया । स्वयम्प्रभाख्यया लक्ष्म्येवाद्यालड्.क्रियतामिति ॥102॥
श्रुत्वा यथार्थमस्याविर्भूतद्विगुणसम्मद: । वाचिकं च समाकर्ण्य भुजाप्राक्रान्तमस्तक: ॥103॥
स्वयमेव खगाधीश: स्वजामातुर्महोदयम् । इमं विधातुमन्यंच सचिन्तस्तत्र के वयम् ॥104॥
इति दूतं तदायातं कार्यसिद्धया प्रसाधयन् । प्रपूज्य प्रतिदत्तं च प्रदायाशु व्यसर्जयत् ॥105॥
स दूत: सत्वरं गत्वा रथनूपुरनायकम् । प्राप्य प्रणम्य कल्याणकार्यसिद्धिं व्यजिज्ञपत् ॥106॥
तच्छूत्वा खेचराधीश: प्रप्रमोदप्रचोदित: । न कालहरणं कार्यमिति कन्यासमन्वित: ॥107॥
महाविभूत्या सम्प्राप्य नगरं पोदनाह्नयम् । उद्बद्धतोरणं दत्तचन्दनच्छदमुत्सुकम् ॥108॥
केतुमालाचलद्दोभिंराह्नयद्वातिसम्भ्रमात् । प्रतिपात: स्वसम्पत्या महीश: प्राविशन्मुदा ॥109॥ यह सुनकर विद्याधरोंका राजा बहुत भारी हर्ष से प्रेरित हुआ और सोचने लगा कि ‘इस कार्य में
विलम्ब करना योग्य नहीं है’ यह विचार कर वह कन्या सहित बड़े ठाट - बाट से पोदनपुर पहुँचा । उस
प्रविश्य स्वोचितस्थाने तेनैव विनिवेशित: । प्राप्तप्राघूर्णकाचारप्रसन्नह्णदयानन: ॥110॥
विवाहोचितविन्यासैस्तर्पिताशेषभूतल: । स्वयम्प्रभां प्रभां वान्यां त्रिपृष्ठाय प्रदाय ताम् ॥111॥
सिंहाहिविद्विट्वाहिन्यौ विद्ये साधयितुं ददौ । ते तत्र सर्वे सम्भूय व्यगाहन्त सुखाम्बुधिम् ॥112॥
इतोऽश्वग्रीवचक्रेशो विनाशपिशुन: पुरे । उत्पातस्त्रिविध: प्रोक्त: सद्य: सममुदुद्ययौ ॥113॥
अभूतपूर्व तं दृष्ट्वा सहसा भीतिमान् जन: । पल्योपमाष्टभागोवशेषे वा भोगभूभुव: ॥114॥
अश्वग्रीवश्च सम्भ्रान्त: समन्त्रं पृष्टवान् पृथक् । शतबिन्दुं निमित्तिज्ञं किमेतदिति तत्फलम् ॥115॥
येन सिंहो हत: सिन्धुदेशे रूढपराक्रम: । अहारि प्राभृतं येन त्वां प्रति प्रहितं हठात् ॥116॥
रथनूपुरनाथेन भवद्योग्यं प्रदायि च । यस्मै स्त्रीरत्नमेतस्मात्संक्षोभस्ते भविष्यति ॥117॥
तत्सूचकमिदं सर्वं कुर्वेतस्य प्रतिक्रियाम् । इति नैमित्तिकेनोक्तं कृत्वा ह्णदि खगाधिप: ॥118॥
अरेर्गदस्य चात्मज्ञ: प्रादुर्भावनिषेधनम् । विदधाति तदस्माभिविंस्मृतं सस्मयैर्वृथा ॥119॥
इदानीमप्यसौ दुष्टो युष्माभिरविलम्बितम् । विषान्कुरवदुच्छेद्य इत्यवादीत्स्वमन्त्रिण: ॥120॥
तेऽपि तत्सर्वमन्विष्य स्वगूढप्रहितैश्चरै: । नैमित्तिकोक्तं निश्चित्य तस्य सिंहवधादिकम् ॥121॥
त्रिपृष्ठो नाम दर्पिष्ठ: प्रजापतिसुत: क्षितौ । विश्वक्षितीशानाक्रम्य विक्रमाद्विजिगीषते ॥122॥
परीक्षितव्य: सोऽस्मासु कीदृश इति दक्षिणै: । दूतैरिति खगाधीशमवोचन्मन्त्रिण: पृथक् ॥123॥
तदाकर्ण्य तदैवासौ चिन्तागतिमनोगती । दूतौ सम्प्रेषयामास त्रिपृष्ठं प्रति विद्वरौ ॥124॥
गत्वा तौ स्वागतिं पूर्व निवेद्यानुमतौ नृपम् । दृष्ट्वा यथोचितं दत्वा प्राभृतं विनयान्वितौ ॥125॥
अश्वग्रीवेण देवेन त्वमयाज्ञापितोऽस्यहम् । रथावर्त्ताद्रिमेष्यामि तमायातु भवानिति ॥126॥
आवां त्वामागतौ नेतुमाज्ञामारोप्य मस्तकम् । आगन्तव्यं त्वयेत्युच्चैरूचतु: सोऽपि कोपवान् ॥127॥
अश्वग्रीवा: खरग्रीवा: क्रौन्चग्रीवास्तथापरे । दृष्टा: क्रमेलकग्रीवा नापूर्वो न: स पश्यताम् ॥128॥
इत्याह तौ च किं युक्तमवमन्तुं खगेश्वरम् । विश्वरूपसमभ्यर्च्यं तं भवत्पक्षपातिनम् ॥129॥
इत्याहतु: खगेशोऽस्तु पक्षपाती न वार्यते । नाहमेष्यामि तं द्रष्टुमिति प्रत्यव्रबीदसौ ॥130॥
दर्पादिदं न वक्तव्यमदृष्ट्वा चक्रवर्तिनम् । देहेऽपि न स्थितिर्भूमौ क: पुन: स्थातुमर्हति ॥131॥
इति श्रुत्वा वचो राज्ञा तयोश्चक्रेण वर्तितुम् । शीलोऽसौ किं घटादीनां कारक: कारकाग्रणी: ॥132॥
तस्य किं प्रेक्ष्यमित्युक्तौ तौ सकोपाववोचताम् । कन्यारत्नमिदं चक्रिभोग्यं किं तेऽद्य जीर्यते ॥133॥
रथनूपुरराजाऽसौ ज्वलनादिजटी कथम् । प्रजापतिश्च नामापि सन्धत्ते चक्रिणि द्विषि ॥134॥
इति सद्यस्ततो दूतौ निर्पत्य द्रुतगामिनौ । प्राप्याश्वग्रीवमानम्य प्रोचतुस्तद्विजृम्भणम् ॥135॥
खगेश्वरोऽपि तत्क्षन्तुमक्षमो रूक्षवीक्षण: । भेरीमास्फालयामास रणप्रारम्भसूचिनीम् ॥136॥
तद्ध्वनिर्व्याप दिक्प्रान्तान् हत्वा दिग्दन्तिनां मदम् । चक्रवर्तिनि संक्रुद्धे महान्त: के न बिभ्यति ॥137॥
चतुरन्गबलेनासौ रथावर्तमगात् गिरिम् । पेतुरूल्काश्चचालैला दिक्षु दाहा जजृम्भिरे ॥138॥
प्रजापतिसुतौ चैतद्विदित्वा विततौजसौ । प्रतीयतु: प्रतापाग्निभास्मितारीन्धनोच्चयौ ॥139॥
उभयो: सेनयोस्तत्र संग्राम: समभून्महान् । समक्षयात्तयो: प्रापदन्तक: समवर्तिताम् ॥140॥
युद्ध्वा चिरं पदातीनां वृथा किं क्रियते क्षय: । इति त्रिपृष्ठो युद्धार्थमभ्यश्वग्रीवमेयिवान् ॥141॥
हयग्रीवोऽपि जन्मान्तरानुबद्धोरूवैरत: । आच्छादयदतिक्रुद्ध: शरवर्षैर्विरोधिनम् ॥142॥ जन्मान्तरसे बँधे हुए भारी वैरके कारण अश्वग्रीव बहुत क्रुद्ध था अत: उसने बाण - वर्षाके द्वारा
द्वन्द्वयुद्धेन तौ जेतुमक्षमावितरेतरम् । मायायुद्धं समारब्धौ महाविद्याबलोद्धतौ ॥143॥
युद्ध्वा चिरं हयग्रीवश्चकं न्यक्षिपदभ्यरिम् । तदैवादाय तद्ग्रीवामच्छिदत् केशव: क्रुधा ॥144॥
तावर्कविधुसंकाशौ त्रिपृष्ठविजयौ विभू । भरतार्द्धाधिपत्येन भात: स्म ध्वस्तविद्विषौ ॥145॥
नृपेन्द्रै: खेचराधीशैर्व्यन्तरैर्मागधादिभि: । कृताभिषेक: सम्प्राप त्रिपृष्ठ: पृष्ठतां क्षिते: ॥146॥
आधिपत्यं द्वयो: श्रेण्योर्विततारादिकेशव: । ह्णष्ट: स्वयम्प्रभापित्रे न स्यार्त्कि श्रीमदाश्रयात् ॥147॥
असि: शंखों धनुश्चर्क्र शक्तिर्दण्डो गदाभवन् । रत्नानि सप्त चक्रेशो रक्षितानि मरूद्रणै: ॥148॥
रत्नमाला हर्ल भास्वद्रामस्य मुशर्ल गदा । महारत्नानि चत्वारि बभूवुर्भाविनिर्वृते: ॥149॥
देव्य: स्वयंप्रभामुख्या: सहस्राण्यस्य षोड़श । बलस्याष्टसहस्राणि कुलरूपगुणान्विता: ॥150॥
अर्ककीर्ते: कुमारस्य ज्योतिर्मालां खगाधिप: । प्राजापत्यविवाहेन महत्या सम्पदाग्रहीत् ॥151॥
तयोरमिततेजाश्च सुतारा चाभवत्सुता । प्रतिपच्चन्द्रयो: शुक्लपक्षरेखेव चैन्दवी ॥152॥
विष्णो: स्वयम्प्रभायां च सुत: श्रीविजयोऽजनि । ततो विजयभद्राख्य: सुता ज्योति:प्रभाह्णया ॥153॥
प्रजापतिमहाराज: भूरिप्राप्तमहोदय: । कदाचिज्जातसंवेग: सम्प्राप्य पिहिताश्रवम् ॥154॥
आदाज्जैनेश्वरं रूपं त्यक्त्वाऽशेषपरिग्रहम् । येन सम्प्राप्यते भाव: सुखात्मपरमात्मन: ॥155॥
बाह्येतरद्विषड्भेदतपस्यविरतोद्यम: । चिरं तपस्यन् सन्चित्तमायुरन्ते समादधत् ॥156॥
मिथ्यात्वं संयमाभावं प्रमादं सकषायताम् । कैवल्यं स सयोगत्वं त्यक्त्वाऽभूत्परम: क्रमात् ॥157॥
खेचरेशोऽपि तच्छ्रत्वा राज्यं दत्त्वाऽर्ककीर्तये । निर्ग्रन्थरूपमापन्नो जगन्नन्दनसन्निधौ ॥158॥
अयाचितमनादानमार्जवं त्यागमस्पृहाम् । क्रोधादिहापनं ज्ञानाभ्यासं ध्यानं च सोऽन्वयात् ॥159॥
ततो नि:शेषमंहांसि निहत्य निरूपोपधि: । निराकारोऽपि साकारो निर्वाणमगमत्परम् ॥160॥
त्रिपृष्ठो निष्ठुरारातिविजयो विजयानुग: । त्रिखण्डाखण्डगोमिन्या: कामं कामान्समन्वभूत् ॥161॥
स कदाचित्स्वजामातु: सुतयाऽमिततेजस: । स्वयंवरविधानेन मालामासंजयद्रले ॥162॥
अनेनैव विधानेन सुतारा चानुरागिणी । स्वयं श्रीविजयस्यासीद्वक्षस्थलनिवासिनी ॥163॥
इत्यन्योन्यान्वितापत्यसम्बन्धा: सर्वबान्धवा: । स्वच्छाम्भ:पूर्णसम्फुल्लसरस: श्रियमभ्ययु: ॥164॥
आयुरन्तेऽवधिस्थानप्राप्तेऽर्द्धभरतेशिनि । विजयो राज्यमायोज्य सुते श्रीविजये स्वयम् ॥165॥
दत्वा विजयभद्राय यौवराज्यपदं च स: । चक्रिशोकसमाक्रान्तस्वान्तो हन्तुमघद्विषम् ॥166॥
सहस्रै: सप्तभि: सार्द्ध राजभि: संयमं ययौ । सुवर्णकुम्भमभ्येत्य मुनिमभ्यर्णनिर्वृति: ॥167॥
घातिकर्माणि निर्मूल्य कैवल्यं चोदपादयत् । अभून्निलिम्पसम्पूज्यो व्यपेतागारकेवली ॥168॥
तदाकर्ण्यार्ककीर्तिश्च निधायामिततेजसम् । राज्ये विपुलमत्याख्याच्चारणादगमत्तप: ॥169॥
नष्टकर्माष्टकोऽभीष्टामसावापाष्टमीं महीम् । अनाप्यं नाम किं त्यक्तं व्यक्तमाशावधीरिणाम् ॥170॥
तयोरविकलप्रीत्या याति काले निराकुलम् । सुखेनामितशब्दादितेज:श्रीविजयाख्ययो: ॥171॥
कश्चिच्छ्रीविजयाधीशं साशीर्वाद: कदाचन । उपेत्य राजंश्चित्तं त्वं प्रणिधेहि ममोदिते ॥172॥
पोदनाधिपतेर्मूर्घ्नि पतितेऽतोऽह्नि सप्तमे । महाशनिस्ततश्चिन्त्य: प्रतीकारोऽस्य सत्वरम् ॥173॥
इत्यब्रवीत्तदाकर्ण्य युवराजोऽरूणेक्षण: । वद किं पतिता सर्वविदस्ते मस्तके तदा ॥174॥
इति नैमित्तिकं दृष्ट्वा प्राक्षीत्सोऽप्याह मूर्त्रि मे । रत्नवृष्टि: पतेत्साकमभिषेकेण हीत्यद: ॥175॥
सावष्टम्भं वत्त: श्रुत्वा तस्य राजा सविस्मय: । भद्र त्वयाऽऽस्यतामस्मिन्नासने किन्चिदुच्यते ॥176॥
किंगोत्र: किंगुरूर्ब्रूहि किंशास्त्र: किंनिमित्तक: । किंनाम किंनिमित्तोऽयमादेश इति पृष्टवान् ॥177॥
कुण्डलाख्यपुरे राजा नाम्ना सिंहरथो महान् । पुरोहित: सुरगुरूस्तस्य शिष्यो विशारद: ॥178॥
तच्छिष्येण निमित्तनि प्रव्रज्य हलिना सह । मयाऽष्टांगान्यधीतानि सोपदेशश्रुतानि च ॥179॥
अष्टांगानि निमित्तनि कानि किंलक्षणानि चेत् । श्रृणु श्रीविजयायुष्मन् यथाप्रश्चं ब्रवीमि ते ॥180॥
अन्तरिक्षसभौमांगस्वरव्यनलक्षण: । छिन्नस्वप्नविभेदेन प्रोक्तान्यागमवेदिभि: ॥181॥
तात्स्थ्यात्साहचर्याद्वा ज्योतिषामन्तरिक्षवाक् । चन्द्रादिपन्चभेदानामुदयास्तमयादिभि: ॥182॥
जय: पराजयो हानिर्वृद्धिर्मन्यु: सजीवित: । लाभालाभौ निरूप्यन्ते यत्रान्यानि च तत्तवत: ॥183॥
भूमिस्थानादिभेदेन हानिवृद्धयादिबोधनम् । भूम्यन्त: स्थितरत्नादिकथनं भौममिष्यते ॥184॥ पृथिवी के जुदे - जुदे स्थान आदिके भेदसे किसी की हानि वृद्धि आदि का बतलाना तथा पृथिवीके
अंगप्रत्यंगन्संस्पर्शदर्शनादिभिरन्गिनाम् । अंगकालत्रयोत्पन्नशुभाशुभनिरूपणम् ॥185॥
मृदंगादिगजेन्द्रादिचेतनेतरसुस्वरै: । दु:स्वरैश्च स्वरोऽभीष्टानिष्टप्रापणसूचन: ॥186॥
शिरोमुखादिसंजाततिललक्ष्मत्रणादिभि: । व्यन्जनं स्थानमानैश्य लाभालाभादिवेदनम् ॥187॥
श्रीवृक्षस्वस्तिकाद्यष्टशतांगगतलक्षणै: । भोगैश्वर्यादिसम्प्राप्तिकथनं लक्षणं मतम् ॥188॥
देवमानुषरक्षोविभागैर्वस्त्रायुधादिषु । मूषकादिकृतच्छेदै: छिन्नं तत्फलभाषणम् ॥189॥
शुभाशुभविभागोक्तस्वप्नसन्दर्शनान्नृणम् । स्वप्नो वृद्धिविनाशादियाथात्म्यकथनं मत: ॥190॥
इत्युक्त्वा क्षुत्पिपासादिद्वार्विशतिपरीषहै: । पीडितोऽसहमानोऽहं पद्यिनीखेटमाययौ ॥191॥
तत्र तन्मातुल: सोमशर्मा चन्द्राननां सुताम् । हिरण्यलोमासम्भूतां प्रीत्या मह्यं प्रदत्तवान् ॥192॥
द्रव्यार्जनं परित्यज्य निमित्ताभ्यासतत्परम् । सा मां निरीक्ष्य निर्विण्णा पितृदत्तधनक्षयात् ॥193॥
भोजनावसरेऽन्द्येद्युर्धनमेतत्त्वदर्जितम् । इति पात्रेऽक्षिपद्रोषान्मद्वराटकसन्चयम् ॥194॥
रन्जितस्फटिके तत्र तपन्नाभीषुसन्निधिम् । कान्ताक्षिप्तकरक्षालनाम्बुधारां च पश्चता ॥195॥
मयाऽर्थलाभं निश्चित्य तोषाभिषवपूर्वकम् । अमोघजिह्वनाम्नाऽऽपमादेशस्तेऽधुना कृत: ॥196॥
इत्यन्वाख्यत् स तच्छ्रत्वा सयुक्तिकमसौ नृप: । चिन्ताकुलो विसर्ज्यैनमुक्तवानिति मन्त्रिण: ॥197॥
इर्द प्रत्येयमस्योक्तं विचिन्त्येत्प्रतिक्रिया: । अभ्यर्णे मूलनाशे क: कुर्यात् कालविलम्बनम् ॥198॥
तच्छ्रुत्वा सुमति: प्राह त्वामम्भोधिजलान्तरे । लोहमन्जूषिकान्तस्थं स्थापयामेति रक्षितुम् ॥199॥
मकरादिभयं तत्र विजयार्द्धगुहान्तरे । निदधाम इति श्रुत्वा स सुबुद्धिरभाषत ॥200॥
तद्वचोऽवसितौ प्राज्ञ: पुरावित्तकवित्तदा । अथाख्यानकमित्याख्यत्प्रसिद्धं बुद्धिसागर: ॥201॥
दु:शास्त्रश्रुतिदर्पिष्ठ: सोम: सिंहपुरे वसन् । परिव्राट् स विवादार्थे जिनदासेन निर्जित: ॥202॥
मृत्वा तत्रैव कालान्ते सम्भूय महिषो महान् । वणिग्लवणदुर्भारचिरवाहवशीकृत: ॥203॥
प्राक् पोषयद्धिर्नि:शक्तिरिति पश्चादुपेक्षित:। जातिस्मर: पुरे बद्धवैरोऽप्यपगतासुक: ॥204॥
श्मशाने राक्षस: पापी तस्मिन्नेवोपपद्यत । तत्पुराधीशिनौ कुम्भभीभौ कुम्भस्य पाचक: ॥205॥
रसायनादिपाकाख्यस्तद्भोग्यपिशितेऽसति । शिशोंर्यसोस्तदा मांसं स कुम्भस्य न्ययोजयत् ॥206॥
तत्स्वादलोलुप: पापी तदाप्रभृति खादितुम् । मनुष्यमांसमारब्ध सम्प्रेप्सुर्नारर्की गतिम् ॥207॥
प्रजानां पालको राजा तावत्तिष्ठतु पालने । खादत्ययमिति त्यक्त: स त्याज्य: सचिवादिभि: ॥208॥
तन्मांसजीवित: क्रूर: कदाचिन्निजपाचकम् । हत्वा साधिततद्विद्य: संक्रान्तप्रोक्तराक्षस: ॥209॥
प्रजा: स भक्षायामस प्रत्यहं परितो भ्रमन् । तत: सर्वेऽपि सन्त्रस्ता: पौरा: सन्त्यज्य तत्पुरम् ॥210॥
नगरं प्राविशन् कारकर्ट नाम महाभिया । तत्राप्यागत्य पापिष्ठ: कुम्भाख्योऽभक्षयत्तराम् ॥211॥
तत: प्रभृति तत्प्राहु: कुम्भकारकर्ट पुरम् । यथादृष्टनृभक्षित्वाद्भीत्वैकशकटौदनम् ॥212॥
खादैकमानुषं चेति प्रजास्तस्य स्थिर्ति व्यधु: । तत्रैव नगरे चण्डकौशिको नाम विप्रक: ॥213॥
सोमश्रीस्तत्प्रिया भूतसमुपासनतश्चिरम् । मौण्डकौशिकनामानं तनयं ताववापतु: ॥214॥
कुम्भाहाराय यातं तं कदाचिन्मुण्डकौशिकम् । शकटस्योपरि क्षिप्तं नीत्वा भूतै: प्रयायिभि: ॥215॥
कुम्भेनानुयता दण्डहस्तेनाक्रम्य तर्जितै: । भयाद्विले विनिक्षिप्तं जगाराजगरो द्विजम् ॥216॥
विजयार्द्धगुहायां तन्निक्षेपणमयुक्तकम् । पथ्यं तद्वचनं श्रुत्वा सूक्ष्मघीर्मतिसागर: ॥217॥
भूपतेरशने: पातो नोक्तो नैमित्तिकेन तत् । पोदनाधिपति: कश्चिदन्योऽवस्थाप्यतामिति ॥218॥
खगाद भवता प्रोक्तं युक्तमित्यभ्युपेत्य ते । सम्भूय मन्त्रिणो यक्षप्रतिबिम्ब नृपासने ॥219॥
निवेश्य पोदनाधीशस्त्वमित्येनमपूजयत् । महीशोऽपि परित्यक्तराज्यभोगोपभोगक: ॥220॥
प्रारब्धपूजादानादिर्निजप्रकृतिमण्डल: । जिनचैत्यालये शान्तिकर्म कुर्वन्नुपाविशत् ॥221॥
सप्तमेऽहनि यक्षस्य प्रतिमायां महाध्वनि: । न्यपतन्निष्ठुरं मूर्घ्रि सहसा भीषणोऽशनि: ॥222॥
तस्मिन्नुपद्रवे शान्ते प्रमोदात्पुरवासिन: । वर्द्धमानानकध्वानैरकुर्वन्नुत्सवं परम् ॥223॥
नैमित्तिकं समाहूय राजा सम्पूज्य दत्तवान् । तस्मै ग्रामशतं पद्मिनीखेटेन ससम्मद: ॥224॥
विधाय विधिवद्धक्त्या शान्तिपूजापुरस्सरम् । महाभिषेकं लोकेशामर्हतां सचिवोत्तमा: ॥225॥
अष्टापदमयै: कुम्भैरभिषिच्य महीपतिम् । सिंहासनं समारोप्य सुराज्ये प्रत्यतिष्ठपत् ॥226॥
एवं सुखसुखेनैव काले गच्छति सोऽन्यदा । विद्यां स्वमातुरादाय संसाध्याकाशगामिनीम् ॥227॥
सुतारया सह ज्योतिर्वनं गत्वा रिरंसया । यथेष्टं विहरंस्तत्र सलीलं कान्तया स्थित: ॥228॥
इतश्रमरचंचाख्यपुरेशोऽशनिघोषक: । आसुर्याश्र सुतो लक्ष्म्या महानिन्द्राशने: खग: ॥229॥
विद्यां स भ्रामरीं नाम्रा प्रसाध्यायान्पुरं स्वकम् । सुतारां वीक्ष्य जातेच्छस्तामादातुं कृतोद्यम: ॥230॥
कृत्रिमैणच्छलात्तस्मादपनीय महीपतिम् । तद्रूपेण निवृत्यैत्य सुतारां दुरिताशय: ॥231॥
🏠
पर्व - 63
सिंहासने समासीनो वीज्यमानप्रकीर्णक: । अर्द्धचक्री व्यराजिष्ट यथा षट्खण्डमण्डित: ॥1॥
अथापराजितोप्यात्मयोग्यरत्नाद्यधीश्वर: । बलदेवपदं प्राप्य प्रत्यहं वृद्धिमातनोत् ॥2॥
एवं भवान्तराबद्धविवृद्धस्नेहयोस्तयो: । काले गच्छत्यविच्छिन्नस्वच्छन्दसुखसारयो: ॥3॥
विजयायां हलेशस्य बभूव सुमति: सुता । ज्योत्स्नेव प्रीणिताशेषा शुक्लपक्षेन्दुरेखयो: ॥4॥
सान्वहं कुर्वती वृर्द्धि स्वस्या: पित्रोरपि स्वयम् । गुणैराह्लादनै: प्रीर्ति व्यधात्कुबलयेप्सिताम् ॥5॥
दानाद्दमवराख्याय चारणाय यथोचितम् । साश्चर्यपन्चकं प्राप तत्र दृष्ट्वा निजात्मजाम् ॥6॥
रूपेण केवलेनेयं भूषिता यौवनेन च । वरं प्रार्थयते बाला संश्रिता कालदेवताम् ॥7॥
इति सन्चिन्त्य तौ श्रावितस्वयंवरघोषणौ । कृत्वा स्वयंवृते: शालां प्रवेश्यात्र वरोत्तमान् ॥8॥
सुतां च स्यन्दनारूढां सुप्रीतौ तस्थतुस्तदा । काचिद्विमानमारूह्य खागता सुरसुन्दरी ॥9॥
अभिजानासि किं देवलोकेऽहं त्वं च कन्यके । वत्स्यावस्तत्र संज्ञानात्समभूत् स्थितिरावयो: ॥10॥
या प्रागवतरद्धात्रीं तामन्या बोधयत्विति । ब्रुवे नौ भवसम्बन्धं सन्निधाय मन: श्रृणु ॥11॥
पुष्करद्वीपपूर्वार्द्धभरते नन्दने पुरे । नयविक्रमसम्पन्नो महीशोऽमितविक्रम: ॥12॥
एतस्यानन्दमत्याश्च धनानन्तश्रियौ सुते । भूत्वा वां सिद्धकूटस्थनन्दनाख्ययतीश्वरात् ॥13॥
श्रुत्वा धर्म व्रतै: सार्द्धमुपवासांश्च संविदा । समग्रहीष्टां नौ दृष्ट्वा कदाचित् त्रिपुराधिप: ॥14॥
मनोहरवनेऽगच्छत् सहवज्रांगद: खग: । कान्तया वज्रमालिन्या समासक्तमतिस्तदा ॥15॥
पुरीं प्रापय्य कान्तां स्वां सहसा पुनरागत: । गृहीत्वाऽऽवां ब्रजन्नाशु निजाभिप्रायवेदिनीम् ॥16॥
आगतामन्तरे दृष्ट्वा दूरात्तां वज्रमालिनीम् । त्यक्त्वा वेणुवने भीत्या तस्या: स्वपुरमीयिवान् ॥17॥
आवां संन्यस्य तत्रैव सौधर्मेन्द्रस्य शुद्धधी: । व्रतोपवासपुण्येन देवी नवभिकाभवम् ॥18॥
त्वं च देवी कुबेरस्य रत्याख्या समजायथा: । अन्योन्यमवगत्यैत्य नन्दीश्वरमहामहम् ॥19॥
अथ मन्दरपर्यन्तवने निर्जन्तुके स्थितम् । चारणं धृतिषेणाख्यं समाश्रित्य प्रणम्य तम् ॥20॥
आवामप्रश्नयावेदं कदा स्यान्मुक्तिरावयो: । इत्यथो मुनिरप्याह जन्मनीतश्वतुर्थके ॥21॥
अवश्यं युवयोर्मुक्तिरिति तस्मान्महामते । सुमते नाकिनां लोकात्वां बोधयितुमागता ॥22॥
इत्यवोचत्तदाकर्ण्य सुमतिर्नाम सार्थकम् । कुर्वती पितृनिर्मुक्ता प्राव्राजीत्सुव्रतान्तिके ॥23॥
कन्यकाभि: शतै: सार्द्ध सप्तमि: सा महातपा: । त्यक्तप्राणानते कल्पे देवोऽभवदनूदिशे ॥24॥
आधिपत्यं त्रिखण्डस्य विधाय विविधै: सुखै: । प्राविशत्केशव: पापात् प्रान्ते रत्नप्रभां क्षितिम् ॥25॥
तच्छोकात्सीरपाणिश्च राज्यलक्ष्मीं प्रबुद्धघी: । प्रदायानन्तसेनाय यशोधरमुनीश्वरात् ॥26॥
आदाय संयमं प्राप्य तृतीयावगमं शमी । त्रिंशर्द्दिवससंन्यासादच्युताघीश्वरोऽभवत् ॥27॥
धरणेन्द्रात् पितुर्बुध्वा प्राप्तसम्यक्त्वरत्नक: । संख्यातवर्षै: प्रच्युत्य नरकाद् दुरितच्युते: ॥28॥
द्वीपेऽस्मिन्भारते खेचराद्रयुदक्श्रेणिविश्रुते । मेघवाहनविद्याधरेशो गगनवल्लभे ॥29॥
देव्यां तुग्मेघमालिन्यां मेघनाद: खगाधिप: । श्रेणीद्वयाधिपत्येन भोगांश्चिरमभुड़्क्त स: ॥30॥
कदाचिन्मन्दरे विद्यां प्रज्ञप्तिं नन्दने वने । साधयन्मेघनादोऽयमच्युतेशेन बोधित: ॥31॥
लब्धबोधि: समाश्रित्य सुरामरगुरूं यमम् । सुगुप्तिसमिती: सम्ययादाय चिरमाचरन् ॥32॥
अन्येद्युर्नन्दानाख्याद्रौ प्रतिमायोगमागमत् । अश्वग्रीवानुजो भ्रान्त्वा सुकण्ठाख्यो भवार्णवे ॥33॥
असुरत्वं समासाद्य दृष्ट्वैनं मुनिसत्तमम् । विधाय बहुधा क्रोधादुपसर्गानवारयन् ॥34॥
महायोगात्प्रतिज्ञातात् स्थिरं चालयितुं खल: । लज्जातिरस्करिण्येव सोऽन्तर्धानमुपागत: ॥35॥
मुनि: संन्यस्य कालान्ते सोऽच्युतेऽगात्प्रतीन्द्रताम् । इन्द्रेण सह सम्प्रीत्या सप्रवीचारभोगभाक् ॥36॥
प्राक्प्रच्युत्याच्युताधीशो द्वीपेऽस्मिन् प्राग्विदेहके । विषये मंगलावत्यां स्थानीये रत्नसन्चये ॥37॥
राज्ञ: क्षेमकराख्यस्य कृतपुण्योऽभवत्सुत: । श्रीमान् कनकचित्रायां भासो वा मेघविद्युतो: ॥38॥
आधानप्रीतिसुप्रीतिघृतिमोदप्रियोद्भव । प्रभृत्युक्तक्रियोपेतो धीमान् वज्रायुधाह्वय: ॥39॥
तन्मातरीव तज्जन्मतोष: सर्वेष्वभूद् बहु: । भवेच्छचीशदिश्येव किं प्रकार्शोऽशुमालिन: ॥40॥
अवर्धिष्ट वपुस्तस्य सार्द्ध रूपादिसम्पदा । भूषितोऽनिमिषो वासौ भूषणै: सहजैर्गुणै: ॥41॥
जनानुराग: प्रागेव तर्स्मिस्तस्योदयादभूत् । सन्ध्याराग इवार्कस्य महाभ्युदयसूचन: ॥42॥
विश्वाशा व्यानशे तस्य यशो विशदयद् भृशम् । काशप्रसवसंकाशमाश्वासितजनश्रुति ॥43॥
राज्यलक्ष्म्या व्यभाल्लक्ष्मीमत्याचाप्यनवं वय: । असौ पक्षान्तरं कान्त्या ज्योत्स्रयावाप्य वा विधु: ॥44॥
सुनुस्तयो: प्रतीन्द्रोऽभूत्सहस्रायुधनामभाक् । वासरादे: प्रतीच्यां वा धर्मदीप्ति: कनद्द्युति: ॥45॥
श्रीषेणायां सुतस्तस्य शान्तान्तकनकोऽजनि । एवं क्षेमंकर: पुत्रपौत्रादिपरिवारित: ॥46॥
अप्रतीपप्रतापोऽयं नतभूपकदम्बक: । कदाचिद्वीज्यमानोऽस्थाच्चामरै: सिंहविष्टरे ॥47॥
तदामरसदस्यासीदीशानस्तुतिगोचर: । वज्रायुधो महासम्यग्दर्शनाधिक्यत: कृती ॥48॥
देवो विचित्रचूलाख्यस्तत् स्तवं सोढुमक्षम: । अभिवज्रायुधं प्रापत्खलो ह्यन्यस्तवासह: ॥49॥
दृष्ट्वा रूपपरावृत्या महीनाथं यथोचितम् । वादकण्डूययाऽवोचत्सौत्रान्तिकमते स्थित: ॥50॥
त्वं जीवादिपदार्थानां विद्वान् किल विचारणे । वद पर्यायिणो भिन्न: पर्याय: किं विपर्यय: ॥51॥
भिन्नश्चेच्छून्यताप्राप्तिस्तयोराधारहानित: । तथा चाव्यपदेशत्वान्नायं पक्षो घटामटेत् ॥52॥
ऐकत्वसंगरेऽप्येतन्न युक्तिपदवीं व्रजेत् । अन्योन्यगोचरैकत्वनानात्वाद्यन्तसंकरात् ॥53॥
अस्ति चेद् द्रव्यमेकंते पर्याया: बहवो मता: । एकात्मकमपीत्येष संगरो भंगमाप्नुयात् ॥54॥
नित्यत्वेऽपि तयो: पुण्यपापपाकात्मताच्युते: । तद्धेतुबन्धनाभावान्मोक्षाभावो न वार्यते ॥55॥
अगत्या क्षणिकत्वं चेत्तयोरभ्युपगभ्यते । तवाभ्युपगमत्याग: पक्षसिद्धिश्व में भवेत् ॥56॥
ततो भवन्मतं भद्र बौद्धकै: परिकल्पितम् । कल्पनामात्रमत्रस्थं मा कृथास्त्वं वृथा श्रमम् ॥57॥
इत्याकर्ण्य तदोक्तं तद्बुधो वज्रायुधोऽभणत् । श्रृणु चित्तं निधायोच्चैर्माध्यस्थं प्राप्य सौगत ॥58॥
जिनेन्द्रवदनेन्दूत्थस्याद्वादामृतपायिनाम् । स्वकर्मफलभोगादिव्यवहारविरोधिनम् ॥59॥
क्षणिकैकान्तदुर्वादमवलम्ब्य प्ररूपित: । त्वया दोषो न वाधायै कल्पते धर्मधर्मिणो: ॥60॥
संज्ञाप्रज्ञास्वचिह्नादिभेदैर्भिन्नत्वमेतयो: । एकत्वं चापृथक्त्वार्पणनयैकाबलम्बनात् ॥61॥
कार्यकारणभावेन कालत्रितयवर्तिनाम् । स्क्न्धानामव्यवच्छेदसन्तानोऽभ्युपगम्यते ॥62॥
स्कन्धानां क्षणिकत्वेऽपि सद्भावात्कृतकर्मण: । युक्त: फलोपभोगादिरस्माकमिति ते गति: ॥63॥
एतेन परिहारेण भवत: पक्षरक्षणम् । वातारितरूबन्धेन रोधो वा मत्तदन्तिन: ॥64॥
सन्तानिभ्य: ससन्तान: पृथक् किंवाऽपृथग्मत: । पृथक्त्वे किं न पश्याम: सन्तानिभ्य: पृथक् न तत् ॥65॥
अथेष्टोऽव्यतिरेकेण सन्तानिभ्य: स्वकल्पित: । सन्तान: शून्यतां तस्य सुगतोऽपि न वारयेत् ॥66॥
प्रध्वंसान्नास्त्यतिक्रान्त: क्षणो भाव्यप्यनुद्भवात् । भवत्क्षणस्वरूपाप्तिव्याप्तो नाप्नोति सन्ततिम् ॥67॥
यदि कश्चिच्चतुर्थोऽस्ति सन्तानस्य तवास्तु स: । तत: सन्तानवादोऽयं भवव्यसनसन्तति: ॥68॥
इति देवोऽप्यसौ तस्य वाग्वज्रेण विचूर्णितम् । वचो विचिन्त्य स्वं भग्नमान: कालादिलब्धित: ॥69॥
सद्य: सम्यक्त्वमादाय सम्पूज्य धरणीश्वरम् । निजागमनवृत्तान्तमभिधाय दिवं गत: ॥70॥
अथ क्षेमंकर: पृथ्व्या: क्षेमं योगं च सन्दधत् । लब्धबोधिर्मतिज्ञानक्षयोपशमनावृत: ॥71॥
वज्रायुधकुमारस्य कृत्वा राज्याभिषेचनम् । प्राप्तलौकान्तिकस्तोत्र: परिनिष्क्रम्य गेहत: ॥72॥
अनावरणमस्थानमप्रमादमनुत्क्रमम् । असंगमकृताहारमनाहार्यमनेकधा ॥73॥
अकषायमनारम्भमनवद्यमखण्डितम् । अनारतश्रुताभ्यासं प्रकुर्वन् स तपश्चिरम् ॥74॥
निर्ममं निरहंकारं नि:शाटयं निर्जितेन्द्रियाम् । नि:क्रोधं निश्चलं चित्तं निर्वृत्त्यै निर्मलं व्यधात् ॥75॥
क्रमात्कैवलमप्याप्य व्याहूतपुरूहूतकम् । गणान् द्वादश वाऽऽत्मीयान् वाग्विसर्गादतीतृपत् ॥76॥
वज्रायुधेऽथ भूनाथे सुपुण्यफलितां महीम् । पात्यागमन्मधुर्मासो मदनोन्माददीपन: ॥77॥
कोकिलानां कलालापो ध्वनिश्च मधुरोऽलिनाम् । अहरत्काममन्त्रो वा प्राणान् प्रोषितयोषिताम् ॥78॥
वनान्यपि मनोजाय त्रिजगर्द्विजिगीषवे । यस्मिन् पुष्पकरे स्वैरं ददु: सर्वस्वमात्मन: ॥71॥
तस्मिन् काले वने रन्तुं स्वदेवरमणे मतिम् । ज्ञात्वा सुदर्शनावक्त्राद्धारिण्याद्यात्मयोषिताम् ॥80॥
औत्सुक्यात्तद्वनं गत्वा सुदर्शनसरोवरे । जलक्रीडां स्वदेवीभि: प्रवर्तयति भूभुजि ॥81॥
अपिधाय सर: सद्य: कश्चिद्विद्याधर: खल: । शिलया नागपाशेन तमबघ्नान्नृपोऽप्यसौ ॥82॥
शिलां हस्ततलेनाहत्सा गता शतखण्डताम् । विद्याधरोऽपि दुष्टात्मा तदानीं प्रपलायित: ॥83॥
एष पूर्वभवे शत्रुर्विद्युद्दंष्ट्राभिधानक: । वज्रायुधोऽपि देवीभि: सह स्वपुरमागमत् ॥84॥
एवं सुखेन भूभर्त्तु: काले गच्छत्ययोदयात् । निधयो नव रत्नानि चतुर्दश तदाऽभवन् ॥85॥
चक्रवर्तिश्रियं प्राप्य निविष्टं सिंहविष्टरे । कश्चिद्विद्याधरो भीत: शरणं तमुपागत: ॥86॥
तस्यैवानुपदं काचिदुत्खातासिफला खगी । क्रोधानलशिखेवागात् द्योतयन्ती सभावनीम् ॥87॥
तस्याश्चानुपदं कश्चित्स्थविर: स गदांधर: । समागत्य महाराज दुरात्मैष खगाधम: ॥88॥
त्वं दुष्टनिग्रहे शिष्टपालने च निरन्तरम् । जागर्सि निग्रह: कार्यस्त्वयास्यान्यायकारिण: ॥89॥
कोऽसावन्याय इत्येतत् ज्ञातुमिच्छा तवास्ति चेत् । वदामि देव सम्यक् त्वं प्रणिधाय मन: श्रृणु ॥90॥
जम्बूद्वीपसुकच्छाख्यविषये खचराचले । श्रेण्यामुत्तरदिग्जायां शुक्रम्प्रभपुराधिप: ॥91॥
खगाधीडिन्द्रदत्ताख्य: प्रिया तस्य यशोधरा । तयोरहं सुतो वायुवेगो विद्याधरैर्मत: ॥92॥
तत्र किन्नरगीताख्यनगराधिपति: खग: । चित्रचूल: सुता तस्य सुकान्ता मे प्रियाऽभवत् ॥93॥
सुता मम सुकान्तायाश्चैषा शान्तिमति: सती । विद्या: साधयितुं याता मुनिसागरपर्वतम् ॥94॥
विद्यासाधनविघ्नार्थ पापोऽयं समुपस्थित: । पुण्योदयात्तदैवास्या विद्या सिद्धिमुपागता ॥95॥
तद्भयात्त्वमयं पापकर्मकृत्समुपाश्रयत् । विद्यापूजां समादाय तदैवाहं समागमम् ॥96॥
अदृष्ट्वा मत्सुतां तत्र तन्मार्ग क्षिप्रमन्वित: । इत्यवादीत्स तत्सर्व श्रुत्वाऽवधिविलोचन: ॥97॥
जानाम्यहं महच्चास्य विद्याया विघ्नकारणम् । इति वज्रायुधो व्यक्तमेवं प्रोवाच तां कथाम् ॥98॥ यह पापी विद्याके भय से ही आपके शरण आया है । मैं विद्या की पूजा की सामग्री ले कर
अस्मिन्नैरावते ख्याते गान्धारविषये नृप: । विन्ध्यसेन: पतिर्विन्ध्यपुरस्य विलसन् गुणै: ॥99॥
सुलक्षणायां तस्याभूत्सूनुर्नलिनकेतुक: । तत्रैव धनमित्रस्य श्रीदत्तायां सुतो वणिक् ॥100॥
सुदत्तो नाम तस्यासीद्भार्या प्रीतिंकराह्वयात् । दृष्ट्वा नलिनकेतुस्तां कचिद्वनविहारिणीम् ॥101॥
मदनानलसन्तप्ततद्दाहं सोढुमक्षम: । न्यायवृर्त्ति समुल्लड़्ध्य बलादह्णत दुर्मति: ॥102॥
सुदत्तस्तेन निर्विण्ण: सुव्रताख्यजिनान्तिके । प्रव्रज्य सुचिरं घोरं तप: कृत्वाऽऽयुषोऽवधौ ॥103॥
संन्यस्येशानकल्पेऽभूदेकसागरजीवित: । तत्र भोगोंश्चिरं भुक्त्वा तत: प्रच्युत्य पुण्यभाक् ॥104॥
जम्बूद्वीपसुकच्छाख्यविजयार्द्धाचलोत्तर-। श्रेण्यां पुरेऽभवत्कान्चनाद्यन्ततिलकाह्वये ॥105॥
महेन्द्रविक्रमस्येष्टतनूजोऽजितसेनवाक् । अभवन्नीलवेगायां विद्याविक्रमदुर्गत: ॥106॥
इतो नलिनकेतुश्च वीक्ष्योल्कापातमात्मवान् । निर्विद्य प्राक्तनात्मीयं दुश्चरित्रं विनिन्दयन् ॥107॥
सीमंकरमुर्नि श्रित्वा दीक्षामादाय शुद्धधी: । क्रमात्कैवल्यमुत्पाद्य सम्प्रापत्क्षितिमष्टमीम् ॥108॥
प्रीतिंकरापि निर्वेगात्संश्रिता सुव्रतान्तिकम् । गृहसंगपरित्यागात्कृत्वा चान्द्रायणं परम् ॥109॥
प्रान्ते संन्यस्य सा प्रायात्कल्पमीशाननामकम् । तत्र स्वायु: स्थिर्ति नीत्वा दिव्यैर्भोगैस्ततश्च्युता ॥110॥
तवाजनि तनूजेयमयं विद्याविघातकृत् । तत्सम्बन्धादिति प्रोक्तं सर्वमाकर्ण्य भूभुजा ॥111॥
निर्विद्य संसृते: शान्तिमती क्षेमंकराह्णयात् । तीर्थेशाद्धर्ममासाद्य सद्य: प्राप्य सुलक्षणाम् ॥112॥
गणिर्नी संयमं श्रित्वा संन्यस्येशानसंज्ञके । नाके निलिम्पो भूत्वा स्वकायपूजार्थमागमत् ॥113॥
तदानीमेव कैवल्यं प्रापत् पवनवेगवाक् । सहैवाजितसेनेन कृत्वा पूजां तयोरयात् ॥114॥
तथा चक्रधरे राज्यलक्ष्म्यालिन्गितविग्रहे । दशांगभोगसाद्भूते पाति षट्खण्डमण्डलम् ॥115॥
विद्याधराद्रयपाग्भागे शिवमन्दिरभूपति: । मेघवाहननामास्य विमलाख्या प्रिया तयो: ॥116॥
सुता कनकमालेति कल्याणविधिपूर्वकम् । जाता कनकशान्ते: सा झषकेतु सुखावहा ॥117॥
तथा वस्त्वोकसाराख्यपुराधीशखगेशिन: । सुता समुद्रसेनस्य जयसेनोदरोदिता ॥118॥
प्रिया वसन्तसेनाऽपि बभूवास्य कनीयसी । ताभ्यां निर्वृतिमापासौ दृष्टिचर्याद्वयेन वा ॥119॥
कोकिलाप्रथमालापैराहूत इव कौतुकात् । अयाद्वनविहाराय कदाचित्स सहप्रिय: ॥120॥
कन्दमूलफलान्वेषी निर्धि वा सुकृतोदयात् । कुमारो मुनिमद्राक्षीद्विपिने विमलप्रभम् ॥121॥
तं त्रि: परीत्य वन्दित्वा ततस्तत्वं प्रबुद्धवान् । मनोरज: समुद्धूय शुर्द्धि बुद्धेरूपासदत् ॥122॥
तदानीमेव तं दीक्षालक्ष्मीश्च स्ववशं व्यधात् । शम्फलीव बसन्तश्रीरजायत तप:श्रिय: ॥123॥
दैव्यौ विमलमत्याख्यगणिर्नी ते समाश्रिते । अदीक्षेतां सहैतेन युक्तं तत्कुलयोषिताम् ॥124॥
सिद्धाचले कदाचित्तं प्रतिमायोधारिणम् । खगो वसन्तसेनाया बद्धवैरेण मैथुन: ॥125॥
विलोक्य चित्रचूलाख्य: कोपारूणितवीक्षण: । प्रारिप्सुरूपसर्गाय तर्जित: खेचरेश्वरै: ॥126॥
अन्यदा रत्नसेनाख्यो नृपो रत्नपुराधिप: । दत्त्वाऽऽप पन्चकाश्चर्य भिक्षां कनकशान्तये ॥127॥
चित्रचूल: पुनश्चास्य प्रतिमायोगधारिण: । वने सुरनिपाताख्ये विघातं कर्तुमुद्यत: ॥128॥
तस्मिन् कोपं परित्यज्य घातिधाता यतीश्वर: । केवलावगमं प्रापत्क्काऽपि कोपो न धीमताम् ॥129॥
देवागमनमालोक्य भीत्वा स खगपापक: । तमेव शरणं यातो नीचायां वृत्तिरीदृशी ॥130॥
अथ वज्रायुधाधीशो नप्तृकैवल्यदर्शनात् । लब्धबोधि: सहस्त्रायुधाय राज्यं प्रदाय तत् ॥131॥
दीक्षां क्षेमंकराख्यानतीर्थकर्तुरूपान्तग: । प्राप्य सिद्धिगिरौ वर्षप्रतिमायोगमास्थित: ॥132॥
तस्य पादौ समालम्ब्य बाल्मीकं बह्ववर्तत । वर्द्धयन्ति महात्मान: पादलग्नानपि द्विष: ॥133॥
व्रतिनं तं व्रतत्योऽपि मादर्व वा समीप्सव: । गाढं रूढा: समासेदुराकण्ठमभितस्तनुम् ॥134॥
अश्वग्रीवसुतौ रत्नकण्ठरत्नायुधाभिधौ । भ्रान्त्वा जन्मन्यतिबलमहाबलसमाख्यया ॥135॥
भूत्वाऽसुरौ तमभ्येत्य तद्विघातं चिकीर्षुकौ । रम्भातिलोत्तमे दृष्ट्वा तर्जयित्वाऽतिभक्तित: ॥136॥
गन्धादिभिर्यतिं दिव्यैरभ्यर्च्य दिवमीयतु: । क्क वा ते क्काऽसुरौ पुण्ये सति किं न घटामटेत् ॥137॥
किन्चित्कारणमुद्दिश्य वज्रायुधसुतोऽपि तत् । राज्यं शतबलिन्युच्चैर्निधाय निहतस्पृह: ॥138॥
संयमं सम्यगादाय मुनीम्द्रात् पिहिताश्रवात् । योगावसाने स प्रापद्वज्रायुधमुनीश्वरम् ॥139॥
तावुभौ सुचिरं कृत्वा प्रव्रज्यां सह दु:स्सहाम् । बैभारपर्वतस्याग्रे विग्रहेऽप्यकृताग्रहौ ॥140॥
ऊर्ध्वग्रैवेयकस्याधोऽभूतां सौमनसाह्वये । एकान्नत्रिंशदब्ध्यायुषौ विमाने महर्द्धिकौ ॥141॥
ततो वज्रायुधश्च्युत्वा द्वीपेऽस्मिन् प्राग्विदेहगे । विषये पुष्कलावत्यां नगरी पुण्डरीकिणी ॥142॥
पतिर्घनरथस्तस्य देवी कान्ता मनोहरा । तयोर्मेघरथाख्योऽभूदाधानाद्याप्तसत्क्रिय: ॥143॥
तस्यैवान्योऽहमिन्द्रोऽपि सुतो दृढरथाह्वय: । जातो मनोरमायां ताविव चन्द्रदिवाकरौ ॥144॥
तयो: पराक्रमप्रज्ञाप्रश्रयप्राभवक्षमा: । सत्यत्यागादयोऽन्ये च प्रादुरासन् गुणा: स्थिरा: ॥145॥
सुतौ तौ यौवनापूर्णौ प्राप्तैश्वर्याविव द्विपौ । विलोक्य तद्विवाहार्थ महीशो विहितस्मृति: ॥146॥
ज्येष्ठसूनोर्विवाहेन प्रियमित्रामनोरमे । कनीयसोऽपि सुमर्ति विदधे चित्तवल्लभाम् ॥147॥
अभवत्प्रियमित्रायां तनूजो नन्दिवर्द्धन: । सुमत्यां वरसेनाख्य: सुतो दृढरथस्य च ॥148॥
इति स्वपुत्रपौत्रादिसुखसाधनसंयुत: । सिंहविष्टरमध्यास्य शक्रलीलां समावहन् ॥149॥
तदात्र प्रियमित्राया: सुषेणा नाम चेटिका । कृकवाकुं समानीय घनतुण्डाभिधानकम् ॥150॥
दर्शयित्वाऽऽह यद्येनं जयेयु: कृकवाकुका: । परेषां प्रददे तेभ्यो दीनाराणां सहस्त्रकम् ॥151॥
इति देव्या कनीयस्या: श्रुत्वा तद्रणिकाऽऽनयत् । कान्चना वज्रतुण्डाख्यं कुक्कुटं योधने तयो: ॥152॥
अन्योन्यदु:खहेतुत्वादेतयो: पश्यतामपि । हिंसानन्दादिकं द्रष्टुमयोग्यं धर्मवेदिनाम् ॥153॥
इति स्मरंश्च भव्यानां बहूनामुपशान्तये । स्वकीयपुत्रमाहात्म्यप्रकाशनधिया च तत् ॥154॥
युद्धं घनरथाधीशो लोकमानो दृढक्रुधो: । स मेघरथमप्राक्षीत् बलमेतत्कुतोऽनयो: ॥155॥
इति तेन स पृष्ठ: सन् विशुद्धावधिलोचन: । तयोस्तादृशयुद्धस्य हेतुमेवमुदाहरत् ॥156॥
अस्मिन्नैरावते रत्नपुरे शाकटिकौ क्रुधा । सोदर्यौ भद्रधन्याख्यौ बलीवर्दनिमित्तत: ॥157॥
पापिष्ठौ श्रीनदीतीरे हत्वा मृत्वा परस्परम् । कान्चनाख्यसरित्तीरे श्वेतताम्रादिकर्णकौ ॥158॥
स्वपूर्वजन्मपापेन जायेतां वनवारणौ । तत्रापि भवसम्बद्धक्रोधाद्युध्वा मृतिं गतौ ॥159॥
अयोध्यापुरवास्तव्यो नन्दिमित्रोऽस्ति बल्लव: । महिषीमण्डले तस्य जज्ञाते गवलोत्तमौ ॥160॥
दृप्तौ तत्रापि संरम्भसम्भृतौ तौ परस्परम् । बभूवतुश्चिरं युद्ध्वा श्रृंगाग्राकृष्टजीवितौ ॥161॥
तस्मिन्नेव पुरे शक्तिवरशब्दादिसेनयो: । मेषावभूतां तौ राजपुत्रयोर्वज्रमस्तकौ ॥162॥
युद्ध्वाऽन्योन्यं गतप्राणौ सन्जातौ कुक्कुटाविमौ । स्वविद्याध्यासितावेतौ गूढ़ौ योधयत: खगौ ॥163॥
कारणं किं तयो: कौ च तौ चेच्छृणु महीपते । जम्बूपलक्षिते द्वीपे भरते खचराचले ॥164॥
पुरेऽभूदुत्तरश्रेण्यां कनकादिनि भूपति: । खगो गरूडवेगाख्यो धृर्तिषेणास्य वल्लभा ॥165॥
तिलकान्तदिविश्चन्द्रतिलकश्च सुतौ तयो: । सिद्धकूटे समासीनं चारणद्वन्द्वमाश्रितौ ॥166॥
स्तुत्वा स्वजन्मसम्बन्धं सप्रश्रयमपृच्छताम् । ज्येष्ठो मुनिस्तयोरेवं तत्प्रपन्चमभाषत ॥167॥
धातकीखण्डप्राग्भागे पुरमैरावते भुवि । तिलकाख्यं पतिस्तस्य वभूवाभयघोषवाक् ॥168॥
सुवर्णतिलका तस्य देवी जातौ जातौ सुतौ तयो: । विजयोऽन्यो जयन्तश्च सम्पन्ननयविक्रमौ ॥169॥
खगाद्रिदक्षिणश्रेणीमन्दाराख्यपुरेशिन: । शंखस्य जयदेव्याश्च पृथिवीतिलका सुता ॥170॥
तस्य त्वभयघोषस्य साऽभवत्प्राणवल्लभा । एकं संवत्सरं तस्यामेवासक्तेऽन्यदा विभौ ॥171॥
सुवर्णतिलका सार्द्ध बिहर्तु भवता वनम् । वष्टीति नृपर्ति चन्चत्कान्त्यादितिलकोऽवदत् ॥172॥
तच्चेटिकावच: श्रुत्वा तदेप्सुमभिधाय तम् । पृथिवीतिलका रम्यं वनमत्रैव दर्शये ॥173॥
🏠
पर्व - 64
ग्रन्थान् कन्थामिव त्यक्त्वा सद्ग्रन्थान् मोक्षगामिन: ।
रक्षन् सूक्ष्मांश्च कुन्थुभ्य: कुन्थु: पान्थान् स पातु व: ॥1॥
द्वीपेऽस्मिन् प्राग्विदेहस्य सीतादक्षिणकूलगे । वस्त्साख्यविषये राजा सुसीमानगराधिप: ॥2॥
अभूत् सिंहरथो नाम श्रीमान् सिंहपराक्रम: । संहतानपि विद्विष्टान् महिम्नैव वशं नयन् ॥3॥
भयादिव तमंहोऽरिर्वृहितन्यायवृत्तकम् । दण्डिताखिलभूचक्रं नाढौकिष्टातिदूरत: ॥4॥
भोगानुभव एवास्मै शास्त्रमार्गानुसारिणे । अदितामुत्रिर्की सिद्धिमैहिर्की चास्तविद्विषे ॥5॥
स कदाचिद् दिवोल्काया: पातमालोक्य कल्पयन् । इयं मोहमहारार्ति विघातायेति चेतसा ॥6॥
तदैवापेत्य नत्वार्षिवृषभं यतिपूर्वकम् । श्रुत्वा तदुदितं भक्त्या धर्मतत्त्वस्य विस्तरम् ॥7॥
स्यां समाहितमोहोऽहं यद्युल्कासूचितापद: । ममैवेति विचिन्त्याशु सुधीर्मोहजिहासया ॥8॥
राज्यभारं समारोप्य सुते सह महीभुजै: । बहुभि: संयमं प्राप्य विबुद्धैकांगदशांगक: ॥9॥
बद्ध्वा तत्कारणैस्तीर्थकरनामादिकं शुभम् । स्वायुरन्ते समाराध्य प्रापान्तिममनुत्तरम् ॥10॥
अन्वभूदप्रवीचारं सुखं तत्रात्तकौतुकम् । मानसं माननीयं यन्मुनीनां चापरागजम् ॥11॥
इह जम्बूमति द्वीपे भरते कुरूजांगले । हस्तिनाख्यपुराधीश: कौरव: काश्यपान्वय: ॥12॥
सूरसेनो महाराज: श्रीकान्ताऽस्याग्रवल्लभा । देवेभ्यो वसुधारादिपूजामाप्तवती सती ॥13॥
भागे मनोहरे यामे दशम्यां निशि पश्चिमे । श्रावणे बहुले पक्षे नक्षत्रे कृत्तिकाह्वये ॥14॥
सर्वार्थसिद्धिदेवस्य स्वर्गावतरणक्षणे । दृष्टषोडशसुस्वप्ना गजं वक्त्रप्रवेशिनम् ॥15॥
निशम्य यामभेर्यादिमंगलध्वनिबोधिता । कृतनित्यक्रिया स्रात्वा धृतमंगलमण्डना ॥16॥
आप्तै: कतिपयैरेव वृत्ता विद्युद्विलासिनी । द्योतयन्ती सदोव्योम साक्षाल्लक्ष्मीरिवापरा ॥17॥
कृतानुरूपविनया भर्तुरर्द्धासने स्थिता । स्वप्नावर्ली निवेद्यास्माद्विदित्वावधिवीक्षणात् ॥18॥
फलान्यनुक्रमात्तेषां विकसद्वदनाम्बुजा । नलिनीवांशुसंस्पर्शादुष्णांशोरतुषत्तराम् ॥19॥
तदैवानिमषाधीशा: कल्याणाभिषवं तयो: । विधाय बहुधाभ्यर्च्य तोषयित्वा ययुर्दिवम् ॥20॥
शुक्तिर्मुक्ताविशेषेण नाभूत्सा तेन गर्भिणी । क्रोडीकृता मृताभीषुमेघरेखेव चाबभौ ॥21॥
नवमे मासि वैशाखशुक्लपक्षादिमे दिने । साऽसूताग्नेययो वा विधुं तमपरा दिशा ॥22॥
तुरासहं पुरोधाय समभ्येत्य सुरासुरा: । सुमेरूमर्भर्क नीत्वा क्षीरसैन्धववारिभि: ॥23॥
अभिषिच्य विभूष्यैर्न कुन्थुमाहूय संज्ञया । समानीय समर्प्यायन् पित्रोरावासमात्मन: ॥24॥
शान्तीशतीर्थसन्तानकालेऽजनि जिनेश्वर: । पल्योपमार्द्धे पुण्याब्धिस्तदभ्यन्तरजीवित: ॥25॥
समा: पन्चसहस्त्रोनलक्षा: संवत्सरस्थिति: । पन्चर्त्रिशद्धनु: कायो निष्टप्ताष्टापदद्युति: ॥26॥
खपन्चमुनिवह्निद्विप्रमसंवत्सरान्तरे । नीत्वा कौमारमेतावत्येव काले च राजताम् ॥27॥
निजजन्मदिने चक्रिलक्ष्मीं सम्प्राप्य सम्मदात् । दशांगभोगान्निर्विश्य नि:प्रतीपं निरन्तरम् ॥28॥
षडंगबलसंयुक्त: कदाचित्क्रीडितुं वनम् । गत्वा रंत्वा चिरं स्वैरं निवृत्यायन्पुन: पुरम् ॥29॥
मुनिमातपयोगेन स्थितं कन्चिन्निरूपयन् । मन्त्रिणं प्रति तर्जिन्या पश्य पश्येति चक्रभृत् ॥30॥
स तं निरीक्ष्य तत्रैव भक्त्यावनतमस्तक: । देवैवं दुष्करं कुर्वस्तप: किं फलमाप्स्यति ॥31॥ कि मार्ग में उन्होंने किसी मुनि को आतप योग से स्थित देखा और देखते ही मन्त्री के प्रति तर्जनी अंगुली से इशारा किया कि देखो, देखो । मन्त्री उन मुनिराज को देखकर वहीं पर भक्ति से नतमस्तक हो गया और पूछने लगा कि हे देव ! इस तरह का कठिन तप तपकर ये क्या फल प्राप्त
इत्यप्राक्षीन्नृपोऽप्यस्य भूय: स्मेरमुखोऽवदत् । भवेऽस्मिन्नैव निर्मूल्य कर्माण्याप्नोति निर्वृतिम् ॥32॥
न चेदेवं सुरेन्द्रत्वचक्रवर्तित्वगोचरम् । सुखमभ्युदयं भुक्त्वा क्रमाच्छाश्वतमेष्यति ॥33॥
अपरित्यक्तसंगस्य भवे पर्यटनं भवेत् । इत्युच्चैर्मुक्तिसंसारकारणं परमार्थवित् ॥34॥
कालो माण्डलिकत्वेन यावान्नीत: सुखायुषा । तावत्येव समानीय महेच्छश्चक्रवर्तिताम् ॥35॥
विरज्य राज्यभोगेषु निर्वाणसुखलिप्सया । स्वातीतभवबोधेन लब्धबोधिर्बुधोत्तम: ॥36॥
सारस्वतादिसंस्तोत्रमपि सम्भाव्य सादरम् । स्वजे नियोज्य राज्यस्य भारं निष्क्रमणोत्सवम् ॥37॥
स्वयं सम्प्राप्य देवेन्द्रै: शिविकां विजयाभिधाम् । आरूह्मामरसंवाह्मां सहेतुकवनं प्रति ॥38॥
गत्वा षष्ठोपवासेन संयमं प्रत्यपद्यत । जन्ममा:पक्षदिवसे कृत्तिकायां नृपोत्तमै: ॥39॥
सहस्रेणाप तुर्यावबोधं च दिवसात्यये । पुरं हास्तिनमन्येद्युस्तस्मै गतवतेऽदित ॥40॥
आहारं धर्ममित्राख्य: प्राप चाश्चर्यपन्चकम् । कुर्वन्नेवं तपो घोरं नीत्वा षोडशवत्सरान् ॥41॥
निजदीक्षावने षष्ठेनोपवासेन शुद्धिभाक् । तिलकद्रुममूलस्थश्चैत्रज्योत्स्रापराह्णके ॥42॥
कृत्तिकायां तृतीयायां कैवल्यमुदपादयत् । मुदा तत्कालसम्प्राप्तसर्वामरसमर्थितम् ॥43॥
प्रार्थ्य चतुर्थकल्याणपूजाविधिमवाप स: । तस्य स्वयम्भूनामाद्या: पंचत्रिंशद्रणेशिन: ॥44॥
शतानि सप्त पूर्वाणां संविदो मुनिसत्तमा: । खपंचैकत्रिवाद्र्ध्युक्ता: शिक्षका: लक्षिका: लक्षिताशया: ॥45॥
खद्वयेन्द्रियपक्षोक्तास्तृतीयावगमामला: । शून्यद्वयविह्णयुक्ता: केवलज्ञानभास्वरा: ॥46॥
खद्वयैकेन्द्रियज्ञातविक्रियर्द्धिविभूषणा: । त्रिशतत्रिसहस्राणि चतुर्थज्ञानधारिण: ॥47॥
पंचाशद्द्विसहस्त्राणि ख्यातानुत्तरवादिन: । सर्वे ते पिण्डिता: षष्टिसहस्त्राणि यमेश्वरा: ॥48॥
भाविताद्यार्यिका: शून्यपंचवह्निखषण्मिता: । त्रिलक्षा: श्राविका लक्षद्वयं सर्वेऽप्युपासका: ॥49॥
देवदेव्यस्त्वसड्ख्यातास्तिर्यंच: सड्ख्यया मिता: । दिव्यध्वनिनामीषां कुर्वन्धर्मोपदेशनाम् ॥50॥
देशान् विह्णत्य मासायु: सम्मेदाचलमास्थित: । प्रतिमायोगमादाय सहस्त्रमुनिभि: सह ॥51॥
वैशाखत्यौत्स्त्रपक्षादिदिने रात्रे: पुरातने । भागे कर्माणि निर्मूल्य कृत्तिकायां निरंतन: ॥52॥
प्राप्तगीर्वाणपूज: प्रापत्परं पदम् । संशुद्धज्ञानवैराग्यसाबाधमविनश्वरम् ॥53॥
शार्दूलविक्रीडितम्
आसीत् सिंहरथो नृप: पृथुतपा: सर्वार्थसिद्धीश्वर:
कल्याणद्वयभाक् षडंगशिविरस्त्रैलोक्यमुख्याचिंत: ।
प्राप्तात्माष्टगुणस्त्रिविष्टपशिखाप्रोद्धासिचूडामणि –
र्दिशयाद्व: श्रियमप्रतीमहिमा कुन्थुर्जिन: शास्वतीम् ॥54॥
देहज्योतिषि यस्य शक्रसहिता: सर्वेऽपि मग्ना: सुरा
ज्ञानज्योतिषि पन्चतत्त्वसहितं लग्नं नभश्चाखिलम् ।
लक्ष्मीधामदधद्विधूतविततध्वान्त: स धामद्वय-
पन्थानं कथयत्वनन्तगुणभृत्कुन्थुर्भवान्तस्य व: ॥55॥
🏠
पर्व - 65
सरतारं परं सारं नरनाथकृतानतिम् । अगाधासारसंसारसागरोत्तारकारणम् ॥1॥
द्वीपे जम्बूद्रुमख्याते सीतोत्तरतटाश्रिते । कच्छाख्यविषये क्षेमपुराधीशो महीपति: ॥2॥
नाम्ना धनपति: पाता प्रजानां जनताप्रिय: । धात्री धेनु: स्वयं तस्य दुग्धे स्म प्रस्नुतानिशम् ॥3॥
विनार्थिभिरपि त्यागी विनाप्यरिभिरूद्यमी । तर्पितार्थिनि धूतारौ तर्स्मिस्तौ सहजौ गुणौ ॥4॥
स्ववृत्त्यनुगमेनैव वर्गत्रयनिषेविण: । राजा प्रजाश्च राज्येऽर्स्मिस्तन्न धर्मव्यतिक्रम: ॥5॥
कदाचिद्धरणीधर्ता पीत्वार्हन्नन्दतीर्थकृद् । दिव्यध्वनिसमुद्भूतं धर्मसाररसायनम् ॥6॥
विरज्य राज्यभोगात्तरसाद्राज्यं निजात्मजे । नियोज्य मंक्षु प्रव्रज्यां जैनीं जन्मान्तकारिणीम् ॥7॥
आसाद्यैकादशांगोरूपारावारस्य पारग: । द्वयष्टकारणसम्बद्धतीर्थकृन्नामपुण्यकृत् ॥8॥
प्रायोपगमनेनापत्स जयन्तेऽहमिन्द्रताम् । त्रयस्त्रिंशत्समुद्रोपमायुर्हस्ततनुप्रम: ॥9॥
शुल्क-लेश्याद्वय: सार्द्धैर्मासै: षोडशभि: श्वसन् । त्रयस्त्रिंशत्सहस्त्रोक्तवर्षैर्मानसमाहरन् ॥10॥
अमृतं नि:प्रवीचारसुखसागरपारग: । स्वावधिज्ञाननिर्णीतलोकनाडयर्थविस्तृति: ॥11॥
स्वावधिक्षेत्रनिर्णीतप्रकाशबलविक्रिय: । अतिप्रशान्तरागादिरासन्नीकृतनिर्वृति: ॥12॥
सद्वेद्योदयसम्भूतमन्वभूत् भोगमुत्तमम् । उदितोदितपर्याप्तिपर्यन्तोपान्तमास्थित: ॥13॥
द्वीपेऽस्मिन् भारते क्षेत्रे देशोऽस्ति कुरूजांगल: । हस्तिनाख्यं पुरं तस्य पतिर्गोत्रेण काश्यप: ॥14॥
सोमवंशसमुद्भूत: सुदर्शनसमाह्वय: । मित्रसेना महादेवी प्राणेभ्योऽप्यस्य वल्लभा ॥15॥
वसुधारादिकां पूजां प्राप्य प्रीतानुफल्गुने । मासेऽसिततृतीयायां रेवत्यां निशि पश्चिमे ॥16॥
भागे जयन्तदेवस्य स्वर्गावतरणक्षणे । दृष्टषोडशसुस्वप्ना फलं तेषु निजाधिपम् ॥17॥
अनुयुज्यावधिज्ञानतदुक्तफलसंश्रुते: । प्राप्तत्रैलोक्यराज्येव प्रासीदत्परमोदया ॥18॥
तदा गतामराधीशकृतकल्याणसम्पदा । निर्वृता निर्मदा नित्यरम्या सौम्यानना शुचि: ॥19॥
संवाह्यमानान देवीभिस्तत्कालोचितवस्तुभि: । मेघमालेव सद्रर्भमुद्वहन्ती जगद्धितम् ॥20॥
मार्गशीर्षे सिते पक्षे पुष्ययोगे चतुर्दशी । तिथौ त्रिविधसद्वोधं तनूजमुदपीपदत् ॥21॥ उसी समय इन्द्रादि देवों ने जिसके गर्भकल्याणक का उत्सव किया है, जो अत्यन्त संतुष्ट है, मद
तस्य जन्मोत्सवस्थालं वर्णनाय मरूद्वरा: । यदि स्वर्ग समुद्वास्य सर्वेऽप्यत्र सजानय: ॥22॥
अत्यल्पं तृप्तिमापन्ना दीनानाथवनीपका: । इतीदमिह सम्प्राप्तं यदि तृप्तिं जगत्त्रयम् ॥23॥
कुन्थुतीर्थेशसन्ताने पल्ये तुर्थाशसम्मिते । सहस्त्रकोटिवर्षो ने तदभ्यन्तरजीवित: ॥24॥
अरो जिनोऽजनि श्रीमानशीर्ति चतुरूत्तराम् । वत्सराणां सहस्त्राणि परमायु: समुद्वहन् ॥25॥
त्रिंशच्चापतनूत्सेध: चारूचामीकरच्छवि: । लावण्यस्य परा कोटि: सौभाग्यस्याकर: पर: ॥26॥
सौन्दर्यस्य समुद्रोऽयमालयो रूपसम्पद: । गुणा: किमस्मिन् सम्भूता: किं गुणेष्वस्य सम्भव: ॥27॥
अभूद्गुणमय: किं वेत्याशंका सानयन् जनान् । अवर्द्धत समं लक्ष्म्या बालकल्पद्रमोपम: ॥28॥
तस्य शून्यत्रिकैकद्विप्रमाणामितवत्सरै: । गते कुमारकालेऽभूद्राज्यं माण्डलिकोचितम् ॥29॥
तावत्येव गते काले तस्मिन् सकलचक्रिता । भोगान्समन्वभूद्भागे तृतीये स निजायुष: ॥30॥
कदाचिच्छारदाम्भोदविलयप्रतिलोकनात् । समुद्भूतस्वजन्मोपयोगबोधि: सुरोत्तमै: ॥31॥
प्रबोधितोऽनुवादेन दत्वा राज्यं स्वसूनवे । अरविन्दकुमाराय सुरैरूढामधिष्ठित: ॥32॥
शिबिकां वैजयन्त्याख्यां सहेतुकवनं गत: । दीक्षां षष्ठोपवासेन रेवत्यां दशमीदिने ॥33॥
शुक्लेऽगान्मार्गशीर्षस्य सायाह्ने भूभुजां सह । सहस्त्रेण चतुर्ज्ञानधारी च समजायत ॥34॥
सम्यगेवं तप: कुर्वन् कदाचित्पारणादिने । प्रायाच्चक्रपुरं तस्मै दत्वान्नमपराजित: ॥35॥
महीपति: सुवर्णाभ: प्रापदाश्चर्यपन्चकम् । छाद्यस्थ्येनागमंस्तस्य मुनेर्वर्षाणि षोडश ॥36॥
ततो दीक्षावने मासे कार्तिके द्वादशीदिने । रेवत्यां शुक्लपक्षेऽपराह्णे चूततरोरध: ॥37॥
षष्ठोपवासेनाहत्य घातीन्यार्हन्त्यमासदत् । सुराश्चतुर्थकल्याणे सम्भूयैनमपूजयन् ॥38॥
कुम्भार्याद्या गणेशोऽस्य त्रिंशत्पूर्वांगवेदिन: । शून्यैकषट्मिता: ज्ञेया शिक्षका: सूक्ष्मबुद्धय: ॥39॥
पन्चवह्गयष्टपन्चाग्निमितास्त्रिज्ञानधारिण: । शून्यद्वयाष्टपक्षोक्ता: केवलज्ञानलोचना: ॥40॥
तावन्त: खद्वयाग्न्यग्धिनिमिता विक्रियर्द्धिका: । करणेन्द्रियखद्वयुक्ता मन:पर्ययबोधना: ॥41॥
शतानि षट्सहस्त्रं च तत्रानुत्तरवादिन: । सर्वे ते सन्चिता: पन्चाशत् सहस्त्राणि संयता: ॥42॥
ज्ञेया: षष्टिसहस्त्राणि यक्षिलाप्रमुखार्थिका: । लक्षा: षष्टिसहस्त्राणि श्रावका श्राविकाश्च ता: ॥43॥
लक्षं त्रयं विनिर्दिष्टा देवा: पूर्वोक्तमानका: । तिर्यग्भेदाश्च संखयाता1वृतोद्वादशभिर्गणै: ॥44॥
एभिर्धर्मोपदेशार्थ व्यहरद्विषयान् सुधी: । मासमात्रावशेषायु: सम्मेदगिरिमस्तके ॥45॥
सहस्त्रमुनिभि: सार्द्ध प्रतिमायोगमास्थित: । चैत्रकृष्णान्तरेवत्यां पूर्वरात्रेऽगमच्छिवम् ॥46॥
तदाऽऽगत्य सुराधीशा: कृतनिर्वाणपूजना: । स्तुत्वा स्तुतिशतैर्भक्त्या स्वं स्वमोक: समं ययु: ॥47॥
शार्दूलविक्रीडितम्
त्यक्तं येन कुलालचक्रमिव तच्चक्रं धराचक्रचित्,
श्रीश्चासौ घटदासिकेव परमश्रीधर्मचक्रेप्सया ।
युष्मान्भक्तिभरानतान्स दुरितारातेरवध्वंसकृत्,
पायाद्भव्यजनानरो जिनपति: संसारभीरून् सदा ॥48॥
वसन्ततिलकावृत्तम्
क्षुत्तृट्भयादिगुरूकर्मकृतोरूदोषा-
नष्टादशापि सनिमित्तमपास्य शुद्धिम् ।
यो लब्धवांस्त्रिभुवनैकगुरूर्गरीया-
नष्टादशो दिशतु शीघ्रमर: शिवं व: ॥49॥
शार्दूलविक्रीडितम्
प्राग्योऽभून्नृपतिर्महान् धनपति: पश्चाद्व्रतानां पति:,
स्वर्गाग्रे विलसज्जयन्तजपति: प्रोद्यत्सुखानां पति: ।
षट्खण्डाधिपतिश्चतुर्दशलसद्रलैर्निधीनां पति:,
त्रैलोक्याधिपति: पुनात्वरपति: सन् स श्रितान् वश्चिरम् ॥50॥
अथास्मिन्नेव तीर्थेऽभूत्सुभौमो नाम चक्रभृत् । तृतीये जन्मन्यत्रैव भरतेऽसौ भुव: पति: ॥51॥
भूपालो नाम संग्रामे वलिभिर्विजिगीषुभि: । प्राप्ताभिमानभंग: सन् भृशं निर्विद्य संसृते: ॥52॥
दीक्षां जैनेश्वरीमादात्संभूतगुरूसन्निधौ । कदाचित्स तप: कुर्वन्निदानमकरोत्कुधी: ॥53॥
भूयान्मे चक्रवर्तित्वमिति भोगानुषन्जनात् । धीरं विषेण वा तेन मनसा दूषितं तप: ॥54॥
स तथैवाचरन् घोरं तप: स्वास्यायुष: क्षये । समाधाय महाशुक्रे संन्यासेनोदपद्यत ॥55॥
तत्र षोडशवाराशिमानायु: सुखमास्त स: । द्वीपेऽस्मिन् भारते कौशलाख्य राष्ट्रे गुणान्विते ॥56॥
सहस्त्रबाहुरिक्ष्वाकु: साकेतनगराधिप: । राज्ञी तस्याभवच्चित्रमत्याख्या ह्णदयप्रिया ॥57॥
कन्याकुब्जमहीशस्य पारताख्यस्य सात्मजा । तस्यां सुत: सुपुण्येन कृतवीराधिपोऽभवत् ॥58॥
तत्र प्रवर्द्धमानेऽस्मिन्निदमन्यदुदीर्यते । सहस्त्रभुजभूमर्तु: पितृव्याच्छतबिन्दुत: ॥59॥
पारताख्य महीशस्य श्रीमत्त्यस्तनय: स्वसु: । जमदग्नि: सरामान्त: कौमारे मातृमृत्युत: ॥60॥
निर्वेगात्तापसो भूत्वा पन्चाग्नितपसि स्थित: । दृढग्राहिमहीशस्य विप्रेण हरिशर्मणा ॥61॥
अभूदखण्डितं सख्यमेवं काले प्रयात्यसौ । दृढग्राही तपो जैनमग्रहीद् ब्राह्मणोऽपि च ॥62॥
तापसव्रतमन्तेऽभूज्ज्योतिर्लोके द्विजोत्तम: । दृढग्राही च सौधर्मे सोऽवधिज्ञानचक्षुषा ॥63॥
मिथ्यात्वाज्ज्योतिषां लोके समुत्पन्नं द्विजोत्तमम् । विज्ञाय जैनसद्धर्म तं ग्राहयितुमागमत् ॥64॥
दृष्ट्वा तं तत्र मिथ्यात्वात्त्वमेवं कुत्सितोऽभव: । उत्कृष्टं शुद्धसम्यक्त्वाद्देवभूयमहं गत: ॥65॥
तस्मादुपेहि मोक्षस्य मार्गमित्यब्रवीत्तत: । तापसानां तप: कस्मादशुद्धमिति संशयात् ॥66॥
अन्वयुड़्क्त स तं सोऽपि दर्शयाम्येहि भूतलम् । इत्यन्योन्यं समालोच्य कीचकद्वन्द्वतागतौ ॥67॥
जमदग्निमुनेर्दीर्धश्मश्र्वाश्रयमुपाश्रितौ । कान्चित् कालकलां स्थित्वा सद्दृष्टि: सुरकीचक: ॥68॥
समभाषत मायाज्ञो ज्योतिष्कामरकीचकीम् । एतद्वनान्तरं गत्वा प्रत्यायास्याम्यहं प्रिये ॥69॥
प्रतीक्षस्वात्र मां स्थित्वेत्यसौ चाहागमं तव । न श्रद्दधामि मे देहि शपथं यदि यास्यसि ॥70॥
इत्यत: सोऽब्रवीद् ब्रूंहि पातकेषु किमिच्छसि । पन्चसु त्वमहं तस्मिन् दास्यामि तदिति स्फुटम् ॥71॥
साप्याह तेषु मे वान्छा कर्स्मिश्चिन्नैव देहि मे । तापसस्यास्य यास्यामि गतिं नैष्याम्यहं यदि ॥72॥
इतीमं शपथं गन्तुं मुन्चामि त्वां प्रियेति ताम् । तच्छ्र त्वा कीचक: प्राह मुक्त्वैनं किन्चिदीप्सितम् ॥73॥
ब्रूह्मन्यमिति तद्न्दविसंवादं स तापस: । श्रुत्वा क्रोधेन सन्तप्तो विघूर्णितविलोचन: ॥74॥
हस्ताभ्यां हन्तुमु त्क्रौर्याद् गृहीत्वा निश्चलं द्विजौ । मद्दुर्द्धरतप: प्राप्य भाविलोकोऽनभीप्सित: ॥75॥
युवाभ्यां केन तद्वाच्यमित्याहात: खगोऽब्रवीत् । मागम: कोपमेतेन सौजन्यं तव नश्यति ॥76॥
यदातन्चनतक्रेण पयोऽल्पेन न किं क्षतिम् । श्र्णुते दुर्गतेर्हेतु चिरं घोरं तपस्यत: ॥77॥
कौमारब्रह्मचारित्वं तव सन्तन्तिविच्छिदे । सन्तानघातिन: पुंस: का गतिर्नरकाद्विना ॥78॥
अपुत्रस्य गतिर्नास्तीत्यार्ष किं न त्वया श्रुतम् । कुतोऽविचारयन्नेवं क्लिश्नासि जडधीरिति ॥79॥
श्रुत्वा तद्वचनं मन्दमिति निश्चित्य तत्तथा । वधूजनेषु सक्तानाममज्ञानतपस: क्षिति: ॥80॥
ममोपकारकावेताविति मुक्त्वा द्विजद्वयम् । वन्चितोऽगात्कुधीस्ताभ्यां कन्याकुब्जाधिपं प्रति ॥81॥
स्थास्नु नाज्ञानवैराग्यमित्यत्राघोषयन्निव । दृष्ट्वा पारतभूपालमात्ममातुलमत्रप: ॥82॥
आकारेणैव कन्यार्थागमनं स निवेदयन् । आसनद्वयमालोक्य सरागासनमास्थित: ॥83॥
निजागमनवृत्तान्तं महीपतिमजीगमत् । तदाकर्ण्य नृप: खेदाद्धिग्धिगज्ञानमित्यमुम् ॥84॥
कन्याशतं ममास्त्यत्र या त्वामिच्छति साऽस्तु ते । इत्यवोचदसौ चागात्कन्यकास्तं निरीक्ष्य ता: ॥85॥
अर्द्धदग्धशवं मत्वा तपोदग्धशरीरकम् । जुगुप्सयाऽपलायन्त काश्चित्काश्चिद्भयाहिता: ॥86॥
व्रीडया पीडित: सोऽपि तास्त्यक्त्वा बालिकां सुताम् । तस्यैवालोक्य मूढात्मा पांसुक्रीडापरायणाम् ॥87॥
कदलीफलमादर्श्य प्राह मामिच्छतीति ताम् । वान्छामीत्यब्रुवत्सा च मामियं वान्छतीति ताम् ॥88॥
नृंप निवेद्य संगृह्य समायासीद्वनं प्रति । पदं प्रति जनैर्निन्द्यमानो दीनतमो जड: ॥89॥
रेणुकीत्यभिधां तस्या विधाय स्वीचकार स: । प्रवृत्तिर्धर्म इत्येषा तदा प्रभृति वागभूत् ॥90॥
बोधौ श्रद्धा विशेषस्य भेदौ वा तपसो यते: । बाह्याभ्यन्तरनामानौ तावभूतां सुतौ स्तुतौ ॥91॥
इन्द्र: श्वेतश्च रामान्तौ चन्द्रादित्यसमात्विषौ । कामार्थौ वा जनाभीष्टौ युक्तौ वा नयविक्रमौ ॥92॥
प्रयात्येवं तयो: काले मुनिरन्येद्युरागत: । अरिंजयोऽग्रजो गेहं रेणुक्यास्ताद्दिदृक्षया ॥93॥
दृष्ट्वा यथोपचारेण मुर्नि भर्तृप्रचोदिता । पूज्य ! मद्दानकाले मे दत्तं किं भवता धनम् ॥94॥
वदेत्याह ततस्तेन मया दत्तं न किन्चन । इदार्नी दीयते भद्रे त्रिजगत्स्वपि दुर्लभम् ॥95॥
गृहाण येन प्राप्रोषि त्वं सुखानां परम्पराम् । सम्यक्त्वं व्रतसंयुक्तं शीलमालासमुज्ज्वलम् ॥96॥
इत्युक्त्वा काललब्ध्येव तद्वाचा चोदिता सती । सम्यग्गृहीतभित्याख्यन्मुनीशश्चातितुष्टवान् ॥97॥
कामधेन्वभिधां विद्यामीप्सितार्थप्रदायिनीम् । तस्यै विश्राणयान्चके समन्त्रं परशुं च स: ॥98॥
अथान्यदा ययौ सार्द्ध कृतवीरेण तत्पिता । तपोवनं सनाभित्वाद् भुक्त्वा गन्तव्यमित्यमुम् ॥99॥
सहस्त्रबाहुं सम्भाष्य जमदग्निरभोजयत् । महाराजकुलेऽप्येषा सामग्री नास्ति भोजने ॥100॥
तपोवननिविष्टानामागता भवतां कुत: । इति स्वमातुरनुजामप्राक्षीद्रेणुकीं 2मिथ: ॥101॥
कृतवीरोऽब्रवीत्साऽपि तद्विद्यालम्भनादिकम् । सोऽपि मोहोदयाविष्टस्तां धेनुमकृतज्ञक: ॥102॥
होमधेनुरियं तात वर्णाश्रगगुरोस्त्व । याचनैषा न युक्तेति तदुक्त्या कोपवेगत: ॥103॥
परार्द्ध यद्धनं लोके तद्योग्यं पृथिवीभुजाम् । न धेनुरीदृशी भोग्या कन्दमूलफलाशिभि: ॥104॥
इत्यस्या धेनुमादाय हठात्कारेण गच्छत: । अवस्थितं पुरस्तात्तं जमदग्निं महीपति: ॥105॥
हत्वा स्वमार्गमुल्लड़्ध्य कुमार्गोऽभूत्पुरोन्मुख: । रूदन्तीं रेणुकीं भर्तृमरणात् प्रहतोदरीम् ॥106॥
अथ पुत्रौ वनात्पुष्पकन्दमूलफलादिकम् । आदायालोक्य सम्प्राप्तौ किमेतदिति विस्मयात् ॥107॥
पृष्ट्वा विज्ञाय तत्सर्व सकोपौ शोकनिर्भराम् । निर्वाप्य युक्तिमद्वाग्भिस्तौ नैसर्गिकविक्रमौ ॥108॥
ध्वजीकृतनिशातोग्रपरशू यमसन्निभौ । गोग्रहे मरणं पुण्यहेतुरित्यविगानत: ॥109॥
श्रूयते तत्तथैवास्तां क: सहेत पितुर्वधम् । इत्युक्त्वानुगताशेषस्त्रिह्मन्मुनिकुमारकौ ॥110॥
तद्रतं मार्गमन्वेत्य साकेतनगरान्तिकम् । सम्प्राप्य कृतसंग्रामौ कृतवीरेण भूपतिम् ॥111॥
सहस्त्रबाहुमाहत्य सायाह्गेऽविक्षतां पुरम् । हालाहलोपमान्याशु घोरांह:स्फूर्जितान्यलम् ॥112॥
फलन्त्यकार्यचर्याणां दु:सहां दु:खसन्ततिम् । सहस्त्रबाहुसन्ताननि:शेषीकरणोत्सुकम् ॥113॥
ज्ञात्वा परशुरामीयमभिप्रायं महीपति: । भूपालचरदेवेन निदानविषदूषितात् ॥114॥
समुद्भूतेन तपसो महाशुक्रेऽत्र जन्मिना । रार्ज्ञी सगर्भा चित्रमतीं तां शाण्डिल्यतापस: ॥115॥
तदग्रज: समादाय गत्वा विज्ञातचर्यया । स सुबन्ध्वाख्यनिर्ग्रन्थमुनेरावेद्यवृत्तकम् ॥116॥
तत्समीपे निधायार्य मठे मे नास्ति कश्चन । तत्र गत्वा समीक्ष्यागमिष्याम्येषाऽत्र तिष्ठतु ॥117॥
देवीति गतबांस्तस्मात्तदैवासूत सा सुतम् । तदानीमेव तं तत्र भविष्यद्भरताधिप: ॥118॥
बालकोऽयमिति ज्ञानात्स्वीचक्रु र्वनदेवता: । ताभि: प्रपाल्यमानोऽयमनाबाधमवर्द्धत ॥119॥
दिनानि कानिचिन्नीत्वा महीमाश्लिष्य जातवान् । बालकोऽयं कथम्भावी भट्टारक, शुभाशुभम् ॥120॥
अनुगृह्यास्य वक्तव्यमिति देव्योदितो मुनि: । एष चक्री भवेदम्ब वत्सरे षोडशे ध्रुवम् ॥121॥
साग्निचुल्लीगतस्थूल6किलासघृतमध्यगान् । उष्णापूपानुपादाय भक्षयिष्यति बालक: ॥122॥
अभिज्ञानमिदं भावि चक्रित्वस्यास्य निश्चितम् । तस्मान्मा स्म भयं यासीरिति तामिति दु:खिताम्॥123॥
सुबन्ध्वाख्यो भृशं स्वास्थ्यमनैषीत्करूणात्मक: । ततस्तदग्रजोऽभेत्य तां नीत्वा गृहमात्मन: ॥124॥
समुद्भूतोऽयमाश्र्लिष्य मेदिनीमिति तस्य स: । सुभौम इति सम्प्रीत्या चक्रे नाम कृतोत्सव: ॥125॥ जब कुछ दिन व्यतीत हो गये तब एक दिन रानी ने मुनि से पूछा कि हे स्वामिन् ! यह बालक पृथिवी का आश्लेषण करता हुआ उत्पन्न हुआ था अत: अनुग्रह करके इसके शुभ-अशुभ का निरूपण कीजिये । इस प्रकार रानी के कहने पर मुनि कहने लगे कि हे अम्ब ! यह बालक सोलहवें वर्ष में अवश्य ही चक्रवर्तीहोगा और चक्रवर्ती होने का यह चिह्न होगा कि यह बालक अग्नि से जलते हुए चूल्हे के ऊपर रखी कढ़ाई के घी के मध्य में स्थित गरम गरम पुत्रों को निकालकर खा लेगा । इसलिए तू किसी प्रकार का भय मत कर । इस प्रकार दया से परिपूर्ण सुबन्धु मुनि ने दु:खिनी रानी चित्रमती को अत्यन्त सुखी किया।
तत्र शास्त्राणि सर्वाणि सप्रयोगाणि सन्ततम् । सोपदेशं समभ्यस्यन् वर्द्धते स्म स गोपित: ॥126॥
अथ तौ रेणुकीपुत्रौ प्रवृद्धोग्रपराक्रमौ । त्रि: सप्तकृत्वो निर्मूलमापाद्य 2क्षत्रियान्वयम् ॥127॥
रवहस्ताखिलभूपालशिरांसि स्थापनेच्छया । शिलास्तम्भेषु संगृह्य बद्धवैरो गुरोर्वधात् ॥128॥
सार्वभौर्मी श्रियं सम्यक् सम्भूयानुबभूवतु: । निमित्तकुशलो नात्रा कदाचित्स निमित्तवित् ॥129॥
भवत: शत्रुरूत्पन्न: प्रयत्रोऽत्र विधीयताम् । क: प्रत्ययोऽस्य चेद्वच्मि विध्वस्ताखिलभूभुजाम् ॥130॥
दन्ता यस्याशनं भूत्वा परिणंस्यत्यसौ रिपु: । इतीन्द्ररामं राजानं परश्वीशमबूबुधत् ॥131॥
श्रुत्वा यथावन्नैमित्तिकोक्तं चेतसि धारयन् । कृत्वा परशुरामोऽपि दानशालां सुभोजनाम् ॥132॥
तत्परीक्षार्थमायान्तु येऽत्र विश्वणनार्थिन: । इत्याघोषयति स्मैतत् श्रुत्वा तेऽपि समागमन् ॥133॥
तेषां पात्रस्थतद्दन्तान् सम्प्रदर्श्य परीक्षितुम् । तान् भोजयति भूपाले प्रत्यर्ह स्वनियोगिभि: ॥134॥
पितुर्मरणवृत्तान्तं स्वमातुरवबुद्धवान् । स्वचक्रेशित्वसम्प्राप्तिकालायानं च तत्त्वत: ॥135॥
सुसिद्धमुनिनिर्दिष्टसंवृत्तात्मस्वरूपक: । परिव्राजकवेषेण स्वरहस्यार्थवेदिना ॥136॥
राजपुत्रसमूहेन सुभौमोऽध्यागमत्पुरम् । सभाग्यांश्चोदयत्येव काले कल्याणकृद्विधि: ॥137॥
तदा साकेतवास्तव्यदेवताक्रन्दनं महत् । महीकम्पो दिवा तारादृष्ठयादिरभवत्परे ॥138॥
तथागत्य कुमारोऽसौ शालां भोक्तुमुपागत: । तमाहूय निवेश्योंचैरासने हतभूभुजाम् ॥139॥
नियुक्ता दर्शयन्ति स्म दन्तांस्तम्यानुभावत: । कलभान्नं तदासंस्ते तद्दृष्ट्रा परिचारिण: ॥140॥
व्यजिज्ञपन्नृपं सोऽपि स धृत्वा नीयतामिति । समर्थान्प्राहिणोद् भृत्यांस्तेऽपि तं प्राप्य निष्ठुरा: ॥141॥
आहूतोऽसि महीशेन त्वमेह्याश्वित्युदाहरन् । नाहं यूयमिवास्यादां जीविकां तत्तदन्तिकीम् ॥142॥
किमित्येष्यामि यातेति तजिंतास्तत्प्रभावत: । भटा भयज्वरग्रस्ता ययु: सर्वे यथायथम् ॥143॥
श्रुत्वा परशुरामस्तत्क्रुद्ध्वा सन्नद्धसाधन: । समागतस्तदालोक्य सुभौमोऽभिमुखं ययौ ॥144॥
बलं परशुराम: स्वं तेन योद्धुं सहादिशत् । जन्मप्रभृति तत्पाता भरतव्यन्तराधिप: ॥145॥
रक्षित्वाऽस्थात्कुमारं तं तस्मात्तस्याग्रतो बलम् । स्थातुमक्षममालोक्य स्वयं गजमचोदयत् ॥146॥
सहसैव सुभौमसुभौमस्याप्यभवद् गन्धवारण: । चक्रं च सन्निधौ दिव्यं सार्वभौमत्वसाधनम् ॥147॥
सहस्त्रदेवतारक्ष्यं किन्न स्यात् सम्मुखे विधौ । वारणेन्द्रं समारूह्य पूर्वाद्रिमिव भास्कर: ॥148॥
सहस्त्रारं करे कृत्वा कुमारश्वक्रमाबभौ । तं दृष्ट्वा रूष्टवान् हन्तुं जामदग्न्योऽभ्युपागमत् ॥149॥
चक्रेण तं कुमारोऽपि लोकान्तरमजीगमत् । अकरोंचान्यसैन्यस्य तदैवाभयघोषणाम्8॥150॥
अरेशतीर्थसन्तानकाले द्विशतकोटिषु । स द्वात्रिंशत्सु जातेऽभमत्सुभौमौ वत्सरेष्वयम् ॥151॥
अभिभूताखिलारातिरष्टामश्वक्रवर्तिषु । समा षष्टिसहस्त्रायुरष्टार्विशतिचापम: ॥152॥
जातरूपच्छबि: श्रीमानिक्ष्बाकुकुलकेसरी । विराजमानो विस्पष्टचक्रादिशुभलक्षणै: ॥153॥ यह सुभौम समस्त शत्रुओं को नष्ट करने वाला था और चक्रवर्तियों में आठवाँ चक्रवर्ती था ।
उसकी साठ हजार वर्ष की आयु थी, अट्ठाईस धनुष ऊँचा शरीर था, सुवर्ण के समान उसकी कान्ति थी,
ततो रत्नानि शेषाणि निधयोऽपि नवाभवन् ।षटखण्डस्याधिपत्येन प्रादुरासीत्स चक्रभृत् ॥154॥
चक्रवर्तित्वसम्प्राप्यान् भोगान् दशविधांश्विरम् । अन्वभूदिव देवेन्द्रो दिवि दिव्याननारतम् ॥155॥
अन्येद्यु: सूपकारोऽस्य नात्राऽमृतरसायन: । रसायनाह्निकामस्मै मुदाऽदादम्लिकां हित: ॥156॥
तत्रामश्रुतिमात्रेण तद्रुणस्याविचारक: । तद्वैरिचोदित: कोपाद् भूपतिस्तमदण्डयत् ॥157॥
सोऽपि तेनैव दण्डेन निम्नयमाणोऽतितीव्ररूट् । वध्यासं नृपमित्यात्तनिदान: पुण्यलेशत: ॥158॥
ज्योतिर्लोकेऽमरो भूत्वा विभंगज्ञानवीक्षण: । अनुस्मृत्य रूषा वैरं जिघांसु: स महीपतिम् ॥159॥
जिह्वालोलुपमालक्ष्य सन्धृत्य वणिगाकृतिम् । सुस्बादुफलदानेन प्रत्यहं तमसेवत ॥160॥
निष्ठिता विफलानीति कदाचित्तेन भाषित: । आनेतव्यानि तान्येव गत्वेत्याख्यन्नृपोऽपि तम् ॥161॥
आनेतुं तान्यशक्यानि प्राड़्मयाराध्य देवताम् । तद्वनस्वामिर्नी दीर्घ लब्धान्येतानि कानिचित् ॥162॥
आसक्तिस्तेषु चेदस्ति देवस्य तद्वनं मया । सह तत्र त्वमायाहि यथेष्टं तानि भक्षय ॥163॥
इति प्रलम्भनं तस्य विश्वास्य प्रतिपन्नवान् । राजा प्रक्षीणपुण्यानां विनश्यति विचारणम्6॥164॥
एतद्राज्यं परित्यज्य रसनेन्द्रियलोलुप: । मत्स्यवर्क्ति विनष्टेति मन्त्रिभिर्वारितोऽप्यसौ ॥165॥
तदुक्तमतिलड्ध्याज्ञ: पोतेनागाहताम्बुधिम् । तदा रत्नानि तद्गेहात् न्यपेतान्यखिलान्यपि ॥166॥
सहस्त्रयक्षरक्षाणि प्रत्येकं निधिभि: समम् । तद्विदित्वा बणिग्वैरी नीत्वा मध्येऽम्बुधिं द्विषम् ॥167॥
स्वप्राग्जन्माकृतिं तस्य प्रकटीकृत्य दुर्वच: । उक्त्वा वैरानुबन्धं च क्रूरश्रित्रबधं व्यधात् ॥168॥
सुभौमोऽपि विपद्यान्ते रौद्रध्यानपरायण: । श्वाभ्रीं गर्ति समापन्नो दौर्मत्यात्किन्न जायते ॥169॥
लोभात्सहसूबाहुश्र प्राप तिर्यग्गर्ति सतुक् । जमदग्निसुतौ हिंसापरतन्त्रौ गतावध: ॥170॥
तत एव त्यजन्त्येतौ रागद्वेषौ मनीषिण: । तत्यागादाप्रुवन्त्यापन्नाप्स्यन्ति च परं पदम् ॥171॥
वसन्ततिलका
एकोऽपि सिंहसदृश: सकलावनीशो
हत्वा पितुर्वधकृ तौ जमदग्निसूनू ।
कीर्त्या स्वया धवलिताऽखिलदिक् सुभौम –
श्वक्री सुदुर्नयवशान्नरकेऽष्टमोऽभूत् ॥172॥
भूपालभूपतिरसह्यतपोविधायी
शुल्केऽभवन्महति षोडशसागरायु: ।
च्युत्वा तत: सकलचक्रधर: सुभौमौ
रामान्तकृन्नरनायकतां जगाम ॥173॥
नन्दिषेणो बल: पुण्डरीकोऽर्द्धभरताधिप: । राजपुत्राविमौ जातौ तृतीयेऽत्र भवान्तरे ॥174॥
सुकेत्वाश्रयशल्येन तप: कृत्वायुषोऽवधौ । भाद्ये कल्पे समुत्पद्य तत: प्रच्युत्य चक्रिण: ॥175॥
पश्चात्षट्छतकोटयब्दातीतौ तत्रैव भारते । राज्ञश्चक्रपुराधीशादिक्ष्वाकोर्वरसेनत: ॥176॥
वैजयन्स्यां बलो देवो लक्ष्मीमत्यामजायत । पुण्डरीकस्तयोरायु: खत्रयर्त्वेन्द्रियाब्दवत् ॥177॥
षड़्विंशतितनूत्सेधौ धनुषां नियतायुषो: । स्वतप:सन्चितात्पुण्यात्काले यात्यायुषो: सुखम् ॥178॥
अन्यदोपेन्द्रसेनाख्यमहीडिन्द्रपुराधिप: । पद्यावर्ती सुतां स्वस्य पुण्डरीकाय दत्तवान् ॥179॥
अथ दर्पी दुराचार: सुकेतु: प्राक्तनो रिपु: । निजोपार्जितकर्मानुरूपेण भवसन्ततौ ॥180॥
भ्रान्त्वा क्रमेण सन्चित्य शुभं तदनुरोधत: । भूत्वा चक्रपुराधीशो वशीकृतवसुन्धर: ॥181॥
ग्रीष्मार्कमण्डलाभत्वादसोढा परतेजसाम् । तद्विवाहश्रुते: क्रुद्ध: सन्नद्धाशेषसाधन: ॥182॥
निशुम्भो मारकोऽरीणां नारकेभ्योऽपि निर्दय: । प्रास्थिताखण्डविक्रान्त: पुण्डरीर्क जिघांसुक: ॥183॥
युद्ध्वा बहुविधेनामा तेनोद्यत्तेजसा चिरम् । तच्चक्राशनिघातेन घातितासुरयादध: ॥184॥
तावुभाविव चन्द्रार्कौ संयुक्तौ लोकपालकौ । स्वप्रभाक्रान्तदिक्चक्रौ पालयित्वा चिरं धराम् ॥185॥
अविभक्तश्रियौ प्रीर्ति परमां प्रापतु: पृथक् । व्याप्तचक्षुर्विशेषौ वा रम्यैकविषयेप्सणौ ॥186॥
तयोर्भवत्रयायातपरस्परसमुद्भवात् । प्रेम्णस्तृप्तेरयान्नांशमपि तृप्तिर्नृपत्वजा ॥187॥
पुण्डरीकश्चिरं भुक्त्वा भोगांस्तत्रातिसक्तित: । बध्वायुर्नारकं घोरं बह्वारम्भपरिग्रह: ॥188॥
प्रान्ते रौद्राभिसन्धानाद्रढमिथ्यात्वभावन: । प्राणैस्तम:प्रभां भृत्वा प्राविशत्पापपाकवान् ॥189॥
हलभृत्तद्वियोगेन जातनिर्वेदसारथि: । शिवघोषयर्ति प्राप्य संयमं प्रत्यपद्यत ॥190॥
स बाह्याभ्यन्तरं शुद्धं तप: कृत्वा निराकुल: । मूलोत्तराणि कर्माणि निर्मूल्यावाप निर्वृतिम् ॥191॥
वसन्ततिलका
जातौ तृतीयजनने धरणीशपुत्रौ
पश्चात्सुरौ प्रथमकल्पगतावभूताम् ।
श्रीनन्दिषेणहलभृत्सुनिशुम्भशत्रु:
षष्ठस्त्रिखण्डधरणीट्सु च पुण्डरीक: ॥192॥
🏠
पर्व - 66
मोहमल्लममल्लं यो व्यजेष्टानिष्टकारिणम् । करीन्द्रं वा हरि: सोऽयं मल्लि: शल्यहरोऽस्तु न: ॥1॥
जम्बूपलक्षिते द्वीपे मेरो: प्राक् कच्छकावती । विषये वीतशोकाख्यपुरे वैश्रवणाह्णय: ॥2॥
महावंशी मही तस्य महागुणमहीयस: । कुम्भकारकरालग्नमृत्स्त्रेत्व वशवर्तिनी ॥3॥
योगस्ताभ्यो महांस्तस्य प्रजानां प्रेमकारिण: । ता यस्मादुपयुज्यन्ते कोशदुर्गबलादिभि: ॥4॥
महाभयेषु सन्धर्तु संचिनोति धनं प्रजा: । धत्ते दण्डं च सनमार्गे सम्प्रवर्तयितुं स ता: ॥5॥
इति प्रवृद्धण्यानुभावसम्पादितां श्रियम् । प्रियामिव नवोढां तामुत्प्रीत्यानुभवंश्चिरम् ॥6॥
कदाचित्प्रावृडारम्भे जृम्भमाणां वनावलीम् । विलोकितुं पुरस्यायादुपशल्यमुदात्तधी: ॥7॥
तत्र शाखोपशाखा: स्वा: प्रसार्येव नृपो महान् । अवगाह्य महीं तस्थौ न्यग्रोध: सेवितो द्विजै: ॥8॥
तं विलोक्य महीपाल: पश्य पश्यास्य विस्तृतिम् । तुंगत्वं बद्धमूलत्वं वहन्नन्वेति मामयम् ॥9॥
दर्शयन्निति साश्चर्य प्रियाणां पार्श्ववर्तिनाम् । गत्वा वनान्तरे भ्रान्त्वा तेनैवायात् पुन: पथा ॥10॥
आमूलाद् भस्मितं वीक्ष्य वज्रपातेन तं बटम् । कस्यात्र बद्धमूलत्वं कस्य का वात्र विस्तृति: ॥11॥
कस्य का तुंगता नाम यद्यस्यापीदृशी गति: । इति चिन्तां समापन्न: सन्त्रस्त: संसृतिस्थिते: ॥12॥
प्रदाय राज्यं पुत्राय श्रीनागनगवर्तिनम् । श्रीनागपतिमासाद्य पीतधर्मरसायन: ॥13॥
राजभिर्बहुभि: सार्द्धमवाप्यात्युन्नतं तप: । अंगान्येकादशांगानि विधाय विधिना धिया ॥14॥
सम्पाद्य तीर्थकृन्नाम गोत्रं चोपात्तभावन: । तपस्यन्सुचिरं प्रान्ते प्रास्ताशेषपरिग्रह: ॥15॥
सोऽनुत्तरविमानेषु सम्बभूवापराजिते । त्रयस्त्रिंशत्समुद्रोपमायुर्हस्तोच्छ्रिति: कृती ॥16॥
मासान् षोडश मासार्द्ध चातिबाह्यं मनाक् सकृत् । श्वसित्याहारमादत्ते मनसा योग्यपुद्रलान् ॥17॥
त्रयस्र्त्रिशत्सहस्त्रोक्तवत्सराणां व्यतिक्रमे । भोगोऽस्य नि:प्रवीचारो लोकनाल्यन्तरावधे: ॥18॥
तत्क्षेत्रमितभाशक्तिविक्रियस्यामरेशितु: । तस्मिन् षण्मासशेषायुष्यागमिष्यति भूतलम् ॥19॥
अत्रैव भरते बंगविषये मिथिलाधिप: । इक्ष्वाकुर्भूपति: कुम्भनामा काश्यपगोत्रज: ॥20॥
प्रजावती महादेवी तस्य लक्ष्मीरिवापरा । पीयूषाशिकृताचिन्त्यवसुधारादिवैभवा ॥21॥
चैत्रमासे2 सिते पक्षे निशान्ते प्रतिपद्दिने । अश्विन्यां षोडश स्वप्नान् व्यलोकिष्टेष्टसूचिन: ॥22॥
तदैव मंगलान्युच्च: पेठुर्मंगलपाठका: । हता प्रभातभेरी च दरनिद्राविघातिनी ॥23॥
प्रबुध्याधिकसन्तोषात्स्नात्वा मंगलवेषधृक् । पर्ति प्रति गता रेखा चन्द्रस्येव तदातनी ॥24॥
संसत्कुमुद्वती सा विकासयन्ती स्वतेजसा । आनन्दद्विलोक्यैनामधीशोऽप्यासनादिभि: ॥25॥
सुस्थिताऽर्द्धासने सापि स्वप्रांस्तांस्तमवेदयत् । फलान्यमीषां शुश्रषु: परितोषकराण्यत: ॥26॥
यथाक्रमं नृपोऽप्युक्त्वा फलं तेषां पृथक् पृथक् । गजवक्त्रप्रवेशावलोकनाद्रर्भमाश्रित: ॥27॥
तवाहमिन्द्र इत्येनामानयत्प्रमदं परम् । कुर्वन्तस्तद्वच: सत्यं समन्तादमरेश्वरा: ॥28॥
समागत्य तयो: कृत्वा स्वर्गावतरणोत्सवम् । कल्याणभागिनो: पित्रोर्ययुस्तोषात्स्वमाश्रयम् ॥29॥
तमादायोदरं तस्या निर्बाधं भासते स्म तत् ।संक्रान्तपूर्णशीतांशुसम्मु2 खीनतलोपमम् ॥30॥
सुखेन नवमे मासि पूर्णे पूर्णेन्दुभास्वरम् । विभक्तसर्वावयवं सर्वलक्षणलक्षितन् ॥31॥
मार्गशीर्षसितैकादशीदिनेऽश्विनीसंगमे । त्रिज्ञानलोचनं देवं तं प्रासूत प्रजावती ॥32॥
तदामृताशिन: सर्वे सम्प्राप्य प्राप्तसम्मदा: । तेज:पिण्डं समादाय बालं बालार्कसन्निभम् ॥33॥
गत्वाऽचलेशे संस्थाप्य पन्चमाब्धिपयोजलै: । अभिषिच्य विभूष्योच्चैर्मल्लिनामानमाजगु: ॥34॥
ते पुनस्तं समानीय नामश्रावणपूर्वकम् । मातुरंके व्यवस्थाप्य स्वन्निवासान् प्रपेदिरै ॥35॥
अरेशतीर्थसन्तानकालस्यान्ते स पुण्यभाक् । सहस्त्रकोटिवर्षस्य तदभ्यन्तरजीव्यभूत् ॥36॥
समानां पन्चपन्चाशत् सहस्त्राण्यस्य जीवितम् । पन्चर्विशतिवाणासनोच्छ्रिते: कनक द्युते: ॥37॥
शतसंबत्सरे याते कुमारसमये पुरम् । चलत्सितपताकाभि: सर्वत्रोद्बद्धतोरणै: ॥38॥
विचित्ररंगवल्लीभिर्विकीर्णकुसुमोत्करै: ।निर्जिताम्भोनिधिध्वानै: प्रध्वनत्पटहादिभि: ॥39॥
मल्लिर्निजविवाहार्थ भूयो वीक्ष्य विभूषितम् । स्मृत्वापराजितं रम्यं विमानं पूर्वजन्मन: ॥40॥
सा वीतरागता प्रीतिरूर्जिता महिमा च सा । कुत: कुतो विवाहोऽयं सतां लज्जाविधायक: ॥41॥
विडम्बनमिदं सर्व प्रकृतं प्राकृतैर्जनै: । निन्दयन्निति निर्विद्य सोऽभून्निष्क्रमणोद्यत: ॥42॥ कुमारकाल के सौ वर्ष बीत जाने पर एक दिन भगवान् मल्लिनाथ ने देखा कि समस्त नगर
तदा द्युमुनय: प्राप्य प्रस्तुतस्तुतिविस्तरा: । अनुमत्य मतं तस्य ययु: खेन तिरोहिता: ॥43॥
तीर्थकृत्स्विपि केषांचिदेवासीदीदृशी मति: । दुष्करो विषयत्याग: कौमारे महतामपि ॥44॥
इति भक्त्या कृतालापा नभोभागे परस्परम् । परनि: क्रान्तकल्याणमहाभिषवणोत्सवम् ॥45॥
सोत्सवा: प्रापयन्ति स्म कुमारममरेश्वरा: । कुमारोऽपि जयन्ताभिधानं यानमधिष्ठित: ॥46॥
गत्वा श्वेतवनोद्यानमुपवासद्वयान्वित: । स्वजन्ममासनक्षत्रदिनपक्षसमाश्रित: ॥47॥
कृतसिद्धनमस्कार: परित्यक्तोपधिद्वय: । सायाह्णे त्रिशतैर्भूपै: सह सम्प्राप्य संयमम् ॥48॥
संयमप्रत्ययोत्पन्नचतुर्थज्ञानभास्वर: । मार्गोऽयमिᚫति संचिन्त्य सम्यग्ज्ञानप्रचोदित: ॥49॥
मिᚫथिलां प्राविशत्तस्मै नन्दिषेणनराधिप: । प्रदाय प्रासुकाहारं प्राप द्युन्नद्युति: शुभम् ॥50॥
दिनषट् के गते तस्य छाद्मस्थ्ये प्राक्तने वने । अधस्तरोरशोकस्य त्यक्ताहद्विंतयाद् गते: ॥51॥
पूर्वाह्णे जन्मनीवात्राप्यस्य सत्सु दिनादिषु । घातित्रितयनिर्णाशात्केवलावगमोऽभवत् ॥52॥
बोधिता इव देवेन्द्रा: सर्वे ज्ञानेन तेन ते । सम्भूयागत्य तत्पूजामकुर्वन् सर्ववेदिन: ॥53॥
अष्टार्विशतिरस्यासन् विशाखाद्या गणाधिपा: । स्वपंचेन्द्रियमानोक्ता मुनय: पूर्वधारिण: ॥54॥
शून्यत्रितरन्ध्रद्विप्रोक्तसड्ख्यानशिक्षका: । द्विशतद्विसहस्त्रोक्ततृतीयावगमस्तुता: ॥55॥
तावन्त: पंचमज्ञाना: खद्वयाब्ध्येकवादिन: । शून्यद्वनवद्वयुक्तविक्रियर्द्धिविभूषिता: ॥56॥
शून्यपन्चमुनीन्द्रैकमन:पर्ययबोधना: । चत्वार्रिशत्सहस्राणि सर्वे संकलनां श्रिता: ॥57॥
खग्रयेन्द्रियपन्चोक्ता बन्धुषेणादिकार्यिका: । श्रावका: लक्षमा: प्रोक्ता: श्राविकास्त्रिगुणास्तत: ॥58॥
देवा देव्यस्स्त्वसंखखाता: गण्या कण्ठीरवादय: । एवं द्वादशभिर्देबो गणैरेभि: परिष्कृत: ॥59॥
मुक्तिमार्ग नयन् भव्यपथिकान् प्रथितध्वनि: । बिजहार महादेशान् भव्यसत्त्वानुरोधत: ॥60॥ जिनकी दिव्य ध्वनि अत्यन्त प्रसिद्ध है ऐसे भगवान् मल्लिनाथ ने भव्य जीवरूपी पथिकों को
ततो मासावशेषायु:सम्मेदाचलमाश्रित: । प्रतिमायोगमादाय मुनिभि: सह पन्चभि: ॥61॥
सहस्त्रैर्ध्यानमास्थाय भरण्यां पूर्वरात्रत: । फाल्गुनोज्ज्वलपन्चम्यां तनुवातं समाश्रयत् ॥62॥
कल्पान्निर्वाणकल्याणमन्वेत्यामरनायका: । गन्धादिभि: समभ्यर्च्य तत्क्षेत्रमपवित्रयन् ॥63॥
मालिनी
जननमृतितरंगाद् दु:खदुर्वारिपूर्णा –
दुपचितगुणरत्नो दु:स्पृहावर्तगर्तात् ।
स कुमतविधुवृद्धाद् ध्याति नावा भवाब्धे –
रभजत भुवनार्ग्र विग्रहग्राहमुक्त: ॥64॥
स्वागता
येन शिष्टमुरूवर्त्म विमुक्ते-
र्य नमन्तिनमिताखिललोका: ।
यो गुणै: स्वयमधारि समग्रै:
स श्रियं दिशतु मल्लिरशल्य: ॥65॥
द्रुतविलम्बितवृत्तम्
अजनि वैश्रवणो धरणीश्वर:
पुनरनुत्त्रनाम्न्यपराजिते ।
जितखलाखिलमोहमहारिपु-
दिंशतु मल्लिरसावतुलं सुखम् ॥66॥
मल्लेर्जिनस्य सन्तानेऽभूत्पद्यो नाम चक्रभृत् । द्वीपेऽस्मिन्प्राच्यसौ मेरो: सुकच्छविषये नृप: ॥67॥
श्रीपुरेश: प्रजापालस्तृतीयेऽजनि जन्मनि । स्वामिप्रकृतिसम्प्रोक्तगुणानामुत्तमाश्रय: ॥68॥
सुराज्ञस्तस्य नाभूवन्राज्येऽस्यायुक्तिका2दिभि: । प्रजानां पन्चभिर्बाधास्तदव3र्द्धन्त ता: सुखम् ॥69॥
शक्तित्रितयसम्पत्त्या शत्रून्निर्ज्जित्य जित्वर: । विश्रान्तविग्रहो भोगान् धर्मेणार्थेन चान्वभूत् ॥70॥
स कदाचिद् विलोक्योल्कापातं जातावबोधन: । आपातरमणीयत्वमाकलय्येष्टसम्पदम् ॥71॥
स्थास्नुबुद्धया विमुग्धत्वादन्वभूवमिमांश्चिरम् । न चेदुल्काप्रपातोऽयं भूयो भ्रान्तिर्भवार्णवे ॥72॥
इत्यारोप्य सुते राज्यं शिवगुप्तजिनेश्वरम् । प्रपद्य परमं पित्सु6 रयासीत्संयमद्वयम् ॥73॥
समुत्कृष्टाष्टशुद्धीद्धता रूद्धाशुभाश्रव: । क्रमात्कालान्तमासाद्य सुसमाहितमानस: ॥74॥
निजराज्येन संक्रीर्त स्वहस्तप्राप्तमच्युतम् । तुतोष कल्पमालोक्य जितक्रेयो हि तुष्यति ॥75॥
द्वार्विशत्यब्धिमेयायु: प्रान्तेऽसावच्युताधिप: । द्वीपेऽत्र भरते काशी वाराणस्यां महीभुज: ॥76॥
इक्ष्वाको: पद्यनाभस्य रामायाश्चाभबत्सुत: । पद्याभिधान: पद्यादिप्रशस्ताशेषलक्षण: ॥77॥
र्त्रिशद्वर्षसहस्त्रायुर्द्वार्विशतिधनुस्तनु: । सुरसम्प्रार्थ्यकान्त्यादि: कार्तस्वरविभास्वर: ॥78॥ वहाँ बाईस सागर की उसकी आयु थी । वह अच्युतेन्द्र आयु के अन्त में वहाँसे च्युत होकर कहाँ उत्पन्न हुआ इसका वर्णन करते हैं -
पुण्योदयात्क्रमेणाप्य चक्रित्वं विक्रमार्जितम् । दशांगभोगान्नि:संगमभंगानम्वभूच्चिरम् ॥79॥
पृथिवीसुन्दरीमुख्यास्तस्याष्टौ पुत्रिका: सती: । सुकेतुखचराधीशपुत्रेभ्योऽदात्प्रसन्नवान् ॥80॥
एवं सुखेन कालेऽस्य याति सत्यम्बुदोऽम्बरे । प्रेक्ष्य: प्रमोदमुत्पाद्य सद्योऽसौ विकृर्ति ययौ ॥81॥
तं वीक्ष्य न विपक्षोऽस्य तयाप्येषोऽगमल्लयम् । सम्पत्सु सर्वविद्विट्सु का स्थैर्यास्था विवेकिन: ॥82॥
इति चक्री समालोच्य संयमेऽभूद्रतस्तदा । सुकेतु: कुलवृद्धोऽस्य नान्ना दुश्चरितोऽब्रवीत् ॥83॥
राज्यसम्प्राप्तिकालस्ते कनीयान् नवयौवन: । भोगान्भुड़्क्ष्व न कालोऽयं तपस: किं विधीर्भवे: ॥84॥
केनापि तपसा कार्य किं वृथाऽऽयासमात्रकम् । नात्र किन्चित्फलं नैव परलोकश्च कश्चन ॥85॥
कथन्न परलोकश्चेदभावात्परलोकिन: । पन्चभूतात्मके काये चेतना मदशक्तिवत् ॥86॥
पिष्टकिण्वादिसंयोगे तदात्मोक्ति: खपुष्पवत् । तत: प्रेत्योपभोगादिकाड़्क्षा स्वकृतकर्मण: ॥87॥
वन्ध्यास्तनन्धयस्येव खपुष्पापीडलिप्सनम् । आग्रहोऽयं परित्याज्यो राज्यं कुरू निराकुलम् ॥88॥
सत्यप्यात्मनि कौमारे सुकुमार: कथं तप: । सहसे निष्ठुरं देव पुष्करैरपि दुष्करम् ॥89॥
इत्युक्तं तदमात्यस्य स श्रुत्वा शून्यवादिन: । रूपादिरूप एवात्र भूतसंघोऽभिलक्ष्यते ॥90॥
सुखदु:खादिसंवेद्यं चैतन्यं तद्विलक्षणम् । तद्वान् देहादिहान्योऽयं स्वसंवित्यानुभूयते ॥91॥
बुद्धिपूर्वक्रियालिंगादन्यत्राप्यनुमीयते । अस्त्यात्मा भाविलोकश्च सत्त्वाच्चातीतसंस्मृते: ॥92॥
इहलोकादिपर्यन्तवीक्षणैर्जन्मिनां सताम् । बुद्धिकारणकार्यौ स्तां चैतन्यान्मद्यधीरिव॥93॥
इत्यादि युक्तिवादेन चक्री तं शून्यवादिनम् । श्रद्धाप्यात्मास्तितां सम्यक कृतबन्धुविसर्जन: ॥94॥
नियोज्य स्वात्मजे राज्यं सुकेत्वादिमहीभुजै: । जिनात्समाधिगुप्ताख्यात्समं संयममाददौ ॥95॥
विशुद्धिपरिणामानामुत्तरोत्तरभाविनाम् । प्राप्य क्रमेण पर्यन्तं पर्यन्तं प्राप घातिनाम् ॥96॥
नवकेवललब्धीद्धविशुद्धव्याह्णतीश्वर: । काले कायत्रयं हित्वा पदेऽभूत्पारमेश्वरे ॥97॥ अब वे नव केवल लब्धियों से देदीप्यमान हो उठा और विशुद्ध दिव्यध्वनिके स्वामी हो गये ।
जब अन्तिम समय आया तब औदारिक, तैजस और कार्मण इन तीन शरीरोंको छोड़कर परमेश्वर
उदयान्नोदयादस्य धरणीधरणीमुद: । तानवं तानवं किन्चित्सम्पदं सम्पदं श्रित: ॥98॥
नापन्नापन्नभोगेन मामतो मामतोदया: । सपद्याख्य: सपद्याख्य: संगम: संगम: सताम् ॥99॥
मन्दराग इवोत्तुंगो मन्दरागोऽरिधारिणाम् । राजते राजतेजोभिर्नवमोऽनवमो मुदा ॥100॥
मालिनी
प्रथममजनि राजा य: प्रजापालनामा
शमितकरणवृत्या प्रान्तकल्पेश्वरोऽभूत् ।
सबलभरतनाथ: शर्मण: सद्म पद्म:
परमपदमवापत्सोऽमलं शं क्रियान्न: ॥101॥
तीर्थेऽस्मिन्नेव सम्भूतौ सप्तमौ रामकेशवौ । तृतीये तौ भवेऽभूतां साकेते राजपुत्रकौ ॥102॥
अप्रियत्वात्पिता त्यक्त्वा तौ स्नेहेन कनीयसे । भ्रात्रे स्वसमै ददौ यौवराज्यं पदमकल्पितम् ॥103॥
मन्त्रिणैव कृतं सर्वमिदमित्यतिकोपिनौ । अमात्ये बद्धवैरौ तौ धर्मतीर्थान्वयानुगौ ॥104॥
शिवगुप्तमुनेरन्तेवासितामेत्य संयमम् । विधाय सुविशालाख्ये सौधर्मेऽमरतां गतौ ॥105॥
तत: प्रच्युत्य भूपस्य वाराणस्यां बभूवतु: । इक्ष्वाकुतिलकस्याग्निशिखस्य तनयौ प्रियौ ॥106॥
माताऽपराजिता केशवती च क्रमशस्तयो: । नन्दिमित्राह्णयो ज्येष्ठ: कनिष्ठो दत्तसंज्ञक: ॥107॥
द्वात्रिंशत्खत्रयाब्दानौ द्वाविंशतिधनुस्तनू । चन्द्रेन्द्रनीलसंकाशाववर्द्धेतामनुत्तरौ ॥108॥
ततो मन्त्री च पूर्वोक्तो भ्रान्त्वा संसारसागरे । क्रमेण विजयार्द्धाद्रिमन्दराख्यपुराधिप: ॥109॥
बलीन्द्राभिधया ख्यातो जातो विद्याधराधिप: । सोऽन्येद्युर्युबयोर्भद्रक्षीरोदाख्योऽस्ति विश्रुत: ॥110॥
महान्ममैव योग्योऽसौ दीयतां गन्धवारण: । इति दर्पात्प्रतिष्टम्भी प्राहिणोत्प्रति तौ वच: ॥111॥
श्रुत्वा तद्वचनं तौ च तेनावाभ्यां सुते स्वयम् । देये चेद्दीयते दन्ती नोचेत्सोऽपि न दीयते ॥112॥
इति प्रत्याहतु: कर्णकटुकं तदुदीरितम् । समाकर्ण्य बलीन्द्राख्यो बिभ्रत्कालानुकारिताम् ॥113॥
योद्धुमाभ्यां समं भीमकोप: सन्नद्धवाँस्तदा । खगेन्द्रो दक्षिणश्रेण्यां सुरकान्तारपू:पति: ॥114॥
केशवत्या महाभ्राता सम्मेदाद्रौ सुसाधिते । सिंहपक्षीन्द्रवाहिन्यौ महाविद्ये यथाविधि ॥115॥
दत्या ताभ्यां कुमाराभ्यां नात्रा केसरिविक्रम: । तदीयकार्यसाहाय्यं बन्धुत्वेनावमन्यत ॥116॥
तयोस्तुमुलयुद्धेन बलयोर्बलिनोरभूत् । संग्राम: क्षयकालो वा संहरन् सकला: प्रजा: ॥117॥
तत्र मायामये युद्धे बलीन्द्रतनयं क्रुधा । मुखं शतबलिं मृत्यो: सीरपाणिरनीनयत् ॥118॥
बलीन्द्रेणापि तं दृष्ट्वा समुत्पन्नरूषात्मन: । प्रहितं चक्रमुद्दिश्य केशवं कौशिकोपमम् ॥119॥
तत्तं प्रदक्षिणीकृत्य दक्षिणं बाहुमाश्रितम् । तदेवादाय दत्तोऽपि हत्वा तं तच्छिरोऽग्रहीत् ॥120॥
युद्धान्ते तौ तदा वीरो प्रदत्ताभयघोषणौ । त्रिखण्डधरणीचक्रं सचक्रं चक्रतु: स्वकम् ॥121॥
चिरं राज्यसुखं भुक्त्वा स्वायुरन्ते स चक्रभृत् । वद्ध्वायुर्नारकं घोरमवधिास्थानमेयिवान् ॥122॥
तन्निर्वेदेन रामोऽपि सम्भूतजिनसन्निघौ । दीक्षित्वा बहुभिर्भूपैरभूद7गृहकेवली ॥123॥
स्त्रग्धरा
जातौ साकेतपुर्या प्रथितनृपसुतौ तौ समादाय दीक्षां
प्रान्ते सौधर्मकल्पे प्रणिहितमनसौ देवभावप्रयातौ ।
वाराणस्यामभूतां पुरूकुलतिलकौ नन्दमित्रश्व दत्तो
दत्तोऽसौ सप्तमीं क्षमां समगमदपरोऽप्याप कैवल्यलक्ष्मीम् ॥124॥
वसन्ततिलका
मन्त्री चिरं जननवारिनिधौ भ्रमित्वा
पश्चाद् बलीन्द्र इति नामधर: खगेश: ।
दत्तादवाप्तमरणो नरकं दुरन्तं
प्रापत्तत: परिहरन्त्वनुबद्धवैरम् ॥125॥
🏠
पर्व - 67
निवृत्तौ व्रतशब्दार्थो यस्याभूत् सर्ववस्तुषु । देयान्न: स व्रर्त स्वस्य सुव्रतो मुनिसुव्रत: ॥1॥
तृतीये जन्मनीहासीज्जिनेन्द्रो मुनिसुव्रत: । भारतेंऽगाख्यविषये नृपश्चम्पापुराधिप: ॥2॥
हरिवर्माभिधोऽन्येद्युरथोद्याने जिनेश्वरम् । अनन्तवीर्यन्नासावनगारं विवन्दिषु: ॥3॥
गत्वात्मपरिवारेण ससपर्य: परीत्य तम् । त्रि: समभ्यर्च्य वन्दित्वा प्राक्षीद्धर्म सनातनम् ॥4॥
संसारी मुक्त इत्यात्मा द्विधा कर्मभिरष्टभि: । बद्धं संसारिणं प्राहुस्तैर्मुक्तो मुक्त इष्यते ॥5॥
मूलभेदेन तान्यष्टौ ज्ञानावृत्यादिनामभि: । ज्ञेयान्युत्तरभेदेन वस्व3 ब्ध्येकोक्तसंखयया ॥6॥
बन्धश्चतु:प्रकार: स्यात्प्रकृत्यादिविकल्पित: । प्रत्ययोऽपि चतुर्भेदो मिथ्यात्वादिर्जिनोदित: ॥7॥
उदयादिविकल्पेन कर्मावस्था चतुर्विधा । संसार: पन्चधा प्रोक्तो द्रव्यक्षेत्रादिलक्षण: ॥8॥
रोधो गुप्त्यादिभिस्तेषां तपसा रोधनिर्जरे । तुरीयशुक्लध्यानेन मोक्ष: सिद्धस्ततो भवेत् ॥9॥
कृत्स्रकर्मक्षयो मोक्षो निर्जरा त्वेकदेशत: । 4मुक्तस्यातुलमत्यन्तरायमात्यन्तिकं सुखम् ॥10॥
इत्यादि तत्त्वसर्वस्वं भगवांस्तमबूबुधत् । स्ववचोरश्मिजालेन भव्याब्जानां प्रबोधक: ॥11॥
सोऽपि तत्तत्त्वसद्भावमवगम्य यथोदितम् । निर्विद्य संसृतेर्ज्येष्ठपुत्रे राज्यं नियोज्य तत् ॥12॥
ग्रन्थद्वयपरित्यागे पटुश्चटुलमाययौ । संयमं बहुभि: सार्द्ध मूर्धन्यैरूर्ध्वगामिभि: ॥13॥
अवादीधरदेकादशांगानि गुरूसंगमात् । अबध्नात्तीर्थकृद्गोत्रं श्रद्धाशुद्ध्यादिभावन: ॥14॥
चिरमेवं तप: कृत्वा प्रान्ते स्वाराधनाविधि: । भविष्यत्पन्चकल्याण: प्राणतेन्द्रोऽभवद्विभु: ॥15॥
सागरोपमविंशत्यामितायु: शुक्ललेश्यक: । सार्द्धारत्नित्रयोत्सेधो मासैर्दशभिरूच्छ्वसन् ॥16॥
संवत्सरसहस्त्राणां विंशत्यामाहिताह्णति: । मनाग्मन:प्रवीचारभोगोऽष्टर्द्धिसमन्वित: ॥17॥
आपन्चमावनेरात्मगोचरव्यावृतावधि: । तत्क्षेत्रमितशक्त्यादिश्चिरं तत्रान्वभूत् सुखम् ॥18॥
तस्मिन्षण्मासशेषायुष्यागमिष्यति भूतलम् । जन्मगेहांगर्ण तस्य रत्नवृष्ठयार्चितं सुरै: ॥19॥
अत्रैव भरते राजा पुरे राजगृहाह्वये । सुमित्रो मगधाधीशो हरिवंशशिखामणि: ॥20॥
गोत्रेण काश्यपस्तस्य देवी सोमाह्वया सुरै: । पूजिता श्रावणे मासि नक्षत्रे श्रवणे दिने? ॥21॥
स्वप्नान् कृष्णद्वितीयायां स्वर्गावतरणोन्मुखे । प्राणताधीश्वरेऽपश्यत् षोडशेष्टार्थसूचकान् ॥22॥
गजराजं च वक्त्रं स्वं प्रविशन्तं प्रभाविनम् । तेनैव परितोषेण प्रबुद्धा शुद्धवेषधृत् ॥23॥
नृपमावेदयत्स्वप्नांस्तत्फलश्रवणेच्छया । सावधि: सोऽप्यभाषिष्ट सम्भूर्ति त्रिजगत्पते: ॥24॥
तद्वाक्श्रवणसम्फुल्लमनोवदनपंकजा । तदैवायातदेवेन्द्रकृताभिषवणोत्सवा ॥25॥
सुरोपनीतभोगोपभोगै:स्वर्गसुखावहै: । नवमं मासमासाद्य सुखेनासूत 3सुप्रजाम् ॥26॥
संवत्सरचतु:पन्चाशल्लक्षप्रमितंव्रजन् । मल्लीशतीर्थसन्तानकालान्तर्गतजीवितम् ॥27॥
तज्जन्मसमयायातै: स्वदीप्तिव्याप्तदिंगुखै: । मेरौ सुरेन्द्रै: सम्प्राप मुनिसुव्रतसुश्रुतिम् ॥28॥
त्रिंशत्सत्रिंशत्सहस्त्रवर्षायुश्वापविंशतिसम्मित: । सर्पाशनगलच्छाय: सम्न्नाखिललक्षण: ॥29॥
खद्वयेन्द्रियसप्तांकवर्षै: कौमारनिर्गमे । राज्याभिषेकं सम्प्राप्य प्राप्तानन्दपरम्परा: ॥30॥
शून्यत्रिकेन्द्रियैकोक्तसंवत्सरपरिक्षये । गर्जद्घनघटाटोपसमये यागहस्तिन: ॥31॥
वनस्मरणसन्त्यक्तकवलग्रहणं नृप: । निरीक्ष्यावधिनेत्रेण विज्ञातैतन्मनोगत: ॥32॥
तत्पूर्वभवसंबद्धं कौतूहलवतां नृणाम् । अबोचद् वृत्तिमित्युंचै: स मनोहरया गिरा ॥33॥
पूर्व तालपुराधीशो नाम्ना नरपतिर्नृप: । महाकुलाभिमानादिदुर्लेश्याविष्टचित्तक: ॥34॥
पात्रापात्रविशेषानभिज्ञ: कुज्ञानमोहित: । दत्त्वा किमिच्छकं दानं तत्फलात्समभूदिभ: ॥35॥
नाज्ञानं स्मरति प्राच्यं न राज्यं पूज्यसम्पदम् । कुदानस्य च नै:फल्यं वनं स्मरति दुर्मति: ॥36॥
तद्वच:श्रवणोत्पन्नस्वपूर्वभवसंस्मृते: । संयमासंयमं सद्यो जग्राह गजसत्तम: ॥37॥
तत्प्रत्ययसमुत्पन्नबोधिस्त्यागोन्मुखो नृप: । लौकान्तिकैस्तदैवैत्य प्रस्तुतोक्त्या प्रतिश्रुत: ॥38॥
स्वराज्यं युवराजाय विजयाय वितीर्य स:। सुरै: सम्प्राप्तनि:क्रान्तिकल्याणद्रुमधीगुण: ॥39॥
अपराजितनामोरूशिबिकामधिरूढवान् । रूढकीर्ति: क्षरन्मूढिरूढो नरखगामरै: ॥40॥
प्राप्य षष्ठोपवासेन वनं नीलाभिधानकम् । वैशाखे बहुले पक्षे श्रवणे दशमीदिने ॥41॥
सहस्त्रभूपै: सायाह्गे सह संयममग्रहीत् । कैश्यमीश: सुरेशानां सुरेशो विश्वदृश्वन: ॥42॥
शाश्वर्त पदमन्विच्छन् प्रापयत्पन्चमाम्बुधिम् । चतुर्धावगम: शुद्धमताप्सीत् सोऽप्यलं तप: ॥43॥
समभावनया तृप्यन् तृप्तोऽपि तनुसंस्थिते: । कदाचित्पारणाकाले प्रायाद्राजगृहं पुरम् ॥44॥
प्रदाय प्रासुकाहारं तस्मै चामीकरच्छवि: । नृपो वृषभसेनाख्य: पन्चाश्चर्यमवापिवान् ॥45॥
मासोनवत्सरे याते छाद्यस्थ्ये स्वतपोवने । चम्पकद्रुममूलस्थो विहितोपोषितद्वय: ॥46॥
स्वदीक्षापक्षनक्षत्रसहिते नवमीदिने । सायाह्णे केवलज्ञानं सद्ध्यानेनोदपादयत् ॥47॥
तदैवागत्य देवेन्द्रास्तत्कल्याणं व्यधुर्मुदा । मानस्तम्भादिविन्यासविविधर्द्धिविभूषितम् ॥48॥
मल्लिप्रभृतयोऽभूवन्नष्टादशगणेशिन: । द्वादशांगधरा: पन्चशतानि परमेष्ठिन: ॥49॥
शिक्षकास्तस्य सद्वन्द्या: सहस्त्राण्येकर्विशति: । भर्त्तुरष्टशतं प्रान्तसहस्त्रमवधीक्षणा: ॥50॥
तावन्त: केवलज्ञाना: विक्रियर्द्धिसमृद्धय: । द्विशतद्विसहस्त्राणि चतुर्थज्ञानधारिण: ॥51॥
सहस्त्रार्द्ध सहस्त्रं तु वादिनां द्विशताधिकम् । 2सहस्त्रं पिण्डितास्र्त्रिशत्सहस्राणि मुनीश्वरा: ॥52॥
पुष्पदन्तादय: पन्चाशत्सहस्त्राणि चार्यिका: । एकका: श्रावका: लक्ष्या: त्रिगुणा: श्राविकास्तत:॥53॥
असंख्यातो मरूत्संघ: संख्यातो द्वादशो गण: । एर्षा धर्म ब्रुवन्नार्यक्षेत्राणि व्यहरच्चिरम् ॥54॥
विह्णत्य मासमात्रायु: सम्मेदाचलमूर्द्धनि । प्रतिमायोगधारी सन् ससहस्त्रमुनीश्वरा: ॥55॥
फाल्गुने श्रवणे कृष्णद्वादश्यां निशि पश्चिमे । भागे हित्वा तनुं मुक्तिमवापन्मुनिसुव्रत: ॥56॥ पुष्पदन्ता को आदि लेकर पचास हजार आर्यिकाएँ थीं, एक लाख श्रावक थे, तीन लाख श्राविकाएं
🏠
पर्व - 68
पुराहित: पुनश्चासौ तत्कथां श्रोतुमर्हसि । इति सम्बोध्य भूपालं ततो वक्तुं प्रचक्रमे ॥1॥
क्रमेण श्रव्यशब्दार्थसारवाणिर्भबावलीम् । दशास्यस्य दशाशास्यप्रकाशिस्वयश:श्रिय: ॥2॥
अथास्ति नाकलोकाभो धातकीखण्डपूर्वभाग् । भारते भूगुणैर्युक्तो देश: सारसमुच्चय: ॥3॥
तस्मिन्नागपुरे ख्यातो नरदेवो महीपति: । स कदाचिदनन्ताख्यगणेशात्कृतवन्दन: ॥4॥
श्रुतधर्मकथो जातनिर्वेदो ज्येष्ठसूनवे । प्रदाय भोगदेवाय राज्यमापन्नसंयम: ॥5॥
चरंस्तप: समुत्कृष्टं दृष्ट्वा विद्याधराधिपम् । सद्यश्चपलवेगाख्यं निदानमकरोदधी: ॥6॥
प्रान्ते संन्यस्य सौधर्मकल्पेऽभूदमृताशन: । अथास्मिन्भारते क्षेत्रे विजयार्द्धमहाचले ॥7॥
खगेशो दक्षिणश्रेण्यां मेघकूटपुराधिप: । विनम्यन्वयसम्भूत: सहस्त्रग्रीवखेचर: ॥8॥
क्रुधात्मभ्रातृपुत्रोरूबलेनोत्सादितस्तत: । गत्वा लंगापुरं त्रिंशत्सहस्त्राब्दान्यपालयत् ॥9॥ उसके नागपुर नगर में नरदेव नाम का राजा राज्य करता था । वह किसी एक दिन अनन्त नामक गणधरके पास गया, उन्हें वन्दना कर उसने उनसे धर्म-कथा सुनी और विरक्त होकर भोगदेव नामक बड़े पुत्र के लिए राज्य दे दिया तथा संयम धारण कर उत्कृष्ट तपश्चरण किया । तपश्चरण करते समय उस मूर्खने कदाचित् चपलवेग नामक विद्याधरोंके राजा को देखकर शीघ्र ही निदान कर लिया । जब आयु का अन्त आया तब संन्यास धारण कर सौधर्म स्वर्ग में देव हुआ ।
तस्य पुत्र: शतग्रीवस्तत्षडंशोनवत्सरान् । पाति स्म तत्सुत: पन्चाशद्ग्रीवोप्यन्वपालयत् ॥10॥
वत्सराणां सहस्त्राणि विंशर्ति तस्य चात्मज: । पुलस्त्यस्त्रिकभेर्वेकवर्षायुस्तस्य वल्लभा ॥11॥
मेघश्रीरनयो: सूनु: स देवोऽभूद्दशानन: । चतुर्दशसहस्त्राब्दपरमायुर्महीतलम् ॥12॥
पालयन्नन्यदा कान्तासहाय: क्रीडितुं बनम् । गत्वा लंकेश्वर: खेचराचलस्थालकेशितु: ॥13॥
सुताममितवेगस्य विद्यासाधनतत्पराम् । लोलो मणिमर्ति वीक्ष्य काममोहवशीकृत: ॥14॥
तां दुरात्माऽऽत्मसात्कर्तु तद्विद्यासिद्धिमभ्यहन् । सापि द्वादशवर्षोपवासक्लेशकृशीकृता ॥15॥
तत्सिद्धिविघ्नहेतुत्वात् कुपित्वा खेचरेशिने । पुत्रिकास्यैव भूत्वेर्म बध्यासमिति दुर्मतिम् ॥16॥
कृत्वा भवान्ते मन्दोदरीगर्भ समधिष्ठिता । भूकम्पादिमहोत्पातैस्तज्जन्मसमयोद्भवै: ॥17॥
विनाशो रावणस्येति नैमित्तिकवच:श्रुते: । दशाननोऽतिभीत: सन्यत्र क्कचन पापिनीम् ॥18॥
त्यजेमामिति मारीचमाज्ञापयदसावभी: । सोऽपि मन्दोदरीगेहं गत्वा देवस्य देवि मे ॥19॥
कर्मैबं निर्घृणस्यासीदिति तस्यै न्यवेदयत् । सापि देवनिदेशस्य नाहमस्मि निवारिका ॥20॥
इति प्रभूतद्रव्येण मन्जूषायां निधाय ताम् । तत्सन्निधानपत्रेण सहोक्त्वेदं च तं मुहु: ॥21॥
मारीचमानसे स्त्रिग्ध: प्रकृत्या बालिकामिमाम् । बाधाविरहिते देशे निक्षिपेति गलज्जले ॥22॥
विमृज्य लोचने तस्मै स्वतनूजां समर्पयत् । स नीत्वा मिथिलोद्याननिकटप्रकटे क्कचित् ॥23॥
धरान्त:कृतमन्जूषो विषण्णो न्यवृतच्छुचा । तस्मिन्नेव दिने दृष्ट्वा गेहनिर्मापणं प्रति ॥24॥
भूमिसंशोधने लांगलाग्रलग्नां नियोगिन: । मन्जूषामेतदाश्चर्यमिति भूपमबोधयन् ॥25॥ यह कह कर उसने एक सन्दूकचीमें बहुत-सा द्रव्य रखकर उस पुत्रीको रक्खा, और मारीचसे
सुरूपां बालिकां वीक्ष्य तदभ्यन्तरवर्तिनीम् । नृपस्तदवतारार्थ विलेखादवबुध्य स: ॥26॥
तत्पूर्वापरसम्बन्धमेषा सीताभिधानिका । सुता भवेत्तवेत्येतां वसुधायै ददौ मुदा ॥27॥
वसुधा वसुधागेहे गुणयन्ती कलागुणान् । अवर्द्धयदिमां गूढां लंकेशोऽपि न वेत्त्यमूम् ॥28॥
वार्ता जनकयागस्य तस्मान्नात्रागमिष्यति । दास्यत्यवश्यं रामाय तां कन्यां मिथिलेश्वर: ॥29॥
तत्कुमारौ प्रहेतव्याविति नैमित्तिकोक्तित: । राज्ञाखिलबलेनामा प्रहितौ रामलक्ष्मणौ ॥30॥
प्रत्युद्यातौ महीशेन जनकेनानुरागिणा । प्राग्जन्मसन्चितामेयस्वपुण्यपरिपाकत: ॥31॥
रूपादिगुणसम्पत्त्या सत्यमेतौ गतोपमौ । इति पौरै: प्रशंसद्भि: प्रेक्ष्यमाणौ समं तत: ॥32॥
पुरं प्रविश्य भूपोक्ते स्थाने न्यवसतां सुखम् । दिनै: कतिपयैरेव नृपमण्डलसन्निधौ ॥33॥
निर्वर्त्याभिमतं यज्ञविधानं तदनन्तरम् । महाविभूतिभि: सीतां ददौ रामाय भूपति: ॥34॥
दिनानि कानिचित्तत्र सीतयेव श्रिया समम् । नवप्रेमसमुद्भूतं सुखं रामोऽन्वभूद् भृशम् ॥35॥
तदा दशरथाभ्यर्णादायातसचिवोक्तिभि: । जनकानुमत: शुद्धतिथौ परिजनान्वित: ॥36॥
अभ्ययोध्यां पुरीं सीतासमेतो जातसम्मद: । लक्ष्मणेन च गत्वाशु स्वानुजाभ्यां स्वबन्धुभि: ॥37॥
परिवारैश्च स प्रत्यग्गम्यमानो निजां पुरीम् । विभूत्या दिविजेन्द्रो वा विनीतां प्राविशज्जयी ॥38॥
दृष्ट्वा यथोचितं प्रीत्या पितरौ प्रीतचेतसौ । तस्थौ प्रवर्द्धमानश्री: सप्रिय: सानुज: सुखम् ॥39॥
तदा तदुत्सवं भूयो वर्द्धयन्नात्मना मधु: । कोकिलालिकु लालापडिण्डिमो मण्डयन् दिश: ॥40॥
सर्न्धि तपोधनै: सार्द्ध विग्रहं शिथिलव्रतै: । प्रकुर्वाणस्य कामस्य सामवायिकर्ता बहन् ॥41॥
🏠
पर्व - 69
यस्य नामापि धर्तृणां मुक्त्यै ह्णदयपंकजे । नमिर्गमयतान्नम्रान् मोक्षलक्ष्मीं स मंक्षु न: ॥1॥
द्वीपेऽस्मिन् भारते वर्षे विषये वत्सनामनि । कौशाम्ब्यां नगरे राजा पार्थिवाख्यो विभुर्विशाम् ॥2॥
चक्षुरिक्ष्वाकुवंशस्य लक्ष्मीं वक्ष:स्थले दधन् । साक्षाच्चक्रीव दिक्चक्रमाक्रम्याभात्स विक्रमी ॥3॥
तनूजस्तस्य सुन्दर्यां देव्यां सिद्धार्थनामभाक् । मुनिं मनोहरोद्याने परमावधिवीक्षणम् ॥4॥
दृष्ट्वा मुनिवराख्यानं कदाचिद्विनयानत: । सम्पृछय धर्मसद्भावं यथावत्तदुदीरितम् ॥5॥
समाकर्ण्य समुत्पन्नसंवेग: स महीपति: । मृतिमूलधनेनाधमर्णो मृत्योरिहासुभृत् ॥6॥
वहन् दु:खानि तद्वृद्धिं सर्वो जन्मनि दुर्गत: । रत्नत्रयं समावर्ज्य तस्मै यावन्न दास्यति ॥7॥
ऋणं सवृद्धिकं तावत्कुत: स्वास्थ्यं कुत: सुखम् । इति निश्चित्य कर्मारीन्निहन्तुं विहितोद्यम: ॥8॥
सुताय श्रुतशास्त्राय प्रजापालनशालिने । सिद्धार्धाय समर्थाय दत्वा राज्यमुदात्तवी: ॥9॥
प्राव्राजीत्पूज्यपादस्य मुनेर्मुनिवरश्रुते: । पादमूलं समासाद्य सतां सा: वृत्तिरीदृशी ॥10॥
सिद्धार्थो व्याप्तसम्यक्त्वो गृहीताणुव्रतादिक: । भोगान् सुखेन भुन्जान: प्रचण्डोऽपालयत्प्रजा: ॥11॥
काले गच्छति तस्यैवं कदाचित्स्वगुरोर्मुने: । श्रुत्वा शरीरसंन्यासं विच्छिन्नविषयस्पृह: ॥12॥
सद्यो मनोहरोद्याने बुद्धतत्त्वार्थविस्तृति: । महाबलाभिधाख्यातात्केवलावगमेक्षणात् ॥13॥
राज्यभारं समारोप्य श्रीदत्ते स्वसुते सति । लब्धक्षायिकसम्यक्त्व: शमी संयममाददे ॥14॥
स धृत्वैकादशांगानि बद्ध्वा षोडशकारणै: । अन्त्यनामादिकर्माणि पुण्यानि पुरूषोत्तम: ॥15॥
स्वायुरन्ते समाराध्य विमाने लवसत्तम: । देवोऽपराजिते पुण्यादुत्तरेऽनुत्तरेऽभवत् ॥16॥
त्रयस्त्रिंशत्पयोब्ध्यायुरेकारत्निसमुच्छ्रिति: । निश्वासाहारलेश्यादिभावैस्तत्रोदितैर्युत: ॥17॥
जीवितान्तेऽहमिन्द्रेऽस्मिन् षण्मासैरागमिष्यति । जम्बूपलक्षिते द्वीपे विषये बंगनामनि ॥18॥
मिथिलायां महीपाल: श्रीमान् गोत्रेण काश्यप: । विजयादिमहाराजो विख्यातो वृषभान्वये ॥19॥
अनुरक्तं व्यधात् कृत्स्त्रमुद्यन्निव रविर्जगत् । स्वविरागाद्विरक्तं तत् सोऽतपत्तस्य तादृशम् ॥20॥
अवृणीत गुणालिस्तं लक्ष्मीश्च सुकृतोदयात् । पुष्कलाविष्क्रियं तस्मिन् पुरूषार्थत्रयं तत: ॥21॥
तस्य राज्ये रवावेव ताप: कोपोऽपि कामिषु । विग्रहाख्या तनुष्वेव मुनिष्वेव विरागता ॥22॥
परार्थग्रहणं नाम कुकविष्वेव बन्धनम् । काव्येष्वेव विवादश्च विद्वत्स्वेव जयार्थिषु ॥23॥
शरव्याप्ति: सरित्स्वेव ज्योति:ष्वेवानवस्थिति: । क्रौर्य क्रूरग्रहेष्वेव देवेष्वेव पिशाचता ॥24॥
वप्पिला तन्महादेवी वसुधारादिपूजिता । श्रीह्रीधृत्यादिभि: सेव्या सुखसुप्तानिशावधौ ॥25॥
शरदादिद्वितीयायां नक्षत्रेष्वादिमे सति । स्वर्गावतरणे भर्तुर्दृष्ट्वा स्वप्नान् पुरोदितान् ॥26॥
स्ववक्राब्जप्रविष्टेभमप्यालोक्य विनिद्रिका । प्रभातपटहध्वानश्रवणाविष्कृतोत्सवा ॥27॥
अपृच्छत् फलमेतेषां नृपं देशावधीक्षणम् । सोऽप्यवादीद्भवद्रर्भे भावितीर्थकृदित्यद: ॥28॥
तदैवागत्य देवेन्द्रा: स्वर्गावतरणोत्सवम् । विधाय स्वनियोगेन निजधामागमत्समम् ॥29॥
आषाढे स्वातियोगे तं कृष्णपक्षे महौजसम् । दशम्यां विश्वलोकेशमसूत तनुजोत्तमम् ॥30॥
देवा द्वितीयकल्याणमप्यभ्येत्य तदा व्यधु: । नमिनामानमप्येनं व्याहरन् मोहभेदिनम् ॥31॥
मुनिसुव्रततीर्थेशसन्ताने वर्षमानत: । गतेषु षष्टिलक्षेषु नमिनाथसमुद्भव: ॥32॥
आयुदर्शसहस्त्राणि वर्षाणां परमं मतम् । उत्सेधो धनुषां पन्चदश चास्याभिधीयते ॥33॥
जातरूपद्युति: सार्द्धद्विसहस्त्राब्दसम्मिते । गते कुमारकालेऽभिषेकमापत्सराज्यकम् ॥34॥
राज्ये पन्चसहस्त्राणि वत्सराणामगुर्विभो: । तदा प्रावृड्घनाटोपसंकटे गगनांगणे ॥35॥
देवं वनविहाराय गतवन्तं महोदयम् । गजस्कन्धसमारूढं भानुमन्तमिवापरम् ॥36॥
नभस्तलगतौ देवकुमारौ विहितानती । एवं विज्ञापयामासतुर्बद्धकरपंकजौ ॥37॥
द्वीपेऽस्मिन् प्राग्विदेहेऽस्ति विषयो वत्सकावती । सुसीमा नगरी तत्र विमानादपराजितात् ॥38॥
अवतीर्य समुत्पन्नस्तीर्थनाथोऽपराजित: । तस्य केवलपूजार्थं देवेन्द्रा: समुपागता: ॥39॥
तत्सभायामभूत् प्रश्न: किमस्ति भरतेऽधुना । कश्चित्तीर्थकृदित्याह सोप्येवं सकलार्थदृक् ॥40॥
वंगाख्यदेशे मिथिलानगरे नमिनायक: । भावितीर्थकर: पुण्यादवतीर्णोऽपराजितात् ॥41॥
देवोपनीतभोगानां भोक्ता सम्प्रति साध्विति । तप: प्राग्धातकीखण्डे कृत्वा सौधर्मनामनि ॥42॥
सम्भूयेतौ द्वितीयेऽह्नि गत्वा तद्वचनश्रुते: । भवन्तमीक्षितुं पूज्यमावामैन सकौतुकौ ॥43॥
इति सोऽपि समासन्नकेवलावगमोदय: । चित्ते विधाय तत्सर्वं महीश: प्राविशत्पुरम् ॥44॥
तत्र स्वभवसम्बन्धं स्मृत्वा तीर्थकरं च तम् । आजवं जवसंजातसद्भावं भावयन्मुहु: ॥45॥
अनादिबन्धनैर्गाढं वध्वात्मात्मानमात्मना । कायकारागृहे स्थित्वा पापी पक्षीव पन्जरे ॥46॥
कुन्जरो वार्पितालानो कलयत्पलमात्मन: । नाना दु:खानि भुन्जानो भूयस्तैरेव रन्जित: ॥47॥
इन्द्रियार्थेषु संसक्तो रतितीव्रतरोदयात् । अशुचिष्वेवसम्बृद्धतृष्णोऽवस्करकीटवत् ॥48॥
बिभ्यन्मृत्योस्तमाधावन् वर्ज्यदु:खस्तदर्जयत् । विपर्यस्तमति: कष्टमार्तरौद्राहिताशया ॥49॥
भवे भ्राम्यत्यविश्राम्यन् प्रताम्यन् पापपाकत: । दृढां निरूढां धिड़्मूढिमभीष्टार्थविघातिनीम् ॥50॥
इति निर्वेद संयोगाद्भोगरागातिदूरग: । सारस्वतादिसर्वापरागामरसमर्चित: ॥51॥
क्षयोपशमसम्प्राप्तशस्त संज्वलनोदय: । लब्धबोधि: सुतं राज्ये निजे संयोज्य सुप्रभम् ॥52॥
साभिषेकं सुरै: प्राप्य परिनि:क्रान्तिपूजनम् । यानमुत्तरकुर्वाख्यं समारूह्य मनोहरम् ॥53॥
गत्वा चैत्रवनोद्यानं षष्ठोपवसनं श्रित: । आषाढकालपक्षेऽश्विनक्षत्रे दशमीदिने ॥54॥
अपराह्णे सहस्त्रेण क्षत्रियाणां सहाग्रहीत् । संयमं सयमापाद्यं सज्ञानं च चतुर्थकम् ॥55॥
भोक्तुं वीरपुरं तस्मै दत्तो गतवते नृप: । सुवर्णवर्णो दत्त्वान्नमवापाश्चर्यपन्चकम् ॥56॥
छाद्मस्थ्येन तत: काले प्रयाते नववत्सरे । निजदीक्षावने रम्ये मूले वकुलभूरूह: ॥57॥
तस्य षष्ठोपवासस्य नक्षत्रे ऽश्वाभिधानके । मार्गशीर्षशुचौ पक्षे दिनान्ते केवलं विभो: ॥58॥
दिने तृतीयनन्दायामभूदखिलगोचरम् । नाकनायकसन्चार्यतुर्यकल्याणभागिन: ॥59॥
सुप्रभार्यादय: सप्तदशासन् गणनायका: । चतु:शतानि पन्चाशत् सर्वपूर्वधरा मता: ॥60॥
शिक्षका: षट्शतद्वादशसहस्त्राणि सद्व्रता: । त्रिज्ञानधारिणां संखया सहस्त्रं षट् शताधिकम् ॥61॥
तावन्त: पन्चमज्ञाना मुनयो विक्रियर्द्धिका: । सर्वे सार्द्धसहस्त्रं स्युर्मन:पर्ययबोधना: ॥62॥
शून्यपन्चद्विकैकोक्तास्त्यक्तसंगा: प्रकीर्तिता: । सहस्त्रं वादिनां संखया ते सर्वेऽपि समुच्चिता: ॥63॥
विंशति: स्यु: सहस्त्राणि मंगिनीप्रमुखार्यिका: । चत्वारिंशत्सहस्त्राणि तदष्टांशाधिका मता: ॥64॥
श्रावका लक्षमेकं तु त्रिगुणा: श्राविकास्तत: । देवा देवोप्यसड़्ख्यातास्तिर्यन्च: संखयया मिता: ॥65॥
एवं द्वादशसंखयान गणैनम्रैर्नमीश्वर: । सद्धर्मदेशनं कुर्वन्नार्यक्षेत्राणि सर्वत: ॥66॥
विह्णत्य विह्णर्ति त्यक्त्वा मासं सम्मेदपर्वते । सहस्त्रमुनिभि: सार्द्धं प्रतिमायोगमास्थित: ॥67॥
वैशाखे मासि कृष्णायां चतुर्दश्यां निशात्यये । मुक्तिमश्व्याह्णनक्षत्रे नमिस्तीर्थकरोऽगमत् ॥68॥
अकुर्वन्पन्चमं देवा: कल्याणं चाखिलेशिन: । स्वं स्वमोकश्च सम्प्राप्तपुण्यपण्या: प्रपेदिरे ॥69॥
पृथ्वीच्छन्द:
कनत्कनकविग्रहो विहितविग्रहो घातिभि:
सहाहितजयो जयेति च नुतो नतैर्नाकिभि: ।
भियं भवभवां बहुं नयतु न: क्षयं नायको
विनेयविदुषां स्वयं विहतविग्रहोऽन्ते नमि: ॥70॥
शार्दूलविक्रीडितम्
कौशाम्ब्यां प्रथितस्तृतीयजनने सिद्धार्थनामा नृप:
कृत्वा तत्र तपोऽतिघोरमभवत्तुर्येऽमरोऽनुत्तरे ।
तस्मादेत्य पुरे बभूव मिथिलानाम्नीन्द्रवद्यो नमि-
स्तीर्थेशस्त्रिजगद्धितार्थवचनव्यक्त्यैकविंशो जिन: ॥71॥
पृथ्वीवृत्तम्
नमिर्नमितसामरामरपति: पतच्चामरो
भ्रमद्भ्रमरविभ्रमभ्रमितपुष्पवृष्ढयुत्कर: ।
करोतु चरणारबिन्दमकरन्दसम्पायिनां
विनेयमधुपायिनामविरतोस्तृप्तिं जिन: ॥72॥
जगत्त्रयजयोत्सिक्तमोहमाहात्म्यमर्दनात् । एकविंशो जिनो लब्धलक्ष्मीर्लक्ष्मीं ददातु न: ॥73॥
द्वीपेऽस्मिन्नुत्तरे भागे महत्यैरावताह्णये । लक्ष्मीमान् श्रीपुराधीशो वसुन्धरमहीपति: ॥74॥
पद्मावतीवियोगेन भृशं निर्विण्णमानस: । वने मनोहरे रम्ये वरचर्माखिलेक्षिण: ॥75॥
निर्णीय धर्मसद्भावं तनये विनयन्धरे । निवेशितात्मभार: सन् बहुभिर्भूभुजै: समम् ॥76॥
संयमं सम्यगादाय चारित्रं दुश्चरं चरन् । स्वाराधनविधानेन महाशुक्रे सुरोऽभवत् ॥77॥
षोडशाब्ध्युपमस्वायुर्दिव्यान् भोगान् सुभुज्य स: । तत: प्रच्युत्य तत्तीर्थे वत्साख्यविषयेऽजनि ॥78॥
नृपस्येक्ष्वाकुवंशस्य कौशाम्बीनगरेशिन: । तनूजो विजयाख्यस्य प्रभाकर्यां प्रभाधिक: ॥79॥
सर्वलक्षणसम्पूर्णो जयसेनसमाह्णय: । त्रिसहस्त्रशरज्जीवी षष्टिहस्तसमुच्छ्रिति: ॥80॥
तप्तचामीकरच्छाय: स चतुर्दशरत्नभाक् । निधिभिर्नवभि: सेव्यो भोगैर्दशविधै: सुखम् ॥81॥
चिरमेकादशश्चक्रधर: कालमजीगमत् । अन्येद्युस्तुंगसौधाग्रे सुसुप्तोऽन्त:पुरावृत: ॥82॥
कुर्वन् पर्वशशांकाभो दिगन्तरविलोकतम् । उल्काभिपतनं वीक्ष्य सुनिर्वेगपरायण: ॥83॥
उच्चै:स्थितमिदं पश्य भास्वरं पर्ययद्वयम् । परित्यज्य सुसम्प्रापदधोगतिमपप्रभम् ॥84॥
उन्नतमूर्जितं तेजो ममेति मदमावहन् । अनाचरन् हितं मूढ: पारलौकिकमात्मने ॥85॥
विषयेषु विषक्त: सन्नध्रुवेष्ववितपिंषु । प्रयाति गतिमेतस्य परोऽप्यत्र प्रमादवान् ॥86॥
इत्याकलय्य कालादिलब्ध्या चक्रेडवक्रधी: । त्यक्तुं चक्रादिसाम्राज्यं परिच्छिद्योच्छ्रितेच्छया ॥87॥
तुक्षु राज्यमनिच्छत्सु महीय:सु, कनीयसे । दत्वा पुत्राय साम्राज्यं वरदत्ताभिधायिन: ॥88॥
केवलावगमात्प्राप्य संयमं बहुभि: समम् । श्रुतबुद्धितपोविक्रियौषधर्द्धिविभूषित: ॥89॥
चारणत्वमपि प्राप्य प्रायोपगमनं श्रित: । सम्मेदे चारणोत्तुंगकूटे स्वाराधनाविधि: ॥90॥
जयन्तेऽनुत्तरे जातो विमाने लवसत्तम: । पुण्योत्तमानुभागोत्थमन्वभूत्सुचिरं सुखम् ॥91॥
पृथ्वीवृत्तम्
बसुन्धरमहीपति: प्रथमजन्मनि प्राप्त स-
त्तपा: समजनिष्ट षोडश समुद्रमित्यायुषा ।
सुरोऽजनि जनेश्वरोऽनुजप्रसेननामा ततो
बभूव बलसत्तम: सुखनिधिर्जयन्ते विभु: ॥92॥
🏠
पर्व - 70
क्षान्त्यादिदश धर्मारालम्बनं यमुदाहरन् । सन्त: सद्धर्मचक्रस्य स नेमि: शंकरोऽस्तु न: ॥1॥
संवेगजननं पुण्यं पुराणं जिनचक्रिणाम् । बलानां च श्रुतज्ञानमेतद् वन्दे त्रिशुद्धये ॥2॥
पूर्वानुपूर्व्या वक्ष्येऽहं कृतमंगलसत्क्रिय: । पुराणं हरिवंशाख्यं यथावृत्तं यथाश्रुतम् ॥3॥
अथ जम्बूमति द्वीपे विदेहेऽपरनामनि । सीतोदोदक्तटे देशे सुगन्धिलसमाह्णये ॥4॥
पुरे सिंहपुरे ख्यातो भूपोऽर्हद्दाससंज्ञक: । देव्यस्य जिनदत्ताख्या तयो: पूर्वभवार्जितात् ॥5॥
पुण्योदयात् समुद्धूतकामभोगै: सतृप्तयो: । काले गच्छत्यथान्येद्युरर्हतां परमेष्ठिनाम् ॥6॥
आष्टाह्निकहापूजां विधाय नृपतिप्रिया । कुलस्य तिलकं पुत्रं लप्सीयाहमिति स्वयम् ॥7॥
आशास्यासौ सुखं सुप्ता निशायां सुप्रसन्नधी: । सिंहे भार्केन्दुपद्माभिषेकानैक्षिष्ट सुव्रता ॥8॥
स्वप्नानन्तरमेवास्या गर्भे प्रादुरभूत्कृती । नवमासावसानेऽसावसूत सुतमूर्जितम् ॥9॥
तज्जन्मन: प्रभृत्यन्यैरजय्यस्तत्पिताऽभवत् । ततोऽपराजिताख्यानमकुर्वस्तस्य बान्धवा: ॥10॥
रूपादिगुणसम्पत्या सार्द्धं वृद्धिमसावगात् । आयौवनं मनोहारी सुरेन्द्रो वा दिवौकसाम् ॥11॥
🏠
पर्व - 71
अथ कंसवधूमुक्तलोचनाम्भ:प्रपायिन: । भूभूरूहात्समुत्पन्ना: समन्तादुत्सवांकुरा: ॥1॥
वसुदेवमहीशस्य किलैष कृतिन: सुत: । व्रजे कंसभयाद् वृद्धिं शूर: प्रच्छन्नमाप्तवान् ॥2॥
वृद्धिरस्य स्वपक्षस्य वृद्धये नैव केवलम् । जगतश्च तुषारांशोरिव वृद्धिश्चिता क्रमात् ॥3॥
इत्यभिष्टूयमानस्य पौरतदेशवासिभि: । विपाशितोग्रसेनाख्यमहीशस्य महात्मन: ॥4॥
विसर्जितवतो नन्दगोपांश्चापूज्य सद्धनै: । प्रविश्य बन्धुभि: संगतस्य शौर्यपुरं हरे: ॥5॥
काले सुखेन यात्येवं देवी जीवद्यशास्तत: । दु:खिता मरणात्पत्युर्जरासन्धमुपेत्य सा ॥6॥
तत्र प्रवृत्तवृत्तान्तमशेषं तमबूबुधत् । श्रुत्वाऽसौ च रूषा पुत्रानादिशद्यादवान् प्रति ॥7॥
तेऽपि सन्नाह्य सैन्यं स्वं गत्वा युध्वा रणांगणे । भंगमापन्नके वापुर्दैवं वैमुख्यमीयुषि ॥8॥
प्राहिणोत्स पुन: कोपात्तनूजमपराजितम् । मत्वैवान्वर्थनामानं तद्द्विषामन्तकोपमम् ॥9॥
शतत्रयं सषट्चत्वारिंशत्सोऽपि महाबल: । चिरं विधाय युद्धानां विपुण्योऽभूत्पराड़्मुख: ॥10॥
पुन: पितृनिदेशेन प्रस्थानमकृतोद्यमी । यादवानुद्धरामीति तुक्कालयवनाभिध: ॥11॥
यादवाश्च तदायानमाकर्ण्यागामिवेदिन: । जहु: शौर्यपुरं हास्तिनाह्णयं मधुरामपि ॥12॥
मार्गे स्थितां सदा यादवेशिनां कुलदेवताम् । विविधेन्धनसंवृद्धज्बालमुत्थाप्य पावकम् ॥13॥
धृतवृद्धाकृतिं वीक्ष्य तां कालयवनो युवा । किमेतदिति पप्रच्छ साप्याह श्रृणु भूपते ॥14॥
अस्मिज्ज्वालाकरालाग्नौ सर्वेऽपि मम सूनव: । भयेन भवतोऽभूवन् व्यसवो यादवै: सह ॥15॥
इति तद्वचनात्सोऽपि मद्भयात्किल शत्रव: । प्राविशन्मत्प्रतापाशुशुक्षणिं वाशुशुक्षणिम् ॥16॥
इति प्रतिनिवृत्त्याशु मिथ्यागर्वं समुद्वहन् । जगाम पितुरभ्याशं धिगनीक्षितचेष्टितम् ॥17॥
इतो जलनिधेस्तीरे बले यादवभूभुजाम् । निविष्टवति निर्मापयितुं स्थानीयमात्मन: ॥18॥
अष्टोपवासमादाय विधिमन्त्रपुरस्सरम् । कंसारि: शुद्धभावेन दर्भशय्यातलं गत: ॥19॥
अश्वाकृतिधरं देवं मामारूह्य पयोनिधे: । गच्छतस्ते भवेन्मध्ये पुरं द्वादशयोजनम् ॥20॥
इत्युक्तो नैगमाख्येन सुरेण मधुसूदन: । चक्रे तथैव निश्चित्य सति पुण्ये न क: सखा ॥21॥
प्राप्तवेगोद्धतौ तस्मिन्नारूढे तुरगद्विषा । हये धावति निर्द्वन्द्वं निश्चलत्कर्णचामरे ॥22॥
द्वेधाभेदमयाद्वार्धिर्भयादिव हरेरयात् । भेद्यो धीशक्तियुक्तेन संघातोऽपि जलात्मनाम् ॥23॥
शक्राज्ञया तदा तत्र निधीशो विधिवर्धितम् । सहस्त्रकूटं व्याभासि भास्वद्रत्नमयं महत् ॥24॥
कृत्वा जिनगृहं पूर्वं मंगलानान्च मंगलम् । वप्रप्राकारपरिखागोपुराट्टालकादिभि: ॥25॥
राजमानां हरे: पुण्यात्तीर्थेशस्य च सम्भवात् । निर्ममे नगरीं रम्यां सारपुण्यसमन्विताम् ॥26॥
सरित्पतिमहावीचीभुजालिंगितगोपुराम् । दीप्त्या द्वारवतीसन्ज्ञां हसन्तीं वामरीं पुरीम् ॥27॥
सपिता साग्रजो विष्णुस्तां प्रविश्य यथासुखम् । लक्ष्मीकटाक्षसंवीक्ष्यस्तस्थिवान्यादवै: सह ॥28॥
अथातो भुवनाधीशे जयन्तादागमिष्यति । विमानादहमिन्द्रेऽमूं महीं मासै: षडुन्मितै: ॥29॥
राज्ञ: काश्यपगोत्रस्य हरिवंशशिखामणे: । समुद्रविजयाख्यस्य शिवदेवी मनोरमा ॥30॥
देवतोपास्यमानाड़्घ्रिर्वसुधाराभिनन्दिता । षण्मासावसितौ मासे कार्तिके शुक्लपक्षगे ॥31॥
षष्ठयामथोत्तराषाढे निशान्ते स्वप्नमालिकाम् । आलोकतानुवक्त्राब्जं प्रविष्टन्च गजाधिपम् ॥32॥
ततो वन्दिवचोयामभेरीध्वनिविबोधिता । कृतमंगलसुस्नाना धृतपुण्यप्रसाधना ॥33॥
उपचारवदभ्येत्य नृपमर्धासने स्थिता । स्वदृष्टस्वप्नसाफल्य मन्वयुंक्त श्रुतागमम् ॥34॥
संकलय्य नरेन्द्रोऽपि फलं तेषामभाषत । त्वद्रर्भे विश्वलोकेशोऽवतीर्ण इति सूक्ष्मधी: ॥35॥
श्रुत्वा तदैव तं लब्धवतीवातुषदप्यसौ । ज्ञात्वा स्वचिह्गैर्देवेन्द्रा: सम्भूयागत्य संमदात् ॥36॥
स्वर्गावतारकल्याणमहोत्सवविधायिन: । स्वेषां पुण्यन्च निर्वर्त्य स्वधाम समुपागमन् ॥37॥
स पुन: श्रावणे शुक्लपक्षे षष्ठीदिने जिन: । ज्ञानत्रितयभृत्त्वष्टृयोगे तुष्ढयामजायत ॥38॥
अथ स्वविष्टराकम्पसमुत्पन्नावधीक्षणा: । बुद्ध्वा भगवदुत्पत्तिं सौधर्मेन्द्रपुरस्सरा: ॥39॥
सन्जातसम्पदा: प्राप्य परिवेष्ढय पुरं स्थिता: । ऐरावतगजस्कन्धमारोप्य भुवनप्रभुम् ॥40॥
सौधर्माधिपतिर्भक्तया नीलाम्भोजदलद्युतिम् । ईशमीशानकल्पेशधृतातपनिवारणम् ॥41॥
नमच्चमरवैरोचनोद्धूतचमरीरूहम् । धनेशनिर्मितत्रेधामणिसोपानमार्गग: ॥42॥
नीत्वा पयोदमार्गेण गिरीशेशानदिग्गते । पाण्डुकाख्यशिलाग्रस्थमणिसिंहधृतासने ॥43॥
अनादिनिधने बालमारोप्यात्यर्कतेजसम् । क्षीराम्भोधिपय: पूर्णसुवर्णकलशोत्तमै: ॥44॥
अष्टाधिकसहस्त्रेण प्रमितैरमितप्रभै: । हस्ताद्धस्तं क्रमेणामराधिनाथसमर्पितै: ॥45॥
अभिषिच्य यथाकाममलड़्कृत्य यथोचितम् । नेर्मि सद्धर्मचक्रस्य नेमिनाम्ना तमभ्यधात् ॥46॥
तस्मादानीय मौलीन्द्रमाननीयमहोदयम् । मातापित्रो: पुनर्दत्वा विधायानन्दनाटकम् ॥47॥
विकृत्य विविधान्बाहून् रसभावनिरन्तरम् । स्वावासमगमत्सर्वैरादिमेन्द्र: सहामरै: ॥48॥
नमेर्भगवतस्तीर्थसन्तानसमयस्थिते: । पन्चलक्षसमाप्रान्ते तदन्तर्गतजीवित: ॥49॥
जिनो नेमि: समुत्पन्न: सहस्त्राब्दायुरन्वित: । दशचापसमुत्सेध: शस्तसंस्थानसंहति: ॥50॥
त्रिलोकनायकाभ्यर्च्य: स्वभ्यर्णीकृतनिर्वृति: । तस्थौ सुखानि दिव्यानि तस्मिन्ननुभवंश्चिरम् ॥51॥
गच्छत्येवं क्षणे वास्य काले बहुतरेऽन्यदा । आत्तवारिपथोद्योगा नष्टदिक्का वणिक्सुता: ॥52॥
प्राप्य द्वारावर्ती केचित्पुण्यान्मगधवासिन: । राज्यलीलां विलोक्यात्र विभूतिन्च सविस्मया: ॥53॥
बहूनि रत्नान्यादाय सारभूतानि तत्पुरात् । गत्वा राजगृहं प्राप्तचक्ररत्नं महीपतिम् ॥54॥
रत्नान्युपायनीकृत्य पुरस्कृत्य वणिक्पतिम् । ददृशु: कृतसन्मानस्तानपृच्छत्प्रजेश्वर: ॥55॥
भो भवद्भि: कुतो लब्धमिदं रत्नकदम्बकम् । उदंशुभिरिवोन्मीलितेक्षणं कौतुकादिति ॥56॥
श्रृणु देव महच्चित्रमेतदस्मद्विलोकितम् । पातालादेत्य वादृष्टपूर्वमुर्वीमुपस्थितम् ॥57॥
संकुलीकृतसौधोरूभवनत्वादिवाम्बुधे: । फेनराशिस्तदाकारपरिणाममुपागत: ॥58॥
अलड़्ध्यत्वात्परै: पुण्यं वापरं भरतेशितु: । नेमिस्वामिसमुत्पत्तिहेतुत्वान्नगरोत्तमम् ॥59॥
असंहतम नासेव्यमर्थिभिर्वीतगौरवम् । शरदब्दकुलं तिष्ठत्युपर्येतन्ममेति वा ॥60॥
सौधाग्रान्दोलितालोलपताकाबहुबाहुभि: । निराचिकीर्षु: संन्घर्षाद्दूरमभ्रपथोच्छ्रितम् ॥61॥
परार्घ्यभूरि रत्नत्वात्कृष्णतेजोविराजनात् । सदा गम्भीरशब्दत्वादम्भोधिजलसन्निभम् ॥62॥
नवयोजनविस्तारं दैर्घ्यद्वादशयोजनम् । पुरं द्वारावती नाम यादवानां पयोनिधे: ॥63॥मध्ये प्रवर्तते तस्मादेतद्रत्रकदम्बकम् । लब्धमस्माभिरित्येवमब्रुवंस्तेऽपि भूपति: ॥64 ।
श्रुत्वा तद्वचनं क्रोधेनान्धीभूतोग्रवीक्षण: । जरासन्धो धियाप्यन्धो दर्पी दैवातिसन्धित: ॥65॥
चचालाकालकालान्तचलितात्मबलाम्बुधि: । कर्तुं यादवलोकस्य विलयं वाविलम्बितम् ॥66॥
नारदस्तत्तदा ज्ञात्वा निर्हेतुसमरप्रिय: । हरिं सत्वरमभ्येत्य तद्विकारं न्यवेदयत् ॥67॥
श्रुत्वा शांर्गधर: शत्रुसमुत्थानमनाकुलम् । कुमारं नेमिमभ्येत्य प्रशाधि त्वमिदं पुर: ॥68॥
विजिगीषु: किलाद्याभूत्प्रत्यस्मान्मगधाधिप: । भनज्मि तमहं जीर्णे द्रुमं वा घुणभक्षितम् ॥69॥
तूर्णं भवत्प्रभावेनगत्वेत्यवददूर्जितम् । प्रसन्नचेतास्तच्छ्रत्वा सस्मितो मधुरेक्षण: ॥70॥
सावधिर्विजयं तेन विनिश्चित्य विरोधिनाम् । स्फुरद्दन्तरूचिर्विष्णुं नेमिरोमित्यभाषत ॥71॥
स्मिताद्यै: स्वं जयं सोऽपि निश्चिचाय जगत्प्रभो: । जैनो वादीव पक्षाद्यैरेकलक्षणभूषणै: ॥72॥
अथ शत्रू न् समुज्जेतुं जयेन विजयेन च । सारणेनांगदाख्येन दवाह्वेनोद्धवेन च ॥73॥
सुमुखाक्षरपद्यैश्च जराख्येन सुदृष्टिना । पाण्डवै: पन्चभि: सत्यकेनाथ द्रुपदेन च ॥74॥
यादवै: सविराटाख्यैरप्रमेयैर्महाबलै: । धृष्टार्जुनोऽग्रसेनाभ्यां चमरेण रणेप्सुना ॥75॥
विदुरेण नृपैरन्यैश्चान्वितौ बलकेशवौ । सन्नद्धावुद्धतौ योद्धुं कुरूक्षेत्रमुपागतौ ॥76॥
जरासन्धोऽपि युद्धेच्छुर्भीष्मेणाविष्कृत्तोष्मणा । सद्रोणेन सकर्णेन साश्वत्थामेन रूग्मिणा ॥77॥
शल्येन वृषसेनेन कृपेण कृपवर्मणा । रूदिरेणेन्द्रसेनेन जयद्रभमहीभृता ॥78॥
हेमप्रभेण भूभर्त्रा दुर्योधनधरेशिना । दुश्शासनेन दुर्मर्षणेन दुर्धर्षणेन च ॥79॥
दुर्जयेन कलिंगेशा भगदत्तेन भूभुजा । परैश्च भूरिभूपालैराजगाम स केशवम् ॥80॥
तदा हरिबले युद्धदुन्दुभिध्वनिरूच्चरन् । शूरचेतो रसो वास: कौसुम्भो वान्वरन्जयत् ॥81॥
तदाकर्ण्य नृपा: केचित्पूजयन्ति स्म देवता: । अहिंसादिव्रतान्यन्ये जगृहुर्गुरूसन्निधौ ॥82॥
परे निस्तारकेष्वर्थान्वितरन्ति स्म सात्त्विका: । आमुन्चत तनुत्राणं गृह्णीतासिलतां शिताम् ॥83॥
आरोपयत चापौघान् सन्नह्यन्तं गजाग्रिमा: । हरयो नद्धपर्याणा: क्रियन्तामधिकारिषु ॥84॥
समर्प्यन्तां कलत्राणि युज्यन्तां वाजिभी रथा: । भोगोपभोगवस्तूनि भुज्यन्तामनिवारितम् ॥85॥
वन्दिमागधवृन्देन वन्द्यन्तां निजविक्रमा: । इति केचिज्जगुर्भृत्यान् नृपा: संगामसम्मुखा: ॥86॥
पतिभक्तया निसर्गात्मपौरूषेण विरोधिनाम् । मात्सर्येण यशोहेतो: शूरलोकसमीप्सया ॥87॥
निजान्वयाभिमानेन परैश्च रणकारणै: । समजायन्त राजान: प्राणव्ययविधायिन: ॥88॥
वसुदेवसुतोऽप्याप्तगर्व: सर्वविभूषण: । कुंकुमांकितगात्रत्वादिव सिन्दूरितद्विप: ॥89॥
जय जीवेति वन्दारूवृन्देन कृतमंगल: । नवो वाम्भोधरश्चारूचातकध्वनिलक्षित: ॥90॥
सज्जनावर्ज्य निर्णिक्तसौवर्णोरूगलन्तिका । जलैराचम्य शुद्धाच्छक्षिप्रपूर्णजलान्जलि: ॥91॥
गन्धपुष्पादिभिर्विघ्नविनायकमनायकम् । भक्तया जिनेन्द्रमभ्यर्च्य भव्यकल्पमहीरूहम् ॥92॥
अभिवन्द्याप्तसामन्तै: समन्तात्परिवारित: । प्रतिपक्षमपक्षेप्तुं न्यक्षेणाभिमुखं ययौ ॥93॥
तत: कृष्णेन निर्दिष्टा: प्रशास्तृपरिचारिण: । सैन्यं यथोक्तविन्यासं रचयन्ति स्म रागिण: ॥94॥
जरासन्धोऽपि संग्रामरंगमध्यमधिष्ठित: । स्वसैन्यं निष्ठुरारावैरध्यक्षैरन्वयोजयत् ॥95॥
इति विन्यासिते सैन्ये दध्वने समरानकै: । शूरधानुष्कनिर्भुक्तशरनाराचसंकुलम् ॥96॥
नभो न्यरूणदुष्णांशुप्रसरत्करसन्ततिम् । वियोगमगमन्मोहात्तदास्तमयशंकया ॥97॥
कोकयुग्मं विहंगाश्च रूवन्तो नीडमाश्रयन् । नेक्षन्ते स्म भटा योद्धुमन्योन्यं समरांगणे ॥98॥
संक्रुद्धमत्तमातंगदन्तसंघट्टजन्मना । सप्तार्चिषा विधूतेऽन्धकारे दिगवलोकनात् ॥99॥
पुन: प्रवृत्तसंग्रामा: सर्वशस्त्रविचलक्षा: । नदीं रक्तमयीं चक्रुर्विक्रमैकरसा: क्षणम् ॥100॥
करालकरवालाग्र निकृत्तचरणद्वया: । तुरंगमा गतिं प्रापुर्वने नष्टतपोधना: ॥101॥
विच्छिन्नचरणा: पेतुर्द्विपा: प्रान्तमहामरू- । न्निर्मूलपातितानीलविपुलाचललीलया ॥102॥
पातितानां परै: स्तूयमानसाहसकर्मणाम् । प्रसादवन्ति वक्त्राणि स्थलपद्मश्रियं दधु: ॥103॥
भटै: परस्परास्त्राणि खण्डितानि स्वकौशलात् । तत्खण्डैस्तत्र पार्श्वस्था बहवो व्यसवोऽभवन् ॥104॥
न मत्सरेण न क्रोधान्न ख्यातेर्न फलेच्छया । भटा: केचिदयुध्यन्त न्यायोऽमिति केवलम् ॥105॥
सर्वशस्त्रसमुद्भिन्नशरीरा वीरयोधना: । परिच्युता गजस्कन्धाच्चूलिकालिंगितांघ्रय: ॥106॥
चिरं परिचितस्थानं परित्यक्तुमिवाक्षमा: । प्रलम्बन्ते स्म कर्णाग्रमवलम्ब्यानतानना: ॥107॥
केचिद्वामकरोपात्तचित्रदण्डस्वरक्षणा: । दक्षिणास्त्रभुजेनाघ्नन् भटाश्चटुलचारिण: ॥108॥
तत्र वाच्यो मनुष्याणां मृत्योरूत्कृष्टसन्चय: । कदलीघातजातस्येत्युक्तिमत्तद्रणांगणम् ॥109॥
एवं तुमुलयुद्धेन प्रवृत्ते संगरे चिरम् । सेनयोरन्तकस्यापि सन्तृप्ति: समजायत ॥110॥
विलंघितं बलं विष्णोर्बलेन द्विषतां तथा । यथा क्षुद्र सरिद्वारि महासिन्धुप्लवाम्बुना ॥111॥
तदालोक्य हरि: क्रुद्धो हरिर्वा करिणां कुलम् । सामन्तबलसन्दोहसहितो हन्तुमुद्यत: ॥112॥
भास्करस्योदयाद्वान्धकारं शत्रुबलं तदा । विलीनं तन्निरीक्ष्यैत्य जरासन्धोऽन्वित: क्रुधा ॥113॥
द्योतिताखिलदिक्चक्रं चक्रमादाय विक्रमात् । त्रिविक्रमं समुद्दिश्य न्यक्षिपद्रूक्षवीक्षण: ॥114॥
तत्तं प्रदक्षिणीकृत्य स्थितवद्दक्षिणे भुजे । तदेवादाय कंसारिर्मगधेशोऽच्छिनच्छिर: ॥115॥
सद्यो जयानकानीकं नदति स्मागलन् दिव: । सुरद्रुमप्रसूनानि सह गन्धाम्बुबिन्दुभि: ॥116॥
चक्री चक्रं पुरस्कृत्य विजिगीषुर्दिशो भृशम् । प्रस्थानमकरोत्सार्धं बलेन स्वबलेन च ॥117॥
मागधादीन्सुरान् जित्वा विधेयीकृत्य विश्रुतान् । गृहीत्वा साररत्नानि तद्दत्तान्यूर्जितोदय: ॥118॥
सिन्धुसिन्धुखगाद्रयन्तरालव्याधधराधिपान् । स्वपादनखभाभारमानमय्योदवाहयन् ॥119॥
खेचराचलवाराशिगंगामध्यगतान् पुन: । वशीकृत्य वशी तूर्णं म्लेच्छराजान् सखेचरान् ॥120॥
भरतार्धमहीनाथो दूरोच्छ्रितपताकिकाम् । उद्वद्धतोरणां द्वारवर्ती ह्णष्टो विवेश स: ॥121॥
प्रविष्टवन्तं तं देवविद्याधरधराधिपा: । त्रिखण्डाधिपतिश्चक्रीत्यभ्यषिन्चन्नयाचितम् ॥122॥
स सहस्त्रसमायुष्को दशचापसमुच्छ्रिति: । लसन्नीलाब्जवर्णाभो लक्ष्म्यालिंगितविग्रह: ॥123॥
चक्रं शक्तिर्गदा शंखो धनुर्दण्ड: सनन्दक: । बभूवु: सप्तरत्नानि रक्षाण्यस्याक्षपालकै: ॥124॥
रत्नमाला गदा सीरो मुसलन्च हलेशिन: । महारत्नानि चत्वारि स्फुरर्त्त्विष्यभवन् विभो: ॥125॥
रूक्मिणी सत्यभामा च सती जाम्बवतीति च । सुसीमा लक्ष्मणा गान्धारी गौरी सप्तमी प्रिया ॥126॥
पद्मावती च देव्योऽमूरष्टौ पट्टप्रसाधना: । सर्वा: देव्य: सहस्त्राणि चाणूरान्तस्य षोडश ॥127॥
बलस्याष्ट सहस्त्राणि देव्योऽभीष्टसुखप्रदा: । ताभिस्ताबामरं सौख्यमाप्तौ वा प्रीतिमीयतु: ॥128॥
स्वपूर्वकृतपुण्यस्य परिपाकेन पुष्कलान् । भोगान्प्राप्नुवतस्तस्य काले गच्छति शांर्गिण: ॥129॥
अन्येद्युर्वारिदान्तेऽन्त:पुरेणामा सरोवरे । मनोहराभिधानेऽभूज्जलकेली मनोहरा ॥130॥
तत्र नेमीशितु: सत्यभामायाश्चाम्बुसेचनात् । सल्लापोऽभवदित्युच्चैश्चतुरोक्तया मनोहर: ॥131॥
तत्प्रियावत्कुतो रन्ता मयि त्वं किं ममाप्रिया । प्रियास्मि चेत्तव भ्राता यातु कां कामदायिनीम् ॥132॥
कासौ र्कि तां न वेत्सि त्वं सम्यक्सा वेदयिष्यति । वदन्ति त्वामृजुं सर्वे कुटिलस्त्वं तथापि च ॥133॥
पुन: स्नानविनोदावसाने तामेवमब्रवीत् । स्नानवस्त्रं त्वया ग्राह्यं नीलोत्पलविलोचने ॥134॥
तस्य मे किं करोम्येतत्प्रक्षालय हरिर्भवान् । यो नागशय्यामास्थाय दिव्यं शांर्गशरासनम् ॥135॥
हेलयारोपयद्यश्च प्रपूरितदिगन्तरम् । शंखमापूरयर्त्कि तत्साहसं नो भवेत्त्वया ॥136॥
कार्यं साधु करिष्यामीत्युक्त्बा गर्वप्रचोदित: । तत: पुरं समभ्येत्य विधातुं कर्म सोऽद्भुतम् ॥137॥
सम्प्रविश्यायुधागारं नागशय्यामधिष्ठित: । स्वां शय्यामिव नागेन्द्रमहामणिविभास्वराम् ॥138॥
भूयो बिफालनोन्नादज्यालतं च शरासनम् । आरोपयत्पयोजन्च दव्मौ रूद्धदिगन्तरम् ॥139॥
तदा संभावयामास स्वं समाविष्कृतोन्नतिम् । रागाहंकारयोर्लेशोऽप्यवश्यं विकृतिं नयेत् ॥140॥
सहसेत्यद्भूतं कर्म श्रुत्वाध्यास्य सभावनिम् । हरि: कुसुमचित्राख्यामाकुलाकुलमानस: ॥141॥
उद्भूतविस्मयोऽपृच्छत्किमेतदिति किंकरान् । ते च तत्सम्यगन्विष्य चक्रनाथं व्यजिज्ञपन् ॥142॥
श्रुत्वा तद्वचनं चक्री सावधानं वितर्कयन् । रागि चेत: कुमारस्य चिराच्चित्रमजायत ॥143॥
अभूत्कल्याणयोग्योऽयमारूढनवयौवन: । बाधा खलेन कामेन कस्य न स्यात्सकर्मण: ॥144॥
इत्युग्रवंशवार्धीन्दोरूग्रसेनमहीभुज: । जयावत्याश्च सर्वांग शस्या राजीमति: सुता ॥145॥
तद्रृहं तां स्वयं गत्वा कन्यां मान्यामयाचत । त्रिलोकस्वामिनो नेमे: प्रियास्त्वेषेति सादरम् ॥146॥
त्रिखण्डजातरत्नानां त्वं पतिर्नो विशेषत: । देव त्वमेव नाथोऽसि प्रस्तुतार्थस्य के वयम् ॥147॥
इत्युग्रसेनवाचोद्यत्संमदो यादवाधिप: । शुभेऽहनि समारभ्य विधातुं स तदुत्सवम् ॥148॥
पन्चरत्रमयं रम्यं समानयदनुत्तरम् । विवाहमण्डपं तस्य मध्यस्थे जगतीतले ॥149॥
नवमुक्ताफलालोलरंगवल्लीविराजिनि । मंगलामोदि पुष्पोपहारासारविलासिनि ॥150॥
विस्तृताभिनवानर्घ्यवस्त्रे सौवर्णपट्टके । बध्वा सह समापार्द्रतण्डुलारोपणं वर: ॥151॥
परेद्यु: समये पाणिजलसेकस्य माधव: । यियासुर्दुर्गर्ति लोभसुतीव्रानुभवोदयात् ॥152॥
दुराशय: सुराधीशपूज्यस्यापि महात्मन: । स्वराज्यादानमाशंकय नेमेर्मायाविदां वर: ॥153॥
निर्वेदकारणं किन्चिन्निरीक्ष्यैष विरंस्यति । भोगेभ्य इति सन्चित्य तदुपायविधित्सया ॥154॥
व्याधाधिपैर्धृतानीतं नानामृगकदम्बकम् । विधायैकत्र संकीर्णां वृर्ति तत्परितो व्यधात् ॥155॥
अशिक्षयच्च तद्रक्षाध्यक्षान्यदि समीक्षितुम् । दिशो नेमीश्वरोऽभ्येति भवद्भि: सोऽभिधीयताम् ॥156॥
त्वद्विवाहे व्ययीकर्तुं चक्रिणैष मृगोत्कर: । समानीत इति व्यक्तं महापापोपलेपक: ॥157॥
अथ नेमिकुमारोऽपि नानाभरणभासुर: । सहस्त्रकुन्तलो रक्तोत्पलमालाद्यलड़्कृत: ॥158॥
तुरंगमखुरोद्धूतधूलीलिप्तदिगानन: । सवयोभिरिति प्रीतैर्महासामन्तसूनुभि: ॥159॥
परीत: शिबिकां चित्रामारूह्य नयनप्रिय: । दिशो विलोकितुं गच्छंस्तत्रालोक्य यदृच्छया ॥160॥
मृगानितस्ततो घोरं रूदित्वा करूणस्वनम् । भ्रमतस्तृषितान् दीनदृष्टीनतिभयाकुलान् ॥161॥
किमर्थमिदमेकत्र निरूद्धं तृणभुक्कुलम् । इत्यन्वयुड़्क्त तद्रक्षानियुक्ताननुकम्पया ॥162॥
देवैतद्वासुदेवेन त्वद्विवाहमहोत्सवे । व्ययीकर्तुमिहानीतमित्यभाषन्त तेऽपि तम् ॥163॥
वसन्त्यरण्ये खादन्ति तृणान्यनपराधका: । किलैतांश्च स्वभोगार्थं पीडयन्ति धिगीदृशान् ॥164॥
किं न कुर्वन्त्यमी मूढा: प्रौढमिथ्यात्वचेतस: । प्राणिन: प्राणितु प्राणैर्निर्घृणा: स्वैर्विनश्वरै: ॥165॥
स्वराज्यग्रहणे शंकां विधाय मयि दुर्मति: । व्यधात्कपटमीदृक्षं कष्टं दुष्टविचेष्टितम् ॥166॥
इति निर्ध्याय निर्विद्य निर्वृत्त्य निजमन्दिरम् । प्रविश्याविर्भवद्वोधिस्तत्कालोपगतामरै: ॥167॥
बोधित: समतीतात्मभवानुस्मृतिवेपित: । तदैवागत्य देवेन्द्रै: कृतनिष्क्रमणोत्सव: ॥168॥
शिबिकां देवकुर्वाख्यामारूह्यामरवेष्टित: । सहस्त्राम्रवणे षष्ठाशन: श्रावणे सिते ॥169॥
पक्षे चित्राख्यनक्षत्रे षष्ठयां सायाह्नमाश्रित: । शतत्रयकुमाराब्दव्यतीतौ सह भूभुजाम् ॥170॥
सहस्त्रेण समादाय संयमं प्रत्यपद्यत । चतुर्थज्ञानधारी च बभूवासन्नकेवल: ॥171॥
सन्ध्येव भानुमस्ताद्रावनु राजीमतिश्च तम् । ययौ वाचापि दत्तानां न्यायोऽयं कुलयोषिताम् ॥172॥
स्वदु:खेनापि निर्विण्ण: श्रुयते न जन: पर: । परदु:खेन सन्तोऽमी त्यजन्त्येव महाश्रियम् ॥173॥
बलकेशवमुख्यावनीशा: सम्पूज्य संस्तवै: । ससुरेशास्तमीशानं स्वं धाम समुपाश्रयन् ॥174॥
पारणादिवसे तस्मै वरदत्तो महीपति: । कनकाभ: प्रविष्टाय पुरीं द्वारावतीं सते ॥175॥श्रद्धादिगुणसम्पन्न: प्रतीच्छादिनवक्रिय: । अदितान्नं मुनिग्राह्यं पंचाश्चर्याणि चाप स: ॥176 ।
कोटीर्द्वादशरत्नानां सार्धा: सुरकरच्युता: । वृष्टिं सौमनसीं वायुं मान्द्यादित्रिगुणान्वितम् ॥177॥
घनान्तरितकायामराभिताडितदुन्दुभि । ध्वानं मनोहरं साधुदानघोषणपूर्वकम् ॥178॥
एवं तपस्यतस्यस्य षट्पन्चाशद्दिनप्रमे । छद्मस्थसमये याते गिरौ रैवतकाभिधे ॥179॥
षष्ठोपवासयुक्तस्य महावेणोरध: स्थिते: । पूर्वेऽह्नयश्वयुजे मासि शुक्लपक्षादिमे दिने ॥180॥
चित्रायां केवलज्ञानमुदपद्यत सर्वगम् । पूजयन्ति स्म तं देवा: केवलावगमोत्सवे ॥181॥
वरदत्तादयोऽभूवन्नेकादश गणेशिन: । चतु:शतानि पूर्वज्ञा: श्रुतज्ञानाब्धिपारगा: ॥182॥
शून्यद्वितयवस्वैकैकमितास्तस्य शिक्षका: । शून्यद्वितयपन्चैकमितास्त्रिज्ञानलोचना: ॥183॥
तावन्त: पन्चमज्ञाना विक्रियर्द्धिसमन्विता: । शताधिकसहस्त्रं तु मन:पर्ययबोधना: ॥184॥
शतानि नव विज्ञेया वादिनोऽष्टशतानि च । अष्टादशसहस्त्राणि ते सर्वेऽपि समुच्चिता: ॥185॥
यक्षी राजीमति: कात्यायन्यन्याश्चाखिलार्यिका: । चत्वारिंशत्सहस्त्राणि श्रावका लक्षयेक्षिता: ॥186॥
त्रिलक्षा श्राविका देवा देव्यश्चासंखययोदिता: । तिर्यन्च: संखयया प्रोक्ता गणैरेभिर्द्विषण्मितै: ॥187॥
परीतो भव्यपद्यानां विकासं जनयन्मुहु: । धर्मोपदेशनार्कांशुप्रसरैणाघनाशिना ॥188॥
विश्वान् देशान् विह्णत्यान्ते प्राप्य द्वारावर्ती कृती । स्थितो रैवतकोद्याने तन्निशम्यान्त्यकेशव: ॥189॥
बलदेवश्च सम्प्राप्य स्वसर्वर्द्धिसमन्वितौ । वन्दित्वा श्रु तधर्माणौ प्रीतवन्तौ ततो हरि: ॥190॥
प्राहुर्नास्तीति यं केचित् केचिन्नित्यं क्षणस्थितिम् । केचित्केचिदणुं चाणो: केचिच्छयामाकसम्मितम् ॥191॥
केचिदंगुष्ठमातव्यं योजनानां समुच्छ्रितम् । केचिच्छतानि पन्चैव केचिद्रगनवद्विभुम् ॥192॥
केचिदेकं परेनाना परेऽज्ञमपरेऽन्यथा । तं जीवाख्यं प्रतिप्राय: सन्देहोऽस्तीत्यधीश्वरम् ॥193॥
पप्रच्छ सोऽपि नैतेषु कोऽपि विद्धयस्य लक्षणम् । ध्रौव्योत्पादव्ययात्मासौ गुणी सूक्ष्म: स्वकृत्यभुक् ॥194॥
ज्ञातात्तदेहसम्मेय: स्वसंवेद्य: सुखादिभि: । अनादिकर्मसम्बनध: सरन् गतिचतुष्टये ॥195॥
कालादिलब्धिमासाद्य भव्यो नष्टाष्टकर्मक: । सम्यक्त्वाद्यष्टकं प्राप्य प्राग्देहपरिमाणधृत् ॥196॥
उर्ध्वव्रज्यास्वभावत्वाज्जगन्मूर्धनि तिष्ठति । इति जीवस्य सद्भावं जगाद जगतां गुरू: ॥197॥ तदनन्तर श्रीकृष्णने कहाकि हे भगवन् ! कोई तो कहते हैं कि जीव नाम का पदार्थ है ही नहीं, कोई उसे नित्य मानते हैं, कोई क्षणस्थायी मानते हैं, कोई अणु से भी सूक्ष्म मानते हैं ? कोई श्यामाक नामक धान्य के बराबर मानते हैं, कोई एस अंगुष्ठ प्रमाण मानते हैं, कोई पाँचसौ योजन मानते हैं, कोई आकाशकी तरह व्यापक मानते हैं ? कोई एक मानते हैं, कोई नाना मानते हैं, कोई अज्ञानी मानते हैं और कोई उसके विपरीत ज्ञानसम्पन्न मानते हैं । इसलिए हे भगवन्, मुझे जीव तत्त्वके प्रति संदेह हो रहा है, इस प्रकार श्रीकृष्णने भगवान् से पूछा । भगवान् उत्तर देने लगे कि जीव तत्त्वके विषय में अब तक आप लोगोंने जो विकल्प उठाये हैं उनमेंसे इस जीव का एक भी लक्षण नहीं है यह आप निश्चित समझिए । यह जीव उत्पाद व्यय तथा ध्रौव्यसे युक्त है, गुणवान् है, सूक्ष्म है, अपने किये हुए कर्मों का फल भोगता है, ज्ञाता है, ग्रहण किये शरीर के बराबर है, सुख - दु:ख आदिसे इसका संवेदन होता है, अनादि काल से कर्मबद्ध होकर चारों योनियोंमें भ्रमण कर रहा है । यदि यह जीव भव्य होता है तो कालादि लब्धियोंका निमित्त पाकर ज्ञानावरणादि आठ कर्मों का क्षय हो जानेसे सम्यक्त्व आदि आठ गुण प्राप्त कर लेता है और मुक्त होकर चरम शरीर के बराबर हो जाता है । चूँकि इस जीव का स्वभाव ऊर्ध्वगमनका है इसलिए वह तीन लोक के ऊपर विद्यमान रहता है । इस प्रकार जगद्गुरू
तन्निशम्यास्तिका: सर्वे तथेति प्रतिपेदिरे । अभव्या दूरभव्याश्च मिथ्यात्वोदयदूषिता: ॥198॥
नामुन्चन्केचनानादिवासनां भववर्धनीम् । देवकी च तथापृच्छद्वरदत्तगणेशिनम् ॥199॥
भगवन्मद्रृहं द्वौ द्वौ भूत्वा भिक्षार्थमागता: । बान्धवेष्विव षट्स्वेषु स्नेह: किमिति जातवान् ॥200॥
इति सोऽपि कथामित्थं वक्तुं प्रारब्धवान्गणी । जम्बूपलक्षिते द्वीपे क्षेत्रेऽस्मिन्मथुरापुरे ॥201॥
शौर्यदेशाधिप: शूरसेनो नाम महीपति: । तत्रैव भानुदत्ताख्यश्रेष्ठिन: सप्त सूनव: ॥202॥
मातैषां यमुनादत्ता सुभानु: सकलाग्रिम: । भानुकीर्तिस्ततो भानुषेणोऽभूद्भानुशूरवाक् ॥203॥
पन्चम: शूरदेवाख्य: शूरदत्तस्ततोऽप्यभूत् । सप्तम: शूरसेनाख्य: पुत्रैस्तैस्तावलंकृतौ ॥204॥
स्वपुण्यफलसारेण जग्मतुर्गृहमेधिताम् । धर्ममन्येद्युरभ्यर्णादाचार्याभयनन्दिन: ॥205॥
श्रुत्वा नृपो वणिड़्मुख्योऽप्यग्रहीष्टां सुसंयमम् । जिनदत्तार्यिकाभ्यर्णे श्रेष्ठिभार्या च दीक्षिता ॥206॥
सप्तव्यसनसम्पन्ना जाता: सप्तापि तत्सुता: । पापान्मूलहरा भूत्वा राज्ञा निर्वासिता: पुरात् ॥207॥
अवम्तिविषयं गत्वा विशालाया: श्मशानके । शूरसेनमवस्थाप्य शेषाश्चोरयितुं पुरम् ॥208॥
प्राविशन्प्रकृतं तस्मिन्निदमन्यदुपस्थितम् । तत्पुराधिपतिर्भूपो बभूव वृषभध्वज: ॥209॥
भृत्यो दृढप्रहार्याख्य: स सहस्त्रभट: पटु: । वप्रश्रीरस्य जायाऽऽसीद्वज्रमुष्टिस्तयो: सुत: ॥210॥
विमलाया: सुता मंगी विमलेन्दुविशश्च सा । तत्प्रिया भूभुजा सार्द्धं वसन्ते वनमन्यदा ॥211॥
विहर्तुमुद्यता: सर्वे तत्कालसुखलिप्सया । वप्रश्री: सह मालाभि: कालाहिं कलशेऽक्षिपत् ॥212॥
स्रुषाभ्यसूयया कार्यं नाम नास्ति हि योषिताम् । मंगी चोद्यानयानार्थं मालादानसमुद्यता ॥213॥
दष्टा वसन्तकालोग्रविषेण विषभर्तृणा । विषव्याप्तशरीरत्वादस्पन्दाभूदसौ तदा ॥214॥
पलालवर्त्या सावेष्ढय स्त्रुषां प्रेतवनेऽत्यजत् । वज्रमुष्टिर्वनक्रीडाविरामेऽभ्येत्य पृष्टवान् ॥215॥
मंगी क्केत्याकुलो माताप्यसद्वार्तां न्यवेदयत् । सशोक: ससमुत्खातनिशातकरवालधृत् ॥216॥
तामन्वेष्टुं व्रजत्रात्रौ श्मशाने योगमास्थितम् । वरधर्ममुनिं दृष्ट्वा नमद्भक्त्या कृतान्जलि: ॥217॥
यदि पूज्य प्रियां प्रेक्षे सहस्त्रदलवारिजै: । त्वां समभ्यर्चयिष्यामीत्याशास्य गतवांस्तदा ॥218॥
वीक्षते स्म प्रियामीषच्चेतनां विषदूषिताम् । पलालवर्ति मुक्त्वाशु समानीयान्तिकं मुने: ॥219॥
तेन तत्पादसंपर्शभेषजेनाविषीकृता । सापि सद्य: समुत्थाय प्रियस्य प्रीतिमातनोत् ॥220॥
गुरूप्रीतमनस्यस्मिन्नम्भोजार्थं गते सति । शूरसेनस्तदा सर्वं तत्कर्मान्तर्हितो द्रमै: ॥221॥
वीक्ष्य मंगया: परीक्ष्यार्थं तदभ्यर्णमुपागत: । स्वांगसन्दर्शनं कृत्वा मधुरालापचेष्टितै: ॥222॥
लीलावलोकनैर्हासैर्व्यधाद्विस्रम्भणं भृशम् । साप्याह भवता सार्धमागमिष्यामि मां भवान् ॥223॥
गृहीत्वा यात्विति व्यक्तं श्रुत्वा तत्त्वत्पतेरहम् । बिभेमि तन्न वक्तव्यमिति तेनाभिलाषिता ॥224॥
🏠
पर्व - 72
अथ स्वज्ञातपूर्वन्च जगत्त्रयसभावनौ । प्रकाशयितुकामेन बलदेवेन धीमता ॥1॥
प्रद्युम्नशम्भवोत्पत्तिसम्बन्ध: पृच्छयते स्म स: । नरदत्तग णेन्द्रोनु रून्द्रबुद्धयेत्थमब्रवीत् ॥2॥
द्वीपेऽस्मिन्मगधे देशे शालिग्रामनिवासिन: । द्विजस्य सोमदेवस्य भार्याऽभूदग्निलाख्यया ॥3॥
अग्निभूतिरभूत्सूनुर्वायुभूतिस्तयोरनु । तावन्येद्यु: पुरे नन्दिवर्धनाख्ये मनोहरे ॥4॥
नन्दने नन्दिघोषाख्ये वने मुनिमपश्यताम् । नन्दिवर्धननामानं मुनिसंघविभूषणम् ॥5॥
दुष्टावुपागतौ दृष्ट्वा तौ मुनीन्द्रोऽब्रवीन्मुनीन् । विसंवदितुमायातावेतौ मिथ्यात्वदूषितौ ॥6॥
भवद्भि: कैश्चिदप्याभ्यां न कार्या सह संकथा । एतन्निबन्धनो भूयानुपसर्गो भविष्यति ॥7॥
इति तद्वचनं श्रुत्वा गुरूशासनकारिण: । मौनव्रतेन सर्वेऽपि स्थिता: संयमिनस्तदा ॥8॥
दृष्ट्वा तावेत्य सर्वेषां मूकीभूय व्यवस्थितिम् । कृतापहासौ स्वं ग्रामं गच्छन्तावशितुं गतम् ॥9॥
ग्रामान्तरात्समायातं मुनिमालोक्य सत्यकम् । तत्समीपमहंकारप्रेरितावुपगम्य तम् ॥10॥
नास्त्याप्तो नागमो नैव पदार्थो नग्न केवलम् । किं क्लिश्नासि वृथोन्मार्गे मूढो दृष्टविनाशिनि ॥11॥
इत्यध्यक्षिपतां सोऽपि जिनवक्त्रविनिर्गतम् । विवक्षितेतरानेकस्वरूपान्तसमाश्रयम् ॥12॥
द्रव्यतत्वं यथादृष्टं कथयन्तं सहेतुकम् । स्याद्वादमवलम्ब्योच्चैस्तत्प्रणेतृप्रमाणताम् ॥13॥
प्रसाध्यादृष्टभागेऽपि तदुक्तागम सुस्थितिम् । निरूप्य वादकण्डूतिमपनीय दुरात्मनो: ॥14॥
तयोर्जयध्वजं प्रापद्विद्वज्जनसमर्पितम् । तौ मानभंगसम्भूतक्रोधौ निशि शितायुधौ ॥15॥
परेद्यु: पापकर्माणौ विजने शुद्धचेतसम् । प्रतिमायोगमापन्नं सत्यकं मुनिपुंगवम् ॥16॥
शस्त्रेणाहन्तुमुद्युक्तावन्यायोऽयमिति क्रुधा । द्विजौ सुवर्णयक्षेण स्तम्भितौ कीलिताविव ॥17॥
तदा शरणमायातास्तन्मातृपितृबान्धवा: । मुनीनामाकुलीभूय यक्षस्तानवदत्सुधी: ॥18॥
हिंसाधर्मं परित्यज्य यदि जैनेश्वरं मतम् । भवन्त: स्वीकरिष्यन्ति भवेन्मोक्षोऽनयोरिति ॥19॥
तेऽपि भीतास्तथा बाढं करिष्याम इति द्रुतम् । मुनिं प्रदक्षिणीकृत्य प्रणम्य विधिपूर्वकम् ॥20॥
मिथ्यैव प्रत्यपद्यन्त धर्मं श्रावकपालितम् । ततस्तत्स्तम्भनापाये सति तैस्तावुदीरितौ ॥21॥
विरन्तव्यमितो धर्मादस्माद्धेतोरूपासितात् । इति नात्मात्तसन्मार्गाच्चेलतु: काललब्धित: ॥22॥
तेन संक्रुध्य ते ताभ्यां मृत्वा पापविपाकत: । अभ्राम्यन् कुगतीर्दीर्धं तौ च ब्राह्मणपुत्रकौ ॥23॥
सव्रतौ जीवितस्यान्ते कल्पे सौधर्मनामनि । पन्चपल्योपमायुष्कौ जातौ पारिषदाग्रिभौ ॥24॥
तत्रानुभूय सद्भोगान् द्वीपेऽस्मिन् कौशले पुरे । साकेतेऽरिन्जयो राजा सशौर्योऽभूदरिन्जय: ॥25॥
तयार्हद्दासवाक्छ्रेष्ठी वप्रश्रीस्तन्मन:प्रिया । अग्निभूतिस्तयो: पूर्णभद्रोऽन्यो माणिभद्रक: ॥26॥
सुतौ समुदभूतां तावन्येद्यु: स महीपति: । सिद्धार्थवनमध्यस्थमहेन्द्रगुरूसन्निधिम् ॥27॥
वहुभि: सह सम्प्राप्य श्रुत्वा धर्मं विशुद्धधी: । अरिन्दमे समारोप्य राज्यभारं भरक्षमे ॥28॥
अर्हद्दासादिभि: सार्द्धं संयमं प्रत्यपद्यत । तत्रैव पूर्णभद्रेण प्राक्तनं मद्गुरूद्वयम् ॥29॥
क्काद्य वर्तत इत्येतत्परिपृष्टो मुनिर्जगौ । जिनधर्मविरूद्धत्वात्कृतपापोऽभवन्मृत: ॥30॥
रत्नप्रभाबिले सर्पावर्तनान्नि ततोऽजनि । मातंग: काकजंघाख्य: सोमदेवो भवत्पिता ॥31॥
माताग्निला च तस्यैव जायते स्म शुनी गृहे । इहेत्याकर्ण्य तत्प्रोक्त तेन तौ परिबोधितौ ॥32॥
सम्प्राप्योपशमं भावं सन्न्यस्य विधिना मृत: । काकजंघोऽभवन्नन्दीश्वरद्वीपे निधीश्वर: ॥33॥
तत्पुराधीश्वरारिन्दमाख्यभूभृत्पते: सुता । श्रीमत्याश्च शुनी सुप्रबुद्धाख्याजायत प्रिया ॥34॥
सम्पूर्णयौवना यान्ती सा स्वयंवरमण्डपम् । यक्षेण बोधिता दीक्षामित्वाप्य प्रियदर्शनाम् ॥35॥
जीवितान्तेऽभवद्देवी मणिचूलेति रूपिणी । सौधर्माधिपते: पूर्णभद्रस्तदनुजोऽपि च ॥36॥
सप्तस्थानगतौ ख्यातश्रावकौ तौ दृढव्रतौ । प्रान्ते सामानिकौ देवौ जातौ सौधर्मनामनि ॥37॥
🏠
पर्व - 73
स पातु पार्श्वनाथोऽस्मान् यन्महिम्नैव भूधर: । न्यषेधि केवलं भक्तिभोगिनीछत्रधारणम् ॥1॥
धर्मश्वेतातपत्रं ते सूते विश्वविसर्पिणीम् । छायां पापातपप्लूष्टास्तथापि किल केचन ॥2॥
सर्वभाषां भवद्भाषां सत्यां सर्वोपकारिणीम् । सन्त: श्रृण्वन्ति सन्तुष्टा: खलास्तान्च न जातुचित् ॥3॥
अनभिव्यक्तमाहात्म्या देव तीर्थकरा: परे । त्वमेव व्यक्तमाहात्म्यो वाच्या ते साधु तत्कथा ॥4॥
कुमार्गवारिणी यस्माद्यस्मात्सन्मार्गधारिणी । तत्ते धर्म्यां कथां वक्ष्ये भव्यानां मोक्षगामिनाम् ॥5॥
जम्बूविशेषणे द्वीपे भरते दक्षिणे महान् । सुरम्यो विषयस्तत्र विस्तीर्णं पोदनं पुरम् ॥6॥
रक्षितास्यारविन्दाख्यो विख्यातो विक्रमादिभि: । पिप्रियुस्तं समाश्रित्य प्रजापतिमिव प्रजा: ॥7॥
तत्रैव विश्वभूत्याख्यो ब्राह्मण: श्रुतिशास्त्रवित् । ब्राह्मण्यनुन्धरी तस्य प्रीत्यै श्रुतिरिवापरा ॥8॥
अभूतामेतयो: पुत्रौ विषामृतकृतोपमौ । कमठो मरूभूतिश्च पापधर्माविवापरौ ॥9॥
वरूणा ज्यायसो भार्या द्वितीयस्य वसुन्धरी । मन्त्रिणौ तौ महीपस्य कनीयान्नीतिर्वित्तयो: ॥10॥
वसुन्धरीनिमित्तेन सदाचारं सतां मतम् । मरूभूतिं दुराचारो जघान कमठोऽधम: ॥11॥
मलये कुब्जकाख्याने विपुले सल्लकीवने । मरूभूतिरभून्मृत्वा वज्रघोषो द्विपाधिप: ॥12॥
वरूणा च मृता तस्य करेणुरभवत्प्रिया । तयोस्तस्मिन्वने प्रीत्या काले गच्छत्यतुच्छके ॥13॥
अरविन्दमहाराजस्त्यक्त्वा राज्यं विरज्य स: । सम्प्राप्य संयमं सार्थेनामा सम्मेदमीडितुम् ॥14॥
व्रजन्वने स्ववेलायां प्रतिमायोगमागमत् । नोल्लंघते नियोगं स्वं मनागपि मनस्विन: ॥15॥
विलोक्य तं महानागस्त्रि प्रस्तुतमदोद्धत: । हन्तुमभ्युद्यतस्तस्य प्रतिमायोगधारिण: ॥16॥
वीक्ष्य वक्ष:स्थले साक्षान्मंक्षु श्रीवत्सलान्छनम् । स्वपूर्वभवसम्बन्धं प्रत्यक्षीकृत्य चेतसा ॥17॥
तस्मिन्प्राक्तनसौहार्दात्प्रतोषी जोषमास्त स: । तिर्यन्चोऽपि सुह्णद्भावं पालयन्त्येव बन्धुषु ॥18॥
धर्मतत्त्वं मुने: सम्यग्ज्ञात्वा तस्मात्सहेतुकम् । स प्रोषधोपवासादि श्रावकव्रतमग्रहीत् ॥19॥
तदा प्रभृति नागेन्द्रो भग्नशाखा: परैर्द्विपै: । खादंस्तृणानि शुष्काणि पत्राणि च भयादघात् ॥20॥
उपलास्फालनाक्षेपद्विपसंघातघट्टितम् । पिबंस्तोयं निराहार: पारणायां महाबल: ॥21॥
चिरमेवं तप: कुर्वन् क्षीणदेहपराक्रम: । कदाचित्पातुमायातो वेगवत्या हदेऽपतत् ॥22॥
पंके पुन: समुत्थातुं विहितेहोऽप्यशक्रुवन् । कमठेन कुवृत्तेन कुक्कुटाहित्वमीयुषा ॥23॥
पूर्ववैरानुबन्धेन दष्टो निर्नष्टजीवित: । अभूत्कल्पे सहस्त्रारे षोडशाब्ध्युपमायुषा ॥24॥
तत्र भोगान्यथायोग्यं भुक्त्वा प्रान्ते ततश्च्युत: । द्वीपेऽस्मिन् प्राग्विदेहेऽस्ति विषय: पुष्कलावती ॥25॥
तत्खेचराचले राजा त्रिलोकोत्तमननामनि । पुरे विद्युद्रतिविंद्याधरेशस्तस्य वल्लभा ॥26॥
विद्युन्माला तयो: सूनू रश्मिवेगाख्यया जनि । सम्पूर्णयौवनो धीमान्प्रत्यासन्नभवावधि: ॥27॥
समाधिगुप्तमासाद्य मुनिं सम्प्राप्य संयमम् । गृहीतसर्वतोभद्रप्रभृत्युप्रोपवासक: ॥28॥
परेद्युहिंमगिर्यद्रिगुहायां योगमादधत् । प्राप्तधूमप्रभादु:खकुक्कुटोरगपापिना ॥29॥
ततश्च्युतेन भूत्वाजगरेणालोक्य कोपिना । निगीर्णोऽच्युतकल्पस्थे विमाने पुष्करेऽभवत् ॥30॥
द्वाविंशत्यब्धिमानायुस्तदन्ते पुण्यसारथि: । द्वीपेऽपरे विदेहेऽस्मिन् विषये पद्मसन्ज्ञके ॥31॥
महीशोऽश्वपुराधीशो वज्रवीर्यस्य भूपते: । विजयायाश्च तद्देव्या वज्रनाभि: सुतोऽभवत् ॥32॥
स चक्रलक्षितां लक्ष्मीमक्षुण्णां पुण्यरक्षित: । भुक्त्वाप्यतृप्नुवन्भोक्तुं मोक्षलक्ष्मीं समुद्यत: ॥33॥
क्षेमंकराख्यभट्टारकस्य वक्त्राब्जनिर्गतम् । धर्मामृतरसं पीत्वा त्यक्ताशेषरसस्पृह: ॥34॥
सुतं स्वराज्ये सुस्थाप्य राजभिर्बहुभि: समम् । संयमं समगात्सम्यक्सर्वसत्त्वानुकम्पनम् ॥35॥
प्राक्तनोऽजगर: षष्ठनरके तनुमाश्रित: । द्वाविंशत्यब्धिसंखयानजीवितेनातिदु:खित: ॥36॥
चिरात्तस्माद्विनिर्गत्य कुरंगाख्यो वनेचर: । कम्पयन्वनसम्भूतान् सम्भूत: सर्वदेहिन: ॥37॥
विवर्जितार्त्तध्यानस्य विधृतातपनस्थिते: । तस्य त्यक्तशरीरस्य शरीरबलशालिन: ॥38॥
तपोधनस्य चक्रेशो घोरं कातरदुस्सहम् । उपसर्गं स्फुरद्वैर: स पापी बहुधा व्यधात् ॥39॥
धर्मध्यानं प्रविश्यासौ समाराध्य सुरोत्तम: । समुत्पन्न: सुभद्राख्ये सदृड्.मध्यममध्यमे ॥40॥
सप्तविंशतिवाराशिमेयायुदिंव्यभोगभाक् । ततश्च्युतोऽस्मिन् द्वीपेऽसौ जम्बूभूरूहभूषिते ॥41॥
कौशले विषयेऽयोध्यानगरे काश्यपान्वये । इक्ष्वाकुवंशजातस्य वज्रबाहुमहीभृत: ॥42॥
सुतो देव्यां प्रभंकर्यामानन्दाख्योऽजनि प्रिय: । स सम्प्राप्तमहामाण्डलिकस्थानो महोदय: ॥43॥
स्वस्य स्वामिहिताख्यस्य महतो मन्त्रिणोऽन्यदा । वाचा वसन्तमासस्य नन्दीश्वरदिनाष्टके ॥44॥
पूजां निर्वर्त्तयन्द्रष्टुकामं तत्र समागतम् । विपुलादिमतिं दृष्ट्वा गणेशं प्रश्रयाश्रय: ॥45॥
अभिवन्द्य समाकर्ण्य सद्धर्मं सर्वशर्मदम् । भगवन् किन्चिदिच्छामि श्रोतुं मे संशयास्पदम् ॥46॥
अचेतने कथं पूजा निग्रहानुग्रहच्युते । जिनबिम्बे कृता भक्तिमतां पुण्यं फलत्यसौ ॥47॥
इत्यपृच्छदसौ चाह सहेत्विति वचस्तदा । श्रृणु राजन् जिनेन्द्रस्य चैत्यं चैत्याफयादि च ॥48॥
भवत्यचेतनं किन्तु भव्यानां पुण्यबन्धने । परिणामसमुत्पत्तिहेतुत्वात्कारणं भवेत् ॥49॥
रागादिदोषहीनत्वादायुधाभरणादिकात् । विमुखस्य प्रसन्नेन्दुकान्तिहासिमुखश्रिय: ॥50॥
अवर्तिताक्षसूत्रस्य लोकालोकावलोकिन: । कृतार्थत्वात्परित्यक्तजटादे: परमात्मन: ॥51॥
जिनेन्द्रस्यालयाँस्तस्य प्रतिमाश्च प्रपश्यताम् । भवेच्छुभाभिसन्धानप्रकर्षो नान्यतस्तथा ॥52॥
कारणद्वयसान्निध्यात्सर्वकार्यसमुद्भव: । तस्मात्तत्साधु विज्ञेयं पुण्यकारणकारणम् ॥53॥
तत्कथावसरे लोकत्रयचैत्यालयाकृती: सम्यग्वर्णयितुं वान्छन्प्रागादित्यविमानजे ॥54॥
जिनेन्द्रभवने भूतां विभूतिं सोऽन्ववर्णयत् । तामसाधारणीं श्रुत्वानन्द: श्रद्धां परां वहन् ॥55॥
दिनादौ च दिनान्ते च कराभ्यां कृतकुड्मल: । स्तुवन्नानम्रमुकुटो जिनेशान् मण्डले रवे: ॥56॥
शिल्पिभि: कारयित्वार्कविमानं मणिकान्चनै: । क्रोडीकृतजिनाधीशभवनं विततद्युति ॥57॥
शास्त्रोक्तविधिना भक्तया पूजामाष्टाह्नि कीं व्यधात् । चतुर्मुखं रथावर्तं सर्वतोभद्रमूर्जितम् ॥58॥
कल्पवृक्षन्च दीनेभ्यो ददद्दानमवारितम् । तद्विलोक्य जना: सर्वे तत्प्रामाण्यात्स्वयन्च तत् ॥59॥
स्तोतुमारेभिरे भक्तया मण्डलं चण्डरोचिष: । तदाप्रभृति लोकेऽस्मिन् बभूवार्कोपसेवनम् ॥60॥
अथान्यदा किलानन्दं महीट् शिरसि बुद्धवान् । पलितं दलयद्यौवनार्थिनां ह्णदयं द्विधा ॥61॥
तन्निमित्तसमुद्भूतनिर्वेगो ज्येष्ठसूनवे । साभिषेकं निजं राज्यं दत्वादत्तास्पृहं तप: ॥62॥
यते: समुद्रगुप्तस्य समीपे बहुभि: समम् । राजभी राजसं भावं परित्यज्य सुलेश्यया ॥63॥
साराधनाचतुष्क: सन्विशुद्धयैकादशांगधृत् । प्रत्ययांस्तीर्थकृन्नाम्नो भावयामास षोडश ॥64॥
यथोक्तं भावयित्वैतान्नाम बद्ध्वान्तिमं शुभम् । चिरं घोरं तप: कृत्वा प्रान्ते शान्तान्तरात्मक: ॥65॥
प्रायोपगमनं प्राप्य प्रतिमायोगमास्थित: । धीर: क्षीरवने धर्मध्यानाधीनो निराकुल: ॥66॥
कमठ: प्राक्तन: पापी प्रच्युतो नरकक्षिते: । कण्ठीरबत्वमासाद्य तन्मुने: कण्ठमग्रहीत् ॥67॥
सोढसिंहोपसर्गोऽसौ चतुराराधनाधन: । व्यसुरानतकल्पेशो विमाने प्राणतेऽभवत् ॥68॥
तत्र विंशतिवाराशिविहितोपमजीवित: । सार्धारत्नित्रयोन्मेयशरीर: शुक्ललेश्यया ॥69॥
दशमासान्तनिश्वासी मनसाऽमृतमाहरन् । खचतुष्कद्विवर्षान्ते मनसा स्त्रीप्रचारवान् ॥70॥
आपन्चमक्षितिव्याप्ततृतीयावगमेक्षण: । स्वावधिक्षेत्रमानाभाविक्रियाबलसंगत: ॥71॥
सामानिकादिसर्वर्द्धिसुधाशनसमर्चित: । कान्तकामप्रदानेकदेवीकृतसुधाकर: ॥72॥
विश्वान्वैषयिकान्भोगान् शश्वत्सम्प्राप्य निर्विशन् । तल्लोलो लीलया कालमला वीत्कलयन्कलाम् ॥73॥
षण्मासैरन्तिमैस्तस्मिन्नागमिष्यत्यमूं महीम् । द्वीपेऽस्मिन् भरते काशीविषये नगरेऽधिप: ॥74॥
वाराणस्यामभूद्विश्वसेन: काश्यपगोत्रज: । ब्राह्ययस्य देवी सम्प्राप्तवसुधारादिपूजना ॥75॥
वैशाखकृष्णपक्षस्य द्वितीयायां निशात्यये । विशाखर्क्षे शुभस्वप्नान्निरीक्ष्य तदनन्तरम् ॥76॥
स्ववक्त्राब्जप्रविष्टोरूगजरूपविलोकिनी । प्रभातपटहध्वानसमुन्मीलितलोचना ॥77॥
मंगलाभिषवाविष्टतुष्टि: पुण्यप्रसाधना । विभावरीव सज्ज्योत्स्ना राजानं समुपेत्य सा ॥78॥
कृतोपचारा संविश्य विष्टरार्धे महीपते: । स्वेदृष्टसकलस्वप्नान्यथाक्रममभाषत ॥79॥
श्रुत्वा तान् सावधि: सोऽपि फलान्येवं न्यवेदयत् । गजेन्द्रवीक्षणात्पुत्रो वृषभालोकनात्पति: ॥80॥
त्रिविष्टपस्य सिंहेन दृष्टेनानन्तवीर्यक: । मन्दराभिषवप्राप्ति: पद्माभिषवदर्शनात् ॥81॥
दामद्वयावलोकेन धर्मद्वितयतीर्थकृत् । शशांकमण्डलालोकात् त्रैलोक्यकुमुदप्रिय: ॥82॥
तेजस्वी भास्वतो मत्स्ययुगलेन सुखाविल: । निधीनामधिप: कुम्भवीक्षणात्सर्वलक्षण: ॥83॥
सरस: सागरात्सर्वज्ञाता सिंहासनेक्षणात् । सर्वलोकैकसम्मान्य: स्वर्गादद्यावतीर्णवान् ॥84॥
अवताराद्विमानस्य भवनात्पवनाशिन: । त्रिबोधदीधिती रत्नराशिनालिंगितो गुणै: ॥85॥
विधूमधूमकेतूपलक्षणाद्दाहकोंऽहसाम् । वक्त्राम्भोजे गजेन्द्रस्य प्रवेशात्ते कृशोदरि ॥86॥
अवस्थितिं स सम्प्रापदुदरेऽमरपूजित: । इति श्रुत्वाऽतुषद्वार्णी पत्युरेणीविलोचना ॥87॥
तदाखिलामराधीशा: समागत्य व्यधुर्मुदा । स्वर्गावतरणे पित्रो: कल्याणाभिषवोत्सवम् ॥88॥
स्वर्गलोकन्च तद्रेहमतिशेते स्म सम्पदा । किं करोति न कल्याणं कृतपुण्यसमागम: ॥89॥
नवमे मासि सम्पूर्णे पौषे मास्यसिते सुत: । पक्षे योगेऽनिले प्रादुरासीदेकादशीतिथौ ॥90॥
तदा निजासनाकम्पाद् ज्ञात्वा तीर्थकरोदयम् । सौधर्मप्रमुखा: सर्वे मन्दराचलमस्तके ॥91॥
जन्माभिषेककल्याणपूजानिर्वृत्त्यनन्तरम् । पार्श्वाभिधानं कृत्वास्य पितृभ्यां तं समर्पयन् ॥92॥
नेम्यन्तरे खपन्चस्वराग्न्यष्टमितवत्सरे । प्रान्ते हन्ता कृतान्तस्य तदभ्यन्तरजीवित: ॥93॥
पार्श्वनाथ: समुत्पन्न: शतसंवत्सरायुषा । बालशालितनुच्छाय: सर्वलक्षणलक्षित: ॥94॥
नवारत्नितनूत्सेधो लक्ष्मीवानुग्रवंशज: । षोडशाब्दावसानेऽयं कदाचिन्नवयौवन: ॥95॥
क्रीडार्थं स्वबलेनामा निर्यायायाद्वहि: पुरम् । आश्रमादिवने मातुर्महीपालपुराधिपम् ॥96॥
पितरं तं महीपालनामानममराचिंता: । महादेवीवियोगेन दु:खात्तापसदीक्षितम् ॥97॥
तप: कुर्वन्तमालोक्य पन्चपावकमध्यगम् । तत्समीपे कुमारोऽस्थादनत्वैनमनादर: ॥98॥
अविचार्य तदाविष्ट: कोपेन कुमुनिर्गुरू: । कुलीनोऽहं तपोवृद्ध: पिता मातुर्नमस्क्रियाम् ॥99॥
अकृत्वा मे कुमारोऽज्ञ: स्थितवान्मदविह्वल: । इति प्रक्षोभमागत्य प्रशान्ते पावके पुन: ॥100॥
निक्षेप्तुं स्वयमेवोच्चैरूत्क्षिप्य परशुं घनम् । भिन्दन्निन्धनमज्ञोऽसौ मा भैत्सीरत्र विद्यते ॥101॥
प्राणीति वार्यमाणोऽपि कुमारेणावधित्विषा । अन्वतिष्ठदयं कर्म तस्याभ्यन्तरवतिंनौ ॥102॥
नागी नागश्च तच्छेदाद् द्विधा खण्डमुपागतौ । तन्निरीक्ष्य सुभौमाख्यकुमार: समभाषत ॥103॥
अहं गुरूस्तपस्वीति गर्वं दुर्वहमुद्वहन् । पापास्त्रवो भवत्यस्मान्न वेत्येतच्च वेत्सि न ॥104॥
अज्ञानतपसानेन दु:खं तेऽत्र परत्र च । इति तद्वचनात्कोपी मुनिरित्थं तमब्रवीत् ॥105॥
अहं प्रभुर्ममायं किं वा करोतीत्यवज्ञया । तपसो मम माहात्म्यमबुद्ध्वैवं ब्रवीषि किम् ॥106॥
पन्चाग्निमध्यवतिंत्वं पवनाहारजीवनम् । ऊर्ध्वबाहुतया पादेनैकेनैव चिरं स्थिति: ॥107॥
स्वयंपतितपर्णादेरूपवासेन पारणम् । इत्यादिकायसन्तापि तापसानां सुदुर्धरम् ॥108॥
तपो नाधिकमस्त्यस्मादिति तद्वचनश्रुते: । सुभौम: सस्मितोऽवादीन्न भवन्तमहं गुरूम् ॥109॥
अवमन्ये पुन: किन्तु सन्त्यज्याप्तागमादिकम् । मिथ्यात्वादिचतुष्केण पृथिव्यादिषु षट्स्वपि ॥110॥
वाचा कायेन मनसा कृतकादित्रिकेण च । वधे प्रवर्तमानानामनाप्तमतसंश्रयात् ॥111॥
निर्वाणप्रार्थनं तेषां तण्डुलावाप्तिवान्छया । तुषखण्डनखेदो वा घृतेच्छा वाम्बुमन्थनात् ॥112॥
हेमोपलब्धिबुद्धिर्वा दाहादन्धाश्मसंहते: । अन्धस्येवाग्निसम्पातो दावभीत्या प्रधावत: ॥113॥
ज्ञानहीनपरिक्लेशो भाविदु:खस्य कारणम् । इति प्ररूप्यते युष्मत्स्त्रेहेन महता मया ॥114॥
इत्येतदुक्तं ज्ञात्वापि पूर्ववैरानुबन्धनात् । निजपक्षानुरागित्वाद् दु:संसारादिहागते: ॥115॥
प्रकृत्यैवातिदुष्टत्वादनादाय विरूद्धधी: । सुभौमको भवानत्र सस्मयोऽयं कुमारक: ॥116॥
पराभवति मामेवमिति तस्मिन् प्रकोपवान् । सशल्यो मृतिमासाद्य शम्बरो ज्योतिषामर: ॥117॥
नाम्नाभवत्सकोपानां तपसाऽपीदृशी गति: । नागी नागश्च सम्प्राप्तशमभावौ कुमारत: ॥118॥
बभूवतुरहीन्द्रश्च तत्पत्नी च पृथुश्रियौ । ततस्त्रिंशत्समामानकुमारसमये गते ॥119॥
साकेतनगराधीशो जयसेनो महीपति: । भगलीदेशसन्जातहयादिप्राभृतान्वितम् ॥120॥
अन्यदासौ निसृष्टार्थं प्राहिणोत्पार्श्वसन्निधिम् । गृहीत्वोपायनं पूजयित्वा दूतोत्तमं मुदा ॥121॥
साकेतस्य विभूतिं तं कुमार: परिपृष्टवान् । सोऽपि भट्टारकं पूर्व वर्णयित्वा पुरूं पुरम् ॥122॥
पश्चाद्वयावर्णयामास प्राज्ञा हि क्रमवेदिन: । श्रुत्वा तत्तत्र किन्जातस्तीर्थकृन्नामबन्धनात् ॥123॥
एष एव पुरूर्मुक्तिमापदित्युपयोगवान् । साक्षात्कृतनिजातीतसर्वप्रभवसन्तति: ॥124॥
विजृम्भितमतिज्ञानक्षयोपशमवैभवात् । लब्धबोधि: पुनर्लौकान्तिकदेवप्रबोधित: ॥125॥
तत्क्षणागतदेवेन्द्रप्रमुखामरनिर्मित- । प्रसिद्धमध्यकल्याणस्त्रपनादिमहोत्सव: ॥126॥
प्रत्येययुक्तिमद्वाग्भि: कृतबन्धुविसर्जन: । आरूह्य शिबिकां रूढां विमलाभिधया विभु: ॥127॥
विधायाष्टममाहारत्यागमश्ववने महा- । शिलातले महासत्त्व: पल्यंकासनमास्थित: ॥128॥
उत्तराभिमुख: पौषे मासे पक्षे सितेतरे । एकादश्यां सुपूर्वाह्णे समं त्रिशतभूभुजै: ॥129॥
कृतसिद्धनमस्कारो दीक्षालक्ष्मीं समाददे । दूतिकां मुक्तिकन्याया मान्यां कृत्यप्रसाधिकाम् ॥130॥
केशान्विमोचितांस्तस्य मुष्टिभि: पन्चभि: सुरेट् । समभ्यर्च्यादरान्नीत्वा न्यक्षिपत्क्षीरवारिधौ ॥131॥
आत्तसामायिक: शुद्धया चतुर्थज्ञानभास्वर: । गुल्मखेटपुरं कायस्थित्यर्थं समुपेयिवान् ॥132॥
तत्र धन्याख्यभूपाल: श्यामवर्णोऽष्टमंगलै: । प्रतिगृह्याशनं शुद्धं दत्वापत्तत्क्रियोचितम् ॥133॥
नयन्स चतुरो मासान् छाद्मस्थ्येन विशुद्धिभाक् । दीक्षाग्रहवने देवदारूभूरिमहीरूह: ॥134॥
अधस्तादष्टमाहारत्यागादात्तविशुद्धिक: । प्रत्यासन्नभवप्रान्तो योगं सप्तदिनावधिम् ॥135॥
गृहीत्वा सत्त्वसारोऽस्थाद् धर्मध्यानं प्रवर्तयन् । शम्बरोऽत्राम्बरे गच्छन्नगच्छत्स्वं विमानकम् ॥136॥
लोकमानो विभंगेन स्पष्टप्राग्वैरबन्धन: । रोषात्कृतमहाघोषो महावृष्टिमपातयत् ॥137॥
व्यधात्तदैव सप्ताहान्यन्यांश्च विविधान्विधी: । महोपसर्गान् शैलोपनिपातान्तानिवान्तक: ॥138॥
तं ज्ञात्वाऽवधिबोधेन धरणीशो विनिर्गत: । धरण्या: प्रस्फुरद्रत्नफणामण्डपमण्डित: ॥139॥
भद्रं तमस्थादावृत्य तत्पत्नी च फणातते: । उपर्युच्चै: समुद्धत्य स्थिता वज्रातपच्छिदम् ॥140॥
अमू क्रूरौ प्रकृत्यैव नागौ सस्मरतु: कृतम् । नोपकारं परे तस्माद्विस्मरन्त्यार्द्रचेतस: ॥141॥
ततो भगवतो ध्यानमाहात्म्यान्मोहसंक्षये । विनाशमगमद्विश्वो विकार: कमठद्विष: ॥142॥
द्वितीयशुक्लध्यानेन मुनिर्निजिंत्य कर्मणाम् । त्रितयं चैत्रमासस्य काले पक्षे दिनादिमे ॥143॥
भागे विशाखनक्षत्रे चतुर्दश्यां महोदय: । सम्प्रापत्केवलज्ञानं लोकालोकावभासनम् ॥144॥
तदा केवलपूजान्च सुरेन्द्रा निरवर्तयन् । शम्बरोऽप्यात्तकालादिलब्धि: शममुपागमत् ॥145॥
प्रापत्सम्यक्त्वशुद्धिन्च दृष्ट्वा तद्वनवासिन: । तापसास्त्यक्तमिथ्यात्वा: शतानां सप्त संयमम् ॥146॥
गृहीत्वा शुद्धसम्यक्त्वा: पार्श्वनाथं कृतादरा: । सर्वे प्रदक्षिणीकृत्य प्राणेमु: पादयोर्द्वयो: ॥147॥
क्क तद्वैरं वृथा शान्तिरीदृशी क्कास्य पापिन: । सख्यमास्तां विरोधश्च वृद्धये हि महात्मभि: ॥148॥
गणेशा दश तस्यासन् विधायादिं स्वयम्भुवम् । सार्धानि त्रिशतान्युक्ता मुनीन्द्रा: पूर्वधारिण: ॥149॥
यतयोऽयुतपूर्वाणि शतानि नव शिक्षका: । चतु:शत्तोत्तरं प्रोक्ता: सहस्त्रमवधित्विष: ॥150॥
सहस्त्रमन्तिमज्ञानास्तावन्तो विक्रियर्द्धिका: । शतानि सप्तपन्चाशच्चतुर्थावगमाश्रिता: ॥151॥
वादिन: षट्शतान्येव ते सर्वेऽपि समुच्चिता: । अभ्यर्णीकृतनिर्वाणा: स्यु: सहस्त्राणि षोडश ॥152॥
सुलोचनाद्या: षट्त्रिंत्सहस्त्राण्यार्यिका विभो: । श्रावका लक्षमेकं तु त्रिगुणा: श्राविकास्तत: ॥153॥
देवा देव्योऽप्यसंखयाता: संखयातास्तिर्यगंगिन: । एवं द्वादशभिर्युक्तो गणैर्धर्मोपदेशनम् ॥154॥
कुर्वाण: पन्चभिर्मासैविंरहीकृतसप्तति: । संवत्सराणां मासं स संह्णत्य विह्णतिक्रियाम् ॥155॥
षटूत्रिंशन्मुनिभि: सार्धं प्रतिमायोगमास्थित: । श्रावणे मासि सप्तम्यां सितपक्षे दिनादिमे ॥156॥
भागे विशाखनक्षत्रे ध्यानद्वयसमाश्रयात् । गुणस्थानद्वये स्थित्वा सम्मेदाचलमस्तके ॥157॥
तत्कालोचितकार्याणि वर्तयित्वा यथाक्रमम् । नि:शेष कर्मनिर्णाशान्निवाणे निश्चलं स्थित: ॥158॥
कृतनिर्वाणकल्याणा: सुरेन्द्रास्तं ववन्दिरे । वन्दामहे वयन्चैनं नन्दितुं सुन्दरैर्गुणै: ॥159॥
आदिमध्यान्तगम्भीरा: सन्तोऽम्भोनिधिसन्निभा: । उदाहरणमेतेषां पार्श्वो गण्य: क्षमावताम् ॥160॥
शार्दूलविक्रीडितम्
त्वज्जन्माभिषवोत्सवे सुरगिरौ स्वोच्छ्वासनि:श्वासजै:
स्वर्गेशान्भृशमानयस्त्वमनिलैरान्दोललीलां मुहु: ।
किं कुर्यात्तव तादृशोऽयममरस्त्वत्क्षान्तिलब्धोदय:
पाठीनो जलधेरिवेत्यभिनुत: पार्श्वो जिन: पातु न: ॥161॥
निष्कम्पं तव शुल्कतामुपगतं बोधं पयोधिर्महा-
वातोद्धूततनुर्विनीलसलिल: प्राप्नोति दूरान्न तम् ।
ध्यानं ते वत वाचलस्य मरूतां श्वासानिलाद्वामरात्
क्षोभ: क: कथमित्यभीष्टुतिपति: पार्श्वप्रभु: पातु न: ॥162॥
तीर्थेशा: सदृशो गुणैरनणुभि: सर्वेऽपि धैर्यादिभि:
सन्त्यप्येवमधीश विश्वविदितास्ते ते गुणा: प्रीणना: ।
तत्सर्वं कमठात्तथाहि महतां शत्रो: कृतापक्रियात्
ख्यातिर्या महती न जातुचिदसौ मित्रात्कृतोपक्रियात् ॥163॥
दूरस्थामरविक्रियस्य भवतो बाधा न शान्तात्मनो
न क्रोधो न भयन्च तेन न बुधै: सोढेति संस्तूयसे ।
माहात्म्यप्रशमौ तु विस्मयकरौ तौ तेन तीर्थेशिन:
स्तोतव्यं किमिति स्तुतो भवतु न: पार्श्वो भवोच्छित्तये ॥164॥
पश्यैतौ कृतवेदिनौ हि धरणौ धर्म्यावितीडांगतौ
तावेवोपकृतिर्न ते त्रिभुवनक्षेमैकभूमेस्तत: ।
भूभृत्पातनिषेधनं ननु कृतं चेत्प्राक्तनोपद्रवा:
कैर्नासन्निति सारसंस्तुतिकृत: पार्श्वो जिन: पातु न: ॥165॥
भेदोऽद्रे: फणिमण्डप: फणिवधूछत्रं क्षतिर्घातिनां
कैवल्याप्ति रधातुदेहमहिमा हानिर्भवस्यामरी ।
भीतिस्तीर्थकृदुद्रमोऽपगमनं विघ्नस्य चासन्समं
भर्तुर्यस्य स सन्ततान्तकभयं हन्तूग्रवंशाग्रणी: ॥166॥
किं ध्यानात्फणिन: फणीन्द्रयुवते: क्षान्तेर्महेन्द्रात्स्वत-
स्तन्त्रान्मन्त्रविजृम्भणाद् वत रिपोर्भोतेरयस्योदयात् ।
कालाद्घातिहतेरिदं शममभूदित्यर्घ्यहस्तै: सुरै-
राशंकयामरविघ्नविच्युतिरघं हन्यात्स धीराग्रणी: ॥167॥
श्रुत्वा यस्य वचोऽमृतं श्रुतिसुखं ह्णद्यं हितं हेतुम-
न्मिथ्यात्वं दिविजोऽवमीद्विषमिव व्याविद्धवैरोद्धुरम् ।
यं स्तौति स्म च तादृशोऽप्युपनतश्रेय: स पार्श्वो विभु-
विंघ्नौघं हरिसन्धृतासनशिखामध्यास्य सिद्धो हतात् ॥168॥
जात: प्राड्.मरूभूतिरन्विभपतिर्देव: सहस्त्रारजो
विद्येशोऽच्युतकल्पज: क्षितिभृतां श्रीवज्रनाभि: पति: ।
देवो मध्यममध्यमे नृपगुणैरानन्दनामाऽऽनते
देवेन्द्रो हतघातिसंहतिरवत्वस्मान्स पार्श्वेश्वर: ॥169॥
आर्या
कमठ: कुक्कुटसर्प: पन्चमभूजोऽहिरभवदथ नरके ।
ध्याधोऽधोग: सिंहो नरकी नरपोऽनु शम्बरो दिविज: ॥170॥
🏠
पर्व - 74
वर्धमानो जिन: श्रीमान्नामान्वर्थ समुद्वहन् । देयान्मे वृद्धिमुद्धतघातिकर्मविनिर्मिताम् ॥1॥
तत्तवार्थनिर्णयात्प्राप्य सन्मतित्वं सुबोधवाक् । पूज्यो देवागमाद्भूत्वात्राकलंको बभूविथ ॥2॥
वीरसेनो महावीरो वीरसेनेन्द्रतां गत: । वीरसेनेन्द्रवन्द्याघ्रिंर्वीरसेनेन भावित: ॥3॥
देवालोकस्तवैवैको लोकालोकावलोकने । किमस्ति व्यस्तमप्यस्मिन्ननेनानवलोकितम् ॥4॥
रूपमेव तव ब्रूते नाथ कोपाद्यपोहनम् । मणेर्मलस्य वैकल्यं महत: केन कथ्यते ॥5॥
अतिक्रम्य कुतीर्थानि तव तीर्थं प्रवर्तते । सम्प्रत्यपीति नुत्वानु पुराणं तत्प्रवख्यते ॥6॥
महापुराणवाराशिपारावारप्रतिष्ठया । जिनसेनानुगामित्वमत्वमस्माभिर्निविंवक्षुभि: ॥7॥
अगाधोऽयं पुराणाब्धिरपारश्च मतिर्मम । पश्योत्ताना सपारा च तं तितीर्षु: किलैतया ॥8॥
मतिरस्तु ममैषाल्पा पुराणं महदस्त्विदम् । नावेवाम्भोनिधेरस्य प्राप्तोहं पारमेतया ॥9॥
कथाकथकयोस्तावद्वर्णना प्राग्विधीयते । दोषं ताभ्यामदोषाभ्यां पुराणं नोपढौकते ॥10॥
सा कथा यां समाकर्ण्य हेयोपादेयनिर्णय: । कर्णकट्वीभिरन्याभि: किं कथाभिर्हितार्थिनाम् ॥11॥ कथा वही कहलाती है कि जिसके सुनने से हेय और उपादेयका निर्णय हो जाता है । हित चाहने
रागादिदोषनिर्मुक्तो निरपेक्षोपकारकृत् । भव्यानां दिव्यया वाचा कथक: हिकथ्यते ॥12॥
एतद्द्वितयमत्रैव पुराणे जिनभाषिते । नान्येषु दुष्पुराणेषु तस्माद् ग्राह्यमिदं बुधै: ॥13॥
अथ जम्बूद्रुमालक्ष्ये द्वीपानां मध्यवर्तिनि । द्वीपे विदेहे पूर्वस्मिन् सीतासरिदुदक्तटे ॥14॥
विषये पुष्कलावत्यां नगरी पुण्डरीकिणी । मधुकाख्ये वने तस्या नाम्ना व्याधाधिपोऽभवत् ॥15॥
पुरूरवा: प्रियास्यासीत्कालिकाख्यानुरागिणी । अनुरूपं विधत्ते हि वेधा: संगममंगिनाम् ॥16॥
कदाचित्कानने तस्मिन् दिग्विभागविमोहनात् । मुनिं सागरसेनाख्यं पर्यटन्तमितस्तत: ॥17॥
विलोक्य तं मृगं मत्वा हन्तुकाम: स्वकान्तया । वनदेवाश्चरन्तीमे मावधीरिति वारित: ॥18॥
तदैव स प्रसन्नात्मा समुपेत्य पुरूरवा: । प्रणम्य तद्वच: श्रुत्वा सुशान्त: श्रद्धयाहित: ॥19॥
शीतलाम्भस्तटाकं वा निदाघे तृषितो जन: । संसारदु:खहेतोर्वा भीरूर्जैनेश्वरं मतम् ॥20॥
शास्त्राभ्यासनशीलो वा ख्यातं गुरूकुलं महत् । मध्वादित्रितयत्यागलक्षणं व्रतमासदत् ॥21॥
जीवितावसितौ सम्यक्पालयित्वादराद् व्रतम् । सागरोपमदिवयायु: सौधर्मेऽनिमिषोऽभवत् ॥22॥
द्वीपेऽस्मिन्भारते देश: कोसलाख्योऽस्ति विश्रुत: । आर्यक्षेत्रस्य मध्यस्थ: सौस्थित्यं सर्वदा भजन् ॥23॥इसी जम्बुद्वीप के भरत – क्षेत्र सम्बन्धी आर्यक्षेत्रके मध्यभाग में स्थित तथा सदा अच्छी
बाधाभावादरक्षात्र रक्षकेभ्यो विना न सा । अदातारो न कैनाश्यात्ते तृप्त्या ग्राहकैर्विना ॥24॥
काठिन्यं कुत्रयोरेव नैव चेतसि कस्यचित् । देहि पाहीति सम्प्रैषो नार्थित्वेन भयेन वा ॥25॥
कलंकक्षीणते राज्ञि चन्द्र एव परत्र न । स्थितिस्तपोधनेष्वेद विनाहारात्परेषु न ॥26॥
पीडा तिलातसीक्षुणो नान्यप्राणिषु केषुचित् । मान्यत्र शिरसश्छेद: प्रवृद्धेष्वेव शालिषु ॥27॥
बन्धो मोक्षश्च राद्धान्ते श्रुयते नापराधिषु । विना विमुक्तरागेभ्यो नान्यत्रेन्द्रियनिग्रह: ॥28॥
जाडचं जलेषु नान्येषु सूच्यादिष्वेव तीक्ष्णता । नान्यत्र कुंचिकास्वेव कृत्ये नान्यत्र वक्रता ॥29॥
नाविदग्धाश्च गोपाला न स्त्रीबालाश्च भीलुका: । शठा न वामनाश्चोक्ताश्चण्डालाश्च न दुश्चरा: ॥30॥
नानिक्षुशालिका भूमिर्न क्षमाभृदचन्दन: । नानम्भोजं जलस्थानं नैवास्वादुफलं वनम् ॥31॥
मध्ये तस्य विनीताख्या ह्णदयग्राहिणी पुरी । जनानां सा विनीतेव रमणी सत्सुखप्रदा ॥32॥
प्रकाशयितुमात्मीयं पुरनिर्माणकौशलम् । भक्तिन्च तीर्थकृत्स्वादौ सा शक्रेणैव निर्मिता ॥33॥
मुनेर्धीर्विनयेनैव स्वामिनैव पताकिनी । कान्चीव मणिना मध्ये सा सालेन व्यभासत ॥34॥ जिस प्रकार विनय से मुनिकी बुद्धि सुशोभित होती है, स्वामीसे सेना शोभायमान होती है और
मणिसे मेखला सुशोभित होती है, उसी प्रकार मध्यभाग में बने हुए परकोटसे वह नगरी सुशोभित थी
भूषणायैव सालोऽस्या: खातिकापरिवेष्टित: । शक्र: कर्ता पतिश्चक्री यदि कौतस्कुतं भयम् ॥35॥
वर्तते जिनपूजास्या दिनं प्रति गृहे गृहे । सर्वमंगलकार्याणां तत्पूर्वत्वाद् गृहेशिनाम् ॥36॥
विद्याभ्यासाद्विना बाल्यं विना भोगेन यौवनम् । वार्धक्यं न विना धर्माद्विनान्तोऽपि समाधिना ॥37॥
नावबोध: क्रियाशून्यो न क्रिया फलवर्जिता । अभुक्त न फलं भोगो नार्थधर्मद्वयच्युत: ॥38॥
प्रधानप्रकृति: प्राय: स्वामित्वेनैव साधिका । जनेभ्यस्तन्निवासिभ्यो न भूषादिपरिच्छदै: ॥39॥
सुरास्तत्र समागत्य स्वर्गायातैर्नरोत्तमै: । स्वर्गसम्भूतसौहार्दाद् रमन्ते सन्ततं मुदा ॥40॥
सुरा: केऽत्र नरा: के वा सर्वे रूपादिभि: समा: । इत्यामता: खगाधीशा: मोमुह्यन्ते विवेचने ॥41॥
तत्र पण्यस्त्रियो वीक्ष्य बाढं सुरकुमारका: । विस्मयन्ते न रज्यन्ते ताभिर्जातिविशेषत: ॥42॥
करणानामभीष्टा ये विषयास्तत्र ते तत: । न नाकेऽपि यतस्तत्र नाकिपूज्यसमुद्भव: ॥43॥
अकृत्रिमाणि निर्जेतुं विमानानि स्वकौशलात् । सुरै: कृतगृहाण्यत्र चेत्कान्या तेषु वर्णना ॥44॥ देवों ने अपने कौशलसे जो घर वहां बनाये थे वे अकृत्रिम विमानोंको जीतनेके लिए ही बनाये
बभूवास्या: पति: पंक्ते: स्वर्गस्येवामरेश्वर: । भरताख्य: पुरोस्सूनुरिक्ष्वाकुकुललवर्धन: ॥45॥ जिस प्रकार स्वर्ग की पंक्तिका स्वामी इन्द्र होता है उसी प्रकार उस नगरी का स्वामी भरत था
अकम्पनाद्या भूपाला नमिमुख्याश्च खेचरा: । मागधाद्याश्च देवेशास्त्यक्तमाना: समुत्सुका: ॥46॥
यस्याज्ञां मालतीमालामिव स्वानम्रमौलय: । भूषाधिकेयमस्माकमिति सन्धारयन्ति ते ॥47॥
सत्कर्मभावितैर्भावै: क्षायोपशमिकैश्च स: । भव्यभावविशेषाच्च श्रेष्ठकाष्ठामधिष्ठित: ॥48॥
आदितीर्थकृतो ज्येष्ठपुत्रो राजसु षोडश: । ज्यायांश्चक्री मुहूर्तेन मुक्तोऽयं कैस्तुलां व्रजेत् ॥49॥
तस्यानन्तमतिर्देवी प्रख्यातिरिव देहिनी । विमुच्य कमलावासं रेजे श्रीरिव चागता ॥50॥
प्रज्ञाविक्रमयोर्लक्ष्मीविशेषो वा पुरूरवा: । मरूद्भूतस्तयोरासीन्मरीचि: सूनुरग्रणी: ॥51॥
स्वपितामहसन्त्यागे स्वयन्च गुरूभक्तित: । राजभि: सह कच्छाद्यै: परित्यक्तपरिग्रह: ॥52॥
चिरं सोढ्वा तप:केल्शं क्षुच्छीतादिपरीषहान् । दीर्घसंसारवासित्वात्पश्चात्सोढुमशन्कुवन् ॥53॥
स्वयं गृहीतुमारब्ध: फलं प्रावरणादिकम् । दृष्ट्वा तं देवता नायं क्रमो नैर्ग्रन्थ्यधारिणाम् ॥54॥
गृहाण वेषमन्यं त्वं यथेष्टमिति चाब्रुवन् । श्रुत्वा तद्वचनं सोऽपि गाढमिथ्यात्वचोदित: ॥55॥
एरिव्राजकदीक्षाया: प्राथम्यं प्रत्यपद्यत । दीर्घाजवंजवानां तत्कर्म दुर्मार्गदेशनम् ॥56॥
तच्छास्त्रचुंचुताप्यस्य स्वयमेव किलाजनि । सतामिवासतां च स्याद्वोध: स्वविषये स्वयम् ॥57॥
श्रुत्वापि तीर्थकृद्वाचं सद्धर्मं नाग्रहीदसौ । पुरूर्यथात्मनैवात्र सर्वसंगविमोचनात् ॥58॥
भुवनत्रयसंक्षोभ कारिसामर्थ्यमाप्तवान् । मदुपज्ञं तथा लोके व्यवस्थाप्य मतान्तरम् ॥59॥
अहंच तन्निमित्तोरूप्रभावात्त्रिदिवप्रभो: । प्रतीक्षां प्राप्तुमिच्छामि तन्मेऽवश्यं भविष्यति ॥60॥
इति मानोदयात्पापी न व्यरंसीच्च दुर्मतात् । तमेव वेषमादाय तस्थिवान् दोषदूषित: ॥61॥
त्रिदण्डधारकोऽप्येष सद्दण्डपरिवर्जित: । प्राप्ता कुराजवद्दण्डान् बहून्रत्नप्रभादिषु ॥62॥
सम्यग्ज्ञानविहीनत्वात्सकमण्डलुरप्यसौ । अशौचवृत्तिरेवासीज्जलै: किं शुद्धिरात्मन: ॥63॥
प्रात: शीतजलस्नानात्कन्दमूलफलाशनात् । परिग्रहपरित्यागात्कुर्वन्प्रख्यातिमात्मन: ॥64॥
महेन्द्रजालकानीतचन्द्रार्काम्भोधिसन्निभम् । तत्त्वाभासमिदं तत्वमिति सन्दृष्टमात्मना ॥65॥
कपिलादिस्वशिष्याणां यथार्थं प्रतिपादयन् । सूनुर्भरतराजस्य धरित्र्यां चिरमभ्रमत् ॥66॥
स जीवितान्ते सम्भूय ब्रह्मकल्पेऽमृताशन: । दशाब्ध्युपमदेवायुरनुभूय सुखं तत: ॥67॥
प्रच्युत्यागत्य साकेते कपिलब्राह्मणप्रभो: । काल्याश्च तनयो जज्ञे जटिलो नाम वेदवित् ॥68॥
परिव्राजकमार्गस्थस्तन्मार्ग सम्प्रकाशयन् । पूर्ववत्सुचिरं मृत्वा सौधर्मेऽभूत्सुर: पुन: ॥69॥
द्विसमुद्रोपमं कालं तत्र भुक्त्वोचितं सुखम् । प्रान्ते तत: समागत्य भरतेऽस्मिन्पुरोत्तमे ॥70॥
स्थूणागाराभिधानेऽभूद्भारद्वाजद्विजस्य स: । तनूज: पुष्पदत्तायां पुष्यमित्राह्नय: पुन: ॥71॥
स्वीकृत्य प्राक्तनं वेषं प्रकृत्यादिप्ररूपितम् । पंचविशतिदुस्तत्वं मूढानां मतिमानयत् ॥72॥
निष्कषायतया बद्ध्वा देवायुरभवत्सुर: । सौधर्मकल्पे तत्सौख्यमेकवार्ध्युपमायुषा ॥73॥
भुक्त्वा तत: समागत्य भरते सूतिकाह्नये । पुरेऽग्निभूतेर्गौतम्यामभूदग्निसह: सुत: ॥74॥
परिव्राजकदीक्षायां नीत्वा कालं सपूर्ववत् । सनत्कुमारकल्पेऽल्पं देवभूयं प्रपन्नवान् ॥75॥
सप्ताब्घ्युपमितायुष्को भुक्त्वा तम्रामरं सुखम् । आयुषोऽन्ते ततश्च्युत्वा विषयेऽस्मिन् पुरेऽभवत् ॥76॥
मन्दिराख्येऽग्निमित्राख्यो गौतमस्य तनूद्भव: । कौशिक्यां दु:श्रुते: पारं गत्वागत्य पुरातनीम् ॥77॥
दीक्षां माहेन्द्रमभ्येत्य ततश्च्युत्वा पुरातने । मन्दिराख्यपुरे शालंकायनस्य सुतोऽभवत् ॥78॥
मन्दिरायां जगत्ख्यातो भारद्वाजसमाह्नय: । त्रिदण्डमण्डितां दीक्षामक्षूणां च समाचरन् ॥79॥
सप्ताब्घ्युपमितायु: सन् कल्पे माहेन्द्रनामनि । भूत्वा ततोऽवतीर्यात्र दुर्मार्गप्रकटीकृते: ॥80॥
फलेनाघोगती: सर्वा: प्रविश्य गुरूदु:खभाक् । त्रसस्थावरवर्गेषु संखयातीतसमाश्चिरम् ॥81॥
परिभ्रम्य परिश्रान्तस्तदन्ते मगधाह्नये । देशे राजगृहे जात: सुतोऽस्मिन्वेदवेदिन: ॥82॥
शाण्डिलाख्यस्य मुख्यस्य पारशर्या स्वसन्ज्ञया । स्थावरो वेदवेदांगपारग: पापभाजनम् ॥83॥
मति: श्रुतं तप: शान्ति: समाधिस्तत्ववीक्षणम् । सर्व सम्यक्त्वशुन्यस्व मरीचेरिव निष्फलम् ॥84॥
परिव्राजकदीक्षायामासक्तिं पुनरादधत् । सप्ताब्ध्युपमितायुष्को माहेन्द्रे समभून्मरूत् ॥85॥
ततोऽवतीर्य देशेऽस्मिन् मगधाख्ये पुरोत्तमे । जातो राजगृहे विश्वभूतिनाममहीपते: ॥86॥
जैन्याश्च तनयो विश्वनन्दी विख्यातपौरूष: । विश्वभूतिमहीभर्तुरनुजातो महोदय: ॥87॥
विशाखभूतिरेतस्य लक्ष्मणायामभूद्विधी: । पुत्रो विशाखनन्दाख्यस्ते सर्वे सुखमास्थिता ॥88॥
अन्येद्यु: शरदभ्रस्य विभ्रंशं वीक्ष्य शुभ्रधी: निर्विण्णो विश्वभूत्याख्य: स्वराज्यमनुजन्मनि ॥89॥
विधाय यौवराज्यंच स्वसूनौ महदग्रणी: । सात्विकैस्त्रिशतै: सार्द्ध राजभिर्जातरूपताम् ॥90॥
श्रीधराख्यगुरो: पार्श्वे समादाय समत्वभाक् । बाह्यमाभ्यन्तरंचोग्रमकरोत्स तपश्चिरम् ॥91॥
अथान्यदा कुमारोऽसौ विश्वनन्दी मनोहरे । निजोद्याने समं स्वाभिर्देवीभि: क्रीडया स्थित: ॥92॥
विशाखनन्दस्तं दृष्ट्वा तदुद्यानं मनोहरम् । स्वीकर्तु मतिमादाय गत्वा स्वपितृसन्निधिम् ॥93॥
मह्यं मनोहरोद्यानं दीयतां भवतान्यथा । कुर्या देशपरित्यागमहमित्यभ्यधादसौ ॥14॥
सत्सु सत्स्वपि भोगेषु विरूद्धविषयप्रिय: । भवेद्भाविभवे भूयो भविष्यद्दु:खभारघृत् ॥95॥
श्रुत्वा तद्वचनं चित्ते निधाय स्नेहनिर्भर: । कियत्तत्ते ददामीति सन्तोष्य तनुजं निजम् ॥96॥
विश्वनन्दिनमाहूय राज्यभारस्त्वयाधुना । गृह्यतामहमाक्रम्य प्रत्यन्तप्रतिभूभृत: ॥97॥
कृत्वा तज्जनितक्षोभप्रशातिं गणितैर्दिनै: । प्रत्येष्यामीमि सोऽवोचच्छूत्वा तत्प्रत्युवाच तम् ॥98॥
पूज्यपाद त्वयात्रैव निश्चिन्तमुपविश्यताम् । गत्वाहमेव तं प्रैषं करोमीति सुतोत्तम: ॥99॥
राज्यमस्यैव मे स्नेहाद् भ्रात्राऽदायीत्यतर्कयन् । वनार्थमतिसन्धित्सुरभूत्तं धिग्दुराशयम् ॥100॥
तत: स्वानुमते तस्मिन् स्वबलेन समं रिपून् । निर्जेतुं विहितोद्योगं गते विक्रमशालिनि ॥101॥
वनं विशाखनन्दाय स्नेहादन्यायकांक्षिणे । विशाखभूतिरूल्लड्.ध्य क्रमं गतमतिर्ददौ ॥102॥
विश्वनन्दी तदाकर्ण्य सद्य: क्रोधाग्निदीपित: । पश्य मामतिसन्धाय प्रत्यन्तनृपतीन्प्रति ॥103॥
प्रहित्य मद्वनं दत्तं पितृव्येनात्मसूनवे । देहीति वचनान्नाहं किं ददामि कियद्वनम् ॥104॥
विदधात्यस्य दुश्चेष्टा मम सौजन्यभंजनम् । इति मत्वा निवृत्यासौ हन्तुं स्ववनहारिणम् ॥105॥
प्रारब्धवान् भयाद्रत्वा स कपित्थमहीरूहम् । कृत्वावृर्ति स्थित: स्फीतं कुमारोऽपि महीरूहम् ॥106॥
समुन्मूल्य निहन्तुं तं तेनाधावत्ततोऽप्यसौ । अपसृत्य शिलास्तम्भस्यान्तर्धानं ययौ पुन: ॥107॥
बली तलप्रहारेण स्तम्भंचाहत्य स द्रुतम् । पलायमानमालोक्य तस्मादप्यपकारिणम् ॥108॥
मा भैषीरिति सौहार्दकारूण्याभ्यां प्रचोदित: । समाहूय वनं तस्मै दत्वा संसारदु:स्थितिम् ॥109॥
भावयित्वा ययौ दीक्षां सम्भूतगुरूसन्निधौ । अपकारोऽपि नीचानामुपकार: सतां भवेत् ॥110॥
तदा विशाखभूतिश्च संजातानुशयो मया । कृतं पापमिति प्रायश्चित्तं वा प्राप संयमम् ॥111॥
कुर्वन् घोरं तपो विश्वनन्दी देशान्परिभ्रमन् । कृशीभूत: क्रमात्प्राप्य मथुरां स्वतनुस्थिते: ॥112॥
प्रविष्टवान् विनष्टात्मबलश्चलपदस्थिति: । तदा व्यसनसंसर्गाद् भ्रष्टराज्यो महीपते: ॥113॥
कस्यचिद्दूतभावेन मथुरां पुरमागत: । विशाखनन्दो वेश्याया: प्रासादतलमाश्रित: ॥114॥
नवप्रसूतसक्रुद्धगोधेनुप्रतिपातनात् । प्रस्खलन्तं समीक्ष्यैनं मुनिं कोपपरायण: ॥115॥
तवाद्य तच्छिलास्तम्भंभगदृष्ट: पराक्रम: । क्क यात इति दुश्चित्त: परिहासं व्यधादसौ ॥116॥
🏠
पर्व - 75
अथान्येद्यु: समासीनं गणेन्द्रं विपुलाचले । श्रेणिक: प्रीणिताशेषभव्यं सुव्यक्ततेजसम् ॥1॥
गणिन्याश्चन्दनार्याया: सम्बन्धमिह जन्मन: । अन्वयुड्क्.क्त गणी चैवमाहाहितमहर्द्धिक: ॥2॥
सिन्ध्वाख्यविषये भूभृद्वैशाली नगरेऽभवत् । चेटकाख्योऽतिविख्यातो विनीत: परमार्हत: ॥3॥
तस्य देवी सुभद्राख्या तयो: पुत्रा दशाभवन् । धनाख्यौ दत्तभद्रान्तावुपेन्द्रोऽन्य: सुदत्तवाक् ॥4॥
सिंहभद्र: सुकम्भोजोऽकम्पन: सपतंगक: । प्रभंजन: प्रभासश्च धर्मा इव सुनिर्मला: ॥5॥
सप्तर्धयो वा पुत्र्यश्च ज्यायसी प्रियकारिणी । ततो मृगावती पश्चात्सुप्रभा च प्रभावती ॥6॥
चेलिनी पंचमी ज्येष्ठा षष्ठी चान्त्या च चन्दना । विदेहविषये कुण्डसंज्ञायां पुरि भूपति: ॥7॥
नाथो नाथकुलस्यैक: सिद्धार्थाख्यस्त्रिसिद्धिभाक् । तस्य पुण्यानुभावेन प्रियासीत्प्रियकारिणी ॥8॥
विषये वत्सवासाख्ये कौशाम्बीनगराधिप: । सोमवंशे शतानीको देव्यस्यासीन्मृगावती ॥9॥
दशार्णविषये राजा हेमकच्छपुराधिप: । सूर्यवंशाम्बरे राजसमो दशरथोऽभवत् ॥10॥
तस्याभूत्सुप्रभा देवी भास्वतो वा प्रभामला । कच्छाख्यविषये रोरूकाख्यायां पुरि भूपति: ॥11॥
महानुदयनस्तस्य प्रेमदाऽभूत्प्रभावती । प्राप शीलवतीख्यातिं सा सम्यक्छीलधारणात् ॥12॥
गान्धारविषये ख्यातो महीपालो महीपुरे । याचित्वा सत्यको ज्येष्ठामलब्ध्वा क्रुद्धयान् विधी: ॥13॥
युद्ध्वा रगांगणे प्राप्तमानभंग: स सत्रप: । सद्यो दमवरं प्राप्य तत: संयममग्रहीत् ॥14॥
स चेटकमहाराज: स्नेहाद्र्पमलीलिखत् । पट्टके सप्तपुत्रीणां विशुद्धं शश्वदीक्षितुम् ॥15॥
निरीक्ष्य तत्र चेलिन्या रूपस्य पतितं मनाक् । बिन्दुमूरौ विधात्रेऽस्य नृपे कुपितवत्यसौ ॥16॥
पूज्यद्विस्त्रिर्मया बिन्दु: प्रमृष्ट: संस्तथापि स: । तथैव पतितस्तस्मिन्भाव्यमंकेन तादृशा ॥17॥
इति मत्वानुमानेन पुनर्न तममार्जिषम् । इत्यब्रवीत्तदुक्तेन भूपति: प्रीतिमीयिवान् ॥18॥
स देवार्चनवेलायां जिनबिम्बोपकण्ठके । तत्पट्टकं प्रसार्येज्यां निर्वर्तयति सर्वदा ॥19॥
कदाचिच्चेटको गत्वा ससैन्यो मागधं पुरम् । राजा राजगृहं बाह्योद्याने स्नानपुरस्सरम् ॥20॥
जिनप्रतिनिधीन्पूर्वमभ्यर्च्याभ्यर्णपट्टकम् । आनर्च तद्विलोक्य त्वमप्राक्षी: पार्श्ववर्तिन: ॥21॥
किमेतदिति तेऽवोचन् राज्ञ: सप्तापि पुत्रिका: । लिखितास्तासु कल्याणं चतस्त्र: समवापिता: ॥22॥
तिस्त्रो नाद्यापि दीयन्ते तत्र द्वे प्राप्तयौवने । कनिष्ठा बालिका राजन्निति तद्वचनश्रुते: ॥23॥
भवान् रक्त तयोश्चित्तं मन्त्रिण: समजिज्ञपत् । तेऽपि तत्कार्यमभ्येत्य कुमारमवदन्निति ॥24॥
चेटकाख्यमहीशस्य सुतयोरनुरक्तवान् । पिता ते याच्यमानोऽसौ न दत्ते वयसश्च्युते: ॥25॥
इदंचावश्यकर्तव्यं कोऽप्युपायोऽत्र कथ्यताम् । सोऽपि मन्त्रिवच: श्रुत्वा तत्कार्योपायपण्डित: ॥26॥
जोषमाध्वमहं कुर्वे तत्समर्थनमित्यमून् । सन्तोष्य मन्त्रिण: सोऽपि तत्स्वरूपं विलासवत् ॥27॥
पट्टके सम्यगालिख्य वस्त्रेणाच्छाद्य यत्नत: । तत्पार्श्ववर्तिन: सर्वान् स्वीकृत्योत्कोचदानत: ॥28॥
स्वयंच वोद्रको नाम वणिग्भूत्वा तदालयम् । प्राविक्षत्पट्टके रूपं कन्ये ते तत्करस्थिते ॥29॥
विलोक्य भवति प्रीत्या सौरंगादतिसाहसात् । कुमारविहितान्मार्गाद्रत्वा किंचित्ततोऽन्तरे ॥30॥
चेलिनी कुटिला ज्येष्ठा मुक्त्वा त्वं गच्छ विस्मृता । न्यानयाभरणानीति स्वयं तेन सहागमत् ॥31॥
साप्यात्ताभरणाऽऽगत्य तामदृष्ट्वातिसन्धिता । तयाहमिति शोकार्ता निजमार्मी यशस्वतीम् ॥32॥
दृष्ट्वा क्षान्तिं समीपेऽस्या: श्रुत्वा धर्म जिनोदितम् । निर्विद्य संसृतेर्दीक्षां प्राप पापविनाशिनीम् ॥33॥
भवतापि महाप्रीत्या चेलिनीयं यथाविधि । गृहीतानुमहादेवी पट्टबन्धात्तुतोष सा ॥34॥
चन्दना च यशस्वत्या गणिन्या: सन्निधौ स्वयम् । सम्यक्त्वं श्रावकाणांच व्रतान्यादत्त सुव्रता ॥35॥
तत: खगाद्रयवाक्श्रेणीसुवर्णाभपुरेश्वर: । मनोवेग: खगाधीश: स मनोवेगया समम् ॥36॥
स्वच्छन्दं चिरमाक्रीडय प्रत्यायाँश्चन्दनां वने । अशोकाख्ये समाक्रीडमानां परिजनै: सह ॥37॥
विलोक्यानंगनिर्मुक्तशरजर्जरितांगक: । प्रापय्य स्वप्रियां गेहं रूपिणी विद्यया स्वयम् ॥38॥
विकृत्य रूपं स्वं तत्र निधाय हरिविष्टरे । अशोकवनमभ्येत्य गृहीत्वा चन्दनां द्रुतम् ॥39॥
प्रत्यागतो मनोवेगाप्येतं विहितवंचनम् । ज्ञात्वा कोपारूणीभूतविभीषणविलोचना ॥40॥
तां विद्यादेवतां वामपादेनाक्रम्य सावधीत् । कृताट्टहासा सा विद्याप्यगात्सिंसहासनात्तदा ॥41॥
चेष्टामालोकिनीविद्यातो ज्ञात्वा स्वपतेरनु । गच्छन्त्यर्धपथे दृष्ट्वा विसृजेमां स्वजीवितम् ॥42॥
यदि वांछेरिति क्रोधात्तं निर्भर्त्सयति स्म सा । स भूतरमणेऽरण्ये तां स्वदारातिभीलुक: ॥43॥
ऐरावतीसरिद्दक्षिणान्ते साधितविद्यया । पर्णलध्व्या तदैवान्त: कृतशोको विसृष्टवान् ॥44॥
सापि पंचनमस्कारपरिवर्तनतत्परा । निनाय शर्वरीं कृच्छूाद्भानुमत्युदिते स्वयम् ॥45॥
तत्र सन्निहितो दैवात्कालकाख्यो वनेचर: । तस्मै निजपरार्ध्योरूस्फुरिताभरणान्यदात् ॥46॥
धर्मंच कथयामास तेन तुष्टो वनेचर: । भीमकूटाचलोपान्तनिवासी सिंहसंज्ञक: ॥47॥
भयंकराख्यपल्लीशस्तस्य तां स समर्पयत् । सोऽपि पापो विलोक्यैनां कामव्यामोहिताशय: ॥48॥
निग्रहेण ग्रह: क्रूरो वात्मसात्कर्तुमुद्यत: । तद्वीक्ष्य पुत्र मैवं त्वं कृथा: प्रत्यक्षदेवता ॥49॥
यदि कुप्येदियं तापशापदु:खप्रदायिनी । इति मात्रुक्तिभीत्या तां दुर्जनोऽपि व्यसर्जयत् ॥50॥
तत्रैव चन्दना तस्य मात्रा सम्यग्विघानत: । पोष्यमाणा विनिश्चिन्ता कन्चित्कालमजीगमत् ॥51॥
अथ वत्साह्णये देशे कौशाम्ब्यां प्रवरे पुरे । श्रेष्ठी वृषभसेनाख्यस्तस्य कर्मकरोऽभवत् ॥52॥
मित्रवीरो वनेशस्य मित्रं तस्य वनाधिप: । चन्दनामर्पयामास सोऽपि भक्तया वणिक्पते: ॥53॥
धनेन महता सार्ध नीत्वा कन्यां न्यवेदयत् । कदाचिच्छेूष्टिन: पातुं जलमुद्धत्य यत्नत: ॥54॥
आवर्जयन्त्या: केशानां कलापं मुक्तबन्धनम् । लम्बमानं करेणादात्सजलार्द्र धरातले ॥55॥
चन्दनायास्तदालोक्य तद्रूपादतिशंकिनी । श्रेष्ठिनी तस्य भद्राख्या स्वभर्तुरनया समम् ॥56॥
सम्पर्क मनसा मत्वा कोपात्प्रफुरिताधरा । निक्षिप्तश्रृंखलां कन्यां दुराहारेण दुर्जना ॥57॥
प्रतर्जनादिभिश्चैनां निरन्तरमबाधत । सापि मत्कृतपापस्य विपाकोऽयं वराकिका ॥58॥
श्रेष्ठिनी किं करोतीति कुर्वन्त्यात्मविगर्हणम् । स्वाग्रजाया मृगावत्या अप्येतन्न न्यवेदयत् ॥59॥
अन्यदा नगरे तस्मिन्नेव वीरस्तनुस्थिते: । प्रविष्टवान्निरीक्ष्यासौ तं भक्तया मुक्तश्रृंखला ॥60॥
सर्वाभरणदृश्यांगी तद्भारेणेव भूतलम् । शिरसा स्पृश्य नत्वोंच्चै: प्रतिगृह्य यथाविधि ॥61॥
भोजयित्वाप तद्दानान्मानिनी मानितामरै: । वसुधारां मरूत्पुष्पवृष्टिं सुरभिमारूतम् ॥62॥
सुरदुन्दुभिनिर्घोषं दानस्तवनघोषणम् । तदैवोत्कृष्टपुण्यानि फलन्ति विपुलं फलम् ॥63॥
अग्रजास्यास्तदागत्य पुत्रेणामा मृगावती । तद्ज्ञात्वोदयनाख्येन स्नेहादालिंगय चन्द्रनाम् ॥64॥
पृष्ट्वा तां प्राक्तनं वृत्तं श्रुत्वा शोकाकुला भृशम् । निजगेहं समानीय सुस्थिता भयविह्वलौ ॥65॥
स्वपादशरणौ भद्रां श्रेष्ठिनंच दयावती । चन्दनापादपंकेजयुगलं तावनीननमत् ॥66॥
क्षमा मूर्तिमतीवेयं कृत्वाह्लादं तयोस्तत: । तद्वार्ताकर्णनोदीर्णरागादागतबन्धुभि: ॥67॥
प्रातितैतत्पुरं वीरं वन्दितुं निजबान्धवान् । विसृज्य जातनिर्वेगा गृहीत्वात्रैव संयमम् ॥68॥
तपोवगममाहात्म्यादध्यस्थाद्रणिनीपदम् । इतीहजन्मसम्बन्धं श्रुत्वा तत्रानुचेटक: ॥69॥
प्राक्किं कृत्वागता चन्दनात्रैतत्स च पृष्टवान् । सोऽप्यवादीदिहैवास्ति मगधे नगरी पृथु: ॥70॥
वत्सेति पालयत्येनां महीपाले प्रसेनिके । विंप्रस्तत्राग्निमित्राख्यस्तस्यैका ब्राह्मणी प्रिया ॥71॥
परा वैश्यसुता सूनुर्बाह्मण्यां शिवभूतिवाक् । दुहिता चित्रसेनाख्या विट्सुतायामजायत ॥72॥
शिवभूतेरभूद्भार्या सोमिला सोमशर्मण: । सुता तुग्देवशर्माख्यश्चित्रसेनास्य च प्रिया: ॥73॥
अग्निभूतौ गतप्राणे तनूजस्तत्पदेऽभवत् । विधवा चित्रसेनापि पोप्यत्वं सह सूनुभि: ॥74॥
शिवभूते: समापन्ना दैवस्य कुटिला गति: । सोमिला चित्रसेनायास्तत्सुतानां च पोषणम् ॥75॥
पापिष्ठाऽसहमानाऽसौ तर्जिता शिवभूतिना । क्रुध्वा जीवत्यमा चित्रसेनयायं स चेत्यसत् ॥76॥
अकरोद्दूषणं घिग्घिड्.नाकार्य नाम योषिताम् । चित्रसेनापि मामेषा रूषैवादूषयन्मृपा ॥77॥
निग्रहीप्यामि मृत्वैनां निदानमकरोदिति । अन्यदामन्त्रणे पूर्व शिवगुप्तमुनीश्वरम् ॥78॥सोमिलाभोजयत्तस्यै शिवभूति: स्म कुष्यति । तत्तपोधनमाहात्म्यकथनेन तया पति: ॥। 79॥
प्रसादितस्तत: साधु तद्दानं सोऽन्वमन्यत । स कालान्तरमाश्रित्य लोकान्तरगत: सुत: ॥80॥
जातोत्र विषये वंगे कान्ते कान्तपुरेशिन: । सुवर्णवर्मणो विद्युल्लेखायाश्च महाबल: ॥81॥
देशेऽगेंऽत्रैव चम्पायां श्रीषेणाख्यमहीपते: । सुवर्णवर्मसोदर्या धनश्री: प्रेमदायिनी ॥82॥
सोमिलाभूत्तयो: पुत्री कनकादिलताभिधा । महाबलकुमाराय दातव्येयमिति स्वयम् ॥83॥
जन्मन्येवाभ्युपेतैषा मात्रा पित्रा च सम्मदात् । वर्धमान: पुरे तस्मिन्नेव बालिकया समम् ॥84॥
अभ्यर्णे यौवने यावद्विवाहसमयो भवेत् । तावत्पृथग्वसेदस्मादिति मातुलवाक्यत: ॥85॥
बहि: स्थित: कुमारोऽसौ कन्यायामतिसक्तवान् । तयोर्योगोऽभवत्कामावस्थामहसमानयो: ॥86॥
तत: कान्तपुरं लज्जाप्रेरितौ तौ गतौ तदा । दृष्ट्वा तत्र कुमारस्य मात्रा पित्रा च शोकत: ॥87॥
तयोर्विरूद्धचारित्वादप्रियावावयोरपि । यातं देशान्तरं नात्र स्थातव्यमिति जल्पितौ ॥88॥
तदैवाकुरूतां तौ च प्रत्यन्तनगरे स्थितिम् । विहरन्तावथान्येद्युरूद्याने मुनिपुंगवम् ॥89॥
मुनिगुप्ताभिघं वीक्ष्य भक्तया भिक्षागवेषिणम् । प्रत्युत्थाय परीत्याभिवन्द्याभ्यर्च्य यथाविधि ॥90॥
स्वोपयोगनिमित्तानि तानि खाद्यानि मोदत: । स्वादूनि लड्डुकादीनि दत्वा तस्मै तपोभृते ॥91॥
नवभेदं जिनोद्दिष्ठमदृष्टं स्वेष्टमापतु: । वनेऽन्यदा कुमारोऽसौ मधुमासे विषाहिना ॥92॥
दष्टो नष्टासुको जातो दृष्ट्वा तं देहमात्रकम् । तस्यासिधेनुना सापि विधाय स्वां गतासुकाम् ॥93॥
अगात्तदनुमार्गेण तमन्वेष्टुमिव प्रिया । परां काष्ठामवाप्तस्य भवेद्धि गतिरीदृशी ॥94॥
अस्मिन्नेवोज्जयिन्याख्यमवन्तिविषये पुरम् । प्रजापतिमहाराज: पालकस्तस्य हेलया ॥95॥
तत्रैव धनदेवाख्यश्रेष्ठी तद्रेहिनी सती । धनमित्रा तयो: सूनुर्नागदत्तो महाबल: ॥96॥
तनूजा चानुजास्यासीदर्थस्वामिन्यभिख्यया । पलाशद्वीपमध्यस्थपलाशनगरेशिन: ॥97॥
महाबलमहीशस्य कनकादिलताऽभवत् । कांचनादिलतायाश्च ख्याता पद्मलता सुता ॥98॥
उपयम्यापरां श्रेष्ठी श्रेष्ठिनीं विससर्ज ताम् । सापि देशान्तरं गत्वा ससुता जातसंविदा ॥99॥
शीलदत्तगुरो: पार्श्वे गृहीतश्रावकव्रता । सूनुमप्यर्पयामास शास्त्राभ्यासनिमित्तत: ॥100॥
सोऽपि कालान्तरे बुद्धिनौनिस्तीर्णश्रुताम्बुधि: । सत्कविश्च स्वयम्भूत्वा शास्त्रव्याख्याप्तसद्यशा: ॥101॥
नानालंकाररम्योक्तिसुप्रसन्नसुभाषितै: । विशिष्टजनचेतस्सु प्रह्लादमुदपादयत् ॥102॥
तत्रैवारक्षिपुत्रेण दृढरक्षेण संगतिम् । कृत्वा तत्पुरशिष्टानां शास्त्रव्याख्यानकर्मणा ॥103॥
उपाध्यायत्वमध्यास्य तत्राप्तवसुना निजाम् । जननीं स्वस्वसारंच स्वयंच परिपोषयन् ॥104॥
स्वमातुलानीपुत्राय नन्दिग्रामनिवासिने । कुलवाणिजनान्ने स्वामनुजामदितादरात् ॥105॥
स कदाचिदुपश्लोकपूर्वकं क्षितिनायकम् । विलोक्य तत्प्रसादाप्तसम्मानधनसम्मद: ॥106॥
कृतमातृपरिप्रश्न: पितुरागत्य सन्निधिम् । प्रणमत्तत्पदाम्भोजं धनदेव: समीक्ष्य तम् ॥107॥
जीव पुत्रात्र तिष्ठेति प्रियै: प्रीणयति स्म स: । सोऽपि रत्नादितद्वस्तुभागं देहीत्ययाचत ॥108॥
पिता तु पुत्र मद्वस्तु पलाशद्वीपमध्यगे । स्थितं पुरे पलाशाख्ये तत्वयानीय गृह्यताम् ॥109॥
इत्याख्यन्नकुलेनामा भ्रात्रा दायादकेन स: । सहदेवेन चाप्तेष्टसिद्धिर्यदि भवेदहम् ॥110॥
प्रत्यागत्य करिष्यामि पूजां जैनेश्वरीमिति । आशास्यानु जिनान्नुत्वा कृतात्मगुरूवन्दन: ॥111॥
आरूह्य नावमम्भोधिमवगाह्य व्रजन् द्रुतम् । पलाशपुरमासाद्य तत्र स्थापितपोतक: ॥112॥
पुरं विनरसंचारं किमेतदिति विस्मयात् । तत: प्रसारितायामिरज्जुभिस्तदवाप्तवान् ॥113॥
प्रविश्य तत्पुरं तत्र कन्यामेकाकिनीं स्थिताम् । एकत्रालोक्य तामाह वदैतन्नगरं कुत: ॥114॥
जातमीदृक्स्वयं का वेत्यादरात्साब्रवीदलम् । प्रागेतन्न्गरेशस्य दायाद: कोऽपि कोपत: ॥115॥
सिद्धराक्षसविद्यत्वात्सम्प्राप्तो राक्षसाभिधाम् । पुरं पुराधिनाथंच स निर्मलं व्यनीनशत् ॥116॥
तद्वंशजेन केनापि समन्त्रं साधितासिना । कृतरक्षं तदैवैतत्स्थापितं नगरं पुन: ॥117॥
पतिर्महाबलोऽद्यास्य कांचनादिलता प्रिया । तस्यै तयोरहं पद्मलताऽभूवं सुताख्यया ॥118॥
कदाचिन्मत्पिता मन्त्रसाधितं खड्गमात्मन: । प्रमादान्न करोति स्म करे तद्रन्ध्रवीक्षणात् ॥119॥
राक्षसेन हतस्तस्मात्पुरं शून्यमभूदिदम् । मत्सुता निर्विशेषेति मां मत्वामारयन् गत: ॥120॥
आगन्तासौ पुनर्नेतुमिति तद्चनश्रुते: । वैश्य: खड्गं तमादाय गोपुरान्तर्हित: खगम् ॥121॥
आयान्तमवधीत्सोपि पठन् पंचनमस्कृतिम् । न्यपतन्मेदिनीभागे समाहितमतिस्तदा ॥122॥
श्रुत्वा श्रीनागदत्तोऽपि नमस्कारपदावलीम् । मिथ्या मे दुष्कृतं सर्वमित्यपास्यायुधं निजम् ॥123॥
कुतो धर्मस्तवेत्येतमब्रवीत्संव्रणं खगम् । सोऽपि श्रावकपुत्रोऽहं क्रोधादेतत्कृतं मया ॥124॥
क्रोधान्मित्रं भवेच्छत्रु: क्रोधाद्धर्मो विनश्यति । क्रोधाद्राज्यपिभ्रंश: क्रोधान्मोमुच्यतेऽमुभि: ॥125॥
क्रोधान्मातापि सक्रोधा भवेत्क्रोधादधोगति: । तत: श्रेयोर्थिनां त्याज्य: स सदेति जिनोदितम् ॥126॥
तजानन्नपि पापेन कोपेनाहं वशीकृत: । प्राप्तं तत्फलमद्यैव परलोके किमुच्यते ॥127॥
इत्यात्मानं विनिन्द्यैनं कुतस्तत्वं व्रजे: क वा । इत्यवोचन्नभोगस्तं वैश्योऽप्येवमुदाहरत् ॥128॥
प्राघूर्णिकोऽहं दृष्ट्वेमां कन्यकां शोकविह्वलाम् । त्वद्भयाद्भव्य पास्यामीत्याविष्कृतपराक्रम: ॥129॥
अबुध्वा धर्मभक्तं तत् कृतवान्कार्यमीदृशम् । त्यक्तं सद्धर्मवात्सल्यं सारं जैनेन्द्रशासने ॥130॥
जैनशासनमर्यादामतिलंघयतो मम । अपराधं क्षमस्वेति तदुक्तमवगम्य स: ॥131॥
किं कृतं भवता पूर्व मदुपार्जितकर्मण: । परिपाकविशेषोऽयमिति पंचनमस्क्रियाम् ॥132॥
श्रीनागदत्तसम्प्रोक्तां भावयन्नाकमापिवान् । तत: पद्मलतां कन्यां धनंच पितृसंचितम् ॥133॥
समाकर्षणरज्वावतार्य भ्रातुर्निजस्य तौ । नकुल: सहदेवश्च रज्जुमाकर्षणोचिताम् ॥134॥
अदत्वा पापबुद्धयास्मान्मड्.क्षु स्वपुरमीयतु: । छिद्रमासाद्य तन्नास्ति दायादा यत्र कुर्वते ॥135॥
तौ दृष्ट्वा नागदत्तोऽपि युवाभ्यां सह यातवान् । किन्नायादिति भूपेन साशंकेन् जनेन च ॥136॥
पृष्टौ सहैव गत्वासौ पृथक्क्वापि गतस्तत: । नाविद्वेति व्यधत्तां तावनुजावप्यपह्नवम् ॥137॥
श्रीनागदत्तमातापि व्याकुलीकृतचेतसा । शीलदत्तं गुरूं प्राप्य समपृच्छत्तुज: कथाम् ॥138॥
सोऽपि तत्सम्भ्रतं दृष्ट्वा कारूण्याहितमानस: । निर्विघ्नं ते तनूजो द्राड्. मा भैषीरागमिष्यति ॥139॥
इत्याश्वासं मुनिस्तस्या व्यधात्संज्ञानलोचन: । इत: श्रीनागदत्तोऽपि विलोक्य जिनमन्दिरम् ॥140॥
किन्चित्प्रदक्षिणीकृत्य निषीदाम्यहमित्यद: । प्रविश्य विहितस्तोत्र: सचिन्तस्तत्र संस्थित: ॥141॥
तदा विद्याधर: कश्चित्तं दृष्ट्वा ज्ञातवृत्तक: । जैन: सवित्तं नीत्वास्माद् द्वीपमध्यान्मनोहरे ॥142॥
वनेऽवतार्य सुस्थाप्य समापृच्छयादरान्वित: । यथेष्टमगमत्सा हि धर्मवत्सलता सताम् ॥143॥
तत्समीपेऽनुजा ग्रामे वसन्त्यस्यैत्य सादरम् । प्रत्यग्रहीद्धनं तत्र सोऽपि निक्षिप्य सुस्थित: ॥144॥
अथोपगम्य तं स्नेहात् स्वानुजादिसनाभय: । कुमाराभिनवां कन्यां नकुलस्याजिघृक्षुणा ॥145॥
श्रेष्ठिना वयमाहूता निस्सत्वाद्रिक्तपाणय: । कथं तत्र व्रजिष्याम इत्यत्याकुलचेतस: ॥146॥
अद्य सर्वेऽपि जाता: स्म इति ते न्यगदन्नसौ । तच्छूत्वा साररत्नानि निजरत्नकदम्बकात् ॥147॥
तेभ्यो नाना मुदा दत्वा यूयमागमनं मम । ददध्वं सन्निवेद्यैतां कन्यायै रत्नमुद्रिकाम् ॥148॥
इत्युक्त्वा स्वयमित्वानु शीलदत्तगुरूं मिथ: । वन्दित्वा रक्षिसूनुंच दृष्ट्वा सन्मित्रमात्मन: ॥149॥
आमूलात्कार्यमाख्याय सह तेन ततो गत: । साररत्नैर्महीपालं सानुरागं व्यलोकत ॥150॥
दृष्ट्वा भवानहो नागदत्त कस्मात्समागत: । क्वा वा गतं त्वयेत्येष तुष्ट: पृष्टो महीभुजा ॥151॥
भागयाचनयात्रादि सर्वमामूलतोऽब्रवीत् । तदाकर्ण्य नृप: क्रुध्वा प्रवृत्त: श्रेष्ठिनिग्रहे ॥152॥
न युक्तमिति निर्बन्धान्नागदत्तेन वारित: । दत्वा श्रेष्ठिपदं तस्मै सारवित्तसमन्वितम् ॥153॥
विवाहविधिना पद्मलतामपि समर्पयत् । अथात्मसंसदि व्यक्तमवनीन्द्रोऽभ्यधादिदम् ॥154॥
पश्य पुण्यस्य माहात्म्यं राक्षसाद्यन्तरायत: । व्यपेत्यायं महारत्नान्यात्मीकृत्यागत: सुखम् ॥155॥
पुण्याज्जलायते वह्निर्विषमप्यमृतायते । मित्रायन्ते द्विष: पुण्यात्पुण्याच्छाम्यन्ति भीतय: ॥156॥
दुर्विधा: सधना: पुण्यात् पुण्यात्स्वर्गश्च लभ्यते । तस्मात्पुण्यं विचिन्वन्तु हतापत्सम्पदेषिण: ॥157॥
जिनोक्तधर्मशास्त्रानुयानेन विहितक्रिया: । इति सभ्याश्च तद्वाक्यं बहवश्चेतसि व्यधु: ॥158॥
अथ श्रीनागदत्तोऽपि संजातानुशयं तदा । क्षमस्व मे कुमारेति प्रणमन्तं सपुत्रकम् ॥159॥
सभार्यं श्रेष्ठिनं मैवमित्युत्थाप्य प्रियोक्तिभि: । सन्तोष्य जिनपूजांच प्राक्प्रोक्तामकरोत्कृती ॥160॥
एवं श्रावकसद्धर्ममधिगम्य परस्परम् । जातसौहार्दचित्तानां दानपूजादिकर्मभि: ॥161॥
काले गच्छति जीवान्ते सन्न्यासविधिमाश्रित: । श्रीनागदत्त: सौधर्मकल्पेऽनल्पामरोऽभवत् ॥162॥
तत्र निर्विष्टदिव्योरूभोगश्च्युत्वा ततोऽजनि । द्वीपेऽस्मिन् भारते खेचराचले नगरे वरे ॥163॥
शिवंकरे तदीशस्य विद्याधरधरेशिन: । सुत: पवनवेगस्य सुवेगायां सुखावह: ॥164॥
मनोवेगोऽन्यजन्मोद्यत्स्नेहेन विवशीकृत: । अनैषीच्चन्दनामेनामतिस्नेहोऽपथं नयेत् ॥165॥
स एषोऽभ्यर्णभव्यत्वादमुष्मिन्नेव जन्मनि । जिनाकृतिं समादाय सम्प्राप्स्यत्यग्निमं पदम् ॥166॥
तत: श्रीनागदत्तस्य नाकलोकात्कनीयसी । इहागत्याभवन्नाम्ना मनोवेगा महाद्युति: ॥167॥
पलाशनगरे नागदत्तहस्तमृत: खग: । सुरलोकादभू: सोमवंशे त्वं चेटको नृप: ॥168॥
माता श्रीनागदत्तस्य धनमित्रा दिवंगता । ततश्च्युत्वा तवैवासीत्सुभद्रेयं मन:प्रिया ॥169॥
यासौ पद्मलता सापि कृतोपवसना दिवम् । गत्वागत्य जनिष्टेयं चन्दना नन्दना तव ॥170॥
नकुल: संसृतौ भ्रान्त्वा सिंहाख्योऽभूद्वनेचर: । प्राग्जन्मस्नेहवैराभ्यामबाधिष्ट स चन्दनाम् ॥171॥
सहदेवोऽपि सम्भ्रम्य संसारे सुचिरं पुन: । कौशाम्ब्यां वैश्यतुग्भूत्वा मित्रवीराह्णय: सुधी: ॥172॥
भृत्यो वृषभसेनस्य चन्दनां स समर्पयत् । पिता श्रीनागदत्तस्य धनदेवो वणिग्वर: ॥173॥
स्वर्लोकं शान्तचित्तेन गत्वैत्य श्रेष्ठितांगत: । श्रीमान्वृषभसेनाख्य: कौशाम्ब्यां कलितो गुणै: ॥174॥
सोमिलायां कृतद्वेषा चित्रसेना चतुर्गतिम् । परिभ्रम्य चिरं शान्त्वा मनाक् तत्रैव विट्सुता ॥175॥
भूत्वा वृषभसेनस्य पत्नी भद्राभिधाऽभवत् । निदानकृतवैरेण न्यगृह्णांचन्दनामसौ ॥176॥
चन्दनैषाच्युतात्कल्पात्प्रत्यागत्य शुभोदयात् । द्वितीयवेदं सम्प्राप्य पारमात्म्यमवाप्स्यति ॥177॥
एवं बन्धविधानोक्तमिथ्याभावादिपंचकात् । सन्चितै: कर्मभि: प्राप्य द्रव्यादिपरिवर्तनम् ॥178॥
संसारे पन्चधा प्रोक्तं दु:खान्मुग्राण्यनारतम् । प्राप्नुवन्त: कृतान्तास्ये हन्त सीदन्ति जन्तव: ॥179॥
त एव लब्धकालादिसाधना मुक्तिसाधनम् । सम्यक्त्वज्ञानचारित्रतपोरूपमनुत्तरम् ॥180॥
अभ्येत्य पुण्यकर्माण: परमस्थानसप्तके । सम्प्राप्तपरमैश्वर्या भवन्ति सुखभागिन: ॥181॥
इति तद्रौतमाधीशश्रीमद्ध्वनिरसायनात् । सभा सर्वा बभूवासौ तदैवेवाजरामरा ॥182॥
अन्यदाऽसौ महाराज: श्रेणिकाख्य: परिभ्रमन् । प्रीत्या गन्धकुटीबाह्यभास्वद्वनचतुष्टये ॥183॥
स्थितं पिण्डीद्रुमस्याधो जीवन्धरमुनीश्वरम् । ध्यानारूढं विलोक्यैतद्रूपादिषु विषक्तधी: ॥184॥
सकौतुक: समभ्येत्य सुधर्मगणनायकम् । भाक्तिकोऽभ्यर्च्य वन्दित्वा यथास्थानं निविश्य तम् ॥185॥
प्रांजलिर्भगवन्नेष यतीन्द्र: सर्वकर्मणा । भुक्तो वाद्यैव को वेति पप्रच्छ प्रश्रयाश्रय: ॥186॥
अवबोधचतुष्कात्मा सोप्येवं समभाषत । खेदो न हि सतां वृत्तेर्वक्तु: श्रोतुश्च चेतस: ॥187॥
श्रृणु श्रेणिक जम्बूभूजविभूषितभूतले । अत्र हेमांगदे देशे राजन् राजपुराधिप: ॥188॥
राजेव रन्जिताशेष: सत्यन्धरमहीपति: । विजयास्य महादेवी विजयश्रीरिवापरा ॥189॥
सर्वकर्मचणोऽमात्य: काष्ठांगारिकनामभृत् । हन्ता दैवोपघातानां रूद्रदत्त: पुरोहित: ॥190॥
कदाचिद्विजया देवी सुप्ता गर्भगृहे सुखम् । मुकुटं भूभुजा हेमघण्टाष्टकविराजितम् ॥191॥
दत्तं स्वस्यै श्रिताशोकतरोर्मूलंच केनचित् । छिन्नं परशुना जातं पुनर्बालमहीरूहम् ॥192॥
निशाया: पश्चिमे यामे स्वप्नावेतौ प्रसन्नधी: । विलोक्य सा तयोर्ज्ञातुं फलमभ्येत्य भूपतिम् ॥193॥
🏠
पर्व - 76
अथान्येद्युर्महावीर: सुरासुरपरिष्कृत: । विह्णत्य विविधान् देशान् पुनस्तत्पुरमागत: ॥1॥
गणैर्द्वादशभि: पूज्य: स्थित: स विपुलाचले । गच्छंस्तं श्रेणिक: स्तोतुं वृक्षमूलशिलातले ॥2॥
मुनिं धर्मरूचिं नाम्ना निस्तरंगमिवोदधिम् । प्रदीपमिव निष्कम्पं साम्बुं वाम्भोदमुन्नतम् ॥3॥
जितेन्द्रियसमाहारं पर्यंकविहितासनम् । ईषन्निरूद्धनि:श्वासं मनाड्.मीलितलोचनम् ॥4॥
ध्यायन्तं वीक्ष्य वन्दित्वा साशंको विकृताननात् । ततो गत्वा जिनं प्राप्य स्तुत्वा मुकुलितांजलि: ॥5॥
गौतमंच मया दृष्ट: कश्चिदेकस्तपोधन: । ध्यायन्साक्षादिव ध्यातिस्तद्रूपेण व्यवस्थिता ॥6॥
स को मे कौतुकं तस्मिन् ब्रूहि नाथेत्यभाषत । अनुयुक्तो गणी तेन प्रोषाच वचसां पति: ॥7॥
अस्त्यत्र विषयोऽगांख्य: संगत: सर्ववस्तुभि: । नगरी तत्र चम्पाख्या तत्पति: श्वेतवाहन: ॥8॥
श्रुत्वा धर्म जिनादस्मात्त्रिनिर्वेगाहिताशय: । राज्यभारं समारोप्य सुते विमलवाहने ॥9॥
संयमं बहुभि: सार्धमत्रैव प्रतिपन्नवान् । चिरं मुनिगणै: साकं विह्णत्याखण्डसंयम: ॥10॥
धर्मेषु रूचिमातन्वन् दशस्वप्यनिशं जनै: । प्राप्तधर्मरूचिख्याति: सक्ष्यं यत्सर्वजन्तुषु ॥11॥
अद्य मासोपवासान्ते भिक्षार्थ प्राविशत्पुरम् । पुरूषा: संहतास्तत्र तत्समीपमितास्त्रय: ॥12॥
नरलक्षणशास्त्रज्ञस्तेष्वेको वीक्ष्य तं मुनिम् । लक्षणान्यस्य साम्राज्यपदवीप्राप्तिहेतव: ॥13॥
अटत्येष च भिक्षायै शास्त्रोक्तं तन्मृषेत्यसौ । वदन्नभिहितोऽन्येन न मृषा शास्त्रभाषितम् ॥14॥
व्यक्तसाम्राज्यतन्त्रोऽयमृषि: केनापि हेतुना । निर्विण्णस्तनये वाले निधाय व्यापृर्ति निजाम् ॥15॥
एवं तप: करोतीति श्रुत्वा तद्वचनं पर: । अवोचत्किमनेनास्य तपसा पापहेतुना ॥16॥
दुरात्मन: कृपां हित्वा बालं तमसमर्थकम् । लोकसंव्यवहाराज्ञं स्थापयित्वा धरातले ॥17॥
स्वयं स्वार्थं समुद्दिश्य तप: कर्तुमिहागत: । मन्त्रिप्रभृतिभि: सर्वै: कृत्वा तं श्रृंखलावृतम् ॥18॥
राज्यं विभज्य तत्स्वैरं पापैस्तदनुभूयते । इति तद्वचनं श्रुत्वा स्नेहमानप्रचोदित: ॥19॥
अभुंजान: पुरादाशु निवृत्यैत्य वनान्तरे । वृक्षमूलं समाश्रित्य बाह्यकारणसन्निधौ ॥20॥
अन्त:क्रोधकषायानुभागोग्रस्पर्धकोदयात् । संक्लेशाध्यवसानेन वर्धमानत्रिलेश्यक: ॥21॥
मन्त्र्यादिप्रतिकूलेषु हिंसाद्यखिलनिग्रहान् । ध्यायन् संरक्षणानन्दरौद्रध्यानं प्रविष्टवान् ॥22॥
अत: परं मुहुर्तं चेदेवमेव स्थितिं भजेत् । आयुषो नारकस्यापि प्रायोग्योऽयं भविष्यति ॥23॥
ततस्त्वयाशु सम्बोध्यो ध्यानमेतत्यजाशुभम् । शमय क्रोधदुर्वह्निं मोहजालं निराकुरू ॥24॥
गृहाण संयमं त्यक्तं पुनस्त्वं मुक्तिसाधनम् । दारदारकबन्ध्वादिसम्बन्धनमबन्धुरम् ॥25॥
संसारवर्धनं साधो जहीहीत्येवमादिभि: । युक्तिमाद्भिर्वचोभि: सप्रत्यवस्थानमाप्तवान् ॥26॥
शुल्कध्यानाग्निनिर्दग्धघातिकर्मघनाटवि: । नवकेवललब्धीद्धशुद्धभावो भविष्यति ॥27॥
इत्यसौ च गणाधीशवचनान्मगधाधिप: । गत्वा तदुक्तमार्गेण सद्य: प्रासादयन्मुनिम् ॥28॥
सोऽपि सम्प्राप्य सामग्रीं कषायक्षयक्षान्तिजाम् । द्वितीयशुल्कध्यानेन कैवल्यमुदपादयत् ॥29॥
तदा पूजां समायातै: श्रेणिको वृत्रहादिभि: । सह धर्मरूचे: कृत्वा पुनर्वीरं समाश्रित: ॥30॥
भरते कोऽत्र पाश्चात्य: स्तुत्य: केवलवीक्षण: । इत्यप्राक्षीद्रणी चैवं विवक्षुरभवत्तदा ॥31॥
ब्रह्मकल्पाधिपो ब्रह्मह्णदयाख्यविमानज: । विद्युन्माली ज्वलन्मौलि: प्रियस्वाद्युक्तिदर्शने ॥32॥
विद्युदादिप्रभावेगे देव्योऽन्याश्चास्य तद्वत: । जिनमागत्य वन्दित्वा यथास्थानमुपाविशत् ॥33॥
तं निरूप्य परिच्छेदोऽनेन स्यात्केवलद्युते: । तत्कथंचेद्वदिष्यामि दिनेऽस्मात्सप्तमे दिनात् ॥34॥
ब्रह्मेंद्रोऽयं दिवोऽभ्येत्य पुरेऽस्मिन्नेव वारणम् । सर: शालिवनं निर्धूमानलं प्रज्वलच्छिखम् ॥35॥
द्युकुमारसमानीयमानजम्बूफलानि च । स्वप्नानेतान् पुर: कुर्वन्नर्हद्दासाभिधानकात् ॥36॥
इभ्यात्कृती सुतो भावी जिनदास्यां महाद्युति: । जम्ब्वाख्योऽनावृताद्देवादाप्तपूजोऽतिविश्रुत: ॥37॥
विनीतो यौवनारम्भेऽप्यनाविष्कृतविक्रिय: । वीर: पावापुरे तस्मिन् काले प्राप्स्यति निर्वतिम् ॥38॥
तदैवाहमति प्राप्य बोधं केवलसंज्ञकम् । सुधर्माख्यगणेशेन सार्ध संसारवह्निना ॥39॥
करिष्यन्नतितप्तानां ह्लादं धर्मामृताम्बुना । इदमेव पुरं भूय: सम्प्राप्यात्रैव भूधरे ॥40॥
स्थास्याम्येतत्समाकर्ण्य कुणिकश्चेलिनीसुत: । तत्पुराधिपति: सर्वपरिवारपरिष्कृत: ॥41॥
आगत्याभ्यर्च्य वन्दित्वा श्रुत्वा धर्म ग्रहीष्यति । दानशीलोपवासादि साधनं स्वर्गमोक्षयो: ॥42॥
जम्बूनामापि निर्वेदात्प्रव्रज्याग्रहणोत्सुक: । सहैवाल्पेषु वर्षेषु व्यतीतेषु वयं त्वया ॥43॥
सर्वे दीक्षां ग्रहीष्याम इति बन्धुजनोदितम् । सोऽशक्रुचन्निराकर्तुमायास्यति पुरं तदा ॥44॥
मोहं विधित्सुभिस्तस्य बन्धुभि: सुखबन्धन: । आरप्स्यते विवाहस्तै: श्रेयो विघ्ना हि बन्घव: ॥45॥
सुता सागरदत्तस्य पद्मावत्यां सुलक्षणा । पद्मश्रीरपरा श्रीर्वा कनकश्री: शुभेक्षणा ॥46॥
सुता कुबेरदत्तस्य जाता कनकमालया । वीक्ष्या विनयवत्याश्च या वैश्रवणदत्तजा ॥47॥
विनयश्री रैदत्तस्य रूपश्रीश्च धनश्रिय: । आभि: सागरदत्तादिपुत्रिकाभिर्यथाविधि ॥48॥
सौधागारे निरस्तान्धकारे सन्मणिदीप्तिभि: । विचित्ररत्नसंचूर्णरंगवल्लीविभूषिते ॥49॥
नानासुरभिपुष्पोपहाराढये जगतीतले । स्थास्यत्याप्तविवाहोऽयं पाणिग्रहणपूर्वकम् ॥50॥
सुतो मसायं रागेण प्रेरितो विकृर्ति भजन् । स्मितहासकटाक्षेक्षणादिमान्किं भवेन्न वा ॥51॥
इत्यात्मानं तिरोधाय पश्यन्ती स्थास्यति स्निहा । माता तस्य तदैवैक: पापिष्ठ: प्रथमांशक: ॥52॥
सुरम्यविषये ख्यातपौदनाख्यपुरेशिन: । विद्युद्राजस्य तुग्विद्युत्प्रभो नाम भटाग्रणी: ॥53॥
ताक्ष्णे विमलवत्याश्च क्रध्वा केनापि हेतुना । निजाग्रजाय निर्गत्य तस्मात्पन्नशतैर्भटै: ॥54॥
विद्युच्चोराह्णयं कृत्वा स्वस्य प्राप्य पुरीमिमाम् । जानन्नदृश्यदेहत्वकवाटाद्घाटनादिकम् ॥55॥
चोरशास्त्रोपदेशेन तन्त्रमन्त्रविधानत: । अर्हद्दासगृहाभ्यन्तरस्थं चोरयितुं धनम् ॥56॥
प्रविश्य नष्टनिद्रान्तां जिनदासीं विलोक्य स: । निवेद्यात्मानमेवं किं विनिद्रासीति वक्ष्यति ॥57॥
सूनुर्ममैक एवायं प्रातरेव तपोवनम् । अहं गमीति संकल्प्य स्थितस्तेनास्मि शोकिनी ॥58॥
धीमानसि यदीमं त्वं च्यावयस्वाग्रहात्तत: । उपायैरद्य ते सर्व धनं दास्याम्यभीप्सितम् ॥59॥
इति वक्त्री भवेत्सापि सोऽपि सम्प्रतिपद्य तत् । एवं सम्पन्नभोगोऽपि किलैष विरिरंसति ॥60॥
धिड्मां धनमिहाहर्तु प्रविष्टमिति निन्दनम् । स्वस्य कुर्वन्गताशंक: सम्प्राप्यानु तदन्तिकम् ॥61॥
कन्यकानां कुमारं तं तासां मध्यमधिष्ठितम् । विजम्भमाणसद्बुद्धिं पंजरस्थमिवाण्डजम् ॥62॥
जाललग्नैणपोतं वा भद्रं वा कुंजराधिपम् । अपारकर्दमे मग्नं सिंहं वा लोहपंजरे ॥63॥
निरूद्धं लब्धनिर्वेगं प्रत्यासन्नभवक्षयम् । विद्युच्चोर: समीक्ष्यैवं वक्तोष्ट्राख्यानकं सुधी: ॥64॥
कुमार: श्रूयतां कश्चिदेकदा स्वेच्छया चरन् । गिरे: क्रमेलक: स्वादु तृणं तुंगात्प्रदेशत: ॥65॥
पतन्मधुरसोन्मिश्रमास्वाद्य सकृदुत्सुक: । तादृगेवाहरिष्यामीत्येतत्पाताभिवांछया ॥66॥
तृणान्तरोपयोगादिपराड्.मुखतया स्थित: । मृतस्तथैव त्वं चैतान् भोगान् भोक्तुमुपस्थितान् ॥67॥
अनिच्छन् स्वर्गभोगार्थी भविता रहितो धिया । इत्यैकागारिकप्रोक्तं तदाकर्ण्य वणिग्वर: ॥68॥
प्रतिवक्ता स तं चोरं स्पष्टदृष्टान्तपूर्वकम् । नर: कश्चिन्महादाहज्वरेण परिपीडित: ॥69॥
नदीसरस्तटाकादिपय: पीत्वा मुहुर्मुहु: । तथाप्यगततृष्ण: किं तृणाग्रस्थाम्बुबिन्दुना ॥70॥
तृप्तिं प्राप्नोत्यसौ वायं जीवो दिव्यसुखं चिरम् । भुक्त्वाऽप्रतृप्त: स्वप्नेऽपि गजकणोस्थिरात्मना ॥71॥
सुखेनासाधुनानेन कथं तृप्तिमवाप्नुयात् । इति तद्वाचमाकर्ण्य चोरोऽनुव्याहरिष्यति ॥72॥
वने वनेचरश्चण्ड: कृत्वाधारं महाद्रुमम् । गण्डान्ताकृष्टकोदण्ड: काण्डेनाखण्डय वारणम् ॥73॥
महीरूट्कोटरस्थेन सन्दष्ट: फणिना स्वयम् । स चाहिंच गजंचाज्ञो गत्यन्तरमजीगमत् ॥74॥
अथ सर्वान् मृतान् दृष्ट्वा तान्क्रोष्टैकोऽतिलुब्धक: । तावदेतानहं नाद्मि राहिाारि र्वीद्वयाग्रगम् ॥75॥
खादामीति कृतोद्योगस्तच्छेदमकरोद्विधी: । सद्यश्चापाग्रनिर्भिन्नगल: सोऽपि वृथा मृत: ॥76॥
ततोऽतिगृध्नुता त्याज्येत्यस्योक्तिविरतौ सुधी: । कुमार: स्मृतिमाधाय सूक्तं प्रत्यभिधास्यति ॥77॥
चतुर्मार्गसमायोगदेशमध्ये महाद्युतिम् । रत्नराशिं समभ्येत्य सुग्रहं पथिको विधी: ॥78॥
तदानादाय केनापि हेतुना गतवान्पुन: । समादित्सुस्तमागत्य किं तद्देशं लभेत स: ॥79॥
तथा दुष्प्रापमालोक्य गुणमाणिक्यसंचयम् । अस्वीकुर्वन् कथं पश्चात्प्राप्नुयाद्भववारिधौ ॥80॥
तदुदीरितमेतस्य कृत्वा चित्ते परस्वह्णत । वदिष्यति तदाख्यानमन्यदन्यायसूचनम् ॥81॥
श्रृगाल: कश्चिदास्यस्थं मांसपिण्डं विसृष्टवान् । संक्रीडमानमीनादानेच्छुर्निपतितोऽम्भसि ॥82॥
तद्वेगवत्प्रवाहेण प्रेर्यमाणोऽगमन्मृतिम् । ततो मीनोऽपि दीर्घायुर्जलमध्ये स्थित: सुखम् ॥83॥
एवं श्रृगालवल्लुब्धो मुग्धोऽन्योऽपि विनश्यति । इति तस्करमुख्योक्तिमाकर्ण्यानाकुलात्मक: ॥84॥
प्रत्यासन्नविनेयत्वाद्वच: प्रतिभणिष्यति । निद्रालुको वणिक्कश्चिन्निद्रासुखविमोहित: ॥85॥
सुप्त: परार्ध्यमाणिक्यगर्भकक्षपुटे निजे । चोरैरपह्णतोऽनेन दु:खेनामृत दुर्मृति: ॥86॥
विषयाल्पसुखेष्वेवं संसक्तो रागचोरकै: । ज्ञानदर्शनचारित्ररत्नेष्वपह्णतेष्वयम् ॥87॥
जन्मी नश्यति निर्मूलमित्यत: स गदिष्यति । स्वमातुलानीदुर्वाक्यकोपात्कांचिन्मुमुर्षुकाम् ॥88॥
वृक्षमूले स्थितां वीक्ष्य सर्वाभरणभूषिताम् । अज्ञातोद्वन्धनोपायामाकुलाकुलचेतसम् ॥89॥
सुवर्णदारको नाम पापी मार्दंगिकस्तदा । तदाभरणमादित्सुर्मृदगं स्वं तरोरध: ॥90॥
स्थापयित्वा समारूह्य स्वगलोद्वद्धरज्जुक: । उद्वन्धनक्रमं तस्या दर्शयन् मृत्युचोदित: ॥91॥
मृदंगे पतिते भूमौ सद्य: केनापि हेतुना । रज्जुपाताविलीभूतकण्ठ: प्रोद्वत्तलोचन: ॥92॥
प्रापत्प्रेताधिबासं तद्वीक्ष्यासौ दुर्मृतेर्भयात् । आयाद्रृहमतस्तद्वल्लोभो हेयो महांस्त्वया ॥93॥
इत्यस्य सोऽपि वाग्जालमसोढोदाहरिष्यति । किल धूर्तविटं वीक्ष्य ललितांगाभिधामकम् ॥94॥
कम्यचित्सा महादेवी जाता मदनविह्णला । तद्विटानयनोपायनिरन्तरनियुक्तया ॥95॥
तद्धात्र्या गुप्तमानीत: पथिकोऽन्त: प्रवेशित: । सह तेन महादेवी रममाणा यथेप्सितम् ॥96॥
अहोभिर्बहुभिर्ज्ञाता शुद्धै: शुद्धान्तरक्षिभि: । तन्मुखात्तद्दुराचारे राज्ञापि विदिते सति ॥97॥
जारापनयनोपायमाज्ञप्ता: परिचारिका: । अवस्करगृहं नीत्वा सा तं तत्राक्षिपन्खलम् ॥98॥
स दुर्गन्धेन तज्जनतुभिश्च दु:खमवाप्नुवन् । अत्रैव नरकावासमाप्तवान् पापपाकत: ॥99॥
तद्वदल्पसुखस्याभिलाषिणो नरकादिषु । भवन्ति दुस्तरापारघोरदु:खा गतिष्विति ॥100॥
पुन: कुमार एवैकं प्रपंचाद्रदिता स तम् । येन संसारनिर्वेगो जायते सहसा सताम् ॥101॥
भ्राम्यन्संसारकान्तारे मृत्युमत्तद्विपेशिना । रूषा जिघांसुना जन्तुरनुपातोऽतिभीलुक: ॥102॥
पलायमानो मानुष्यभूरूहान्तहिंतात्मक: । तन्मूले कुलगोत्रादिनानावल्लीसमाकुले ॥103॥
जन्मकूपे पतित्वायुर्वल्लीलग्नशरीरक: । सितासितादिनानेकमूषकोच्छेद्यतल्लक: ॥104॥
नरकव्यात्तवक्त्रोरूसर्पसप्तकसन्निधि: । तद्भूजेष्टार्थसूनोत्थसौख्यक्षौद्ररसोत्सुक: ॥105॥
तद्ग्रहोत्थापितात्युग्रव्यापन्माक्षिकभक्षित: । तत्संसेवां सुखं मत्वा कष्टं सर्वोऽपि जीवति ॥106॥
विधीर्विषयसंसक्तो धीमानपि कथं तथा । वर्तते त्यक्तसंग: सन्नकुर्वन्दुर्वहं तप: ॥107॥
इत्याकर्ण्य व चस्तस्य माता कन्याश्च तस्कर: । तनुसंसारभोगेषु यातारोऽतिविरागताम् ॥108॥
तदा तम: समाधूय भासमानो दिवाकर: । योजयन् प्रियया कोकं कुमारमिव दीक्षया ॥109॥
करैर्निजै: कुमारस्य मनो वास्पृश्य रंजयन् । उद्यमस्तपसीवोच्चै: शिखरेऽद्रेरूदेष्यति ॥110॥
सर्वसन्तापकृत्तीक्ष्णकर: क्रूरोऽनवस्थित: । रवि: कुवलयध्वंसी व्रजिता कुनृपोपमाम् ॥111॥
नित्योदयो बुधाधीशो विशुद्धाखण्डमण्डल: । पद्माह्लादी प्रवृद्धोष्मा सुराजानं स जेष्यति ॥112॥
ज्ञात्वा संसारवैमुख्यं कुमारस्यास्य बान्धवा: । तदा कुणिमहाराज: श्रेणयोऽष्टादशापि च ॥113॥
सहानावृतदेवेन परिनिष्क्रमणं प्रति । अभिषेकं करिष्यन्ति संगता मंगलैर्जलै: ॥114॥
तत्कालोचितवेषोऽसौ शिविकां देवनिर्मिताम् । आरूह्य भूतिभूत्योच्चैविंपुलाचलमस्तके ॥115॥
मां निविष्टं समभ्येत्य महामुनिनिषेवितम् । भक्त्या प्रदक्षिणीकृत्य नमस्कृत्य यथाविधि ॥116॥
वर्णत्रयसुद्भूतैर्विनेयैर्बहुभि: समम् । विद्युच्चोरेण तत्पंचशतभृत्यैश्च संयमम् ॥117॥
सुधर्मगणभृत्पार्श्वे समाचित्तो ग्रहीष्यति । कैवल्यं द्वादशाब्दान्ते मय्यन्त्यां गोतमांगते ॥118॥
सुधर्मा केवली जम्बूनामा व श्रुतकेवली । भूत्वा पुनस्ततो द्वादशाब्दान्ते निर्वृतिंगते ॥119॥
सुधर्मण्यैन्तिमं ज्ञानं जम्बूनाम्नो भविष्यति । तस्य शिष्यो भवो नाम चत्वारिंशत्समा महान् ॥120॥
इह धर्मोपदेशेन धरित्र्यां विहरिष्यति । इत्यवादीत्तदाकर्ण्य स्थितस्तस्मिन्ननावृत: ॥121॥
देवो मदीयवंशस्य माहात्म्यमिदमद्भुतम् । अन्यत्रादृष्टमित्युच्चैरकृतानन्दनाटकम् ॥122॥
कस्मादनेन बन्धुत्वमस्येति श्रेणिकोऽभ्यघात् । गौतमं विनयात्सोऽपि न्यगदत्तदतिस्फुटम् ॥123॥
जम्बूनाम्नोऽन्वये पूर्व धर्मप्रियवणिक्पते: । गुणदेव्याश्च नाम्नार्हद्दास: पुत्रोऽजनिष्ट स: ॥124॥
धनयौवनदर्पेण शिक्षामगणयन् पितु: । निरंकुशोऽभवत्सप्तव्यसनेषु विधेर्वशात् ॥125॥
स दुश्चेष्टितदौर्गत्यात्संजातानुशयो मया । न श्रुता मत्पितु: शिक्षेत्यवाप्तशमभावन: ॥126॥
किंचित्पुण्यं समावर्ज्य व्यन्तरत्वमुपागत: । आददेऽनावृताख्योऽयं तत्र सम्यक्त्वसम्पदम् ॥127॥
इति तद्वचनप्रान्ते गौतमं मगधाधिप: । अन्वयुड्.क्तागत: कस्मार्त्कि पुण्यं कृतवानयम् ॥128॥
विद्युन्माली भवेऽतीते प्रभाऽस्यान्तेऽप्यनाहता । इत्यनुग्रहबुद्धयैव भगवानेवमब्रवीत् ॥129॥
अस्मिन्विदेहे पूर्वस्मिन् बीतशोकाह्णयं पुरम् । विषये पुष्कलावत्यां महापद्मोऽस्य पालक: ॥130॥
वनमालास्य देव्यस्या: सुत: शिवकुमारक: । नवयौवनसम्पन्न: सवयोभि: समं वने ॥131॥
विह्णत्य पुनरागच्छन्सम्भ्रमेण समन्तत: । गन्धपुष्पादिमांगल्यद्रव्यसद्वरिवस्यया ॥132॥
जनानाव्रजतो दृष्ट्वा किमेतदिति विस्मयात् । तनूजं पृच्छति स्मासौ बुद्धिसागरमन्त्रिण: ॥133॥
कुमार श्रृणु वक्ष्यामि मुनीन्द्र: श्रुतकेवली । ख्यात: सागरदत्ताख्यस्तपसा दीप्तसंज्ञया ॥134॥
असौ मासोपवासान्ते पारणायै प्रविष्टवान् । पुरं सामसमृद्धाख्य: श्रेष्ठी तस्मै यथाविधि ॥135॥
दत्वा विष्वणनं भक्त्या प्रापदाश्चर्यपंचकम् । मुनिं मनोहरोद्यानवासिनं तं सकौतुका: ॥136॥
सम्पूज्य वन्दितुं यान्ति पौरा: परमभक्तित: । इत्याख्यत्सोsपि तच्छूत्वा पुनरप्यन्वयुड्.क्त स: ॥137॥
कथं सागरदत्ताख्यां विविधर्द्धीस्तप: श्रुती: प्रापदित्यब्रवीन्मन्त्रिसुतोsप्यनु यथाश्रुतम् ॥138॥
विषये पुष्कलावत्यां नगरी पुण्डरीकिणी । वज्रदन्त: पतिस्तस्याश्चक्रेणाक्रान्तभूतल: ॥139॥
देवी यशोधरा तस्य गर्भिणी जातदौह्णदा । महाविभूत्या गत्वासौ सीतासागरसंगमे ॥140॥
महाद्वारेण सम्प्राप्य जलधिं जलजानना । जलकेलीविधौ पुत्रमलब्धाभ्यर्णनिर्वृतिम् ॥141॥
तस्मात्सागरदत्ताख्यामस्याकुर्वन्सनाभय: । अथ यौवनसम्प्राप्तौ स कदाचन नाटकम् ॥142॥
सार्धं स्वपरिवारेण पश्यन् हर्स्यतले स्थित: । चेटकेनानुकूलाख्यनामधेयेन भाषित: ॥143॥
कुमार मन्दराकारस्तिष्ठत्येष पयोधर: । पश्याश्चर्यमिति प्रीत्या प्रोन्मुखो लोचनप्रियम् ॥144॥
तं निरीक्षितुमैहिष्ट नष्टस्तत्काल एव स: । जलदस्तद्विचिन्त्यैवं यौवनं विभवो वपु: ॥145॥
आयुरन्यच्च विध्वंसि यथायं स्तनयित्नुक: । इति संसारनिर्वेगयोगभाक्समजायत ॥146॥
स्वपित्रा सममन्येद्य: सम्प्राप्यामृतसागरम् । स्थितं मनोहरोद्याने धर्मतीर्थस्य नायकम् ॥147॥
श्रुत्वा धर्मं तदभ्यर्णे निर्णीतसकलस्थिति: । संयमं बहुभि: सार्धं कृतबन्धुविसर्जन: ॥148॥
प्रतिगृह्य मन:पर्ययादिं प्राप्यर्द्धिसम्पदम् । देशान् विह्णत्य सद्धर्मदेशेनेह समागत: ॥149॥
इति तच्छूवणात्सद्य: प्रतिचेता: स्वयंच स: । गत्वा मुनीश्वरं स्तुत्वा पीत्वा धर्मामृतं तत: ॥150॥
भवन्तं भगवन्दृष्ट्वा स्नेहो मे समभून्महान् । हेतुना केन वक्तव्यमित्यपृच्छत्स चाब्रवीत् ॥151॥
द्वीपेsस्मिन् भारते क्षेत्रे विषये मगधाह्णये । वृद्धग्रामे सुतौ जातौ रेवत्यां नरजन्मन: ॥152॥
ज्येष्ठोsत्र राष्ट्रकूटस्य भगदत्तस्तत: पर: । भवदेवस्तयोर्ज्यायान् संयमं प्रत्यपद्यत ॥153॥
सुस्थिताख्यगुरूं प्राप्य तेनामा विनयान्वित: । नानादेशान् विह्णत्यायात् स्वजन्मग्राममेव स: ॥154॥
तदा तद्बान्धवा: सर्वे समागत्य ससम्मदा: । मुनिं प्रदक्षिणीकृत्य सम्पूज्यानन्तुमुद्यता: ॥155॥
ग्रामे दुर्मर्षणो नाम तस्मिन्नेव गृहाधिप: । तस्य नागवसुर्भार्या नागश्रीरनयो: सुता ॥156॥
ताभ्यां सा भवदेवाय प्रादायि विधिपूर्वकम् । अग्रजागमनं श्रुत्वा सद्य: सन्जातसम्मद: ॥157॥
भवदेवोsप्युपागत्य भगदत्तमुनीश्वरम् । विनयात्प्रप्रणम्यास्त तत्कृताशासनार्द्रित: ॥158॥
आख्याय धर्मयाथात्म्यं वैरूप्यमपि संसृते: । गृहीतपाणिरेकान्ते संयमो गृह्यतां त्वया ॥159॥
इत्याह तं मुनि: सोsपि प्रत्यवादीदिदं वच: । नागश्रीमोक्षणं कृत्वा कर्तास्मि भवतोदितम् ॥160॥
इति तन्मुनिराकर्ण्य जगादाजनने जन: । भार्यादिपाशसंलग्न: करोत्यात्महितं कथम् ॥161॥
त्यज तन्मोहमित्येनं भवदेवोsप्यनुत्तर: । मतिं ज्येष्ठानुरोधेन व्यधाद्दीक्षाविधौ च स: ॥162॥
नीत्वा स्वगुरूसामीप्य भगदत्तो भवच्छिदे । दीक्षामग्राहयन्मौक्षीं सतां सोदर्यमीदृशम् ॥163॥ अन्त में भगदत्तने अपने गुरूके पास ले जाकर उसे संसारका छेद करने के लिये मोक्ष प्राप्त
स द्रव्यसंयमी भत्वा विधीर्द्वादशवत्सरान् । विह्णत्य गुरूभि: सार्धमन्येद्युरसहायक: ॥164॥
वृद्धग्रामं निजं गत्वा सुव्रतागणिनीमभि । समीक्ष्यास्मिन् किमस्त्यम्ब नागश्रीर्नाम काचन ॥165॥
इति सम्प्रश्नयामास सा तस्येंगितवेदिनी । नाहं वेद्मि मुने सम्यगुदन्तं तन्निबन्धनम् ॥166॥
इत्यौदासीन्यमापन्ना गुणवत्यार्यिकां प्रति । संयमे तं स्थिरीकर्तुकर्थाख्यानकमब्रवीत् ॥167॥
वैश्य: सर्वसमृद्धाख्यस्तद्दासीतनय: शुचि: । दारूकाख्य: स्वमात्रास्मच्छेूष्ठयुच्छिष्टाशितं त्वया ॥168॥
भोक्तव्यमिति निर्बन्धाद्भोजित: स जुगुप्सया । वान्तवान् कंसपात्रेण तत्तन्मात्राहितं पुन: ॥169॥
बुभुक्षुर्मातरं भोक्तुं प्रार्थयामास दारूक: । तयापि कंसपात्रस्थं पुरस्तादुपढौकितम् ॥170॥
बुभुक्षापीडितोऽप्येष नाग्रहीद्वान्तमात्मना । सोऽपि चेत्तादृश: साधु: कथं त्यक्तमभीप्सति ॥171॥
अथाख्यानमिदंचैकं श्रृणु रूध्वाशयं स्थिरम् । नरेशो नरपालाख्य: श्वानमेकं सकौतुक: ॥172॥
मृष्टाशनेन सम्पोष्य स्वर्णाभरणभूषितम् । सदा वनविह्णत्यादिगतौ कनककल्पिताम् ॥173॥
आरोप्य शिबिकामेवं मन्दबुद्धिरपालयत् । कदाचिच्छिबिकां रूढो गच्छन्कौलेयमाधम: ॥174॥
विष्टामालोक्य बालस्य लिप्सुरापतति स्म ताम् । तद्दृष्ट्वापाकरोद्भूपो लकुटीपाडनेन तम् ॥175॥
तद्वनमुनिश्च सर्वेषां पूजनीय: पुरातन: । त्यक्ताभिवांछया भूय: सम्प्राप्नोति पराभवम् ॥176॥
इदमन्यत्कचित्कश्चित्पथिक: सद्वनान्तरे । सुगन्धिफलपुष्पादिसेवयाऽऽयन् सुखं तत: ॥177॥
गत्वा विहाय सन्मार्ग महागहनसंकटे । दृष्ट्वा क्षुघितमत्युग्रं स चमूरं जिघांसुकम् ॥178॥
भीत्वा धावन् तदैकस्मिन् भीमकूपेऽपतद्विधी: । तत्र शीतादिभि: पापाद्दोषत्रितयसम्भवे ॥179॥
वाग्दृष्टिश्रुतिगत्यादिहीनं सर्पादिबाधितम् । तं तन्निर्गमनोपायमजानन्तं यदृच्छया ॥180॥
कश्चिद्भिषग्वरो वीक्ष्य दययार्द्रीकृताशय: । निर्गमय्य तत: केनाप्युपायेन महादरात् ॥181॥
मन्त्रौषधिप्रयोगेण कृतपादप्रसारणम् । सूक्ष्मरूपसमालोकनोन्मीलितविलोचनम् ॥182॥
स्पष्टाकर्णनविज्ञातस्वशक्तिश्रवणद्वयम् । व्यक्तवाक्प्रसरोपेतरसनं च व्यधादनु ॥183॥ इसी प्रकार जो मुनि पहले सबके पूजनीय होते हैं वही छोड़ी हुई वस्तुकी इच्छाकर फिर अनादर को प्राप्त होने लगते हैं । इस कथाके बाद एक कथा और कहती हूँ –
स सर्वरमणीयाख्यं पुरं तन्मार्गदर्शनात् । प्रास्थापयन्न कस्योपकुर्वन्ति विशदाशया: ॥184॥
पुन: स विषमासक्तमति: पथिकदुर्मति: । प्रकटीकृतदिग्भेदमोह: प्राक्तनकूपकम् ॥185॥
सम्प्राप्य पतितस्तस्मिंस्तथा कांश्चन संसृतौ । मिथ्यात्वादिकपंचोग्रबाधिर्यादीन्युपागतान् ॥186॥
जन्मकूपे क्षुधादाहाद्यार्तान् संवीक्ष्य सन्मति: । गुरूवैद्यो दयालुत्वाद्धर्माख्योपायपण्डित: ॥187॥
निर्गमय्य ततो जैनभाषोषधनिषेवणात् । सम्यक्त्वनेत्रमुन्मील्य सम्यग्ज्ञानश्रुतिद्वयम् ॥188॥
समुद्घटय्य सद्वत्तपादौ कृत्वा प्रसारितौ । व्यक्तां दयामयीं जिह्णां विधाय विधिपूर्वकम् ॥189॥
पंचप्रकारस्वाध्यायवचनान्यभिधाप्य तान् । सुधीरगमयन्मार्ग साधु: स्वर्गापवर्गयो: ॥190॥
निजपापोदयाद्दीर्घसंसारास्तत्र केचन । सुगन्धिबन्धुरोद्भिन्नचम्पकाभ्याशवर्तिन: ॥191॥
तत्सौरभावबोधावमुक्ता: षट्चरणा यथा । पार्श्वस्थाख्या: सदृग्ज्ञानचारित्रोपान्तवर्तनात् ॥192॥
कषायविषयारम्भलौकिकज्ञानवेदकै: । जिह्णाषड्भेदसम्बन्धा: कुशीलाख्या दुराशया: ॥193॥
संसक्ताख्या निषिद्धेषु द्रव्यभावेषु लोलुपा: । अवसन्नाह्णया हीयमानज्ञानादिकत्वत: ॥194॥
समाचारबहिर्भूता मृगचार्यभिधानका: । महामोहानिवृत्याजवंजवागाधकूपके ॥195॥
पतन्ति स्म पुनश्चेति भवदेवोऽपि तच्छूते: । सम्प्राप्तशान्तभावोऽभूद्ज्ञात्वा तत्सार्यिकाग्रणी: ॥196॥
नागश्रियं च दौर्गत्यभावोत्पादितदु:स्थितिम् । आनाय्यादर्शयत्सोऽपि तां दृष्ट्वा संसृतिस्थितिम् ॥197॥
स्मृत्वा धिगिति निन्दित्वा गृहीत्वा संयमं पुन: । मात्रा सहायुष: प्रान्ते क्रमात्स्वाराधनां श्रित: ॥198॥
मृत्वा माहेन्द्रकल्पेऽभूद्वलभद्रविमानके । सामानिक: सुर: सप्तसागरोपमजीवित: ॥199॥
ज्यायानहमजाये त्वं कनिष्ठोऽभूस्ततश्च्युत: । इति सोऽपि मुनिप्रोक्तश्रवणेन विरक्तवान् ॥200॥
दीक्षां गृहीतुमुद्युक्तो मात्रा पित्रा च वारित: । प्रविश्य नगरं जातसंविदप्रासुकाशनम् ॥201॥
नाहमाहारयामीति कुमारोऽकृत निश्चितिम् । तद्वार्ताश्रवणाद्भूयो य: कश्चिद्भोजयत्यमुम् ॥202॥
तस्मै सम्प्रार्थितं दास्यामीति संसद्यघोषयत् । तद्ज्ञात्वा दृढवर्माख्य: सप्तस्थानसमाश्रय: ॥203॥
श्रावक: समुपेत्यैनं कुमार, ज्ञातिशत्रव: । तवैते स्वपरध्वंसकोविदा: पापहेतव: ॥204॥
भावसंयमविध्वस्तिमकृत्वा प्रासुकाशनै: । करिष्ये भद्र पर्युष्टिमविमुक्तस्य बन्धुभि: ॥205॥
दुर्लभा संयमे वृत्तिरित्यवोचद्धितं वच: । सोऽपि मत्वा तदाचाम्लनिर्विकृत्य रसाशन: ॥206॥
दिव्यस्त्रीसन्निधौ स्थित्वा सदाविकृतचेतसा । तृणाय मन्यमानस्तास्तपो द्वादशवत्सरान् ॥207॥
चरन्निव निशातासिधारायां सम्प्रवर्तयन् । सन्न्यस्य जीवितप्रान्ते कल्पे ब्रह्मेन्द्रनामनि ॥208॥
विद्युन्माल्येष देवोऽभूद्देहदीप्त्याप्तदिक्तट: । इत्यथ श्रेणिकप्रश्नादिदं चोवाच गौतम: ॥209॥
विद्युन्मालिन एवामूर्देव्योऽत्रैत्येभ्यपुत्रिका: । जम्बूनाम्नश्चतस्त्रोऽपि भार्यास्तेनाप्य संयमम् ॥210॥
सहान्त्यकल्पे भूत्वेह यास्यन्ति परमं पदम् । गत्वा सागरदत्ताख्यो दिवमत्रैत्य निर्वृतिम् ॥211॥
जम्बूनाम्नो गृहत्यागसमये यास्यतीत्यपि । सर्वमेतद्रणाधीशनायकव्याह्णतं मुदा ॥212॥
निशम्य मगधाधीशो जिनं तं चान्ववन्दत । मानयन्ति न के सन्त: श्रेयो मार्गोपदेशिनम् ॥213॥
अथान्येद्य: पुन: प्राप्य भगवन्तं भवान्तकम् । प्रपूज्य प्रणतस्तस्मिन् सदस्युदिततेजसम् ॥214॥
दृष्ट्वा तारागणे तारापतिं वा प्रीतिकेतनम् । प्रीतिंकर पुरानेन किं कृत्वा रूपमीदृशम् ॥215॥
सम्प्राप्तमिति सोऽप्राक्षीद्रणभृच्चैवमब्रवीत् । एतस्मिन् मगधे देशे सुप्रतिष्ठाह्णयं पुरम् ॥216॥
जयसेनो महीपाल: पालकस्तस्य लीलया । तत्र सागरदत्ताख्य: श्रेष्ठी तस्य प्रभाकरी ॥217॥
भार्या तयोरभून्नागदत्तो ज्येष्ठ: सुतोऽनुज: । कुबेरदत्तो वित्तेशसमस्तद्गृहवासिन: ॥218॥
नागदत्तं विवर्ज्यान्ये सर्वेऽभूवन्नुपासका: । रत्नाकरेऽपि सद्रत्नं नाप्नोत्यकृतपुण्यक: ॥219॥
तेषां काले व्रजत्येवं गिरौ धरणिभूषणे । वने प्रियंकरोद्याने कदाचित्समवस्थितम् ॥220॥
मुनिं सागरसेनाख्यं जयसेननृपादय: । गत्वा सम्पूज्य वन्दित्वा धर्म साध्वन्वयुंजत ॥221॥
सोऽप्येवमब्रवीत्प्राप्तसम्यग्दर्शनलोचना: । दानपूजाव्रतोपोषितादिभि: प्राप्तपुण्यका: ॥222॥
प्राप्नुवन्ति सुखं स्वर्गे चापवर्गे च संयमात् । मिथ्यादृशश्च दानादिपुण्येन स्वर्गजं सुखम् ॥223॥
सम्प्राप्नुवन्ति तत्रैते शममाहात्म्यत: पुन: । कालादिलब्धिमाश्रित्य स्वतो वा परतोऽपि वा ॥224॥
सद्धर्मेलाभयोग्याश्च भवन्त्यभ्यर्णमोचना: । अन्ये तु भोगसंसक्ता माढमिथ्यात्वशल्यका: ॥225॥
हिंसानृतान्यरैरामारत्यारम्भपरिग्रहै: । पापं सन्चित्य संसारदुष्कूपे निपतन्ति ते ॥226॥
इति तद्वचनं श्रुत्वा बहवो धर्ममाचरन् । अथ सागरदत्ताख्यश्रेष्ठिना स्वायुषोऽवधौ ॥227॥
परिपृष्टे मुनिश्चाह दिवसास्त्रिंशदित्यसौ । तच्छ्र्त्वा नगरं श्रेष्ठी प्रविश्याष्टाह्निकीं मुदा ॥228॥
पूजां विधाय दत्वात्मपदं ज्येष्ठाय सूनवे । आपृछय बान्धवान् सर्वान् द्वार्विशतिदिनानि स: ॥229॥
सन्नयस्य विधिवल्लोकमवापदमृताशिनाम् । अन्येद्युर्नागदत्तोऽसौ लोभेनाद्येन चोदित: ॥230॥
कुबेरदत्तमाहूय तव सारधनं पिता । किमदर्शयदित्येवं पृष्टवान् दुष्टचेतसा ॥231॥
तीव्रलोभविषक्तोऽयमित्यसाववगम्य तत् । किमावाभ्यामविज्ञातं धनमस्ति गुरो: पृथक् ॥232॥
सन्नयस्य विधिना स्वर्गगतस्योपरि दूषणम् । महत्पापमिदं वक्तुं भ्रातस्तव न युज्यते ॥233॥
श्रोतुं ममापि चेत्याह सोऽप्यपास्यास्य दुर्मतिम् । विभज्य सकलं वस्तु चैत्यचैत्यालयादिकम् ॥234॥
निर्माप्य जिनपूजाश्च विधाय विविधा: सदा । दानं चतुर्विधं पात्रत्रये भक्त्या प्रवर्त्य तौ ॥235॥
कालं गमयत: स्मोद्यत्प्रीती प्रति परस्परम् । दत्वा सागरसेनाय कदाचिद्भक्तिपूर्वकम् ॥236॥
भिक्षां कुबेरदत्ताख्य: सहितो धनमित्रया । अभिवन्द्य किमावाभ्यां तनूजो लप्स्यते न वा ॥237॥
नैवं चेत्प्रव्रजिष्याव इत्यप्राक्षीत्स चाब्रवीत् । युवां सुतं महापुण्यभागिनं चरमांगकम् ॥238॥
लभेथामिति तद्वाक्यश्रवणात्तोषिताशयौ । यद्येवं पूज्यपादस्य भवत: क्षुल्लकोऽस्त्वसौ ॥239॥
तस्मिन्नुत्पन्नवत्येव दास्याव इति तौ सुखम् । भुंजानौ कतिचिन्मासान्गमयित्वा सुतोत्तमम् ॥240॥
लब्ध्वा प्रीतिंकराह्णनमेतस्याकुरूतां मुदा । करोतु स्वगुणैस्तोषं सर्वेषां जगतामिति ॥241॥
पंचसंवत्सरातीतौ तस्मिन्धान्यपुरान्मुनौ । आगते सति गत्वैनमभिवन्द्य मुनीन्द्र ते ॥242॥
क्षुल्लकोऽयं गृहाणेति तस्मै दत्त: स्म ते तदा । प्रतिगृह्य गुरूर्धान्यपुरमेव गत: पुन: ॥243॥
तत्र तं सर्वशास्त्राणि दशवर्षाण्यशिक्षयत् । सोऽप्यासन्नविनेयत्वात्संयमग्रहणोत्सुक: ॥244॥
गुरूभिर्नार्य ते दीक्षाकालोऽयमिति वारित: । तथैवास्विति तान्भक्त्या वन्दित्वा पितरौ प्रति ॥245॥
पथि स्वाभ्यस्तशास्त्राणि शिष्टानां समुपादशन् । छात्रवेषधरो गत्वा सर्वबन्धुकदम्बकम् ॥246॥
विलोक्यानन्तरं राज्ञा सम्यग्विहितसत्कृति: । असाधारणमात्मानं मन्यमान: कुलादिभि: ॥247॥
धनं बहुतरं सारं यावन्नावर्जयाम्यहम् । तावन्न संग्रहीष्यामि पत्नीमिति विचिन्तयन् ॥248॥
अन्येद्युर्नागरै: कैश्चिज्जलयात्रोन्मुखै: सह । यियासुर्बान्धवान्सर्वानापृच्छयैतत्प्रयोजनम् ॥249॥
सम्मतस्तैरर्नमस्कर्तु गत्वा गुरूमुदात्तधी: । पत्रमेकं निजाभिप्रेतार्थाक्षरसमर्थितम् ॥250॥
गुरूणार्पितमादाय कर्णे सुस्थाप्य सादरम् । शकुनाद्यनुकूल्येन ससख: पोतसाधन: ॥251॥
अवगाह्य पयोराशिं पुरं भूतिलकाह्णयम् । परीतं बलयाकारगिरिणा प्राप पुण्यवान् ॥252॥
शंखतूर्यादिभिस्तस्मिन् ध्वनद्भि: सम्मुखान्जनान् । निर्गच्छतो प्रपश्यद्भिराशंकय वणिजां वरै: ॥253॥
गत्वैतत्पुरमन्विष्य प्रत्येतुमिह क: सह: । इत्युदीरितमाकर्ण्य प्रीतिंकरकुमारक: ॥254॥
कर्मणोऽस्य समर्थोऽहमिति संगीर्णवांस्तदा । चोचबल्कजनिष्पन्नरज्ज्वा तैरवतारित: ॥255॥
विस्मयात्परित: पश्यन्प्रविश्य नगरं पुरा । निरीक्ष्य भवनं जैनं परीत्य विहितस्तुति: ॥256॥
ततो गत्वायुधापातविगतासून्निरूपयन् । समन्तात्कन्यकां कान्चिद्रच्छन्तीं सरसो गृहान् ॥257॥
केयमित्यनुयातोऽसौ तं सालोक्य गृहांगणे । भद्रागत: कुतो चेति पीठमस्मै समर्पयत् ॥258॥
सोऽपि तस्योपरि स्थित्वा नगरं केन हेतुना । सन्जातमीदृशं ब्रूहीत्याह तामथ साब्रवीत् ॥259॥
तद्वक्तुं नास्ति कालोऽस्माद्भद्र त्वं याहि सत्वरम् । भयं महत्तवेहास्तीत्येतच्छ्रु त्वा स निर्भय: ॥260॥
यो भयं मम कर्ताऽत्र स किं बाहुसहस्त्रक: । इत्याह तद्भयोन्मुक्तवाग्गम्भीरविजृम्भणात् ॥261॥
शिथिलीभूतभी: कन्याप्यवोचद्विस्तरेण तत् । एतत्खगाद्रयुदीच्यालकेश्वरा: सहजास्त्रय: ॥262॥
ज्यायान्हरिबलस्तस्य महासेनोऽनुजोऽनुज: । तस्य भूतिलकस्तेषु धारिण्यां ज्यायसोऽभवत् ॥263॥
तनूजो भीमकस्तस्मादेव विद्याधरेशिन: ।हिरण्यवर्मा श्रीमत्यामजायत सुतोऽपर: ॥264॥
महासेनस्य सुन्दर्यामुग्रसेन: सुतोऽजनि । वरसेनश्च तस्यानुजा जाताहं वसुन्धरा ॥265॥
कदाचिन्मत्पिता भौमविहारे विपुलं पुरम् । निरीक्ष्येदं चिरं चित्तहारीति स्वीचिकीर्षुक: ॥266॥
एतन्निवासिनीर्जित्वा रणे व्यन्तरदेवता: । अत्र भूतिलकाख्येन सोदर्येण समन्वित: ॥267॥
इह संवासिभिर्भूपै: सेव्यमान: सुखेन स: । कालं गमयति स्मैवं कन्चित्सन्चितपुण्यक: ॥268॥
इत: कनीयसे विद्यां भीमकायालकश्रियम् । दत्वा संसारभीरूत्वान्निविंद्य विजितेन्द्रिय: ॥269॥
कर्मनिर्मूलनं कर्तु दीक्षां हरिबलाह्वय: । विद्वान्विपुलमत्याख्यचारणस्याप्यसन्निधौ ॥270॥
शुक्लध्यानानलालीढदुरिताष्टकदुष्टक: । अष्टमीमगममत्पृथ्वीमिष्टामष्टगुणान्वित: ॥271॥
प्रकुर्वन् भीमको राज्यं विद्या: शाठयेन केनचित् । हिरण्यवर्मणो ह्णत्वा तं च हन्तुं समुद्यत: ॥272॥
ज्ञात्वा हिरण्यवर्मैतत्सम्मेदाद्रिमशिश्रियत् । भीमकस्तं क्रुधान्वित्य गिरिं गन्तुमशक्तक: ॥273॥
तीर्थेशसन्निधानेन तीर्थत्वादागमत्पुरम् । ततो हिरण्यवर्मापि पितृव्यं समुपागत: ॥274॥
तच्छूत्वा तं निराकर्तुं पूज्यपादोऽर्हतीत्यसौ । महासेनमहाराजं प्राहिणोत्प्रतिपत्रकम् ॥275॥
तस्यानिराकृतिं तस्माद्ज्ञात्वायातं युयुत्सया । क्रूर एष दुरात्मेति मत्पिता भीमकं रणे ॥276॥
निर्जित्य श्रृंखलाक्रान्तमकरोत्क्रमयोर्द्वयो: । पुन: क्रमेण शान्तात्मा नैतद्युक्तं ममेति तम् ॥277॥
मुक्त्वा विधाय सन्धानं प्रशमय्य हितोक्तिभि: । हिरण्यवर्मणा सार्ध दत्वा राज्यन्च पूर्ववत् ॥278॥
विससर्ज तथावज्ञा बद्धवैर: स भीमक: । हिरण्यवर्मणि प्रायो विद्यां संसाध्य राक्षसीम् ॥279॥
तया हिरण्यवर्माणं पापी मत्पितरं पुरम् । मद्वन्धूनपि विध्वस्य मामुद्दिश्यागमिष्यति ॥280॥
इति सर्वं समाकर्ण्य कुमारो विस्मयं वहन् । शय्यातलस्थमालोक्य खड्गमेष सुलक्षण: ॥281॥
यस्य हस्तगतो जेतुं तं शक्रोऽपि न शक्नुयात् । इति मत्वा पितानेन किं ते केनापि युद्धवान् ॥282॥
इत्यप्राक्षीत्स तां सापि न स्वप्नेऽपीत्यभाषत । तदा प्रीतिंकरों हस्तगतमस्त्रं विधाय तत् ॥283॥
तं हन्तुं निर्भयो भीमं गोपुराभ्यन्तरे स्थित: । निगूढतनुराविष्कृतोन्नतिर्वसुनं दधत् ॥284॥
तस्मिन्क्षणे समागत्य समन्ताद्वीक्ष्य भीमक: । स्वविद्यां प्रेषयामास दृष्ट्वा दुष्टं जहीति तम् ॥285॥
सम्यग्दृष्टिरयं सप्तविधभीतिविदूरग: । चरमांगो महाशूरो नाहं हन्तुमिमं क्षमा ॥286॥
इति भीत्वा तदभ्यर्णे सन्चरन्तीमितस्तत: । विलोक्य भीमको विद्यां शक्तिहीनां व्यसर्जयत् ॥287॥
निस्साराभूर्व्रजेत्युक्त्वा साप्यगच्छददृश्यताम् । स्वयमेवासिमुत्खाय भीमकस्तं जिघांसुक: ॥288॥
सम्प्राप्तवान्कुमारोऽपि तर्जयन्नतिभीषणम् । तद्घातं वन्चयित्वाहंस्तं प्राणै: सोऽप्यमुच्यत ॥289॥
ततो विध्वस्य दुष्टारिमायान्तमभिवीक्ष्य सा । कुमारं कन्यकाभ्येत्य व्यधास्त्वं भद्र साहसम् ॥290॥
इत्यारोप्यासनं स्वर्णमयं राजगृहांगणे । अभिषिच्य जलापूर्णै: कलशै: कलधौतकै: ॥291॥
विन्यस्य मणिभाभासि मुकुटं चारूमस्तके । यथास्थानमशेषाणि विशिष्टाभरणान्यपि ॥292॥
विलासिनीकरोद्धूयमानचामरशोभिनम् । अकरोत्तन्निरीक्ष्याह प्रीतिंकरकुमारक: ॥293॥
किमेतदिति सावोचदस्म्यस्या: स्वामिनी पुर: । दत्वा राज्यं मदीयं ते पट्टबन्धपुरस्सरम् ॥294॥
रत्नमालां गले कृत्वा त्वां प्रेम्णा समभीभवम् । इति तत्प्रोक्तमाकर्ण्य कुमार: प्रत्यभाषत ॥295॥
विना पित्रोरनुज्ञानान्नैव स्वीक्रियसे मया । कोऽपि प्रागेव संकल्पो विहितोऽयमिति स्फुटम् ॥296॥
यद्येवं तत्समायोगकालेऽभीष्टं भविष्यति । इति तद्वचनं कन्या प्रतिपद्य धनं महत् ॥297॥
बध्वावतरणायामि रज्ज्वा तेन सह स्वयम् । यियासुरासीद्रज्जुं तां प्रमोदात्सोऽप्यचालयत् ॥298॥
सद्यस्तच्चालनं दृष्ट्वा नागदत्तो बहिर्गत: । समाकृष्याग्रहीत्तन्च तान्च द्रव्यन्च तुष्टवान् ॥299॥
पोतप्रस्थानकालेऽस्या: साराभरणसंहतिम् । विस्मृतां स कुमारस्तामानेतुं गतवान् पुन: ॥300॥
नागदत्तस्तदा रज्जुमाकृष्य द्रव्यमेतया । सारं सम्प्राप्तमेतन्मे भोक्तुमामरणाद्भवेत् ॥301॥
कृतार्थोऽहं कुमारेण यद्वा तद्वानुभूयताम् । इति प्रास्थित सार्ध तैर्लब्धरन्ध्रो वणिग्जनै: ॥302॥
नागदत्तेऽन्गितं ज्ञात्वा कन्यका मौनमब्रवीत् । प्रीतिंकराद्विनात्रान्यैर्न वदाम्यहमित्यसौ ॥303॥
नागदत्तोऽपि कन्यैषा मूकीति प्रतिपादयन् । तां द्रव्यरक्षणेऽयौक्षीत्प्रीत्या स्वांगुलिसन्ज्ञया ॥304॥
क्रमात्म्वनगरं प्राप श्रेष्ठी प्रीतिंकरस्तदा । गतो भूतिलकं नायात्कुत इत्यवदत्स तम् ॥305॥
नागदत्तमसौ नाहं जानामीत्युत्तरं ददौ । भूषणानि समादाय समुद्रतटमागत: ॥306॥
नागदत्तेन पापेन स कुमारोऽतिसन्धित: । अदृष्ट्वा पोतमुर्द्विग्न: पुरं प्रति निवृत्तवान् ॥307॥
सचिन्तस्तत्र जैनेन्द्रगेहमेकं विलोक्य तम् । पुष्पादिभि: समभ्यर्च्य विधाय विधिवन्दनाम् ॥308॥
जिन त्वद्द्ष्टमात्रेण मत्पापं काप्यलीयत । निशि दीपेन वा ध्वान्तं समुन्मीलितचक्षुष: ॥309॥
चेतन: कर्मभिर्ग्रस्त: सर्वोऽप्यन्यदचेतनम् । सर्ववित्कर्मनिर्मुक्तो जिन केनोपमीयसे ॥310॥
सांखयादीन् लोकविख्यातान् सर्वथा सावधारणान् । एको भवान् जिनाजैषीच्चित्रं निरवधारण: ॥311॥
अबोधतमसाक्रान्तमनाद्यन्तं जगत्त्रयम् । सुप्तं त्वमेव जागसिं शश्वद्विश्वं च पश्यसि ॥312॥
वस्तुबोधे विनेयस्य जिनेन्द्र भवदागम: । निर्मल: शर्मदो हेतुरालोको वा सचक्षुष: ॥313॥
इत्थं स्वकृतसंस्तोत्र: शुद्धश्रद्धावबोधन: । सम्यक्संसारसद्भावं भावयन्कर्मनिर्मितम् ॥314॥
अभिषेचनशालायां सुप्तवान्किन्चिदाकुल: । तदा नन्दमहानन्दावागतौ गुह्यकामरौ ॥315॥
वन्दितुं मन्दिरं जैनं वीक्ष्य तं कर्णपत्रकम् । तौ तदीयं समादाय सधर्मा वां कुमारक: ॥316॥
इति प्रापयतं देवौ द्रव्येण महता सह । सुप्रतिष्ठं पुरं प्रीतिंकरमेनं प्रमोदिनम् ॥317॥
प्रेषणं युवयोरेतदस्माकमिति तद्रतम् । गुरो: सन्देशमालोक्य स्मृत्वा प्राग्भववृत्तकम् ॥318॥
वाराणस्यां पुरे पूर्व धनदेववणिक्पते: । भूत्वावां जिनदत्तायां शान्तवो रमण: सुतौ ॥319॥
तत्र शास्त्राणि सर्वाणि विदित्वा ग्रन्थतोऽर्थत: । चोरशास्त्रबलात्पापौ परार्थहरणे रतौ ॥320॥
अभूवास्मद्गुरूस्तस्मान्निवारयितुमक्षम: । सर्वसंगपरित्यागमकरोदतिदुस्तरम् ॥321॥
इतो धान्यपुराभ्यर्णशिखिभूधरनामनि । भूधरे मुनिमाहात्म्याद् दुष्टा: शार्दूलकादय: ॥322॥
मृगा: कांश्चिन्न बाधन्त इति श्रुत्वा जनोदितम् । कृततद्भूधरावासौ तत्र भूरितपोधनम् ॥323॥
दृष्ट्वा सागरसेनाख्यं तत्समीपे जिनोदितम् । श्रुत्वा धर्म परित्यज्य मधुमांसादिभक्षणम् ॥324॥
तस्मिन्गुरौ तत: सुप्रतिष्ठाख्यनगरं गते । शार्दूलोपद्रवान्मृत्वा देवभूयं गताविदम् ॥325॥
सर्वमेतद्गुरोरात्तव्रतादित्यभिमत्य तम् । गत्वा सम्प्राप्य सम्पूज्य किमावाभ्यां निदेशनम् ॥326॥
कर्तव्यमिति सम्पृष्टो मुनिनाथोऽब्रवीदसौ । अत: परं दिनै: कैश्चित्कर्तव्यं यद्भविष्यति ॥327॥
भवद्भयामेव तद्ज्ञात्वा विधेयमिति सादरम् । स एष तस्य सन्देश इति पत्रं प्रदश्य तत् ॥328॥
द्रव्येण बहुमा सार्ध विमानमधिरोप्य तम् । सुप्रतिष्ठपुराभ्यर्ण गिरिं धरणिभूषणम् ॥329॥
सद्य: प्रापयत: स्मैतौ किं न कुर्यादयोदय: । तदागमनमाकर्ण्य भूपतिस्तस्य बान्धवा: ॥330॥
नागराश्च विभूत्यैनं सम्मदात्समुपागता: । तेभ्य: प्रीतिंकरं दत्वा स्वावासं जग्मतु: सुरौ ॥331॥
पुरं प्रविश्य सद्रत्नै: स महीशमपूजयत् । सोऽपि सम्भाव्य तं स्थानमानादिभिरतोषयत् ॥332॥
अथान्येद्यु: कुमारस्य ज्यायसीं प्रियमित्रिकाम् । मातरं स्वतनूजस्य प्राप्ये परिणयोत्सवे ॥333॥
आत्मस्रुषामलंकर्तुं रत्नाभरणसंहतिम् । गृहीत्वा रथमारूह्य महादर्शनकर्मणे ॥334॥
यान्तीं द्रष्टुं समायाता रथ्यायां मूकिका स्वयम् । वीक्ष्य स्वभूषासन्दोहं स्पष्टमंगुलिसन्ज्ञया ॥335॥
मदीयमेतदित्युक्त्वा जनान् सा तां रथस्थिताम् । रूध्वा स्थितवती सापि प्राहैषा ग्रहिलेति ताम् ॥336॥
तद्ज्ञाश्च मन्त्रतन्त्रादिविधिभि: सुप्रयोजितै: । परीक्ष्येयं न भूतोपसृष्टेति व्यक्तमब्रुवन् ॥337॥
कुमारोऽपि तदाकर्ण्य न बिभेतु कुमारिका । राजाभ्याशं समभ्येतु तत्राहं चास्म्युपस्थित: ॥338॥
इत्यस्या: प्राहिणोत्पत्रं गूढं तद्वीक्ष्य तत्तथा । श्रद्धायाह्णायिता राज्ञ: समीपमगमन्मुदा ॥339॥
तदाभरणवृत्तान्तपरिच्छेदाय भूपति: । धर्माध्यक्षान्समाहूय विचाराय न्ययोजयत् ॥340॥
वसुन्धरान्च तत्रैव कृत्वा सन्निहितां तदा । राजा कुमारमप्राक्षीद्वेत्तीदं किं भवानिति ॥341॥
अभिधाय स्वविज्ञातं शेषं वेत्तीयमेव तत् । देवता नाहमित्येवं सोऽपि भूपमबोधयत् ॥342॥
गन्धादिभि: समभ्यर्च्य तां पटान्तरितां नृप: । देव ते ब्रूहि यद्दृष्टं तत्तथेत्यनुयुक्तवान् ॥343॥
सा नागदत्तदुश्चेष्टां महीनाथमबूबुधत् । श्रुत्वा तत्सुविचार्यास्मै कुपित्वानेन पापिना ॥344॥
कृत: पुत्रवध: स्वामिवधश्चेति महीपति: । सर्वस्वहरणं कृत्वा निगृहीतुं तमुद्यत: ॥345॥
प्रतिषिद्ध: कुमारेण नैतद्युक्तं तवेति स: । सौजन्यतस्तदा तुष्ट्वा कुमाराय निजात्मजाम् ॥346॥
पृथिवीसुन्दरीं नाम्ना कन्यकान्च वसुन्धराम् । द्वात्रिंशद्वैश्यपुत्रीश्च कल्याणविधिना ददौ ॥347॥
सह पूर्वधनस्थानमर्धराज्यन्च मावते । पुरा विहितपुण्यानां स्वयमायान्ति सम्पद: ॥348॥
प्रीत: प्रीतिंकरस्तत्र कामभोगान्समीप्सितान् । स्वेच्छया वर्धमानेच्छश्चिरायानुबभूव स: ॥349॥
मुनौ सागरसेनाख्ये सन्न्यस्यान्येद्युरीयुषि । लोकान्तरं तदागत्य चारणौ समुपस्थितौ ॥350॥
ऋजुश्च विपुलाख्यश्च मत्यन्तौ मतिभूषणौ । रम्ये मनोहरोद्याने गत्वा स्तुत्वा वणिग्वर: ॥351॥
धर्मं समन्वयुड्.क्तैतावित्याहर्जुमतिस्तयो: । धर्मोऽपि द्विविधो ज्ञेय: स गृहागृहभेदत: ॥352॥
एकादशविधस्तत्र धर्मो गृहनिवासिनाम् । श्रद्धा न व्रतभेदादि: शेषो दशविध: स्मृत: ॥353॥
क्षान्त्यादि: कर्मविध्वंसी तच्छूत्वा तदनन्तरम् । स्वपूर्वभवसम्बन्धं पप्रच्छैवन्च सोऽब्रवीत् ॥354॥
श्रृणु सागरसेनाख्यमुनिमातपयोगिनम् । पुरेऽस्मिन्नेव भूपालप्रमुखा वन्दितुं गता: ॥355॥
नानाविधार्चनाद्रव्यै: सम्पूज्य पुरमागता: । शंखतूर्यादिनिर्घातं श्रुत्वैकमिह जम्बुकम् ॥356॥
कश्चिल्लोकान्तरं यात: पुरेऽद्यैतं जनो बहि: । क्षिप्त्वा यातु ततो भक्षयिष्यामीत्यागतं मुनि: ॥357॥
भव्योऽयं व्रतमादाय मुक्तिमाशु गमिष्यति । इति मत्वा तमासन्नमसावेवमभाषत ॥358॥
प्राग्जन्मकृतपापस्य फलेनाभू: श्रृगालक: । इदानीन्च कुधी: साधुसमायोगेऽपि मन्यसे ॥359॥
दुष्कर्म विरमैतस्माद्दुरन्तदुरितावहात् । गृहाण व्रतमभ्येहि परिणामशुभावहम् ॥360॥
इति तद्वचनादेष मुनिर्मन्मनसि स्थितम् । ज्ञातवानिति संजातसम्मदं स श्रृगालकम् ॥361॥
मुनिस्तदिंगिताभिज्ञ: पुनरेवं समब्रवीत् । त्वमन्यस्य न शक्नोषि व्रतस्यामिषलालस: ॥362॥
गृहाणेदं व्रतं श्रेष्ठं रात्रिभोजनवर्जनम् । परलोकस्य पाथेयमिति धर्म्य मुनेर्वच: ॥363॥
श्रुत्वा भक्त्या परीत्यैनं प्रणम्य कृतसम्मद: । गृहीत्वा तद्व्रतं मद्यमांसादीनि च सोऽत्यजत् ॥364॥
तदा प्रभृति शाल्यादि विशुद्धाशनमाहरन् । अतिकृच्छूं तप: कुर्वन् कन्चित्कालमजीगमत् ॥365॥
शुष्काहारमथान्येद्युर्भुक्त्वा तृष्णातिबाधित: । अकास्तमयवेलायां पय:पानाभिलाषया ॥366॥
कूपं सोपानमार्गेण प्रविश्यान्त: किमप्यसौ । तत्रालोकमनालोक्य दिनेशोऽस्तमुपागत: ॥367॥
इति निर्गत्य दृष्ट्वामां पुन: पातुं प्रविष्टवान् । गोमायुरेवं द्विस्त्रिर्वा कुर्वस्तत्र गमागमौ ॥368॥
दिनेशमस्तमानीय सोढतृष्णापरीषह: । विशुद्धपरिणामेन मृतिमित्वा दृढव्रत: ॥369॥
एवं कुबेरदतस्य भूत्वा प्रीतिंकर: सुत: । व्रतेन धनमित्रायामीदृगैश्वर्यमाप्तवान् ॥370॥
इति तद्वचनाज्जातसंवेगस्तं यतीश्वरम् । शंसन् व्रतस्य माहात्म्यमभिवन्द्य ययौ गृहम् ॥371॥
निर्व्रत: संसृतौ दीर्घमश्ननन् दु:खान्यनारतम् । अपारं खेदमायाति दुर्भिक्षे दुर्विधो यथा ॥372॥
व्रतात्प्रत्ययमायाति निर्व्रत: शंकयते जनै: । व्रती सफलवृक्षो वा निर्व्रतो वन्ध्यवृक्षवत् ॥373॥
अभीष्टफलमाप्नोति व्रतवान्परजन्मनि । न व्रतादपरो बन्धुर्नाव्रतादपरो रिपु: ॥374॥
सर्वैर्वाग्वतिनो ग्राह्या निर्व्रतस्य न केनचित् । उग्राभिर्देवताभिश्च व्रतवान्नाभिभूयते ॥375॥
जरन्तोऽपि नमन्त्येव व्रतवनतं वयोनवम् । वयोवद्धो व्रताद्धीनस्तृणवद्गण्यते जनै: ॥376॥
प्रवृत्यादीयते पापं निवृत्या तस्य सड्.क्षय: । व्रतं निवृत्तिमेवाहुस्तद्गृह्णात्युत्तमो व्रतम् ॥377॥
व्रतेन जायते सम्पन्नाव्रतं सम्पदे भवेत् । तस्मात्सम्पदमाकांक्षन्नि:कांक्ष: सुव्रतो भवेत् ॥378॥
स्वर्गापवर्गयोर्बीजं जन्तो: स्वल्पमपि व्रतम् । तत्र प्रीतिंकरो वाच्यो व्यक्तं दृष्टान्तकांक्षिणाम् ॥379॥
पूर्वोपात्तव्रतस्येष्टं फलमत्रानुभूयते । कचित्कदाचित्किन्चिर्त्कि जायते कारणाद्विना ॥380॥
कारणादिच्छता कार्य कार्ययो: सुखदु:खयो: । धर्मपापे विपर्यस्ते तदा वान्यत्तदीक्ष्यताम् ॥381॥
धर्मपापे विमुच्यान्यद्द्वितयं कारणं वदन् । को विधीर्व्यसनी नोचेन्निर्घृणो नास्तिकोऽथवा ॥382॥
धीमानुदीक्षते पश्यन् जन्मनोऽस्य हिताहिते । भाविनस्ते प्रपश्यन्त: स्युर्न धीमत्तमा: कथम् ॥383॥
इति मत्वा जिनप्रोक्तं व्रतमादाय शुद्धधी: । स्वर्णापवर्गसौख्याय यतेताविष्कृतोद्यम: ॥384॥
अथ प्रियंकराख्याय साभिषेकं स्वसम्पदम् । वसुन्धरातुजे प्रीतिंकरोऽदत्त विरक्तधी: ॥385॥
एत्य राजगृहं सार्ध बहुभिर्भृत्यबान्धवै: । भगवत्पार्श्वमासाद्य संयमं प्राप्तवानयम् ॥386॥
निश्चयव्यवहारात्मसारनिर्वाणसाधनम् । त्रिरूपमोक्षसन्मार्गभावनं तद्वलोदयात् ॥387॥
निहत्य घातिकर्माणि प्राप्यानन्तचतुष्टयम् । अघातीनि च विध्वस्य पारमात्म्यं प्रयास्यति ॥388॥
इति श्रीमद्गणाधीशनिदेशान्मगधेश्वर: । प्रीतवानभिवन्द्यायान्मन्वान: स्वकृतार्थताम् ॥389॥
अथान्यदा महाराज: श्रेणिक: क्षायिकीं दृशम् । दधन्नत्वा गणाधीशं कुड्मलीकृतहस्तक: ॥390॥
शेषावसर्पिणीकालस्थितिं निरवशेषत: । आगाम्युत्सर्पिणीकालस्थितिमप्यनुयुक्तवान् ॥391॥
गणी निजद्विजाभीषुप्रसरै: प्रीणयन् सभाम् । गिरा गम्भीरया व्यक्तमुक्तवानिति स क्रमात् ॥392॥
चतुर्थकालपर्यन्ते स्थिते संवत्सरत्रये । साष्टमासे सपक्षे स्वात्सिद्ध: सिद्धार्थनन्दन: ॥393॥
दुष्षमाया: स्थितिर्वर्षसहस्त्राण्येकविंशति: । शतवर्षायुषस्तस्मिन्त्नुकृष्टेन मता नरा: ॥394॥
सप्तारत्निप्रमाणांगा रूक्षच्छाया विरूपका: । त्रिकालाहारनिरता: सुरतासक्तमानसा: ॥395॥
परेऽपि दोषा: प्रायेण तेषां स्यु: कालदोषत: । यतोऽस्यां पापकर्माणो जनिष्यन्ते सहस्त्रश: ॥396॥
यथोक्तभूभुजाभावाज्जाते वर्णादिसंकरे । दुष्षमायां सहस्त्राब्दव्यतीतौ धर्माहानित: ॥397॥
पुरे पाटलिपुत्राख्ये शिशुपालमहीपते: । पापी तनूज: पृथिवीसुन्दर्या दुर्जनादिम: ॥398॥
चतुर्मुखाह्णय: कल्किराजो वेजितभूतल: । उत्पत्स्यते माघसंवत्सरयोगसमागमे ॥399॥
समानां सप्ततिस्तस्य परमायु: प्रकीर्तितम् । चत्वारिंशत्समा राज्यस्थितिश्चाक्रमकारिण: ॥400॥
षण्णवत्युक्तपाषण्डिवर्गस्याज्ञाविधायिन: । निजभृत्यत्वमापाद्य महीं कृत्स्त्रां स भोक्ष्यति ॥401॥
अथान्येद्यु: स्वमिथ्यात्वपाकाविष्कृतचेतसा । पाषाण्डिषु किमस्माकं सन्त्यत्राज्ञापराड्.मुखा: ॥402॥
कथ्यतामिति पापेन प्रष्ठव्यास्तेन मन्त्रिण: । निर्ग्रन्था: सन्ति देवेति ते वदिष्यन्ति सोऽपि तान् ॥403॥
आचार: कीदृशस्तेषामिति प्रक्ष्यति भूपति: । निजपाणिपुटामत्रा धनहीना गतस्पृहा: ॥404॥
अहिंसाव्रतरक्षार्थ त्यक्तचेलादिसंवरा: । साधनं तपसो मत्वा देहस्थित्यर्थमाह्णतिम् ॥405॥
एकद्वयुपोषितप्रान्ते भिक्षाकालेऽगंदर्शनात् । निर्याचनात्स्वशास्त्रोक्तां ग्रहीतुमभिलाषिण: ॥406॥
आत्मनो घातके त्रायके च ते समदर्शिन: । क्षुत्पिपासादिबाधाया: सहा: सत्यपि कारणे ॥407॥
परपाषण्डिवन्नान्यैरदत्तमभिलाषुका: । सर्पा वा विहितावासा ज्ञानध्यानपरायणा: ॥408॥
अनृसंचारदेशेषु संवसन्ति मृगै: समम् । इति वक्ष्यन्ति दृष्टं स्वैर्विशिष्टास्तेऽस्य मन्त्रिण: ॥409॥
श्रुत्वा तत्सहितुं नाहं शंकोम्यक्रमवर्तनम् । तेषां पाणिपुटे प्राच्य: पिण्ड: शुल्को विधीयताम् ॥410॥
इति राजोपदेशेन याचिष्यन्ते नियोगिन: । अग्रपिण्डमभुंजाना: स्थास्यन्ति मुनयोऽपि ते ॥411॥
तद्दृष्ट्वा दर्पिणो नग्ना नाज्ञां राज्ञ: प्रतीप्यव: । किं जातमिति ते गत्वा ज्ञापयिष्यन्ति तं नृपम् ॥412॥
सोपि पाप: स्वयं क्रोधादरूणीभूतवीक्षण: । उद्यमी पिण्डमाहर्तु प्रस्फुरद्दशनच्छद: ॥413॥
सोढुं तदक्षम: कश्चिदसुर: शुद्धदृक्तदा । हनिष्यति तमन्यायं शक्त: सन् सहते न हि ॥414॥
सोऽपि रत्नप्रभां गत्वा सागरोपमजीवित: । चिरं चतुर्मुखो दु:खं लोभादनुभविष्यति ॥415॥
धर्मनिर्मूलविध्वंसं सहन्ते न प्रभावुका: । नास्ति सावद्यलेशेन विना धर्मप्रभावना ॥416॥
धर्मो माता पिता धर्मो धर्मस्त्राताभिवर्धक: । धर्ता भवभृतां धर्मो निर्मले निश्चले पदे ॥417॥इस संसार में धर्म ही प्राणियोंकी माता है, धर्म ही पिता है, धर्म ही रक्षक है, धर्म ही बढ़ाने
धर्मध्वसे सतां ध्वंसस्तस्माद्धर्मद्रुहोऽधमान् । निवारयन्ति ये सन्तो रक्षितं तै: सतां जगत् ॥418॥
निमित्तैरष्टधाप्रोक्तैस्तपोभिर्जनरंजनै: । धर्मोपदेशनैरन्यवादिदर्पातिशातनै: ॥419॥
नृपचेतोहरै: श्रव्यै: काव्यै: शब्दार्थसुन्दरै: । सद्भि: शौर्येण वा कार्य शासनस्य प्रकाशनम् ॥420॥
चिन्तामणिसमा: केचित्प्रार्थितार्थप्रदायिन: । दुर्लभा धीमतां पूज्या धन्या धर्मप्रकाशका: ॥421॥
रूचि: प्रवर्तते यस्य जैनशासनभासने । हस्ते तस्य स्थिता मुक्तिरिति सूत्रे निगद्यते ॥422॥
स शाब्द: स हि तर्कज्ञ: स सैद्धान्त: स सत्तपा: । य: शासनसमुद्भासी न चेत्किं तैरनर्थकै: ॥423॥
भास्वतेव जगद्येन भासते जैनशासनम् । तस्य पादाम्बुजद्वन्द्वं ध्रियते मूर्ध्नि धार्मिकै: ॥424॥
उदन्वानिव रत्नस्य मलयश्चन्दनस्य वा । धर्मस्य प्रभव: श्रीमान् पुमान् शासनभासन: ॥425॥
कण्टकानिव राज्यस्य नेता धर्मस्य कण्टकान् । सदोद्धरतिसोद्योगो य: स लक्ष्मीधरो भवेत् ॥426॥
प्रमदप्रसवाकीर्णे मनोरंगे महानट: । नटताज्जैनसद्धर्मभासनाभिनयो मम ॥427॥
तनूज: कल्किराजस्य बुद्धिमानजितंजय: । पत्न्या वालनया सार्ध यात्येनं शरणं सुरम् ॥428॥
सम्यग्दर्शनरत्नंच महार्घ स्वीकरिष्यति । जिनेन्द्रधर्ममाहात्म्यं दृष्ट्वा सुरविनिर्मितम् ॥429॥
तदा प्रभृति दुर्दर्पस्त्याज्य: पाषण्डिपापिभि: । कंचित्कालं जिनेन्द्रोक्तधर्मो वर्तिष्यतेतराम् ॥430॥
एवं प्रतिसहस्त्राब्दं तत्र विंशतिकल्किषु । गतेषु तेषु पापिष्ठ: पश्चिमो जलमन्थन: ॥431॥
राज्ञां स भविता नाम्ना तदा मुनिंषु पश्चिम: । चन्दाचार्यस्य शिष्य: स्यान्मुनिर्वीरांगजाह्णय: ॥432॥
सर्वश्रीरार्यिकावर्गे पश्चिम: श्रावकोत्तम: । अग्निल: फल्गुसेनाख्या श्राविका चापि सद्व्रता ॥433॥
एते सर्वेऽपि साकेतवास्तव्या दुष्षमान्त्यजा: । सत्सु पंचमकालस्य त्रिषु वर्षेष्वथाष्टसु ॥434॥
मासेष्वह:सु मासार्धमितेषु च सुभावना: । कार्तिकस्यादिपक्षान्ते पूर्वाह्णे स्वातिसंगमे ॥435॥
वीरांगजोऽग्निल: सर्वश्रीस्त्यक्त्वा श्राविकापि सा । देहमायुश्च सद्धर्माद् गमिष्यन्त्यादिमां दिवम् ॥436॥
मध्याह्ने भूभुजो ध्वंस: सायाह्ने पाकभोजनम् । षट्कर्मकुलदेशार्थहेतुधर्माश्च मूलत: ॥437॥
सार्ध स्वहेतुसम्प्राप्तौ प्राप्स्यन्ति विलयं ध्रुवम् । ततोऽतिदुष्षमादौ स्युर्विशत्यब्दपरायुष: ॥438॥
नरोऽर्धाभ्यधिकारत्नित्रयमानशरीरका: । सतताहारित: पापा गतिद्वयसमागता: ॥439॥
पुनस्तदेव यास्यन्ति तिर्यड्.नारकनामकम् । कार्पासवसनाभावाद् गतेष्वब्देषु केषुचित् ॥440॥
पर्णादिवसना: कालस्यान्ते नग्ना यथेप्सितम् । चरिष्यन्ति फलादीनि दीना: शाखामृगोपमा: ॥441॥
एकविंशतिरब्दानां सहस्त्राण्यल्पवृष्टय: । जलदा: कालदोषेण कालो हि दुरतिक्रम: ॥442॥
क्रमाद्धीबलकायायुरादिहासो भविष्यति । प्रान्ते षोडशवर्षायुर्जीविनो हस्तदेहका: ॥443॥
अस्थिराद्यशुभान्येव प्रफलिष्यन्ति नामसु । कृष्णा रूक्षतनुच्छाया दुर्भगा दुस्वरा: खला: ॥444॥
दुरीक्ष्या विकटाकारा दुर्बला विरलद्विजा: । निमग्नवक्षोगण्डाक्षिदेशाश्चिपुटनासिका: ॥445॥
त्यक्तसर्वसदाचारा: क्षुत्पिपासादिबाधिता: । सरोगा निष्प्रतीकारा दु:खास्वादैकवेदिन: ॥446॥
एवं गच्छति कालेऽस्मिन्नेतस्य परमावधौ । निश्शेषशोषमेताम्बु शरीरमिव संक्षयम् ॥447॥
अतिरौक्ष्या धरा तत्र भाविनी स्फुटिता स्फुटम् । विनाशचिन्तयेवांघ्रिपाश्च प्रम्लानयष्टय: ॥448॥
प्रलय: प्राणिनामेवं प्रायेणोपजनिष्यते । सुरसिन्धोश्च सिन्धोश्च खेचराद्रेश्च वेदिका: ॥449॥
श्रित्वा नदीसमुद्भूतमीनमण्डूककच्छपान् । कृत्वा कर्कटकादींश्च निजाहारान्मनुष्यका: ॥450॥
विष्ट्वा क्षुद्रबिलादीनि द्वासप्ततिकुलोद्भवा: । हीना दीना दुराचारास्तदा स्थास्यन्ति केचन ॥451॥
सरसं विरसं तीक्ष्णं रूक्षमुष्णं विषं विषम् । क्षारं मेघा: क्षरिष्यन्ति सप्त सप्तदिनान्यलम् ॥452॥
ततो धरण्या वैषम्यविगमे सति सर्वत: । भवेच्चित्रा समा भूमि: समाप्तात्रावसर्पिणी ॥453॥
इतोऽतिदुष्षमोत्सर्पिण्या: पूर्वोक्तप्रमाणभाक् । वर्तिष्यति प्रजावृद्धयै तत: क्षीरपयोधरा: ॥454॥
तावद्दिननिबन्धेन निर्विराममहर्दिवम् । पय: पयांसि दास्यन्ति धात्री त्यक्ष्यति रूक्षताम् ॥455॥
तन्निबन्धनवर्णादिगुणं चावाप्स्यति क्रमात् । तथैवामृतमेघाश्च तावद्दिवसगोचरा: ॥456॥
वृष्टिमापातयिष्यतिं निष्पत्स्यन्तेऽत्र पूर्ववत् । ओषध्यस्तरवो गुल्मतृणादीन्यप्यनन्तरम् ॥457॥
ततो रसाधिकाम्भोदवर्षणात्षडूसोद्भव: । यस्यामादौ बिलादिभ्यो निर्गत्य मनुजास्तदा ॥458॥
तेषां रसोपयोगेन जीविष्यन्त्याप्तसम्मदा: । वृद्धिर्गलति कालेऽस्मिन् क्रमात्प्राग्हासमात्मनाम् ॥459॥
तन्वादीनां पुनर्दुष्षमासमाया: प्रवेशने । आयुर्विशतिवर्षाणि नराणां परमं मतम् ॥460॥
सार्धारत्नित्रयोत्सेधदेहानां वृद्धिमीयुषाम् । प्राक्प्रणीतप्रमाणेऽस्मिन् । काले विमलबुद्धय: ॥461॥
षोडशाविर्भविष्यन्ति क्रमेण कुलधारिण: । प्रथमस्य मनागूना तनुश्चतुररत्निषु ॥462॥
अन्त्यस्यापि तनु: सप्तारत्निभि: सम्मिता भवेत् । आदिम: कनकस्तेषु द्वितीय: कनकप्रभ: ॥463॥
तत: कनकराजाख्यश्चतुर्थ: कनकध्वज: । कनक: पुंगवान्तोऽस्मान्नलिनो नलिनप्रभ: ॥464॥
ततो नलिनराजाख्यो नवमो नलिनध्वज: । पुंगवान्तश्च नलिन: पद्म: पद्मप्रभाह्नय: ॥465॥
पद्मराजस्तत: पद्मध्वज: पद्मादिपुंगव: । महापद्मश्च विज्ञेया: प्रज्ञापौरूषशालिन: ॥466॥
एतेषां क्रमश: काले शुभभावेन वर्धनम् । महीसलिलकालानां धान्यादीनांच संगतम् ॥467॥
मनुष्याणामनाचारत्यागो योग्यान्नभोजनम् । काले परिमिते मैत्री लज्जा सत्यं दया दम: ॥468॥
सन्तुष्टिर्विनयक्षान्ती रागद्वेषाद्यतीव्रता । इत्यादि साधुवृत्तंच वह्निपाकेन भोजनम् ॥469॥
द्वितीयकाले वर्तेत तृतीयस्य प्रवर्तने । सप्तारत्निप्रमाणांगा: खद्वयेकाब्दायुषो नरा: ॥470॥
ततस्तीर्थकरोत्पत्तिस्तेषां नामाभिधीयते । आदिम: श्रेणिकस्तस्मात्सुपार्श्वोदंकसंज्ञक: ॥471॥
प्रोष्ठिलाख्य: कटप्रूश्च क्षत्रिय: श्रेष्ठिसंज्ञक: । सप्तम: शंखनामा च नन्दनोऽय सुनन्दवाक् ॥472॥
शशांक: सेवक: प्रेमकश्चातोरणसंज्ञक: । रैवतो वासुदेवाख्यो बलदेवस्तत: पर: ॥473॥
भगलिर्वागलिर्द्वैपायन: कनकसंज्ञक: । पादान्तो नारदश्चारूपाद: सत्यकिपुत्रक: ॥474॥
त्रयोर्विशतिरित्येते सप्तारत्निप्रमादिका: । तत्रैवान्येऽपि तीर्थेशाश्चतुर्विशतिसम्मिता: ॥475॥
तत्राद्य: षोडशप्रान्तशताब्दायु:प्रमाणक: । सप्तारत्नितनूत्सेघश्चरमस्तीर्थनायक: ॥476॥
पूर्वकोडिमिताब्दायुश्चापपंचशतोच्छिूति: । तेषामाद्यो महापद्म: सुरदेव: सुपार्श्ववाक् ॥477॥
स्वयंप्रभश्च सर्वात्मभूताख्यो देवपुत्रवाक् । कुलपुत्रस्तथोदंक: प्रोष्ठिलो जयकीर्तिवाक् ॥478॥
मुनिसुव्रतनामारसंज्ञोऽपापाभिधानक: । निष्कषाय: सविपुलो निर्मलश्चित्रगुप्तक: ॥479॥
समाधिगुप्तसंज्ञश्च स्वयम्भूरिति नामभाक् । अनिवर्ती च विजयो विमलो देवपालवाक् ॥480॥
अनन्तवीर्यो विश्वेन्द्रवन्दिताडि्.घ्रसरोरूह: । कालेऽस्मिन्नेव चक्रेशा भाविनो द्वादशोच्छिूय: ॥481॥
भरतो दीर्घदन्तश्च मुक्तदन्तस्तृतीयक: । गूढदन्तश्चतुर्थस्तु श्रीषेण: पंचमो मत: ॥482॥
षष्ठ: श्रीभूतिशब्दाख्य: श्रीकान्त: सप्तम: स्मृत: । पद्मोऽष्टमो महापद्मो विचित्रादिश्च वाहन: ॥483॥
दशमोऽस्मात्पर: ख्यातश्चक्री विमलवाहन: । अरिष्टसेन: सर्वान्त्य: सम्पन्न: सर्वसम्पदा ॥484॥
सीरिणोऽपि नवैवात्र तत्राद्यश्चन्द्रनामक: । महाचन्द्रो द्वितीय: स्यात्ततश्चक्रधरो भवेत् ॥485॥
हरिचन्द्राभिध: सिंहचन्द्रश्चन्द्रो वरादिक: । पूर्णचन्द्र: सुचन्द्रश्च श्रीचन्द्र: केशवार्चित: ॥486॥
केशवाश्च नवैवात्र तेष्वाद्यो नन्दिनामक: । नन्दिमित्रो द्वितीय: स्यान्नन्दिषेणस्तत: पर: ॥487॥
नन्दिभूतिश्चतुर्थस्तु प्रतीत: पंचमो बल: । षष्ठो महाबलस्तेषु सप्तमोऽतिबलाह्नय: ॥488॥
अष्टमोऽभूत् त्रिपृष्ठाख्यो द्विपृष्ठो नवमो विभु: । तद्वैरिणापि तावन्त एव विज्ञेयसंज्ञका: ॥489॥
ततस्तत्कालपर्यन्ते भवेत्सुषमदुष्षमा । आदौ तस्या मनुष्याणां पंचचापशतोच्छिूति: ॥490॥
साधिका पूर्वकोठयायु:स्थितिर्यातेषु केषुचित् । वर्षेषु निर्विशेषात्र जघन्यार्यजनस्थिति: ॥491॥
तत: पंचमकालेऽपि मध्यभोगभुव: स्थिति: । षष्ठकालेऽपि विज्ञेया वर्यभोगभुव: स्थिति: ॥492॥
एवं शेषनवस्थानकर्मभूमिषु वर्तनम् । एवं कल्पस्थिति: प्रोक्ता भूतेष्वपि च भाविषु ॥493॥
एष एव विधिर्ज्ञेय: कल्पेषु जिनभाषित: । विदेहेषु च सर्वेषु पंचचापशतोच्छिूति: ॥494॥
मनुष्याणां परंचायु: पूर्वकोटिमितं मतम् । तत्र तीर्थकृतश्चक्रवर्तिनो रामकेशवा: ॥495॥
पृथक्पृथग्बहुत्वेन शतं षष्ठयधिकं स्मृता: । अल्पत्वेनापि ते र्विशतिर्भवन्ति पृथक्पृथक् ॥496॥
उत्कृष्टेन शतं सप्ततिश्च स्यु: सर्वभूमिजा: । उत्पद्यन्ते नरास्तत्र चतुर्गतिसमागता: ॥497॥
गतीर्गच्छन्ति पंचापि निजाचारवशीकृता: । भोगभूमिषु सर्वासु कर्मभूमिसमुद्भवा: ॥498॥
मनुष्या: सन्ज्ञिनस्तिर्यंचश्च यान्त्युपपादनम् । आदिकल्पद्वये भावनादिदेवेषु च त्रिषु ॥499॥
जीवितान्ते नियोगेन सर्वे ते देवभाविन: । मनुष्येषूत्तमा भोगभूमिजा: कर्मभूभुव: ॥500॥
निजवृत्तिविशेषेण त्रिविधास्ते प्रकीर्तिता: । शलाकापुरूषा: काम: खगाश्चान्ये सुरार्चिता: ॥501॥
सन्तो दिव्यमनुष्या: स्यु: षष्ठकाला: कनिष्ठका: । एकोरूकास्तथा भाषाविहीना: शंकुकर्णका: ॥502॥
कर्णप्रावरणालम्बशशकाश्वादिकर्णका: । अश्वसिंहमुखाश्चान्ये दुष्प्रेक्ष्या महिषानना: ॥503॥
क्रोलव्याघ्रमुखाश्चैवमुलूकमुखनामका: । शाखामृगमुखा मत्स्यमुखा: कालमुखास्तथा ॥504॥
गोमेषमेघवक्त्राश्च विद्युदादर्शवक्त्रका: । हस्तिवक्त्रा कुमानुष्यजा लांगूलविषाणिन: ॥505॥
एते च नीचकायस्मादन्तरद्वीपवासिन: । म्लेच्छखण्डेषु सर्वेषु विजयार्धेषु च स्थिति: ॥506॥
तीर्थकृत्कालवद्व्रद्धिहासवत्कर्मभूमिषु । इदंच श्रेणिकप्रश्नादिन्द्रभूतिर्गणाधिप: ॥507॥
इत्याह वचनाभीषु निरस्तान्तस्तमस्तति: । इहान्त्यतीर्थनाथोऽपि विह्णत्य विषयान् बहून् ॥508॥
क्रमात्पावापुरं प्राप्य मनोहरवनान्तरे । बहूनां सरसां मध्ये महामणिशिलातले ॥509॥
स्थित्वा दिनद्वयं वीतविहारो वृद्धनिर्जर: । कृष्णकार्तिकपक्षस्य चतुर्दश्यां निशात्यये ॥510॥
स्वातियोगे तृतीयेद्धशुल्कध्यानपरायण: । कृतत्रियोगसंरोध: समुच्छिन्नक्रियं श्रित: ॥511॥
हताघातिचतुष्क: सन्नशरीरो गुणात्मक: । गन्ता मुनिसहस्त्रेण निर्वाणं सर्ववान्छितम् ॥512॥
तदेव पुरूषार्थस्य पर्यन्तोऽनन्तसौख्यकृत् । अथ सर्वेऽपि देवेन्द्रा वह्नीन्द्रमुकुटस्फुरत् ॥513॥
हुताशनशिखान्यस्ततद्देहा मोहविद्विषम् । अभ्यर्च्य गन्धमाल्यादिद्रव्यैर्दिव्यैर्यथाविधि ॥514॥
वन्दिष्यन्ते भवातीतमर्थ्यैर्वन्दारव: स्तवै: । वीरनिर्वृतिसम्प्राप्तदिन एवास्तघातिक: ॥515॥
भविष्याम्यहमप्युद्यत्केवलज्ञानलोचन: । भव्यानां धर्मदेशेन विह्णत्य विषयांस्तत: ॥516॥
गत्वा विपुलशब्दादिगिरौ प्राप्स्यामि निर्वृतिम् । मन्निर्वृतिदिने लब्धा सुधर्म: श्रुतपारग: ॥517॥
लोकालोकावलोकैकालोकमन्त्यविलोचनम् । तन्निर्वाणक्षणे भावी जम्बूनामात्तकेवल: ॥518॥
अन्त्य: केवलिनामस्मिन्भरते स प्ररूप्यते । नन्दी मुनिस्तत: श्रेष्ठो नन्दिमित्रोऽपराजित: ॥519॥
गोवर्धनश्चतुर्थोऽन्यो भद्रबाहुर्महातपा: । नानानयविचित्रार्थसमस्तश्रुतपूर्णताम् ॥520॥
एते क्रमेण पंचापि प्राप्स्यन्त्याप्तविशुद्धय: । ततो भावी विशाखार्य: प्रोष्ठिल: क्षत्रियान्तक: ॥521॥
जयनामानुनागाह्न: सिद्धार्थो धृतिषेणक: । विजयो बुद्धिलो गंगदेवश्च क्रमतो मता: ॥522॥वही उनका, अनन्त सुख को करनेवाला सबसे बड़ा पुरूषार्थ होगा-उनके पुरूषार्थकी वही अन्तिम सीमा होगी । तदनन्तर इन्द्रादि सब देव आवेंगे और अग्नीन्द्रकुमार के मुकुटसे प्रज्वलित होनेवाली अग्निकी शिखा पर भगवान् महावीर स्वामी का शरीर रक्खेंगे । स्वर्गसे लाये हुए गन्ध, माला आदि उत्तमोत्तम पदार्थों के द्वारा मोहके शत्रुभूत उन तीर्थंकर भगवान् की विधिपूर्वक पूजा करेंगे । जिस दिन भगवान् स्वामीको निर्वाण प्राप्त होगा उसी दिन मैं भी घातिया कर्मों को नष्ट कर केवलज्ञान रूपी नेत्र को प्रकट करनेवाला होऊँगा और भव्य जीवों को धर्मोपदेश देता हुआ अनेक देशोंमें विहार करूँगा । तदनन्तर विपुलाचल पर्वतपर जाकर निर्वाण प्राप्त करूँगा । मेरे निर्वाण जानेके दिन ही समस्त-श्रुतज्ञान के पारगामी सुधर्म गणधर भी लोक और अलोकको प्रकाशित करनेवाले केवलज्ञान रूपी अन्तिम लोचनको प्राप्त करेंगे और उनके मोक्ष जानेके समय ही जम्बू स्वामी केवलज्ञान प्राप्त करेंगे । वह जम्बू स्वामी भरत क्षेत्र में अन्तिम केवली कहलावेंगे ।
एकादश सह श्रीमद्धर्मसेनेन धीमता । द्वादशांगार्थकुशला दशपूर्वधराश्च ते ॥523॥
भव्यानां कल्पवृक्षा: स्युर्जिनधर्मप्रकाशका: । ततो नक्षत्रनामा च जयपालश्च पाण्डुना ॥524॥
द्रुमसेनोऽनुकंसार्यो विदितैकादशांगका: । सुभद्रश्च यशोभद्रो यशोबाहु: प्रकृष्ठधी: ॥525॥
लोहनामा चतुर्थ: स्यादाचारांगविदस्त्वमी । जिनेन्द्रवदनोद्गीर्ण पावनं पापलोपनम् ॥526॥
श्रुतं तपोभृतामेषां प्रणेष्यति परम्परा । शेषैरपि श्रुतज्ञानस्यैको देशस्तपोधनै: ॥527॥
जिनसेनानुगैर्वीरसेनै: प्राप्तमहर्द्धिभि: । समाप्ते दुष्षमाया: प्राक्प्रायशो वर्तयिष्यते ॥528॥
भरत: सागराख्योऽनु सत्यवीर्यो जनै: स्तुत: । महीशो मित्रभावाह्नो मित्रवीर्योऽर्यमद्युति: ॥529॥
धर्मदानादिवीर्यौ च मघवान् बुद्धवीर्यक: । सीमन्धरस्त्रिपृष्ठाख्य: स्वयम्भू: पुरूषोत्तम: ॥530॥
पुण्डरीकान्तपुरूषो दत्त: सत्यादिभि: स्तुत: । कुनाल: पालक: पृथ्व्या: पतिर्नारायणो नृणाम् ॥531॥
सुभौम: सार्वभौमौऽजितंजयो विजयाभिध: । उग्रसेनो महासेनो जिनस्त्वं श्रेणिकेत्यमी ॥532॥
सर्वे क्रमेण श्रीमन्तो धर्मप्रश्नविदां वरा: । चतुर्विशतितीर्थेशां सन्ततं पादसेविन: ॥533॥
पुरूरवा: सुर: प्राच्यकल्पेऽभूद्भरतात्मज: । मरीचिर्ब्रह्मकल्पोत्थस्ततोऽभूज्जटिलद्विज: ॥534॥
सुर: सौधर्मकल्पेऽनु पुष्पमित्रद्विजस्तत: । सौधर्मजोऽमरस्तस्माद्विजन्माग्निसमाह्णय: ॥535॥
सनत्कुमारदेवोऽस्मादग्निमित्राभिधो द्विज: । मरून्माहेन्द्रकल्पेऽभूद्भारद्वाजो द्विजान्वये ॥536॥
जातो माहेन्द्रकल्पेऽनु मनुष्योऽनु ततश्च्युत: । नरकेषु त्रसस्थावरेष्वसंख्यातवत्सरान् ॥537॥
भ्रान्त्वा ततो विनिर्गत्य स्थावराख्यो द्विजोऽभवत् । ततश्चतुर्थकल्पेऽभूद्विश्वनन्दी ततश्च्युत: ॥538॥
महाशुक्रे ततो देवस्त्रिखण्डेशस्त्रिपृष्ठवाक् । सप्तमे नरके तस्मात्तस्माच्च गजविद्विष: ॥539॥
आदिमे नरके तस्मात्सिंह: सद्धर्मनिर्मल: । तत: सौधर्मकल्पेऽभूत्सिंहकेतु: सुरोत्तम: ॥540॥
कनकोज्ज्वलनामाभूत्ततो विद्याधराधिप: । देव: सप्तमकल्पेऽनु हरिषेणस्ततो नृप: ॥541॥
महाशुक्रे ततो देव: प्रियमित्रोऽनु चक्रभृत् । स सहस्त्रारकल्पेऽभूद्देव: सूर्यप्रभाह्णय: ॥542॥
राजा नन्दाभिधस्तस्मात्पुष्पोत्तरविमानज: । अच्युतेन्द्रस्ततश्च्युत्वा वर्धमानो जिनेश्वर: ॥543॥
प्राप्तपंचमहाकल्याणर्द्धि: प्रस्तुतसिद्धिभाक् । प्रदिश्याद्गुणभद्रेभ्य: स विभु: सर्वमंगलम् ॥544॥
शार्दूलविक्रिडितम्
इत्थं गौतमवक्त्रवारिजलसद्वाग्वल्लभावाड्.मयै:
पीयूषै: सुकथारसातिमधुरैर्भक्तयोपयुक्तैश्चिरम् ।
सा संसन्मगधाधिपश्च महतीं तुष्टिं समं जग्मतु:
पुष्टिं दृष्टिविबोधयोर्विदधतीं सर्वार्थसम्पत्करीम् ॥545॥
वसन्तिलका
श्रीवर्धमानमनिशं जिनवर्धमानं
त्वां तं नये स्तुतिपथं पथि सम्प्रधौते ।
योऽन्त्योऽपि तीर्थकरमग्रिमप्यजैषीत्
काले कलौ च पृथुलीकृतधर्मतीर्थ: ॥546॥
स्तुत्यं प्रसादयितुमर्थिजनो विनौति
न त्वय्यदस्तव स मोहजयस्तवोऽयम् ।
तन्नार्थिन: स्तुतिरिहेश ममास्ति बाढं
स्तुत्यस्तुतिप्रणयिनोऽर्थपराड्.मुखस्य ॥547॥
येषां प्रमेयविमुखं सुमुखप्रमाणं
ते न स्तुतेहिंतजुषां विषयीभवेयु: ।
त्वं विश्वभावविहितावगमात्मकोऽर्हन्
वक्ता हि तस्य तत एव हितैषिवन्द्य: ॥548॥
दातासि न स्तुतिफलं समुपैत्यवश्यं
स्तोता महज्झटिति शुभ्रमयाचितोऽयम् ।
कुर्या कुतस्तव न संस्तवनं जिनेश
दैन्यातिभीरूरहमय्यफलाभिलाषी ॥549॥
निष्कारणं तृणलवंच ददद्विधी: को
लोके जिन त्वयि ददाति निरर्थकृत्वम ।
मुक्तिप्रदायिनि तथापि भवन्तमेव
प्रेक्षावतां प्रथमगण्यमुशन्ति चित्रम् ॥550॥
सर्वस्वमर्थिजनता: स्वमिह स्वकीयं
चक्रु: परे निरूपधिस्थिरसत्वसारा: ।
प्रोल्लंघय तान् जिन वदन्ति वदान्यवर्य
त्वां वाग्भिरेव वितरन्तमहो विदग्धा: ॥551॥
धी: पौरूषंच विजयार्जनमेव येषां
सौख्यंच विश्वविषया विरतोपभोग: ।
तेषां कथं तदुभयप्रतिपक्षरूपं
त्वच्छासनं श्रवणभिज्जिन मा जनिष्ट ॥552॥
पुण्यं त्वया जिन विनेयविधेयमिष्टं
गत्यादिभि: परमनिर्वृतिसाधनत्वात् ।
नैवामराखिलसुखं प्रति तंच यस्माद्
बन्धप्रदं विषयनिष्ठमभीष्टघाति ॥553॥
कायादिकं सदसि ते विफलं किलाहु –
र्नैतद्वचस्तव निशम्य निशाम्य साक्षात् ।
त्वां यान्ति निर्वृतिमिहैव विनेयमुख्या
मुख्यं फलं ननु फलेषु परोपकार: ॥554॥
यल्लक्षणक्षतिकृदात्मनि तद्धि कर्म
नामादिकं किमु निहन्ति तवोपयोगम् ।
तत्सत्तया जिन भवन्तमसिद्धमिच्छ
न्निच्छेदनूर्ध्वगमनादतनोरसिद्धिम् ॥555॥
साद्यन्तहीनमनद्यमनादिसान्तं
सावद्यमादिरहितानवसानमाहु: ।
त्वां दु:खिनं सुखिनमप्युभयव्यपेतं
तेनैव दुर्गमतमोऽसि नयानभिज्ञै: ॥556॥
संयोगज: स्वज इति द्विविधो हि भावो
जीवस्य योगविगमाद्विगमी तदुत्थ: ।
स्वोत्थे स्थिति: परमनिर्वृतिरेष मार्गो
दुर्ग: परस्य तव वाक्यबहिष्कृतस्य ॥557॥
आस्तामनादि निगलच्छिदया ददासि
यन्मुक्तिमन्तरहितां तदिहालमेषा ।
स्नेहादिहेतुविनिवृत्तसमस्तसत्व-
सम्पालनप्रवणतैव तवाप्ततायै ॥558॥
बोधस्तवाखिलविलोकनविभ्रमी किं
किं वाग्मितामितपदार्थनिरूपणायाम् ।
किं स्वार्थसम्पदि परार्थपराड्.मुखस्त्वं
किं नासि सत्सु जिन पूज्यतमस्त्वमेव ॥559॥
विश्वावलोकनवितन्वदनन्तवीर्य-
व्यापारपारसरणं न कदापि ते स्यात् ।
चित्रं तथापि सुखिनां सुखिनं भवन्तं
सन्तो वदन्ति किमु भक्तिरूतावबोध: ॥560॥
भव्यात्मनां परमनिर्वृतिसाधनार्थ
त्वच्चेष्टितं तव न तत्र फलोपलिप्सा ।
तस्मात्वमेव जिन वागमृताम्बुवृष्ढया
सन्तर्पयन् जगदकारणबन्धुरेक: ॥561॥
जीवोऽयमुद्यदुपयोगगुणोपलक्ष्य-
स्तस्योपहन्तृ ननु घातिचतुष्कमेव ।
घातेन तस्य जिन पुष्कललक्षणस्त्वं
त्वां तादृशं वद वदन्तु कथं न सिद्धम् ॥562॥
साधारणास्तव न सन्तु गुणास्तदिष्टं
दृश्यो न तेषु जिन सत्सु गुणेषु साक्षात् ।
दृष्टे भवेद्भवति भक्तिरसौ ययाय -
श्चेचीयते स्त्रवति पापमपि प्रभूतम् ॥563॥
देवावगाढ़मभवत्तव मोहघाता-
च्छूद्धानमावृतिहते: परमावगाढम् ।
आद्ये चरित्रपरिपूर्तिरथोत्तरत्र-
विश्वावबोधविभुतासि ततोऽभिवन्द्य: ॥564॥
ध्वस्तं त्वया प्रबलपापबलं परन्च
प्रोद्भिन्नपालिजलवत्प्रवहत्यजस्त्रम् ।
श्रद्धादिभिस्त्रिभिरभूत्त्रितयी च सिद्धि:
सद्धर्मचक्रसुभवद्भुवनैकनाथ: ॥565॥
देहो विकाररहितस्तव वाग्यथार्थ-
दृक्छ्रोत्रनेत्रविषयत्वमुपेत्य सद्य: ।
त्वामस्तरागमखिलाव्रगमन्च कस्य
न स्थापयेन्मनसि मन्मथमानमदिंन् ॥566॥
किं वस्त्विहाक्षणिकमन्वयरूपमस्ति
व्यस्तान्वयं वद हि किं क्षणिकन्च किन्चित् ।
बुद्धादयो बुधप गर्भगतार्भकाभा
भेदोऽयमर्थविमुखोवगमो ह्यमीषाम् ॥567॥
तिष्ठत्यगोचरमनन्तचतुष्टयं ते
स्वाभाविकाद्यतिशयेष्वपरोऽपि कश्चित् ।
कस्यापि सम्भवति किं कपिलादिकानां
केनाप्त पडि्.क्तमुपयान्ति तपस्विनोऽमी ॥568॥
त्वामामनन्ति मुनय: परमं पुमांसं
ध्वस्तत्रिवेदमपि किं परमांगसंगात् ।
किं मोहमल्लदहनात्किमनन्तवीर्यात्
किं सिद्धतापरिणतेर्गुणगौरवाद्धा ॥569॥
देहत्रयापनयनेन विनापि सिद्धि –
स्त्वं शुद्धिशक्तयतुलधृत्त्युदितोदितत्वात् ।
आधिक्यमस्त्य धिपते त्वदुदीरितोरू-
सन्मार्गगान्नयसि यत्परमात्मभावम् ॥570॥
अस्त्येव देव तव चौदयिकोऽपि भाव:
किं त्वेष मोहरहितस्य न बन्धहेतु: ।
योगानुरोधसमवाप्तशुभाणुवेद्य-
बन्धं निबन्धन मुशन्त्यविरोधकत्वात् ॥571॥
त्वत्पादपंकजषडड्.घ्रितयाप्तपुण्याद्
गण्योऽभवत्सुरगणो गणनातिगश्री: ।
आनम्रमौलिरत एव नखोन्मुखांशु-
भास्वन्मुख: शतमख: सुमुखस्तवाड़्घ्न्यो: ॥572॥
मालिनी
प्रशमपरमकाष्ठानिष्ठितोदात्तमूर्ते:
क्रमकरणविहीनज्ञानधामैकधाम्न: ।
द्वितयनयमयोद्यद्धीरदिव्यध्वनेस्ते
ननु जिन परमात्मप्राभवं भाति भर्तु: ॥573॥
शार्दूलविक्रीडितम्
ज्ञानं सर्वगतं स्वरूपनियतं ते स्यादहेतु: कृते-
र्वीतेच्छायतना: स्वकृत्यपटवो वाचो विवाचामपि ।
प्रस्थानस्थितयोऽप्यनात्मविहिता मात्मान्यबाधाप्रदा:
स त्वं निर्मलबोधदर्पणतले ज्ञेयाकृतिं धत्स्व मे ॥574॥
विश्वस्यास्खलितं प्रशास्ति तव वाग्याथात्म्यमात्मेशिनो
यस्माद्दृष्टविरोधरोधरहिता रागाद्यविद्याच्छिद: ।
तस्माद्धीर विकायसायकशिखामौखर्यवीर्यद्रु हो
मोहद्रोहजयस्तवैव न परेष्वन्यायविन्यासिषु ॥575॥
देवो वीरजिनोऽयमस्तु जगतां वन्द्य: सदा मूर्ध्नि मे
देवस्त्वं ह्णदये गणेश वचसा स्पष्टेन येनाखिलम् ।
कारूण्यात्प्रथमानुयोगमवद: श्रद्धाभिवृद्धयावहं
मद्भाग्योदयत: सतां स सहजो भावो ह्ययं तादृशाम् ॥576॥
मालिनी
इति कतिपयवाग्भिर्वर्धमानं जिनेन्द्रं
मगधपतिरूद्रीर्णश्रद्धया सिद्धकृत्य: ।
गणधृतमपि नुत्वा गौतमं धर्मधुर्य:
स्वपुरमविशदुद्यत्तुष्टिरागामिसिद्धि: ॥577॥
अनुष्टुप्छन्दसा ज्ञेया ग्रन्थसंखया तु विंशति: ।
सहस्त्राणां पुरागस्य व्याख्यातृश्रोतृलेखकै: ॥578॥
🏠
पर्व - 77
यस्यानता: पदनखैन्दवबिम्बचुम्बि: चूडामणिप्रकटसन्मुकुटा: सुरेन्द्रा: ।
न्यक्कुवते स्म हरमर्धशशांकमौलिलीलोद्धतं स जयताज्जिवनर्धमान: ॥1॥
श्रीमूलसड्. घवाराशौ मणीनामिव सार्चिषाम् । महापुरूषरत्नानां स्थानं सेनान्वयोऽजनि ॥2॥
तत्र वित्रासिताशेषप्रवादिमदवारण: । वीरसेनाग्रणीर्वीरसेनभट्टारको बभौ ॥3॥
ज्ञानचारित्रसामग्रीवा ग्रहीदिव विग्रहम् । विराजते विधातु यो विनेयानामनुग्रहम् ॥4॥
यत्क्रमानम्रराजन्यमुखब्जान्यादधु: श्रियम् । चित्रं विकासमासा़द् नखचन्द्रमरीचिभि: ॥5॥
सिद्धिभूपद्धतिं यस्य टीकां संवीक्ष्य भिक्षुभि: । टीक्यते हेलयान्येषां विषमापि पदे पदे ॥6॥
यस्यास्याब्जजवाक्छिूया धवलया कीर्त्येव संश्राव्यया
सम्प्रीतिं सततं समस्तसुधियां सम्पादयन्त्या सताम् ।
विश्वव्याप्ति परिश्रमादिव चिंर लोके स्थितिं संश्रिता:
श्रोत्रालीनमलान्यना़द्युपचितान्यस्तानि नि:शेषत: ॥7॥ अभवदिव हिमाद्रेर्देसिन्धुप्रवाहो
ध्वनिरिव सकलज्ञात्सर्वशास्त्रैकमुर्ति: ।
उदयगिरितटाद्वा भास्करो भासमानो
मुनिरनु जिनसेनो वीरसेनादमुष्मात ॥8॥
यस्य प्रांशुनखांशुजालविसरद्धारान्तराविर्भवत्
पादाम्भोजरज: विशंगमुकुटप्रत्यग्ररत्नद्युति: ।
संस्मर्ता स्वममोघवर्षनृपति: पूतोऽहमद्येत्यलम्
स श्रीमान्जिनसेनपूज्यभगवत्पादो जगन्मंगलम् ॥9॥
प्रावीण्यं पदवाक्ययो: परिणति: पक्षान्तराक्षेपणे
सद्भवावगति: कृतान्तविषया श्रेय:कथाकौशलम् ।
ग्रन्थग्रन्थिभिदि: सदध्वकवितेत्यग्रो गुणानां गुणो
ये सम्प्राप्य चिरं कलंकविकल: काले कलौ सुस्थित: ॥10॥
ज्योत्स्नेव ताराकाधीशे सहस्त्रांशाविव प्रभा । स्फटिके स्वच्छतेवासीत्सहजास्मिन्सरस्वती ॥11॥
दशरथगुरूरासीत्तस्य धीमान्सधर्मा
शशिन इव दिनेशो विश्वलोकैकचक्षु: ।
निखिलमिदमदीपि व्यापि तद्वाड्.मयूखै:
प्रकटितनिजभावं निर्मलैर्धर्मसारै: ॥12॥
सद्भाव: शर्वशास्त्राणां तद्भास्वद्वाक्यविस्तरे । दर्पणार्पितबिम्बाभो बालैरप्याशु बध्यते ॥13॥
प्रत्यक्षीकृतलक्ष्यलक्षणविधिविंश्वोपविद्यां गत:
सिद्धान्ता ब्ध्यवसानयानजनित प्रागल्भ्यवृद्धीद्धधी: ।
नानानूननयप्रमाणनिपुणोऽगण्यैगुणैर्भूषित:
शिष्य: श्रीगुणभद्रसूरिरनयोरासीज्जगद्विश्रुत: ॥14॥
पुण्यश्रियोऽयमजयत्सुभगत्वदर्प-
मित्याकलरय्य परिशुद्धमतिस्तपश्री: ।
मुक्तिश्रिया पटुतमा प्रहितेव दूती
प्रीत्या महागुणधनं समशिश्रियद्यम् ॥15॥
तस्य वचनांशुविसर: सन्ततह्णतदुस्तरान्तरंगतमा: ।
कुवलयपद्माह्लादी जितशिशिराशिशिरराश्मिप्रसर: ॥16॥
कविपरमेश्वरनिगदितगद्यकथामातृकं पुरोश्चरितम् ।
सकलच्छन्दोलकृंतिलक्ष्यं सूक्ष्मार्थगूढपदरचनम् ॥17॥ व्यावर्णनानुसारं साक्षात्कृतसर्वशास्त्रसद्भावम ।
अपहस्तितान्यकाव्यं श्रव्यं व्युत्पन्नमतिभिरादेयम् ॥18॥ जिनसेनभगवतोक्त मिथ्याकविदर्पदलनतिललितम् ।
सिद्धान्तोपनिबन्धनकर्त्रा भर्त्रा विनेयानाम् ॥19॥
अतिविस्तर भीरूत्वादवशिष्टं सड्.गृहीतममलधिया ।
गुणभद्रसूरिणेदं प्रहीणकालानुरोधेन ॥20॥
व्यावर्णनादिरहितं सुबोधमखिलं सुलेखमखिलहितम् ।
महितं महापुराणं पठन्तु श्रृण्वन्तु भक्तिमद्भव्या: ॥21॥
इदं भावयतां पुंसां भूयो भवबिभित्सया । भव्यानां भाविसिद्धीनां शुद्धदृग्वृत्तविद्वताम् ॥22॥
शान्तिर्वृद्धिर्जय: श्रेय: प्राय: प्रेय: समागम: । विगमो विप्लवव्याप्तेराप्तिरत्यर्थसम्पदाम् ॥23॥
बन्धहेतुफलज्ञानं स्याच्छुभाशुभकर्मणाम् । विज्ञेयो मुक्तिसद्भावो मुक्तिहेतुश्च निश्चित: ॥24॥
निर्वेगत्रितयोद्भूतिर्धर्मश्रद्धाप्रवर्धनम्. । असंखयेयगुणक्षेण्या निर्जराशुभकर्मणाम् ॥25॥
आस्त्रवस्य च संरोध: कृत्स्नकर्मविमोक्षणात् । शुद्धिरात्यन्तिकी प्रोक्ता सैव संसिद्धिरात्मन: ॥26॥
तदेतदेव व्याख्येयं श्रव्यं भव्यैनिंरन्तरम् । चिन्त्यं पूज्यं मुदा लेख्यं लेखनीयंच भाक्तिकै: ॥27॥
विदितसकलशास्त्रो लोकसेनो मुनीश:
कविरविकलवृत्तस्तस्य शिष्येषु मुख्य: ।
सततमिह पुराणे प्रार्थ्य साहाय्यमुच्चै-
र्गुरूविनयमनैषीन्मान्यतां स्वस्य सद्भि: ॥28॥
यस्योत्तुंगमतंगजा निजमदस्त्रोतस्विनीसंगमा-
द्रांगं वारि कलंकितं कटु मुहु: पीत्वापगच्छत्तृष: ।
कौमारं घनचन्दनं वनमपां पत्युस्तरंगानिलै-
र्मन्दान्दोलितमस्तभास्करकरच्छायं समाशिश्रियन् ॥29॥
दुग्धाब्धौ गिरिणा हरौ हतसुखा गोपीकुचोद्धट्टनै:
पद्मे भानुकरैभिंदेलिमदले रात्रौ च संकोचने ।
यस्योर:शरणे प्रथीयसि भुजस्तम्भान्तरोत्तम्भित-
स्थेये हारकलापतोरणगुणे श्री: सौख्यमागाच्चिरम् ॥30॥
अकालवर्षभूपाले पालयत्यखिलामिलाम् । तस्मिन्विध्वस्तनिश्शेषद्विषि वीध्रयशोजुषि ॥31॥
पद्मालयमुकुलकुलप्रविकासकसत्प्रतापततमहसि ।
श्रीमति लोकादित्ये प्रध्वस्तप्रथितशत्रुसन्तमसे ॥32॥ चेल्लपताके चेल्लध्वजानुजे चेल्लकेतनतनूजे ।
जैनेन्द्रधर्मवृद्धेविंधायिनि विधुवीध्रपृथुयशसि ॥33॥ वनवासदेशमखिलं भुज्जति निष्कण्टकं सुखं सुचिरम् ।
तत्पितृनिजनामकृते ख्याते वंकापुरे पुरेष्वधिके ॥34॥
शकनृपकालाभ्यन्तरविंशत्यधिकाष्ठशतमिताब्दान्ते ।
मंगलमहार्थकारिणि पिंगलनामनि समस्तजनसुखदे ॥35॥ श्रीपन्चम्यां बुधार्द्रायुजि दिवसजे मन्त्रिवारे बुधांशे
पूर्वायां सिंहलग्ने धनुषि धरणिजे सैंहिकेये तुलायाम् ।
सूर्ये शुक्रे कुलीरे गवि च सुरगुरौ निष्ठितं भव्यवर्यै:
प्राप्तेज्यं सर्वसारं जगति विजयते पुण्यमेतत्पुराणम् ॥36॥
यावद्धरा जलनिधिर्गगनं हिमांशु -
स्तिग्मद्युति: सुरगिरि: ककुभां विभाग: ।
तावत्सतां वचसि चेतसि पूतमेत -
च्छ्रोतस्यतिर्स्थितिमुपैतु महापुराणम् ॥37॥
धर्मोऽत्र मुक्तिपदमत्र कवित्वमत्र
तीर्थेशिनां चरितमत्र महापुराणे ।
यद्वा कवीन्द्रजिनसेनमुखारविन्द–
निर्यद्वचांसि न मनांसि हरन्ति केषाम् ॥38॥
महापुराणस्य पुराणपुंस: पुरा पुराणे तदकारि किन्चित् ।
कवीशिनानेन यथा न काव्यचर्चासु चेतोविकला: कवीन्द्रा: ॥39॥
स जयति जिनसेनाचार्यवर्य: कवीडय:
विमलमुनिगणेडय: भव्यमालासमीडच: ।
सकलगुणसमाढयो दुष्टवादीभसिंहो-
विदितसकलशास्त्र: सर्वराजेन्द्रवन्द्य: ॥40॥
यदि सकलकवीन्द्रप्रोक्तसूक्तप्रचार-
श्रवणसरसचेतास्तत्त्वमेवं सखे स्या: ।
कविवरजिनसेनाचार्यवकत्रारविन्द-
प्रणिगदितपुराणाकर्णनाभ्यर्णकर्ण: ॥41॥
स जयति गुणभद्र: सर्वयोगीन्द्रवन्द्य:
सकलकविवराणामग्रिम: सूरिवन्द्य: ।
जितमदनविलासो दिक्चलत्कीर्तिकेतु-
र्दुरिततरूकुठार: सर्वभूपालवन्द्य: ॥42॥
धर्म: कश्चिदिहास्ति नैतदुचितं वक्तुं पुराणं महत्
श्रव्या: किन्तु कथास्त्रिषष्टिपुरूषाख्यानं चरित्रार्णव: ।
कोऽप्यस्मिन्कवितागुणोऽस्ति कवयोऽप्येतद्वचोब्जालय:
कोऽसावत्र कवि: कवीन्द्रगुणभद्राचार्यवर्य: स्वयम् ॥43॥
🏠