श्रीजिनेन्द्रगुणसंस्तुति
जिनेन्द्र ! गुणसंस्तुतिस्तव मनागपि प्रस्तुता
भवत्यखिलकर्मणां प्रहतये परं कारणम् ।
इति व्यवसिता मतिर्मम ततोऽहमत्यादरात्
स्फुटार्थनयपेशलां सुगत ! संविधास्ये स्तुतिम् ॥1॥
मतिः श्रुतमथवावधिश्च सहजं प्रमाणं हि ते
ततः स्वयमबोधि मोक्षपदवीं स्वयम्भूर्भवान् ।
न चैतदिह दिव्यचक्षुरधुनेक्ष्यतेऽस्मादृशां
यथा सुकृतकर्मणां सकलराज्यलक्ष्म्यादयः ॥2॥
व्रतेषु परिरज्यसे निरुपमे च सौख्ये स्पृहा
बिभेष्यपि च संसृतेरसुभृतां वधं द्वेक्ष्यपि ।
कदाचिददयोदयो विगतचित्तकोऽप्यञ्जसा
तथाऽपि गुरुरिष्यसे त्रिभुवनैकबन्धुर्जिनः ॥3॥
तपः परमुपश्चितस्य भवतोऽभवत्केवलं
समस्तविषयं निरक्षमपुनश्च्युति स्वात्मजम् ।
निरावरणक्रमं व्यतिकरादपेतात्मकं
तदेव पुरुषार्थसारमभिसम्मतं योगिनाम् ॥4॥
परस्परविरोधवद्विविधभङ्गशाखाकुलं
पृथग्जनसुदुर्गमं तव निरर्थकं शासनम् ।
तथापि जिन ! सम्मतं सुविदुषां न चात्यद्भुतं
'भवन्ति हि महात्मनां दुरुदितान्यपि ख्यातये' ॥5॥
सुरेन्द्रपरिकल्पितं बृहदनर्घ्यसिंहासनं
तथाऽऽतपनिवारणत्रयमथोल्लसच्चामरम् ।
वशं च भुवनत्रयं निरुपमा च निःसंगता
न संगतमिदं द्वयं त्वयि तथाऽपि संगच्छते ॥6॥
त्वमिन्द्रियविनिग्रहप्रवणनिष्ठुरं भाषसे
तपस्यपि यातयस्यनघदुष्करे संश्रितान् ।
अनन्यपरिदृष्टया षडसुकायसंरक्षया ।
स्वनुग्रहपरोऽप्यहो ! त्रिभुवनात्मनां नापरः ॥7॥
ददास्यनुपमं सुखं स्तुतिपरेष्वतुष्यन्नपि
क्षिपस्यकुपितोऽपि च ध्रुवमसूयकान्दुर्गतौ ।
न चेश ! परमेष्ठिता तव विरुद्ध्यते यद्भवान्
न कुप्यति न तुष्यति प्रकृतिमाश्रितो मध्यमाम् ॥8॥
परिक्षपितकर्मणस्तव न जातु रागादयो
न चेन्द्रियविवृत्तयो न च मनस्कृता व्यावृतिः ।
तथाऽपि सकलं जगद्युगपदंजसा वेत्सि च
प्रपश्यसि च केवलाभ्युदितदिव्यसच्चक्षुषा ॥9॥
क्षयाच्च रतिरागमोहभयकारिणां कर्मणां
कषायरिपुनिर्जयः सकलतत्त्वविद्योदयः ।
अनन्यसदृशं सुखं त्रिभुवनाधिपत्यं च ते
सुनिश्चितमिदं विभो ! सुमुनिसम्प्रदायादिभिः ॥10॥
न हीन्द्रियधिया विरोधि न च लिङ्गबुद्धया वचो
न चाप्यनुमतेन ते सुनय ! सप्तधा योजितम् ।
व्यपेतपरिशङ्कनं वितथकारणादर्शना-
दतोऽपि भगवंस्त्वमेव परमेष्ठितायाः पदम् ॥11॥
न लुब्ध इति गम्यसे सकलसङ्गसंन्यासतो
न चाऽपि तव मूढता विगतदोषवाग्यद्भवान् ।
अनेकविधरक्षणादसुभृतां न च द्वेषिता
निरायुधतयाऽपि च व्यपगतं तथा ते भयम् ॥12॥
यदि त्वमपि भाषसे वितथमेवमाप्तोऽपि सन्
परेषु जिन का कथा प्रकृतिलुब्धमुग्धादिषु ।
न चाऽप्यकृतकात्मिका वचनसंहतिर्दृश्यते
पुनर्जननमप्यहो ! न हि विरुध्यते युक्तिभिः ॥13॥
सजन्मरणर्षिगोत्रचरणादिनामश्रुते-
रनेकपदंसहतिप्रतिनियामसन्दर्शनात् ।
फलार्थिपुरुषप्रवृत्तिविनिवृत्तिहेत्वात्मनां-
श्रुतेश्च मनुसूत्रवत्पुरुषकर्तृकैव श्रुतिः ॥14॥
स्मृतिश्च परजन्मनः स्फुटमिहेक्ष्यते कस्यचित्
तथाप्तवचनान्तरात्प्रसृतलोकवादादपि ।
न चाऽप्यसत उद्भवो न च सतो निमूलात्क्षयः
कथं हि परलोकिनामसुभृतामसत्तोह्यते ॥15॥
न चाऽप्यसदुदीयते न च सदेव वा व्यज्यते
सुराङ्गमदवत्तथा शिखिकलापवैचित्र्यवत् ।
क्वचिन्मृतकरन्धनार्थपिठरादिके नेक्ष्यते ।
कथं क्षितिजलादिसङ्गगुण इष्यते चेतना ॥16॥
प्रशान्तकरणं वपुर्विगतभूषणं चाऽपि ते
समस्तजनचित्तनेत्रपरमोत्सवत्वं गतम् ।
विनाऽऽयुधपरिग्रहाज्जिन ! जितास्त्वया दुर्जयाः
कषायरिपवो परैर्न तु गृहीतशस्त्रैरपि ॥17॥
धियान्तरतमार्थवद्गतिसमन्वयान्वीक्षणात्
भवेत्खपरिमाणवत्क्वचिदिह प्रतिष्ठा परा ।
प्रहाणमपि दृश्यते क्षयवतो निमूलात्क्वचित्
तथाऽयमपि युज्यते ज्वलनवत्कषायक्षयः ॥18॥
अशेषविदिहेक्ष्यते सदसदात्मसामान्यवित्
जिन ! प्रकृतिमानुषोऽपि किमुताखिलज्ञानवान् ।
कदाचिदिह कस्यचित्क्वचिदपेतरागादिता
स्फुटं समुपलभ्यते किमुत ते व्यपेतैनसः ॥19॥
अशेषपुरुषादितत्त्वगतदेशनाकौशलं
त्वदन्यपुरुषान्तरानुचितमाप्ततालाञ्छनम् ।
कणादकपिलाक्षपादमुनिशाक्यपुत्रोक्तयः
स्खलन्ति हि सुचक्षुरादिपरिनिश्चितार्थेष्वपि ॥20॥
परैरपरिणामकः पुरुष इष्यते सर्वथा
प्रमाणविषयादितत्त्वपरिलोपनं स्यात्ततः ।
कषायविरहान्न चाऽस्य विनिबन्धनं कर्मभिः
कुतश्च परिनिर्वृतिः क्षणिकरूपतायां तथा ॥21॥
मनो विपरिणामकं यदिह संसृतिं चाश्नुते
तदेव च विमुच्यते पुरुषकल्पना स्याद् वृथा ।
न चाऽस्य मनसो विकार उपपद्यते सर्वथा
ध्रुवं तदिति हीष्यते द्वितयवादिता कोपिनि ॥22॥
पृथग्जनमनोनुकूलमपरैः कृतं शासनं
सुखेन सुखमाप्यते न तपसेत्यवश्येन्द्रियैः ।
प्रतिक्षणविभङ्गुरं सकलसंस्कृतं चेष्यते ।
ननु स्वमतलोकलिङ्गपरिनिश्चितैर्व्याहितम् ॥23॥
न सन्ततिरनश्वरी न हि च नश्वरी नो द्विधा
वनादिवदभाव एव यत इष्यते तत्त्वतः ।
वृथैव कृषिदानशीलमुनिवन्दनादिक्रियाः
कथञ्चिदविनश्वरी यदि भवेत्प्रतिज्ञाक्षतिः ॥24॥
अनन्यपुरुषोत्तमो मनुजतामतीतोऽपि स-
मनुष्य इति शस्यसे त्वमधुना नरैर्बालिशैः ।
क्व ते मनुजगर्भिता क्व च विरागसर्वज्ञता
न जन्ममरणात्मता हि तव विद्यते तत्त्वतः ॥25॥
स्वमातुरिह यद्यपि प्रभव इष्यते गर्भतो
मलैरनुपसंप्लुतो वरसरोजपत्राऽम्बुवत् ।
हिताहितविवेकशून्यहृदयो न गर्भेऽप्यभूः
कथं तव मनुष्यमात्रसदृशत्वमाशङ्कयते ॥26॥
न मृत्युरपि विद्यते प्रकृतिमानुषस्येव ते
मृतस्य परिनिर्वृतिर्न मरणं पुनर्जन्मवत् ।
जरा च न हि यद्वपुर्विमलकेवलोत्पत्तितः
प्रभृत्यरुजमेकरूपमवतिष्ठते प्राङ्मृतेः ॥27॥
परः कृपणदेवकैः स्वयमसत्सुखैः प्रार्थ्यते
सुखं युवतिसेवनादिपरसन्निधिप्रत्ययम् ।
त्वया तु परमात्मना न परतो यतस्ते सुखं
व्यपेतपरिणामकं निरुपमं ध्रुवं स्वात्मजम् ॥28॥
पिशाचपरिवारितः पितृवने नरीनृत्यते
क्षरद्रुधिरभीषणद्विरदकृत्तिहेलापटः ।
हरो हसति चायतं कहकहाट्टहासोल्बणं
कथं परमदेवतेति परिपूज्यते पण्डितैः ॥29॥
मुखेन किल दक्षिणेन पृथुनाऽखिलप्राणिनां
समत्ति शवपूतिमज्जरुधिरान्त्रमांसानि च ।
गणैः स्वसदृशैर्भृशं रतिमुपैति रात्रिन्दिवं
पिबत्यपि च यः सुरां स कथमाप्तताभाजनम् ॥30॥
अनादिनिधनात्मकं सकलतत्त्वसंबोधनं
समस्तजगदाधिपत्यमथ तस्य संतृप्तता ।
तथा विगतदोषता च किल विद्यते यन्मृषा
सुयुक्तिविरहान्न चाऽस्ति परिशुद्धतत्त्वागमः ॥31॥
कमण्डलुमृगाजिनाक्षवलयादिभिर्ब्रह्मणः
शुचित्वविरहादिदोषकलुषत्वमभ्यूह्यते ।
भयं विघृणता च विष्णुहरयोः सशस्त्रत्वतः
स्वतो न रमणीयता च परिमूढता भूषणात् ॥32॥
स्वयं सृजति चेत्प्रजाः किमिति दैत्यविध्वंसनं
सुदुष्टजननिग्रहार्थमिति चेदसृष्टिर्वरम् ।
कृतात्मकरणीयकस्य जगतां कृतिर्निष्फला
स्वभाव इति चेन्मृषा स हि सुदुष्ट एवाऽऽप्यते ॥33॥
प्रसन्नकुपितात्मनां नियमतो भवेदुःखिता
तथैव परिमोहिता भयमुपद्रतिश्चामयैः ।
तृषाऽपि च बुभुक्षया च न च संसृतिश्छिद्यते
जिनेन्द्र ! भवतोऽपरेषु कथमाप्तता युज्यते ॥34॥
कथं स्वयमुपद्रुताः परसुखोदये कारणं
स्वयं रिपुभयार्दिताश्च शरणं कथं बिभ्यताम् ।
गतानुगतिकैरहो त्वदपरत्र भक्तैर्जनैः
अनायतनसेवनं निरयहेतुरङ्गीकृतम् ॥35॥
सदा हननघातनाद्यनुमतिप्रवृत्तात्मनां
प्रदुष्टचरितोदितेषु परिहृष्यतां देहिनाम् ।
अवश्यमनुषज्यते दुरितबन्धनं तत्त्वतः
शुभेऽपि परिनिश्चितस्त्रिविधबन्धहेतुर्भवेत् ॥36॥
विमोक्षसुखचैत्यदानपरिपूजनाद्यात्मिकाः
क्रिया बहुविधासुभृन्मरणपीडनाहेतवः ।
त्वया ज्वलितकेवलेन न हि देशिताः किं नु ताः
त्वयि प्रसृतभक्तिभिः स्वयमनुष्ठिताः श्रावकैः ॥37॥
त्वया त्वदुपदेशकारिपुरुषेण वा केनचित्
कथञ्चिदुपदिश्यते स्म जिन ! चैत्यदानक्रिया ।
अनाशकविधिश्च केशपरिलुञ्चनं चाऽथवा
श्रुतादनिधनात्मकादधिगतं प्रमाणान्तरात् ॥38॥
न चासुपरिपीडिनं नियमतोऽशुभायेष्यते
त्वया न च शुभाय वा न हि च सर्वथा सत्यवाक् ।
न चाऽपि दमदानयोः कुशलहेतुतैकान्ततो
विचित्रनयभङ्गजालगहनं त्वदीयं मतम् ॥39॥
त्वयाऽपि सुखजीवनार्थमिह शासनं चेत्कृतं
कथं सकलसंग्रहत्यजनशासिता युज्यते ।
तथा निरशनार्द्ध-भुक्तिरसवर्जनाद्युक्तिभि-
जितेन्द्रियतया त्वमेव जिन इत्यभिख्यां गतः ॥40॥
जिनेश्वर ! न ते मतं पटकवस्त्रपात्रग्रहो
विमृश्य सुखकारणं स्वयमशक्तकैः कल्पितः ।
अथायमपि सत्पथस्तव भवेद्यथा नग्नता
न हस्तसुलभे फले सति तरुः समारुह्यते ॥41॥
परिग्रहवतां सतां भयमवश्यमापद्यते
प्रकोपपरिहिंसने च परुषानृतव्याहृती ।
ममत्वमथ चोरतो स्वमनसश्च विभ्रान्तता
कुतो हि कलुषात्मनां परमशुक्लसद्-ध्यानता ॥42॥
स्वभाजनगतेषु पेयपरिभोज्यवस्तुष्वमी
यदा प्रतिनिरीक्षतास्तनुभृतः सुसूक्ष्मात्मिकाः ।
तदा क्वचिदपोज्झने मरणमेव तेषां भवे-
दथाऽप्यभिनिरोधनं बहुतरात्मसंमूर्च्छनम् ॥43॥
दिगम्बरतया स्थिताः स्वभुजभोजिनो ये सदा
प्रमादरहिताशयाः प्रचुरजीवहत्यामपि ।
न बन्धफलभागिनस्त इति गम्यते येन ते
प्रवृत्तमनुबिभ्रति स्वबलयोग्यमद्याप्यमी ॥44॥
यथागमविहारिणामशनपानभक्ष्यादिषु
प्रयत्नपरचेतसामविकलेन्द्रियालोकिनाम् ।
कथञ्चिदसुपीडनाद्यदि भवेदपुण्योदय-
स्तपोऽपि वध एव ते स्वपरजीवसंतापनात् ॥45॥
मरुज्ज्वलनभूपयःसु नियमाक्वचिद्युज्यते
परस्परविरोधितेषु विगतासुता सर्वदा ।
प्रमादजनितागसां क्वचिदपोहनं स्वागमात्
कथं स्थितिभुजां सतां गगनवाससां दोषिता ॥46॥
परैरनघनिर्वृतिः स्वगुणतत्त्वविध्वंसनं
व्यघोषि कपिलादिभिश्च पुरुषार्थविभ्रंशनम् ।
त्वया सुमृदितैनसा ज्वलितकेवलौघश्रिया
ध्रुवं निरुपमात्मकं सुखमनन्तमव्याहतम् ॥47॥
निरन्वयविनश्वरी जगति मुक्तिरिष्टा परैः
न कश्चिदिह चेष्टते स्वव्यसनाय मूढेतरः ।
त्वयाऽनुगुणसंहतेरतिशयोपलब्ध्यात्मिका ।
स्थितिः शिवमयी प्रवचने तव ख्यापिता ॥48॥
इत्यपि गुणस्तुतिः परमनिवृतेः साधनी
भवत्यलमतो जनो व्यवसितश्च तत्काङ्क्षया ।
विरस्यति च साधुना रुचिरलोभलाभे सतां
मनोऽभिलषिताप्तिरेव ननु प्रयासावधिः ॥49॥
इति मम मतिवृत्या संहतिं त्वद्गुणाना-
मनिशममितशक्तिं संस्तुवानस्य भक्त्या ।
सुखमनघमनन्तं स्वात्मसंस्थं महात्मन् ।
जिन ! भवतु महत्या केवल श्रीविभूत्या ॥50॥