+ मंगलाचरण -
यस्य स्वयं स्वाभावाप्ति, रभावे कृत्स्नकर्मण:
तस्मै संज्ञान-रूपाय नमोऽस्तु परमात्मने ॥1॥
स्‍वयं कर्म सब नाश करि, प्रगटायो निजभाव
परमातम सर्वज्ञ को, वंदो करि शुभ भाव ॥१॥
अन्वयार्थ : जिनको सम्‍पूर्ण कर्मों के अभाव होने पर स्‍वयं ही स्‍वभाव की प्राप्ति हो गई है, उस सम्‍यग्‍ज्ञानरूप परमात्‍मा को नमस्‍कार हो ।
Meaning : I make obeisance to the Omniscient Supreme Being who has attained, by own effort, the purity of His soul-nature by destroying all karmas.

  आशाधरजी 

आशाधरजी : संस्कृत
परमात्‍मानमानम्‍य, मुमुक्षु: स्‍वात्‍मसंविदे ।
इष्‍टोपदेशमाचष्‍टे, स्‍वशक्‍त्‍याशाधर: स्‍फुटम् ॥

तत्रादौ यो यद्गुणार्थी स तद्गुणोपेतं पुरूषाविशेषं नमस्‍करोतीति परमात्‍म्‍गुणार्थी ग्रन्‍थकर्ता परमात्‍मानं नमस्‍करोति, तद्यथा –

अन्‍वय - यस्‍य कृत्‍स्‍नकर्मण: अभावे स्‍वयं स्‍वभावाप्ति: तस्‍मै संज्ञानरूपाय परमात्‍म्‍ने नम: अस्‍तु ।
टीका - अस्‍तु भवतु । किं तन्‍नम: नमस्‍कार: । कस्‍मै, तस्‍मै परमात्‍मने । परम: अनाध्‍येयाप्रहेया-तिशयत्‍वात्‍सकलसंसारिजीवेभ्‍य: उत्‍कृष्‍ट आत्‍मा चेतन: परमात्‍मा तस्‍मै । किंविशिष्‍टाय, संज्ञानरूपाय सम्‍यक्‍सकलार्थ साक्षात्‍कारित्‍वादितदत्‍यन्‍तसूक्ष्‍मत्‍वादीनामपि लाभात्‍कर्महन्‍तूत्‍वादेरपि विकारस्‍य त्‍यागाच्‍च संपूर्णज्ञानं स्‍वपरावबोधस्‍तदेव रूपं यस्‍य तसमै । एवमाराध्‍यस्‍वरूपमुक्‍त्‍वा तत्‍प्राप्‍त्‍युपायमाह । यस्‍याभूत्‍कासौ स्‍वभावाप्ति: स्‍वभावस्‍य

निर्मलनिश्‍चलचिद्पस्‍य आप्तिर्लब्धि: कथंचितादात्‍म्‍यपरिणति: । कृतकृत्‍यतया स्‍वरूपेअ‍वस्थितिरित्‍यर्थ: । तेन, स्‍वयं संपूर्णरत्‍नत्रयात्‍मनात्‍मना । क्‍व सति, अभावे शक्तिरूपतया विनाशे । कस्‍य, कृत्‍स्‍नकर्मण: । कृत्‍स्‍नस्‍य सकलस्‍य द्रव्‍यभावरूपस्‍य कर्मण: आत्‍मपारतन्‍व्‍यनिमित्‍तस्‍य ॥१॥
अथ शिष्‍य: प्राह स्‍वस्‍य स्‍वयं स्‍वरूपोपलब्धि: कथमिति । स्‍वस्‍यात्‍मन: स्‍वयमात्‍मना स्‍वरूपस्‍य सम्‍यक्‍त्‍वादिगुणाष्‍टकाभिव्‍यक्तिरूपस्‍य उपलब्धि: कथं केनोपायेन दृष्‍टान्‍ताभावादिति । अत्राचार्य: समाघत्‍ते -


जिसे आत्‍मा की परतंत्रता (पराधीनता) के कारणभूत द्रव्‍य एवं भावरूप समस्‍त कर्मों के, सम्‍पूर्ण रत्‍नत्रयात्‍मक स्‍वरूप के द्वारा, सर्वथा नष्‍ट हो जाने से निर्मल निश्‍चल चैतन्‍य रूप स्‍वभाव (कथंचित् तादात्‍म्‍य परिणति) की प्राप्ति हो गई है, उस सम्‍पूर्ण ज्ञान-स्‍वरूप आत्‍मा को, जो कि मुख्‍य एवं अप्रतिहत अतिशयवाला होने से समस्‍त सांसारिक प्राणियों से उत्‍कृष्‍ट है, नमस्‍कार हो ॥१॥

'स्‍वयं स्‍वभावाप्ति:' इस पद को सुन शिष्‍य बोला कि- 'आत्‍मा को स्‍वयं ही स‍म्‍यक्‍त्‍व आदिक अष्‍ट गुणों की अभिव्‍यक्ति रूप स्‍वरूप की उपलब्धि (प्राप्ति) कैसे (किस उपाय से) हो जाती है ? क्‍योंकि स्‍व-स्‍वरूप की स्‍वयं प्राप्ति को सिद्ध करनेवाला कोई दृष्‍टान्‍त नहीं पाया जाता है और बिना दृष्‍टान्‍त के उपरिलिखित कथन को कैसे ठीक माना जा सकता है ? आचार्य इस विषय में समाधान करते हुए लिखते हैं कि -