
श्रीब्रह्मदेव : संस्कृत
अथ धर्मार्थकामेभ्यो यद्युत्तमो न भवति मोक्षस्तर्हि तत्त्रयं मुक्त्वा परलोकशब्दवाच्यं मोक्षंकिमिति जिना गच्छन्तीति प्रकटयन्ति - जइ इत्यादि । [जइ] यदि चेत् [जिय] हे जीव [उत्तमु होइ णवि] उत्तमो भवति नैव । केभ्यः । [एयहं सयलहं] एतेभ्यः पूर्वोक्ते भ्यो धर्मादिभ्यः । कतिसंख्योपेतेभ्यः । सकलेभ्यः सो वि स एव पूर्वोक्तो मोक्षः [तो] ततः कारणात् [किं] किमर्थं [तिण्णि वि परिहरवि] त्रीण्यपि परिहृत्य त्यक्त्वा [जिण] जिनाः कर्तारः [वच्चहिं] व्रजन्ति गच्छन्ति । कुत्र गच्छन्ति । [पर-लोइ] परलोकशब्दवाच्ये परमात्मध्यानेन तु कायमोक्षे चेति । तथाहि – परलोकशब्दस्य व्युत्पत्त्यर्थः कथ्यते । परः उत्कृष्टोमिथ्यात्वरागादिरहितः केवलज्ञानाद्यनन्तगुणसहितः परमात्मा परशब्देनोच्यते तस्यैवंगुणविशिष्टस्य परमात्मनो लोको लोकनमवलोकनं वीतरागपरमानन्दसमरसीभावानुभवनं लोक इति परलोक-शब्दस्यार्थः । अथवा पूर्वोक्त लक्षणः परमात्मा परशब्देनोच्यते । निश्चयेन परमशिवशब्दवाच्यो मुक्तात्माशिव इत्युच्यते तस्य लोकः शिवलोक इति । अथवा परमब्रह्मशब्दवाच्यो मुक्तात्मा परमब्रह्म इतितस्य लोको ब्रह्मलोक इति । अथवा परम विष्णुशब्दवाच्यो मुक्तात्मा विष्णुरिति तस्य लोकोविष्णुलोक इति परलोकशब्देन मोक्षो भण्यते परश्चासौ लोकश्च परलोक इति । परलोकशब्दस्यव्युत्पत्त्यर्थो ज्ञातव्यः न चान्यः कोऽपि परकल्पितः शिवलोकादिरस्तीति । अत्र स एवपरलोकशब्दवाच्यः परमात्मोपादेय इति तात्पर्यार्थः ॥१२७॥ आगे धर्म, अर्थ, काम इन तीनों से जो मोक्ष उत्तम नहीं होता तो इन तीनों को छोड़कर जिनेश्वरदेव मोक्ष को क्यों जाते ? ऐसा दिखाते हैं - पर अर्थात् उत्कृष्ट मिथ्यात्व रागादि रहित केवलज्ञानादि अनंत गुण सहित परमात्मा वह पर है, उस परमात्मा का लोक अर्थात् अवलोकन
|