(शिखरिणी)
तृणं वा रत्नं वा रिपुरथ परं मित्रमथवा
सुखं वा दुःखं वा पितृवनमहो सौधमथवा ।
स्तुतिर्वा निन्दा वा मरणमथवा जीवितमथ
स्फु टं निर्ग्रंथानां द्वयमपि समं शान्तमनसाम् ॥45॥