पर्व - 69
अन्वयार्थ : यस्य नामापि धर्तृणां मुक्त्यै ह्णदयपंकजे । नमिर्गमयतान्नम्रान् मोक्षलक्ष्मीं स मंक्षु न: ॥1॥
द्वीपेऽस्मिन् भारते वर्षे विषये वत्सनामनि । कौशाम्ब्यां नगरे राजा पार्थिवाख्यो विभुर्विशाम् ॥2॥
चक्षुरिक्ष्वाकुवंशस्य लक्ष्मीं वक्ष:स्थले दधन् । साक्षाच्चक्रीव दिक्चक्रमाक्रम्याभात्स विक्रमी ॥3॥
तनूजस्तस्य सुन्दर्यां देव्यां सिद्धार्थनामभाक् । मुनिं मनोहरोद्याने परमावधिवीक्षणम् ॥4॥
दृष्ट्वा मुनिवराख्यानं कदाचिद्विनयानत: । सम्पृछय धर्मसद्भावं यथावत्तदुदीरितम् ॥5॥
समाकर्ण्य समुत्पन्नसंवेग: स महीपति: । मृतिमूलधनेनाधमर्णो मृत्योरिहासुभृत् ॥6॥
वहन् दु:खानि तद्वृद्धिं सर्वो जन्मनि दुर्गत: । रत्नत्रयं समावर्ज्य तस्मै यावन्न दास्यति ॥7॥
ऋणं सवृद्धिकं तावत्कुत: स्वास्थ्यं कुत: सुखम् । इति निश्चित्य कर्मारीन्निहन्तुं विहितोद्यम: ॥8॥
सुताय श्रुतशास्त्राय प्रजापालनशालिने । सिद्धार्धाय समर्थाय दत्वा राज्यमुदात्तवी: ॥9॥
प्राव्राजीत्पूज्यपादस्य मुनेर्मुनिवरश्रुते: । पादमूलं समासाद्य सतां सा: वृत्तिरीदृशी ॥10॥
सिद्धार्थो व्याप्तसम्यक्त्वो गृहीताणुव्रतादिक: । भोगान् सुखेन भुन्जान: प्रचण्डोऽपालयत्प्रजा: ॥11॥
काले गच्छति तस्यैवं कदाचित्स्वगुरोर्मुने: । श्रुत्वा शरीरसंन्यासं विच्छिन्नविषयस्पृह: ॥12॥
सद्यो मनोहरोद्याने बुद्धतत्त्वार्थविस्तृति: । महाबलाभिधाख्यातात्केवलावगमेक्षणात् ॥13॥
राज्यभारं समारोप्य श्रीदत्ते स्वसुते सति । लब्धक्षायिकसम्यक्त्व: शमी संयममाददे ॥14॥
स धृत्वैकादशांगानि बद्ध्वा षोडशकारणै: । अन्त्यनामादिकर्माणि पुण्यानि पुरूषोत्तम: ॥15॥
स्वायुरन्ते समाराध्य विमाने लवसत्तम: । देवोऽपराजिते पुण्यादुत्तरेऽनुत्तरेऽभवत् ॥16॥
त्रयस्त्रिंशत्पयोब्ध्यायुरेकारत्निसमुच्छ्रिति: । निश्वासाहारलेश्यादिभावैस्तत्रोदितैर्युत: ॥17॥
जीवितान्तेऽहमिन्द्रेऽस्मिन् षण्मासैरागमिष्यति । जम्बूपलक्षिते द्वीपे विषये बंगनामनि ॥18॥
मिथिलायां महीपाल: श्रीमान् गोत्रेण काश्यप: । विजयादिमहाराजो विख्यातो वृषभान्वये ॥19॥
अनुरक्तं व्यधात् कृत्स्त्रमुद्यन्निव रविर्जगत् । स्वविरागाद्विरक्तं तत् सोऽतपत्तस्य तादृशम् ॥20॥
अवृणीत गुणालिस्तं लक्ष्मीश्च सुकृतोदयात् । पुष्कलाविष्क्रियं तस्मिन् पुरूषार्थत्रयं तत: ॥21॥
तस्य राज्ये रवावेव ताप: कोपोऽपि कामिषु । विग्रहाख्या तनुष्वेव मुनिष्वेव विरागता ॥22॥
परार्थग्रहणं नाम कुकविष्वेव बन्धनम् । काव्येष्वेव विवादश्च विद्वत्स्वेव जयार्थिषु ॥23॥
शरव्याप्ति: सरित्स्वेव ज्योति:ष्वेवानवस्थिति: । क्रौर्य क्रूरग्रहेष्वेव देवेष्वेव पिशाचता ॥24॥
वप्पिला तन्महादेवी वसुधारादिपूजिता । श्रीह्रीधृत्यादिभि: सेव्या सुखसुप्तानिशावधौ ॥25॥
शरदादिद्वितीयायां नक्षत्रेष्वादिमे सति । स्वर्गावतरणे भर्तुर्दृष्ट्वा स्वप्नान् पुरोदितान् ॥26॥
स्ववक्राब्जप्रविष्टेभमप्यालोक्य विनिद्रिका । प्रभातपटहध्वानश्रवणाविष्कृतोत्सवा ॥27॥
अपृच्छत् फलमेतेषां नृपं देशावधीक्षणम् । सोऽप्यवादीद्भवद्रर्भे भावितीर्थकृदित्यद: ॥28॥
तदैवागत्य देवेन्द्रा: स्वर्गावतरणोत्सवम् । विधाय स्वनियोगेन निजधामागमत्समम् ॥29॥
आषाढे स्वातियोगे तं कृष्णपक्षे महौजसम् । दशम्यां विश्वलोकेशमसूत तनुजोत्तमम् ॥30॥
देवा द्वितीयकल्याणमप्यभ्येत्य तदा व्यधु: । नमिनामानमप्येनं व्याहरन् मोहभेदिनम् ॥31॥
मुनिसुव्रततीर्थेशसन्ताने वर्षमानत: । गतेषु षष्टिलक्षेषु नमिनाथसमुद्भव: ॥32॥
आयुदर्शसहस्त्राणि वर्षाणां परमं मतम् । उत्सेधो धनुषां पन्चदश चास्याभिधीयते ॥33॥
जातरूपद्युति: सार्द्धद्विसहस्त्राब्दसम्मिते । गते कुमारकालेऽभिषेकमापत्सराज्यकम् ॥34॥
राज्ये पन्चसहस्त्राणि वत्सराणामगुर्विभो: । तदा प्रावृड्घनाटोपसंकटे गगनांगणे ॥35॥
देवं वनविहाराय गतवन्तं महोदयम् । गजस्कन्धसमारूढं भानुमन्तमिवापरम् ॥36॥
नभस्तलगतौ देवकुमारौ विहितानती । एवं विज्ञापयामासतुर्बद्धकरपंकजौ ॥37॥
द्वीपेऽस्मिन् प्राग्विदेहेऽस्ति विषयो वत्सकावती । सुसीमा नगरी तत्र विमानादपराजितात् ॥38॥
अवतीर्य समुत्पन्नस्तीर्थनाथोऽपराजित: । तस्य केवलपूजार्थं देवेन्द्रा: समुपागता: ॥39॥
तत्सभायामभूत् प्रश्न: किमस्ति भरतेऽधुना । कश्चित्तीर्थकृदित्याह सोप्येवं सकलार्थदृक् ॥40॥
वंगाख्यदेशे मिथिलानगरे नमिनायक: । भावितीर्थकर: पुण्यादवतीर्णोऽपराजितात् ॥41॥
देवोपनीतभोगानां भोक्ता सम्प्रति साध्विति । तप: प्राग्धातकीखण्डे कृत्वा सौधर्मनामनि ॥42॥
सम्भूयेतौ द्वितीयेऽह्नि गत्वा तद्वचनश्रुते: । भवन्तमीक्षितुं पूज्यमावामैन सकौतुकौ ॥43॥
इति सोऽपि समासन्नकेवलावगमोदय: । चित्ते विधाय तत्सर्वं महीश: प्राविशत्पुरम् ॥44॥
तत्र स्वभवसम्बन्धं स्मृत्वा तीर्थकरं च तम् । आजवं जवसंजातसद्भावं भावयन्मुहु: ॥45॥
अनादिबन्धनैर्गाढं वध्वात्मात्मानमात्मना । कायकारागृहे स्थित्वा पापी पक्षीव पन्जरे ॥46॥
कुन्जरो वार्पितालानो कलयत्पलमात्मन: । नाना दु:खानि भुन्जानो भूयस्तैरेव रन्जित: ॥47॥
इन्द्रियार्थेषु संसक्तो रतितीव्रतरोदयात् । अशुचिष्वेवसम्बृद्धतृष्णोऽवस्करकीटवत् ॥48॥
बिभ्यन्मृत्योस्तमाधावन् वर्ज्यदु:खस्तदर्जयत् । विपर्यस्तमति: कष्टमार्तरौद्राहिताशया ॥49॥
भवे भ्राम्यत्यविश्राम्यन् प्रताम्यन् पापपाकत: । दृढां निरूढां धिड़्मूढिमभीष्टार्थविघातिनीम् ॥50॥
इति निर्वेद संयोगाद्भोगरागातिदूरग: । सारस्वतादिसर्वापरागामरसमर्चित: ॥51॥
क्षयोपशमसम्प्राप्तशस्त संज्वलनोदय: । लब्धबोधि: सुतं राज्ये निजे संयोज्य सुप्रभम् ॥52॥
साभिषेकं सुरै: प्राप्य परिनि:क्रान्तिपूजनम् । यानमुत्तरकुर्वाख्यं समारूह्य मनोहरम् ॥53॥
गत्वा चैत्रवनोद्यानं षष्ठोपवसनं श्रित: । आषाढकालपक्षेऽश्विनक्षत्रे दशमीदिने ॥54॥
अपराह्णे सहस्त्रेण क्षत्रियाणां सहाग्रहीत् । संयमं सयमापाद्यं सज्ञानं च चतुर्थकम् ॥55॥
भोक्तुं वीरपुरं तस्मै दत्तो गतवते नृप: । सुवर्णवर्णो दत्त्वान्नमवापाश्चर्यपन्चकम् ॥56॥
छाद्मस्थ्येन तत: काले प्रयाते नववत्सरे । निजदीक्षावने रम्ये मूले वकुलभूरूह: ॥57॥
तस्य षष्ठोपवासस्य नक्षत्रे ऽश्वाभिधानके । मार्गशीर्षशुचौ पक्षे दिनान्ते केवलं विभो: ॥58॥
दिने तृतीयनन्दायामभूदखिलगोचरम् । नाकनायकसन्चार्यतुर्यकल्याणभागिन: ॥59॥
सुप्रभार्यादय: सप्तदशासन् गणनायका: । चतु:शतानि पन्चाशत् सर्वपूर्वधरा मता: ॥60॥
शिक्षका: षट्शतद्वादशसहस्त्राणि सद्व्रता: । त्रिज्ञानधारिणां संखया सहस्त्रं षट् शताधिकम् ॥61॥
तावन्त: पन्चमज्ञाना मुनयो विक्रियर्द्धिका: । सर्वे सार्द्धसहस्त्रं स्युर्मन:पर्ययबोधना: ॥62॥
शून्यपन्चद्विकैकोक्तास्त्यक्तसंगा: प्रकीर्तिता: । सहस्त्रं वादिनां संखया ते सर्वेऽपि समुच्चिता: ॥63॥
विंशति: स्यु: सहस्त्राणि मंगिनीप्रमुखार्यिका: । चत्वारिंशत्सहस्त्राणि तदष्टांशाधिका मता: ॥64॥
श्रावका लक्षमेकं तु त्रिगुणा: श्राविकास्तत: । देवा देवोप्यसड़्ख्यातास्तिर्यन्च: संखयया मिता: ॥65॥
एवं द्वादशसंखयान गणैनम्रैर्नमीश्वर: । सद्धर्मदेशनं कुर्वन्नार्यक्षेत्राणि सर्वत: ॥66॥
विह्णत्य विह्णर्ति त्यक्त्वा मासं सम्मेदपर्वते । सहस्त्रमुनिभि: सार्द्धं प्रतिमायोगमास्थित: ॥67॥
वैशाखे मासि कृष्णायां चतुर्दश्यां निशात्यये । मुक्तिमश्व्याह्णनक्षत्रे नमिस्तीर्थकरोऽगमत् ॥68॥
अकुर्वन्पन्चमं देवा: कल्याणं चाखिलेशिन: । स्वं स्वमोकश्च सम्प्राप्तपुण्यपण्या: प्रपेदिरे ॥69॥
पृथ्वीच्छन्द:
कनत्कनकविग्रहो विहितविग्रहो घातिभि:
सहाहितजयो जयेति च नुतो नतैर्नाकिभि: ।
भियं भवभवां बहुं नयतु न: क्षयं नायको
विनेयविदुषां स्वयं विहतविग्रहोऽन्ते नमि: ॥70॥
शार्दूलविक्रीडितम्
कौशाम्ब्यां प्रथितस्तृतीयजनने सिद्धार्थनामा नृप:
कृत्वा तत्र तपोऽतिघोरमभवत्तुर्येऽमरोऽनुत्तरे ।
तस्मादेत्य पुरे बभूव मिथिलानाम्नीन्द्रवद्यो नमि-
स्तीर्थेशस्त्रिजगद्धितार्थवचनव्यक्त्यैकविंशो जिन: ॥71॥
पृथ्वीवृत्तम्
नमिर्नमितसामरामरपति: पतच्चामरो
भ्रमद्भ्रमरविभ्रमभ्रमितपुष्पवृष्ढयुत्कर: ।
करोतु चरणारबिन्दमकरन्दसम्पायिनां
विनेयमधुपायिनामविरतोस्तृप्तिं जिन: ॥72॥
जगत्त्रयजयोत्सिक्तमोहमाहात्म्यमर्दनात् । एकविंशो जिनो लब्धलक्ष्मीर्लक्ष्मीं ददातु न: ॥73॥
द्वीपेऽस्मिन्नुत्तरे भागे महत्यैरावताह्णये । लक्ष्मीमान् श्रीपुराधीशो वसुन्धरमहीपति: ॥74॥
पद्मावतीवियोगेन भृशं निर्विण्णमानस: । वने मनोहरे रम्ये वरचर्माखिलेक्षिण: ॥75॥
निर्णीय धर्मसद्भावं तनये विनयन्धरे । निवेशितात्मभार: सन् बहुभिर्भूभुजै: समम् ॥76॥
संयमं सम्यगादाय चारित्रं दुश्चरं चरन् । स्वाराधनविधानेन महाशुक्रे सुरोऽभवत् ॥77॥
षोडशाब्ध्युपमस्वायुर्दिव्यान् भोगान् सुभुज्य स: । तत: प्रच्युत्य तत्तीर्थे वत्साख्यविषयेऽजनि ॥78॥
नृपस्येक्ष्वाकुवंशस्य कौशाम्बीनगरेशिन: । तनूजो विजयाख्यस्य प्रभाकर्यां प्रभाधिक: ॥79॥
सर्वलक्षणसम्पूर्णो जयसेनसमाह्णय: । त्रिसहस्त्रशरज्जीवी षष्टिहस्तसमुच्छ्रिति: ॥80॥
तप्तचामीकरच्छाय: स चतुर्दशरत्नभाक् । निधिभिर्नवभि: सेव्यो भोगैर्दशविधै: सुखम् ॥81॥
चिरमेकादशश्चक्रधर: कालमजीगमत् । अन्येद्युस्तुंगसौधाग्रे सुसुप्तोऽन्त:पुरावृत: ॥82॥
कुर्वन् पर्वशशांकाभो दिगन्तरविलोकतम् । उल्काभिपतनं वीक्ष्य सुनिर्वेगपरायण: ॥83॥
उच्चै:स्थितमिदं पश्य भास्वरं पर्ययद्वयम् । परित्यज्य सुसम्प्रापदधोगतिमपप्रभम् ॥84॥
उन्नतमूर्जितं तेजो ममेति मदमावहन् । अनाचरन् हितं मूढ: पारलौकिकमात्मने ॥85॥
विषयेषु विषक्त: सन्नध्रुवेष्ववितपिंषु । प्रयाति गतिमेतस्य परोऽप्यत्र प्रमादवान् ॥86॥
इत्याकलय्य कालादिलब्ध्या चक्रेडवक्रधी: । त्यक्तुं चक्रादिसाम्राज्यं परिच्छिद्योच्छ्रितेच्छया ॥87॥
तुक्षु राज्यमनिच्छत्सु महीय:सु, कनीयसे । दत्वा पुत्राय साम्राज्यं वरदत्ताभिधायिन: ॥88॥
केवलावगमात्प्राप्य संयमं बहुभि: समम् । श्रुतबुद्धितपोविक्रियौषधर्द्धिविभूषित: ॥89॥
चारणत्वमपि प्राप्य प्रायोपगमनं श्रित: । सम्मेदे चारणोत्तुंगकूटे स्वाराधनाविधि: ॥90॥
जयन्तेऽनुत्तरे जातो विमाने लवसत्तम: । पुण्योत्तमानुभागोत्थमन्वभूत्सुचिरं सुखम् ॥91॥
पृथ्वीवृत्तम्
बसुन्धरमहीपति: प्रथमजन्मनि प्राप्त स-
त्तपा: समजनिष्ट षोडश समुद्रमित्यायुषा ।
सुरोऽजनि जनेश्वरोऽनुजप्रसेननामा ततो
बभूव बलसत्तम: सुखनिधिर्जयन्ते विभु: ॥92॥