पर्व - 48
अन्वयार्थ : श्रीमान् जिनोऽजितो जीयाद् यद्वचांस्यमलान्यलम् । क्षालयन्ति जलानीव विनेयानां मनोमलम् ॥1॥
पुराणं तस्य वक्ष्येऽहं मोक्षलक्ष्मीसमागम: । श्रुतेन येन भव्यानामव्याहतमहोदय: ॥2॥
इह जम्बूमति द्वीपे विदेहे प्राचि विश्रुते । सीतासरिदपाग्भागे वत्साख्यो विषयो महान् ॥3॥
सुसीमानगरं तस्मिन् विभूत्या विस्मयावहम् । नाम्नास्यनृपति: प्राभूत् प्रभुर्विमलवाहन: ॥4॥
गुणा गुर्णार्थिभि: प्रार्थ्या न्यायोऽयं चित्रमत्र तत् । गुणा: प्रणयिन: सर्वे स्वयं तं वृण्वते स्म यत् ॥5॥
शक्तिसिद्धित्रयोपेतो यथान्यायमतन्द्रित: । प्रजा: स पालयामास विधाय स्वप्रजासमा: ॥6॥
धर्मादयस्ततोऽर्थोऽर्थात् कामोऽयेऽनिष्ठिते, न तौ । इति स्मरन् बभुवासौ जैनधर्मेण धार्मिक: ॥7॥
स कदाचित् समुत्पन्नबोधि: संज्वलनोदयी । स्वगतं जातसंवेदो रहस्येवमचिन्तयत् ॥8॥
आयुषो वसति: काये कायस्थस्य ममाप्यलम् । आयुर्जलं गलत्याशु मितकालघटीधृतम् ॥9॥
ततो गलति नि:शेषं न यावत्तावदेव हि । वत्स्र्याम्युत्सह्य सन्मार्गे जैने स्वर्गापवर्गयो: ॥10॥
इत्याशापाशमाच्छिद्य बहुभि: सह निस्पृह: । राजलक्ष्म्या स्वतन्त्रोऽपि दीक्षालक्ष्म्या वशीकृत: ॥11॥
तपस्यन् सुचिरं तीव्रं विस्पष्टैकादशांगक: । नाम्नोऽन्त्यमेष पुण्यात्मा स्वकार्षीद्भावनापर: ॥12॥
आयुषोऽन्ते समाधानं विधाय परमेष्ठिषु । त्रयर्स्त्रिशत्समुद्रायुरयात् स विजयं जयी ॥13॥
तत्रादायाद्यसंस्थानं शुल्क-लेश्याद्वयान्वित: । हस्तोच्छूायं शुभं देहं सुवर्णादिचतुष्टयम् ॥14॥
मासै: षोडशभि: पंचदशभिश्चोच्छ्वसन् दिनै: । त्रयर्स्त्रिशत्सहस्त्राब्दैर्मानसाहारमाहरन् ॥15॥
निजतेजोऽवधिव्याप्तलोकनालिर्निजावधि: । क्षेत्रोत्थापिबलस्तत्पूरककायजविक्रिय: ॥16॥
सातपंचशुभै: सौख्यमप्रवीचारमन्वभूत् । सप्रवीचारसत्सौख्यात्तदनन्तगुणाधिकम् ॥17॥
तस्मान्महीं महाभागे स्वर्गाद्रोरागमिष्यति । प्रागेव भावनोपात्ततीर्थकृन्नामपुण्यत: ॥18॥
द्वीपेऽस्मिन् भारते वर्षे साकेतनगराधिप: । इक्ष्वाकुर्जितशत्र्वाख्य: ख्यातो गोत्रेण काश्यप: ॥19॥
तस्य शक्राज्ञया गेहे षण्मासान् प्रत्यहं मुहु: । रत्नान्यैलविलस्तिस्त्र: कोटी: सार्ध न्यपीपतत् ॥20॥
ज्येष्ठे मासि कलाशेषशशिरोहिण्युपागमे । मुहूर्ताद् ब्रह्मण: पूर्वंदरनिद्राविलेक्षणाम् ॥21॥
देवीं विजयसेनाख्यां षोडशस्वप्नपूर्वकम् । प्रविशन्तं विलोक्यात्मवक्त्राब्जं गन्धसिन्धुरम् ॥22॥
प्रात: पृष्टवर्ती स्वप्नान् देशावधिविलोचन: । जितशत्रुर्महाराज: फलान्येषामबूबुधत् ॥23॥
विजयादागतं देवं तद्रर्भं स्फटिकामलम् । विमलानुगसन्ज्ञाननेत्रत्रितयभास्वरम् ॥24॥
दशम्यां माघमासस्य शुल्कपक्षे प्रजेश्वरम् । प्रजेशयोगे नीतिर्वा महोदयमसूत सा ॥25॥
सागरोपमकोटीनां लक्षा: पंचाशदुत्तरे । मुक्तिमाद्ये जिने याते तदभ्यन्तरजीविन: ॥26॥
तदा विधाय देवेन्द्रा मन्दरे सुन्दराकृते: । जन्माभिषेककल्याणमजिताख्यामकुर्वत ॥27॥
द्वासप्ततिगुणा लक्षा: पूर्वाणामस्य जीवितम् । चतु:शतानि पंचाशदुत्सेधो धनुषां मत: ॥28॥
भर्तु: सुवर्णवर्णस्य पादे स्वस्यायुषो गते । अजितस्य जिताशेषबाह्याभ्यन्तरविद्विष: ॥29॥
पूर्वाणां लक्षया हीनं भागत्रितयमायुष: । पूर्वांगमपि नार्पत्यं निर्जितादित्यतेजस: ॥30॥
त्वया सम्भोगसौख्यस्य पर्यन्तोऽयं ममेति वा । राज्यलक्ष्म्या परिष्वक्त: श्लाध्यान् भोगानभुड्क्त स: ॥31॥
स कदाचित्सुखासीन: सौधपृष्ठे विशां पति: । उल्कामलोकतानल्पां जल्पन्तीवाध्रु वां श्रियम् ॥32॥
विषयेषु तदैवासौ विदां निर्विविदे वर: । लक्ष्मीमभ्यर्णमोक्षाणां क्षेप्तुं र्कि वा न कारणम् ॥33॥
ब्रह्मलोकात्तदाभ्येत्य सुरा: सारस्वतादय: । मुनीश्वरा: प्रशस्योच्चैस्तत्तदेवान्ववादिषु: ॥34॥
तेषां तदुदितं तस्य लोकस्येवांशुमालिन: । स चक्षुषो यथार्थावलोकेऽगात्सहकारिताम् ॥35॥
सुतायाजितसेनाय राज्याभिषेकपूर्वकम् । दत्वा विवेकिनां त्याज्यं राज्यं भोज्यमिवोज्झितम् ॥36॥
लब्धनिष्क्रान्तिकल्याणमहाभिषवसम्मद: । सुप्रभाशिबिकारूढो ब्यूढो नरखगामरै: ॥37॥
माघे मासि सिते पक्षे रोहिण्यां नवमीदिने । सहेतुके वने सप्तपर्णद्रुमसमीपग: ॥38॥
अपराह्णे सहस्त्रेण राज्ञामाज्ञाविधायिनाम् । सार्थं षष्ठोपवासेन समास्थित स संयमम् ॥39॥
चतुर्थज्ञानसम्पन्नो द्वितीयेऽह्नि प्रविष्टवान् । साकेतं दानिनां तोषमपूर्वमुपपादयन् ॥40॥
तत्र ब्रह्मा महीपालस्तस्मै दानं यथाक्रमात् । दत्वा सातादिभि: पुण्यै: सहापाश्चर्यपंचकम्॥41॥
छाद्मस्थ्येन नयन्नब्दान्पौषे द्वादशशुद्धधी: । शुल्कैकादश्यह:प्रान्ते रोहिण्यामाप्ततामगात् ॥42॥
सिंहसेनादयस्तस्य नवति: स्युर्गणाधिपा: । खपंचसप्तवहयुक्तप्रमाणा: पूर्वधारिण: ॥43॥
शिक्षका: खद्वयर्त्वेकद्विप्रमागणना: क्रमात् । शून्यद्वयचतूरन्ध्रमितास्त्रिज्ञानलोचना: ॥44॥
केवलागवमास्तत्र ते सहस्त्राणि र्विशति: । चतु:शतै: सहस्त्राणां र्विशतिर्विकृतर्द्धय: ॥45॥
शून्यपंचचतुद्वर्येकमन:पर्ययवीक्षणा: । शून्यद्वयचतुद्वर्येकैस्तस्यानुत्तरवादिन: ॥46॥
सर्वे ते पिण्डिता: सन्तो लक्षमेकं तपोधना: । प्रकुब्जाद्यार्यिका: शून्यचतुष्कद्वयग्निसम्मिता: ॥47॥
श्रावकास्त्रीणि लक्षाणि श्राविका: पंचलक्षिका: । देवा देव्यस्त्वसड्.ख्याता: सड्.ख्यातो द्वादश गण: ॥48॥
एवं द्वादशभिर्देवो गणैरेभि: परिष्कृत: । संसारमोक्षतद्धेतुफलभेदान् प्रपंचयन् ॥49॥
मालिनी
समवसरणलक्ष्म्या वीक्ष्यमाण: कटाक्षै:
सुकृतविकृतचिह्नैरष्टभि: प्रातिहार्यै: ।
अविहतविहतारि: प्राज्यवैराग्यभाव:
स्वपरगुरूकृतार्थप्रार्थ्यसम्यक्प्रसिद्ध: ॥50॥
शार्दूलविक्रीडितम्
पापै: क्वापि न जीयतेऽयमिति वा दुर्वादिभिश्चाखिलै –
र्नामान्वर्थमवाप्तवानिति विदां स्तोत्रस्य पात्रं भवन् ।
आर्यक्षेत्रमशेषमेष विहरन् सम्प्राप्य सम्मेदकं
स्थित्वा दिव्यनिनादयोगरहितस्तत्रैव पक्षद्वयम् ॥51॥
कुर्वाण: समयं प्रति प्रकृतिषु स्रावं गुणासड्ख्यया
स्थित्यार्दि च विघातयन् स्वमितिकं दण्डादिकं वर्तयन् ।
सूक्ष्मध्याननिरूद्धयोगविभवो विश्लिष्टदेहत्रय –
स्तुर्यध्यानसमाश्रयात्समुपयंश्चाष्टौ गुणान् शुद्धिभाक् ॥52॥
आर्या
चैत्रज्योत्स्त्रापक्षे पंचम्यां रोहिणीगते चन्द्रे ।
प्रतिमायोगं बिभूत्पूर्वाह्णेऽवाप मुक्तिपदम् ॥53॥
द्रुतविलम्बितम्
विमलवाहनमाहवदुर्द्धरं दुरितदूरतपश्चरणोद्यतम् ।
सुखनिर्धि विजये सुरसत्तमं नमत भक्तिभरादजितं जिनम् ॥54॥
शार्दूलविक्रीडितम्
इत्थं पोडशभावनाहितमहापुण्योदयापादक:
सद्धयानात्खलकर्मजालमखिलं निर्मूलयन्निर्मल: ।
धर्म: शर्मपरम्परां प्रविदधद्धत्ते शिवे शाश्वते
तस्माद्धर्ममुपाद्ध्वमुज्झितमदा: शुद्धाप्तबुद्धं बुधा: ॥55॥
तीर्थकृत्सु द्वितीयोऽपि योऽद्वितीयपथस्तुत: । स विधेयात् पुराणोरूमार्गनिर्वहणं कवे: ॥56॥
सगर चक्रवर्ती का वर्णन
तत्तीर्थे सगराभिख्यो द्वितीयश्चक्रवर्तिनाम् । अभूत् पुराणमेतस्य श्रृणु श्रेणिक धीधन ॥57॥
द्वीपेऽत्र प्राग्विदेहस्य सीतापाग्भागभूषणे । विषये वत्सकावत्यां पृथिवीनगराधिप: ॥58॥
जयसेनो जनै: सेव्यो जनसेनास्य वल्लभा । रतिषेणस्तयो: सूनुर्घृतिषेणश्च तावुभौ ॥59॥
सर्याचन्द्रमसौ जित्वा सदा भात: कृतोदयौ । पितरौ च मरून्मार्गपृथिव्यौ वा तत: पृथक् ॥60॥
कदाचिद्रतिषेणोऽभूत् कृतान्तमुखगह्वरे । केनापि हेतुना किं वा न मृत्योर्हेतुतां व्रजेत् ॥61॥
सजार्नि जयसेनाख्यं सलतं चामरद्रुमम् । शोकाशनिरवाधिष्ट तन्मृत्युघननिर्गत: ॥62॥
प्रलय: प्राप्तकालस्तावालिलिगं यमाग्रग: । लब्धरन्ध्रा न तिष्ठेयुरकृत्वापकृर्ति द्विष: ॥63॥
भिषक्प्रायोर्जितोपायै: शनै: संलब्धचेतनौ । गुरूणा गुरूणेवैष तेन दु:खेन बोधित: ॥64॥
विग्रहं तद्गृहं मत्वा निगृहीतु कृताग्रह: । हन्तु यमं समुद्युक्तस्तद्धि युक्तं मनस्विनाम् ॥65॥
जीर्णपर्णवदागण्य प्राणप्रान्तान् परिग्रहान् । राज्यभोज्ये नियुज्यार्यं धृतिषेणं धृतायतिम् ॥66॥
यशोधरगुरूद्दिष्टं शुद्धमध्वानमाप स: । नृपैर्महारूताख्येन बहुभिर्मैथुनेन च ॥67॥
कालान्ते कृतसंन्यासविधि: कल्पेऽन्तिमेऽच्युते । देवो महाबलो नाम जयसेनोऽजनिष्ट स: ॥68॥
महारूतोऽपि तत्रैव मणिकेतु: सुरोऽजनि । आवयोर्योऽवतीर्ण: प्राक् तस्यान्यो बोधको भवेत् ॥69॥
इति तत्र तयोरासीदन्योन्यं सम्प्रधारणम् । तत्र द्वार्विशतिसागरोपमाण्यामरं सुखम् ॥70॥
अनुभूयात्र साकेतनगरे कौशले नृप: । समुद्रविजयस्तस्य सुबाला रमणी तयो: ॥71॥
महाबलोऽभवत्सूनुरिक्ष्वाकु: सागराह्वय: । पूर्वाणां सप्ततिर्लक्षा: तस्यायु:परमावधि: ॥72॥
चतु:शतानि पंचाशदुत्सेधेन धनूंषि स: । सर्वलक्षणसम्पूर्ण: श्रीर्माश्चामीकरच्छवि: ॥73॥
कुमारत्वे दशाष्टौ च लक्षा: पूर्वाण्ययुस्तत: । महामाण्डलिकत्वं च तस्य तावत्प्रमामितम् ॥74॥
तदोदपादि षट्खण्डभूचक्राक्रमणक्षमम् । चक्रं कीर्तिश्च दिक्चक्रमाक्रमन्त्यात्तविक्रमा ॥75॥
आद्यचक्रिवदेषोऽपि कृत्वा दिग्विजयं चिरम् । गृह्णन् तत्सारवस्तूनि सर्वान् स्वाज्ञामजिग्रहत् ॥76॥
ततो निवृत्य साकेतं साम्राज्यश्रीनिकेतनम् । भोगान् दशांगान् निर्भंग निर्विशन्नावसन् सुखम् ॥77॥
तस्य षष्ठिसहस्त्राणि पुत्राणां कृतिनोऽभवन् । तदाकारेण वा तस्य वेधसा व्यन्जिता गुणा: ॥78॥
तस्मिन् सिद्धिवने श्रीनाम्नश्चतुर्मुखयोगिन: । अन्यदाखिलभास्यासीत् केवलाधिगमस्तदा ॥79॥
तत्कल्याणस्य देवेन्द्रैर्मणिकेतु: सहागत: । महाबलोऽजनि क्वेति सोपयोगोऽवधित्विषा ॥80॥
सगरश्चक्रवर्त्येष शेषै: पुण्यैरभूदसौ । इति बुद्ध्वा विशां नाथमुपगम्येदमब्रवीत् ॥81॥
स्मरस्यावां वदिष्यावस्तत्त्वं कल्पेऽच्युताह्वये । प्राग्महीगतमत्रस्थो बोधयत्वावयोरिति ॥82॥
मनुष्यजन्मन: सारं साम्राज्यं चिरमन्वभूत् । किं भोगैर्भोगिभोगाभैर्भोभव्यैभिर्भयावहै: ॥83॥
उत्तिष्ठ स्वविभो मुक्तावित्यस्य विमुखोऽभवत् । चक्रवर्ती स सिद्धयध्वा काललब्ध्या विना कुत: ॥84॥
ज्ञात्वा तत्तस्य वैमुख्यमन्यालापैर्न्यवर्तयत् । हितेनापि न कुर्वन्ति विप्रियं क्रमवेदिन: ॥85॥
धिग्भोगानीदृशान्स्वोक्तेरेवं च्यावयतोऽघदान् । दुस्त्यजानिति निर्विण्णो मणिकेतुरगाद् दिवम् ॥86॥
उपायमेकमालोच्य ततो ग्राहयितु पुन: । मणिकेतुर्महीपालमवतीर्य महीतलम् ॥87॥
आलम्ब्य लक्षणैर्लक्ष्यं कान्त्येन्दुं भानुमाभया । वामेन वपुषा कामं निर्जित्य विजितेन्द्रिय: ॥88॥
चारणत्वं समासाद्य भावयन् संयमं परम् । तस्थौ जिनेन्द्रान् वन्दित्वा सगरस्य जिनालये ॥89॥
दृष्ट्वा तं विस्मयापन्नो वयस्यस्मिन्निदं कुत: । तपस्तवेति पपृच्छ नृप: सोऽप्यन्यथाब्रवीत् ॥90॥
यौवनं जरसा ग्रास्यं गलत्यायु: प्रतिक्षणम् । हेय: कायोऽशुचि: पापी दुर्धरो दु:खभाजनम् ॥91॥
सर्वदानिष्टसंयोगो वियोगश्चेष्टवस्तुभि: । गतोऽनादिर्भवावर्त: पुनश्चानन्त एव स: ॥92॥
कर्मारिभिरिदं सर्वं दग्ध्वा तानि तपोऽग्निना । यास्याम्यनश्वरीं शुर्द्धि यथाहं कनकोपल: ॥93॥
इत्युक्त: संसृतेर्भूपो वेपमानोऽपि नापतत् । पन्थानं निर्वृतेर्बद्ध: पुत्रश्रृंखलया दृढम् ॥94॥
मातिह्स्वोऽस्य संसार इत्ययात्स विषादवान् । उपायो निष्फल: कस्य न विषादाय धीमत: ॥95॥
वशीकृतेन साम्राज्यतुच्छलक्ष्म्या निधीशिना । विस्मृताऽच्युतलक्ष्मीश्च कामिनां कान्तरज्ञता ॥96॥
लाभो लाभेषु पुत्राणां लाभ: स्वर्गापधर्गयो: । लक्ष्म्योर्नासाविति स्मृत्वा मन्येऽस्यां सोऽनुषक्तवान् ॥97॥
कदाचित्ते सुता दृप्ता: सिंहपोता इवोद्धता: । इति विज्ञापयामासु: सभास्थं चक्रवर्तिनम् ॥98॥
यदि क्षत्रियपुत्राणां शौर्यसाहसशालिनाम् । यौवनं न पितु: प्रैषे दु:साध्ये साधितेप्सितम् ॥99॥
र्कि तेन जन्मना तेन जन्मिनो जीवितेन वा । ननु तत्सर्वसामान्यं जन्मजीवितयोर्द्वयम् ॥100॥
तदादिश विशामीश प्रैषं न: साहसावहम् । पात्रेसमिततादैन्यं येनैनो वा निरस्यते ॥101॥
तदाकर्ण्य मुदा पुत्रा: सर्वं चक्रेण साधितम् । भो किं यन्न मे सिद्धं मध्ये हिमसमुद्रयो: ॥102॥
एष एव मम प्रैषो राज्यलक्ष्मीमिमां मम । सम्भूय भूयर्सी यूयमनुभूध्वं यथोचितम् ॥103॥
इति भूयो नरेन्द्रेण तेन ते सुनिवारिता: । जोषमास्थुर्विधेया पितृणां शुद्धवंशजा: ॥104॥
तेऽन्येद्यु: पुनरासाद्य नृपं व्यज्ञापयन्निदम् । न भुज्महे न चेत्प्रैष इत्यभ्यर्णात्मशुद्धय: ॥105॥
तच्छ्रुत्वैष स क: प्रैष इति चिन्तयता मनाक् । नन्वस्ति कार्यशेषोऽयं धर्म इत्यात्तह्णष्टिना ॥106॥
राजाप्याज्ञापिता यूयं कैलासे भरतेशिना । गृहा: कृता महारत्नैश्चतुर्विशतिरर्हताम् ॥107॥
तेषां गंगा प्रकुर्वीध्वं परिखां परितो गिरिम् । इति तेऽपि तथा कुर्वन् दण्डरत्रेन सत्वरम् ॥108॥
मणिकेतु: पुनश्चास्य स्नेहसौजन्यचोदित: । सचिवैर्बोधनोपायं स सहैवं व्यचिन्तयत् ॥109॥
किन्चिद्धितं प्रियं चोक्तं किन्चिच्च हितमप्रियम् । किन्चित्प्रियं सदहितं परं चाहितमप्रियम् ॥110॥
अन्त्यद्वयं परित्पज्य शेषाभ्यां भाषता हितम् । इति निश्चित्य कैलासं तदैवागम्य दर्पिण: ॥111॥
कुमारान् भस्मरार्शि वा व्यधात् क्रूरोरगाकृति: । कुर्वन्ति सुह्णदोऽगत्या हितं चेदप्रियं च तत् ॥112॥
ज्ञात्वापि तन्मृर्ति भूपमाकर्णयितुमक्षमा: । तत्स्नेहं तेषु जानान: संवृत्य सचिवा: स्थिता: ॥113॥
तदा ब्राह्मणरूपेण मणिकेतुरूपेत्य तम् । महाशोकसमाक्रान्तो वावेदयदिदं वच: ॥114॥
देव देवे धराचक्रं रक्षति क्षेममत्र न: । किन्त्वन्तकेन मत्पुत्रोऽहार्यारा जीवितावधे: ॥115॥
प्रेयान् ममैक एवासौ नायुषा तेन जीवितम् । नानीतश्चेत्त्वया सोऽद्य तेन मामपि पश्यत: ॥116॥
तव विद्धयग्रतो नीतां किं कुर्वन्ति न गर्विता: । शलाटुभक्षणे लोल: किं पक्कं तत्त्यजेदिति ॥117॥
तदाकर्ण्यांह सन् राजा द्विज र्कि वेत्सि नान्तक: । सिद्धैरेव स वार्योऽन्यैर्नेत्यागोपालविश्रुतम् ॥118॥
अपवर्त्यायुष: केचिद्वद्धायुर्जीविन: परे । तान् सर्वान् संहरस्येष यमो मृत्योरगोचर: ॥119॥
तस्मिन् वहसि चेद्वैरं जीर्णो मा भूर्गृहे वृथा । मोक्षदीक्षां गृहाणाशु शोकं हित्वेत्युवाच तम् ॥120॥
इत्युक्ते देव र्कि सत्यमेतद्यन्नान्तकात्पर: । बलीति तन्न भेतव्यं मया किन्चिद्वदिष्यता ॥121॥
तेनान्तकेन ते नीता: सर्वेऽपि स्वान्तिकं सुता: । तस्मात्तदुक्तमार्गेण बहुवैर खलेऽन्तके ॥122॥
इत्याह सोऽपि तद्वाक्यवज्रनिर्भिन्नमानस: । गतासुरिव नि:स्पन्दो बभूव नृपति: क्षणम् ॥123॥
चन्दनोशीरसम्मिश्रसलिलै: सुह्णदुक्तिभि: । उत्क्षेपैश्च मृदूत्क्षेपै: पुनरागत्य चेतमाम् ॥124॥
मा माया मा वृथायामाभीम:कामोयमोऽधम: । भंगुर:संगम:प्रेम्ण: कायोऽश्रेयोऽशुचि: क्षयी ॥125॥
वार्मुक्कार्मुंकनिर्भासि यौवनं तद्ययौ वनम् । जानन् जिनोऽहमद्यापि मूढोऽत्रैवेति चिन्तयन् ॥126॥
भव्ये भगलिदेशेशसिंहविक्रमराड्भुव: । विदर्भाया: सुते राज्यं नियोज्यासौ भगीरथे ॥127॥
राजते स्म तपोराज्ये दृढधर्मजिनान्तिके । तावदेव गृहे सन्तो न हेतुर्यावदीक्ष्यते ॥128॥
सोऽपि गत्वा भवद्वार्तां महीपतिमबूबुधत् । अनाकर्ण्यामसौ श्रुत्वा गाढं शोकाग्निदीपित: ॥129॥
कृत्वा भगीरथे राज्यं तपोऽयादहमप्यत: । इहान्वेष्टुं समायात: शोकाद्युष्मत्कुलद्विज: ॥130॥
इति देव: समभ्येत्य मायाभस्मावगुण्ठितान् । कुमारान् बोधयामास मायापि सुह्णदां हिता ॥131॥
तेऽपि तद्वचनात्प्रापन् तपस्तज्जिनसंश्रयात् । चरमांगधरा युक्तं तदेवौचित्यवेदिनाम्॥132॥
भगीरथोऽपि तान् गत्वा कृत्वा भक्त्या नमस्क्रियाम् । धर्ममाकर्ण्य जैनेन्द्रमादत्त श्रावकव्रतम् ॥133॥
प्रकटीकृततन्मायो मणिकेतुश्च तान् मुनीन् । क्षन्तव्यमित्युवाचैतान् सगरादीन् सुह्णद्वर: ॥134॥
कोऽपराधस्तवेदं नस्त्वया प्रियमनुष्ठितम् । हितं चेति प्रसन्नोक्त्या ते तदा तमसान्त्वयन् ॥135॥
सोऽपि सन्तुष्य सिद्धार्थो देवो दिवमुपागमत् । परार्थसाधनं प्रायो ज्यायसां परितुष्टये ॥136॥
सर्वेऽते सुचिरं कृत्वा सत्तपो विधिवद् बुधा: । शुल्कध्यानेन सम्मेदे सम्प्रापन् परमं पदम् ॥137॥
निर्वाणगमनं श्रुत्वा तेषां निर्विण्णमानस: । वरदत्ताय दत्त्वात्मराज्यलक्ष्मीं भगीरथ: ॥138॥
कैलासपर्वते दीक्षां शिवगुप्तमहामुने: । आदाय प्रतिमायोगधार्यभूत्स्वर्धु नीतटे ॥139॥
सुरेन्द्रेणास्य दुग्धाब्धिपयोभिरभिषेचनात् । क्रमयोस्तत्प्रवाहस्य गंगाया: संगमे सति ॥140॥
तदाप्रभृति तीर्थत्वं गंगाप्यस्मिन्नुपागता । कृत्वोत्कृष्टं तपो गंगातटेऽसौ निर्वृर्ति गत: ॥141॥
शार्दूलविक्रीडितम्
अत्रामुत्र च मित्रवन्न हितकृत् कोऽप्यस्ति बन्धु: परो
गुह्याद् गुह्यतरं गुरोरपि न तद्वाच्यं यदस्योच्यते ।
दु:साध्यान्यपि साधयत्यगणयन्प्राणौश्च तत्र स्फुटो
दृष्टान्तो मणिकेतुरेव कुरूतां तन्मित्रमीदृग्विधम् ॥142॥
स जयति जयसेनो यो जितारातिसेन:
श्रुत इति महदादिर्यो बल: प्रान्तकल्पे ।
सगरसकलचक्री योजितो यश्च यश्च
प्रहतचरमदेहो देहमात्रात्मदेह: ॥143॥