
अतीता भाविनश्चार्था: स्वे स्वे काले यथाखिला: ।
वर्तमानास्ततस्तद्वद्वेत्ति तानपि केवलम् ॥28॥
अन्वयार्थ : तत: अतीताः भाविनः च अखिलाः अर्थाः स्वे स्वे काले यथा वर्तमानाः तान् अपि केवलं तद्वत् वेत्ति ।
अतीत और अनागत सम्पूर्ण पदार्थ अपने-अपने काल में जिस-जिस रूप में वर्तते हैं; उनको उसी रूप में वर्तमानकालीन पदार्थों के समान केवलज्ञान जानता है ।