
क्षायोपशमिका: सन्ति भावा ज्ञानादयोऽपि ये ।
स्वरूपं तेऽपि जीवस्य विशुद्धस्य न तत्त्वत: ॥58॥
अन्वयार्थ : ये ज्ञानादय: अपि क्षायोपशमिका: भावा: ते अपि विशुद्धस्य जीवस्य तत्त्वत: स्वरूपं न सन्ति ।
जो ज्ञानादिक गुणों की क्षायोपशमिक भावरूप पर्यायें/अवस्थाएँ हैं; वे सभी निश्चयनय की अपेक्षा से शुद्ध जीव का स्वरूप नहीं हैं ।