
कर्म-वेदयमानस्य भावा: सन्ति शुभाशुभा: ।
कर्मभावं प्रपद्यन्ते संसक्तास्तेषु पुद्गला: ॥81॥
अन्वयार्थ : कर्म-वेदयमानस्य शुभाशुभा: भावा: सन्ति; तेषु संसक्ता: पुद्गला: कर्मभावं प्रपद्यन्ते ।
कर्म के फल को भोगनेवाले जीव के शुभ-अशुभरूप परिणाम होते हैं । उन भावों के होने पर उनसे संबंधित पुद्गल द्रव्यकर्मरूप परिणमती हैं ।