
य एव कुरुते कर्म किंचिज्जीव: शुभाशुभम् ।
स एव भजते तस्य द्रव्यार्थापेक्षया फलम् ॥214॥
अन्वयार्थ : द्रव्यार्थ-अपेक्षया य: एव जीव: किंचित् शुभ-अशुभं कर्म कुरुते, स: एव तस्य फलं भजते ।
द्रव्यार्थिक नय की अपेक्षा से जो जीव जो कुछ शुभ-अशुभ कर्म करता है, वही उसका फल भोगता है ।