
साधूनामागमश्चक्षुर्भूतानां चक्षुरिन्द्रियम् ।
देवानामवधिश्चक्षुर्निर्वृताः सर्व-चक्षुषः ॥268॥
अन्वयार्थ : साधूनां चक्षु: आगम:, भूतानां चक्षु: इन्द्रियं, देवानां चक्षु: अवधि: । च निर्वृता: सर्व-चक्षुष: ।
साधु आगमरूप चक्षुवाले हैं, सर्वजीव इंद्रिय चक्षुवाले हैं, देव अवधिचक्षुवाले हैं और सिद्ध भगवान सर्वतः चक्षु हैं ।