
मांसं पक्वमपक्वं वा स्पृश्यते येन भक्ष्यते ।
अनेकाः कोटयस्तेन हन्यन्ते किल जन्मिनाम् ॥417॥
अन्वयार्थ : येन पक्वं अपक्वं वा मासं स्पृश्यते वा भक्ष्यते तेन किल जन्मिनां अनेका: कोटय: हन्यन्ते ।
जो मनुष्य कच्चे मांस को अथवा आग से पकाये हुए मांस को मात्र स्पर्श करता है अथवा खाता है, वह मनुष्य निश्चितरूप से करोड़ों जीवों की हिंसा करता है ।