
यथोदकेन वस्त्रस्य मलिनस्य विशोधनम् ।
रागादि-दोष-दुष्टस्य शास्त्रेण मनसस्तथा ॥431॥
अन्वयार्थ : यथा मलिनस्य वस्त्रस्य उदकेन विशोधनं । तथा रागादि-दोष-दुष्टस्य मनस: शास्त्रेण ।
जिसप्रकार मलिन वस्त्र जल से शुद्ध/पवित्र/निर्मल होता है, उसीप्रकार रागद्वेषादि से दूषित साधक का मन शास्त्र के अध्ययनादि से निर्मल अर्थात् वीतरागरूप बन जाता है ।