
दृष्ट्वा बाह्यमनात्मनीनमखिलं मायोपमं नश्वरं ।
ये संसार-महोदधिं बहुविधक्रोधादिनक्राकुलम् । ।
तीर्त्वा यान्ति शिवास्पदं शममयं ध्यात्वात्मतत्त्वं स्थिरं ।
तेषां जन्म च जीवितं च सफलं स्वार्थैकनिष्ठात्मनाम् ॥538॥
अन्वयार्थ : ये अनात्मनीनं मायोपमं नश्वरं अखिलं बाह्यं दृष्ट्वा स्थिरं आत्मतत्त्वं ध्यात्वा बहुविध-क्रोधादिनक्राकुलं संसार-महोदधिं तीर्त्वा शममयं शिवास्पदं यान्ति तेषां च स्वार्थैकनिष्ठात्मनां जन्म जीवितं च सफलम् ।
जो महामानव सारे बाह्य जगत को अनात्मीय, मायारूप एवं नश्वर देखकर-जानकर स्थिर निजशुद्धात्म तत्त्व का ध्यानकर अनेक प्रकार के क्रोधादि कषायरूप मगरों से भरे हुए संसार-समुद्र को तिरकर अनंत-अव्याबाध सुखमय मोक्षपद को प्राप्त करते हैं, उन आत्मीय स्वार्थ की साधना में एकनिष्ठा रखनेवालों का ही जन्म और जीवन सफल है ।