
अपराण्यपि लक्ष्माणि सन्ति सम्यदृगात्मनः ।
सम्यक्त्वेनाविनाभूतैर्यै: संलक्ष्यते सुदृक् ॥373॥
उक्तमाक्ष्यं सुखं ज्ञानमनादेयं दृगात्मनः ।
नादेयं कर्म सर्वं च तद्वद् दृष्टोपलब्धितः ॥374॥
सम्यक्त्वं वस्तुतः सूक्ष्मं केवलज्ञानगोचरम् ।
गोचरं स्वावधिस्वान्त:पर्ययज्ञानयोर्द्वयो: ॥375॥
न गोचरं मतिज्ञानश्रुतज्ञानद्वयोर्मनाक् ।
नापिदेशावधेस्तत्र विषयानुपलब्धितः ॥376॥
अस्त्यात्मनो गुणः कश्चित् सम्यक्त्वं निर्विकल्पकम् ।
तद्-दृगमोहोदयान्मिथ्या स्वादुरूपमनादितः ॥377॥
दैवात् कालादिसंलब्धौ प्रत्यासन्ने भवार्णवे ।
भव्यभावविपाकाद्वा जीव: सम्यक्त्वमश्नुते ॥378॥
प्रयत्नमन्तरेणापि दृङ्मोहोपशमो भवेत् ।
अन्तर्मुहूर्तमात्रं च गुणश्रेण्यनतिक्रमात् ॥379॥
अस्त्युपशमसम्यक्त्वं दृङ्मोहोपशमाद्यथा ।
पुंसोऽवस्थान्तराकारं नाकारं चिद्विकल्पके ॥380॥