शुद्धं सच्चिद्रूपं भव्यांबुजचंद्रममृतमकलकं ।
ज्ञानाभूषं वंदे सर्वविभावस्वभावसंमुक्तं ॥1॥
सुधाचंद्रमुनेर्वाक्यपद्यान्युद्धृत्य रम्याणि ।
विवृणोमि भक्तितोऽहं चिद्रूपे रक्तचित्तश्च ॥2॥
अन्वयार्थ : अथ श्रीमदमृतचंद्रसूरिः श्रीकुंदकुंदाचार्याेक्तसमयसारप्राभृत-व्याख्यानं कुर्वाणः संस्तंदतरे चित्स्वरूपप्रकाशकानि-चिन्नाटकरंगावनि-वितीर्णानि पद्यानि परमाध्यात्मतरंगिण्यपरनामधेयानि रचयन् प्रथमतः परमात्मादिनमस्कृतिरूपमंगलमाचष्टे-