+
उपसंहार में देशव्रतोद्योतन का फल
-
यत्कल्याणपरम्पराऽर्पणपरं, भव्याऽऽत्मनां संसृतौ;
पर्यन्ते यदनन्त-सौख्य-सदनं, मोक्षं ददाति धु्रवम् ।
तज्जीयादतिदुर्लभं सुनरता,-मुख्यैर्गुणै: प्रापितं;
श्रीमत्पङ्कजनन्दिभिर्विरचितं, देशव्रतोद्योतनम् ॥27॥