पर्व - 51
अन्वयार्थ : लक्ष्‍मीरनश्‍वरी तेषां येषां तस्‍य मते मति: । देयादादेयवाक् सद्भि: सोऽस्‍मभ्‍यं सुमतिर्मतिम् ॥1॥
अखण्‍डे धातकीखण्‍डे मन्‍दरे प्राचि पूर्वगे । विदेहे नद्युदक्‍कूले सुराष्‍ट्रं पुष्‍कलावती ॥2॥
पुरेऽस्मिन् पुण्‍डरीकिण्‍यां रतिषेणो महीपति: । प्राग्‍जन्‍मोपार्जितोदीर्णपुण्‍यपण्‍यात्‍मसात्‍कृतम् ॥3॥
राज्‍यं विनिर्जितारातिनि:कोपं नित्‍यवृद्धिकम् । स्‍वामिसम्‍पत्‍समेत: सन्‍नीत्‍या निर्व्‍यसनोऽन्‍वभूत् ॥4॥
या स्‍वस्‍यैवास्‍य सा विद्या चतुर्थी न प्रयोगिणी । यदेकस्‍यापि दण्‍डेषु बर्तन्‍ते न पथि प्रजा: ॥5॥
रक्‍तस्‍य मनसा तृप्‍ति: काम: करणगोचरे । स्‍वेष्‍टाशेषार्थसम्‍पत्‍ते: कामस्‍तस्‍य न दुर्लभ: ॥6॥
अर्थे चतुष्‍टयी वृत्तिरर्जनादि यथागमम् । देवोऽर्हनर्थधर्मौ च तदनीषल्‍लभौ मतौ ॥7॥
गच्‍छत्‍येवं चिरं काले हेलया पालितक्षिते: । परस्‍परानुकूल्‍येन वर्गत्रितयवर्द्धिन ॥8॥
जन्‍तो: र्कि कुशलं कस्‍मात्‍सुखमेषोऽधितिष्‍ठति । पर्यायावर्तदुर्जन्‍मदुर्मृत्‍यूरगदूरग: ॥9॥
न तावदर्थकामाभ्‍यां सुखं संसारवर्द्धनात् । नामुष्‍मादपि मे धर्माद्यस्‍मात्‍सावद्यसम्‍भव: ॥10॥
नि:सावद्योऽस्‍ति धर्मोऽन्‍यस्‍तत: सुखमनुत्‍तमम् । इत्‍युदर्को वितर्कोऽस्‍य विरक्‍तस्‍याभवत्‍तत: ॥11॥
राज्‍यस्‍य दुर्भरं भारं निवेश्‍यातिरथे तुजि । सुभरं तपसो भारं बभार स भवान्‍तकृत् ॥12॥
जिनार्हन्‍नदनाभ्‍यासे विदितैकादशागंक: । उदासीन: स्‍वदेहेऽपि मोहारातिजयेच्‍छया ॥13॥
यतोऽभीष्‍टार्थसंसिद्धिस्‍तंचरन्‍ति सुमेधस: । श्रद्धानविनयाद्युक्‍तकारणोपात्‍ततीर्थकत् ॥14॥
प्रान्‍ते संन्‍यस्‍य बद्ध्‍वायुरूत्‍कृष्‍टमहमिन्‍द्रताम् । वैजयन्‍तेऽत्र सम्‍प्रापदेकारन्निशरीरक: ॥15॥ मासै: षोडशभि: पंचदशभिश्‍च दिनै: श्‍वसन् । त्रयस्त्रिशत्‍सहस्त्राब्‍दैरन्‍धो मानसमाहरत् ॥16॥
शुल्‍कलेश्‍य: स्‍वतेजोऽवधीतविष्‍टपनालिक: । तत्‍क्षेत्रविक्रियर्द्धीशस्‍तदुद्धारिबलान्‍वित: ॥17॥
आहमिद्रं सुखं मुख्‍यमगिंनामाजवंजवे । निद्वंन्‍द्वं नि:प्रवीचारं चिरं नीरागमागमत् ॥18॥
आयुरन्‍ते समाधानात्‍तस्मिन्‍नत्रागमिष्‍यति । द्वीपेऽस्‍मिन् भारते वर्षे साकेते वृषभान्‍वये ॥19॥ तद्रोत्रे क्षत्रियोऽस्‍तारि: श्‍लाघ्‍यो मेघरथोऽभवत् । मंगलाऽस्‍य महादेवी वसुधारादिपूजिता ॥20॥
मघायां श्रावणे मासि दृष्‍ट्वा स्‍वप्‍नान् गजादिकान् । आस्‍यं सितद्वितीयायामैक्षिष्‍टागामुकं द्विपम् ॥21॥ उसने श्रावणशुल्‍क द्वितीया के दिन मघा नक्षत्र में हाथी आदि सोलह स्‍वप्‍न देखकर अपने मुख में
तत्‍फलान्‍यवबुध्‍यात्‍मपते: सम्‍प्राप्‍य सम्‍मदम् । नवमे मासि चित्रायां सज्‍ज्‍योत्‍स्‍नैकादशीदिने ॥22॥ त्रिज्ञानधारिणं दिव्‍यं पितृयोगे सतां पतिम् । जगत्‍त्रयस्‍य भर्तारमहमिन्‍द्रमलब्‍ध सा ॥23॥
देवेन्‍द्रास्‍तं सदा नीत्‍वा मेरौ जन्‍मसवोत्‍सवम् । कृत्‍वा सुमतिसन्‍ज्ञां च पुनस्‍तद्रेहमानयन् ॥24॥
नवलक्षाब्धिकोटीषु प्रयातेऽनन्‍तरेऽन्‍तरे । तदभ्‍यन्‍तरवत्‍यायुरूदपाद्युदितोदय: ॥25॥
शून्‍यषड्वार्धिपूर्वायु: शरासत्रिशतोछि्ति: । सन्‍तप्‍ततपनीयाभ: स्‍वभावसुभगाकृति: ॥26॥
शैशवोचितसर्वार्थै र्देवानीतै: सदैधितु: । अंशवो वा शिशोरिन्‍दोर्व्‍यक्‍त्‍यास्‍यावयवा बभु: ॥27॥
तनव: कुन्चिता: स्निग्‍धा: मूर्धजाजाम्‍बवत्विष: । मुखपंकजमाशड्.क्‍य मिलिता वास्‍य षट्पदा: ॥28॥
मया त्रैलोक्‍यराज्‍यस्‍य स्‍नपनान्‍ते सुरोत्‍तमै: । पट्टोऽलम्‍भीति वास्‍याधाल्‍ललाटतमुन्‍नतिम् ॥29॥
कर्णै लक्षणसम्‍पूर्णौ नास्‍य त्रिज्ञानधारिण: । पंचवर्षोर्ध्‍वशिष्‍यत्‍वपरिभूर्ति प्रतेनतु: ॥30॥
सुभ्रु वो न भ्रु वोर्वाच्‍यो विभ्रमोऽस्‍य पृथग्विदाम् । भ्रू क्षेपमात्रदत्‍तार्थसार्थसन्‍तपितार्थिन: ॥31॥
नेत्रे विलासिनी स्निग्‍धे त्रिवर्णे तस्‍य रेजतु: इष्‍टाखिलार्थसम्‍प्रेक्षासुखपर्यन्‍तगामिनी ॥32॥
मया विनाऽऽस्‍यशोभा सयान्‍नेस्‍यसौ नासिका, स्‍मयम् । उन्‍नता दधतीवाभाद्वक्‍त्राब्‍जामोदपायिनी ॥33॥
लक्ष्‍म्‍यौ कपोलयोर्लक्ष्‍म्‍या वक्ष:स्‍थलसमाश्रिते: । उत्‍तमांगाश्रयाद् द्वित्‍वात् जित्‍वर्यौ वास्‍य रेजतु: ॥34॥
जित्‍वास्‍य कुन्‍दसौन्‍दर्य द्विजराजिर्व्‍यराजत । वक्राब्‍जवाससन्‍तुष्‍टा सहासेव सरस्‍वती ॥35॥
नाधरस्‍याधराख्‍या स्‍यात्‍सप्‍तमास्‍वादशालिन: । अधरीकृतविश्‍वामराधरस्‍याद्रिशोभिन: ॥36॥
नालप्‍यते लपस्‍यास्‍य शोभा वाग्‍वल्‍लभोज्‍ज्‍वला । यदि दिव्‍यो ध्‍वनिर्विश्‍ववाचकोऽस्‍मा‍द्विनि:सृता: ॥37॥
हावो वक्व्राबुजस्‍यास्‍य किं पुनर्वर्ण्‍यतेतराम् । यदि लोलालितां जम्‍मुर्निलिम्‍पेशा: सवल्‍ल्‍भा: ॥38॥
कण्‍ठस्‍य क: स्‍तवोऽस्‍य स्‍याद्यादि त्रैलोक्‍यकण्ठिका । बद्धामरेशै: स्‍याद्वादकुण्ठिताखिलवादिन: ॥39॥
तद्वाहुशिखरे मन्‍ये शिरसोऽप्‍यतिलघिंनी । वक्ष:स्‍थलनिवासिन्‍या लक्ष्‍म्‍या: क्रीडाचलायते ॥40॥
धरालक्ष्‍मीं समाहर्तु वीरलक्ष्‍मीप्रसारितौ । भ्राजेते जयिनस्‍तस्‍य भुजावाजानुलडि्.घनौ ॥41॥
पृथक् पृथक्‍त्‍वं नाख्‍येयं रम्‍यत्‍वं वास्‍य वक्षस: । मोक्षाभ्‍युदयलक्ष्‍म्‍यौ चेत्‍तदेवावसत: समम् ॥42॥
कृशमप्‍यकृशं मध्‍यं लक्ष्‍मीद्वयसमाश्रितम् । ऊर्ध्‍वदेहं महाभारं वहदेतस्‍य हेलया ॥43॥
नाभि: प्रदक्षिणावर्ता गम्‍भीरेति न कथ्‍यते । सा चेन्‍न तादृशी तस्मिन्‍न स्‍यादेवं सुलक्षणा ॥44॥
रूपशोभां विना नेम: स्‍वाश्रयादिति वाणव: । सन्‍त: सर्वेऽपि तत्रासन् रम्‍यस्‍तत्र कटीतट: ॥45॥
रम्‍भास्‍तम्‍भादयोऽन्‍येषामूर्वोर्यान्‍तुपमानताम् । उपमेयास्‍तदूरूभ्‍यां ते वृत्‍तत्‍वादिभिर्गुणै: ॥46॥
कुतो जानुक्रियेत्‍येतद् वेद्मि नान्‍येषु वेधस: । चेदस्‍मिन्‍नूरूजड्.घानां शोभास्‍पर्द्धानि वृत्‍तये ॥47॥
वज्रेण घटिते जृघें वेधसाऽस्‍यान्‍यथा कथम् । जगत्‍त्रयगुरोर्भारं बिभ्राते ते तनोस्‍तनू ॥48॥
धरेयं सर्वभावेन लग्‍नाऽस्‍मत्‍तलयोरिति । तत्‍क्रमौ प्रमदेनेव कूर्मपृष्‍ठौ शुभच्‍छवी ॥49॥
इयन्‍तोऽस्मिन् भविष्‍यन्ति धर्मा: कर्मनिवर्हणा: । इत्‍याख्‍यातुमिवाभान्ति विधिनांगुलय: कृता: ॥50॥
विधाय दशधाऽऽत्‍मानं विधुरह्नि निषेवते । कान्तिमाभ्‍यां परं प्राप्‍तुमित्‍याशंकावहा नखा: ॥51॥
एवं सर्वांगशोभास्‍य लक्षणैर्व्‍यंजनै: शुभा । स्‍वीकरिष्‍यति मुक्‍त्‍यंगनां वेस्‍यत्र न संशय: ॥52॥
कौमारमिति रूपेण सन्‍धत्‍ते रामणीयकम् । अनाप्‍तयौवनस्‍यास्‍य त‍द्विनापि मनोभवात् ॥53॥
ततो यौवनमालम्‍ब्‍य कामोऽप्‍यस्मिन् कृतास्‍पद: । सम्‍प्राप्‍य साधव: स्‍थानं नाधितिष्‍ठन्ति के स्‍वयम् ॥54॥
कुमारकाले पूर्वाणां दशलक्षेषु निष्ठिते । भुंजन् स्‍वर्लोकसाम्राज्‍यं नृराज्‍यं चाप स क्रमात् ॥55॥
न हिंसा न मृषा तस्‍य स्‍तेयसंरक्षणे न च । स्‍वप्‍नेऽपि तद्रतानन्‍द: शुल्‍कलेश्‍यस्‍य केन स: ॥56॥
तथा नानिष्‍टसंयोगो वियोगो नेष्‍टवस्‍तुनि । नासातं न निदानं च तत्‍सड्.ल्‍केशो न तद्रत: ॥57॥
गुणानां वृद्धिमातन्‍वन् संचयं पुण्‍यकर्मणाम् । विपाकं विश्‍वपुण्‍यानां गुणपुण्‍यसुखात्‍मक: ॥58॥
सेव्‍यमान: सदा रक्‍तै: सुरखेचरभूचरै: । निराकृतैहिकारम्‍भ: सम्‍भृत: सर्वसम्‍पदाम् ॥59॥
निश्चितं कामभोगेषु नित्‍यं नृसुरभाविषु । न्‍याय्यार्थपथ्‍यधर्मेषु शर्मसारं समाप स: ॥60॥
कान्‍ताभि: कमनीयाभि: सवयोभि: समीप्‍सुभि:। दिव्‍यांगरागस्‍त्रग्‍वस्‍त्रभूषासी रर्मते स्‍म स: ॥61॥
दिव्‍यश्रीर्मानुषी च श्री: समप्रेमप्रतोषिते । सुखं विदधतुस्‍तस्‍य मध्‍यस्‍थ: कस्‍य न प्रिय: ॥62॥
सुखं नाम तदेवात्र यदस्‍येन्द्रियगोचरम् । स्‍वर्वन्‍द्यसारभोग्‍यं चेत्‍सुरेशास्‍यैव रक्षितम् ॥63॥
एवं संगमयन् कालं दिव्‍यराज्‍यश्रियोर्द्वये । व्‍यरंत्‍सीत् संसृते: सा हि प्रत्‍यासन्‍नविनेयता ॥64॥इस प्रकार दिव्‍य लक्ष्‍मी और राज्‍यलक्ष्‍मी इन दोनों में समय व्‍यतीत करते हुए भगवान् सुमतिनाथ
सुधी: कथं सुखांशेप्‍सुविषयामिषगृद्धिमान् । न पापबडिशं पश्‍येन्‍न चेदनिमि पायते ॥65॥
मूढ: प्राणी परां प्रौढिमप्राप्‍तोऽस्‍त्‍वहिताहित: । अहितेनाहितोऽहं च कंथ बोधत्रयाहित: ॥66॥
निरड्.कुशं न वैराग्‍यं यादृग्‍ज्ञानं च तादृशम् । कुत: स्‍यादात्‍मन: स्‍वास्‍थ्‍यमस्‍वस्‍थस्‍य कुत: सुखम् ॥67॥
खपंचकनवद्वयुक्‍तै: पूर्वै राज्‍येऽवसाधिते । सह द्वादशपूर्वांगै: स्‍वस्मिन्‍नेवेत्‍यचिन्‍तयत् ॥68॥
स्‍तुतस्‍तदैव संस्‍तोत्रै: सर्वै: सारस्‍वतादिभि: । अभिषेकं सुरैराप्‍य देवोढाभययानक: ॥69॥
दीक्षां षष्‍ठोपवासेन सहेतुकवनेऽगृहीत् । सिते राज्ञां सहस्‍त्रेण सुमतिर्नवमीदिने ॥70॥
मघाशशिनि वैशाखे पूर्वाह्णे संयमाश्रयम् । तदैवाविरभूदस्‍य मन:पर्ययसंज्ञकम् ॥71॥
षुरं सौमनसं नाम भिक्षायै पश्चिमे दिने । प्राप्‍तं प्रतीक्ष्‍य पद्मोऽगात्‍पूजां द्युम्‍नद्युतिर्नृप: ॥72॥
सामायिकं समादाय समौन: शान्‍तकल्‍मष: । तपस्‍तेपे समाधानात्‍सहिष्‍णुर्दुस्‍सहं, परै: ॥73॥
विशर्ति वत्‍सरान्‍नीत्‍वा छद्मस्‍थ: प्राक्‍तने वने । प्रियड्.गुभूरूहोऽधस्‍तादुपवासद्वयं श्रित: ॥74॥
मघायां चैत्रमासस्‍य धवलैकादशीदिने । पश्चिमाभिमुखे भानौ कैवल्‍यमुदयादयत् ॥75॥
सुरै: सम्‍प्राप्‍ततत्‍पूजो गणेशैश्‍चामरादिभि: । स सप्‍तर्द्धिभिरभ्‍यर्च्‍य: सषोडशशतोन्‍मुखै: ॥76॥
शून्‍यद्वयचतु:पक्षमितपूर्वधरानुग: । खपंचत्रिचतु:पंचपक्षोक्‍तै: शिक्षकैर्युत: ॥77॥
एकादशसहस्‍त्रावधीद्धबोधविदीडित: । त्रयोदशसहस्‍त्रात्‍मसमानज्ञान संस्‍तुत: ॥78॥
शून्‍यद्वययुगाष्‍टैकमितवैक्रियकस्‍तुत: । शून्‍यद्वयचतु:खैकप्रमितोपान्‍तविद्धृत: ॥79॥
शून्‍यपंचचतु:खैकमितवाद्यभिवन्दित: । पिण्डितै: खचतुष्‍कद्वित्रिमितैस्‍तैर्विभूषित: ॥80॥
खचतुष्‍कत्रिबह्णयुक्‍तानन्‍तार्याद्यार्यिकानुग: । त्रिलक्षश्रावकाभ्‍यर्च: श्रा‍विकापंचलक्षवान् ॥81॥
स देवदेव्‍यसंखयाततिर्यक्संखयातवेष्टित: । विह्णत्‍याष्‍ठदशक्षेत्रविशेषेष्‍वमरांचित: ॥82॥
प्रशस्‍ताशस्‍तभाषासु भव्‍यानां दिव्‍यमक्षिपत् । ध्‍वर्नि बीजविशेषं वा सुभूमिषु महाफलम् ॥83॥
विमुक्‍त विह्णतिर्मासं सहस्त्रमुनिभि: सह । प्रतिमायोगमास्‍थाय सम्‍मेदे निर्वृर्ति ययौ ॥84॥
एकादश्‍यां सिते चैत्रे मघायामपराह्णग:। अमरैरन्‍त्‍यकल्‍याणमवाप सुमतीश्‍वर: ॥85॥
मालिनी
रिपुनृपयमदण्‍ड: पुण्‍डरीकिण्‍यधीशो
हरिरिव रतिषेणो वैजयन्‍तेऽहभिद्र: ।
सुमतिरमितलक्ष्‍मीस्‍तीर्थकृद्य: कृतार्थ:
सकलगुणसमृद्धो व: स सिर्द्धि विदध्‍यात् ॥86॥
स्‍त्रग्‍धरा
सद्यो जातं जिनेन्‍द्रं स्‍वरवतरणसम्‍प्राप्‍तकल्‍याणकार्ये
वामं जन्‍माभिषेके सुरपबिरचितैर्भूषणैरिद्धशोभम् ।
सन्निष्‍कान्‍तावघोरं सुमतिमतिमर्ति केवलज्ञानसिद्धा-
वीशानं निर्वृतौ तत्‍पुरूषमपरूषं शान्‍तये संश्रयध्‍वम ॥87॥