पर्व - 60
अन्वयार्थ : अनन्‍तोऽनन्‍तदोषाणां हन्‍ताऽनन्‍तगुणाकर: । हन्‍त्‍वन्‍तर्ध्‍वान्‍तसन्‍तानमन्‍ता‍तीतं जिन: स न: ॥1॥
धातकीखण्‍डप्राग्‍भागमेरूदग्विषये महत् । रम्‍यं पुरमरिष्‍टाख्‍यमैकध्‍यमिव सम्‍पदाम् ॥2॥
पति: पद्यरथस्‍तस्‍य पद्मासद्म स्‍वयं गुणै: । यस्मिन् महीं चिरं पाति प्रापन्‍प्रीतिं परां प्रजा: ॥3॥
पुण्‍योद्यात्‍सुरूपादिसामग्रीसुखसाधिनी । जन्‍तोस्‍तदुदयस्‍तस्मिन्‍पुष्‍कलोऽस्ति निरर्गल: ॥4॥
तदिन्द्रियार्थसान्निध्यसमुद्भूतसुखेन स: । शक्रवत्‍सुष्‍ठु सन्‍तृप्‍यन्‍संसारसुखमन्‍वभूत् ॥5॥
अथान्‍यदा समासाद्य स्‍वयम्‍प्रभजिनाधिपम् । सप्रश्रयमभिष्‍टुत्‍य श्रुत्‍वा धर्म सुनिर्मलम् ॥6॥
संयोगो देहिनां देहैरक्षाणां च स्‍वगोचरै: । अनित्‍योऽन्‍यतराभावे सर्वेषामाजवंजवे ॥7॥
आहितान्‍यमता: सन्‍तु देहिनो मोहिताशया: । अहं निहतमोहारिमाहात्‍म्‍यार्हत्‍क्रमाश्रय: ॥8॥
करवाणि कथंकारं मतिमेतेषु निश्‍चलाम् । इति मोहमहाग्रन्थिमुद्भिद्यास्‍योद्ययौ मति: ॥9॥
तत: परीतदावाग्निशिखासन्‍त्रासितैणवत् । चिरोषितां च संसारस्‍थलीं हातुं कृतोद्यम: ॥10॥
सूनौ घनरथे राज्‍यं नियोज्‍यादाय संयमम् । एकादशांगवाराशिपारगो बद्धतीर्थकृत् ॥11॥उसने धनरथ नामक पुत्र के लिए राज्‍य देकर संयम धारण कर लिया और ग्‍यारह अंगरूपी सागर
प्रान्‍ते स्‍वाराधनां प्राप्‍य परित्‍यक्‍तशरीरक: । अभूत् पर्यन्‍तकल्‍पेन्‍द्र: पुष्‍पोत्‍तरविमानज: ॥12॥
द्वाविंशत्‍यब्धिमानायुर्हस्‍तार्द्धोनधनुस्‍तनु: । शुक्‍ललेश्‍य: श्‍वसन्‍नेकादशमासैस्‍तु संखय्या ॥13॥
खत्रयायनक्षोक्‍तवर्षैराहारमाहरत् । सुखी मन:प्रवीचारात्‍तमस: प्राग्‍गतावधि: ॥14॥
तत्‍माणबलस्‍तेजोविक्रियाभ्‍यां च तत्‍प्रभ: । चिरं तत्र सुखं भुक्‍त्‍वा तस्मिन्‍नत्रागमिष्‍यति ॥15॥
द्वीपेऽस्मिन् दक्षिणे भागे साकेतनगरेश्‍वर: । इक्ष्‍वाकु: काश्‍यप: सिंहसेनो नाम महानृप: ॥16॥
जयश्‍यामा महादेवी तस्‍यास्‍या वेश्‍मन: पुर: । वसुधारां सुरा: सारां मासषट्कीमपीपतन् ॥17॥
कार्तिके मासि रेवत्‍यां प्रभातेऽह्नि तदादिमे । निरीक्ष्‍य षोडश स्‍वप्‍नान् विशन्‍तं वाऽऽननं गजम् ॥18॥
अवगम्‍य फलं तेषां भूभुजोऽवधिलोचनात् । गर्भस्थिताच्‍युतेनद्रासौ परितोषमगात्‍परम् ॥19॥
तत: स्‍वर्गावतरणकल्‍याणाभिषवं सुरा: । सम्‍पाद्य वस्‍त्रमाल्‍योरूभूषणैस्‍तावपूजयन् ॥20॥
सुखगर्भा जयश्‍यामा ज्‍येष्‍ठमास्‍यसिते सुतम् । द्वादश्‍यां पूषयोगेऽसौ सपुण्‍यमुदपादयत् ॥21॥
तदागत्‍य मरून्‍मुख्‍या मेरूशैलेऽभिषिच्‍य तम् । अनन्‍तजिनमन्‍वर्थनामानं विदधुर्मुदा ॥22॥
नवाब्‍ध्‍युपमसन्‍ताने पल्‍यपादत्रये स्थिते । धर्मेऽतीतार्हतो ध्‍वस्‍ते तदभ्‍यन्‍तरजीवित: ॥23॥
त्रिंशल्‍लक्षसमात्‍मायु: पंचाशंचापसम्मित: । कनत्‍कनकसंकाश: सर्वलक्षणलक्षित: ॥24॥
खचतुष्‍केन्द्रियद्धर्यब्‍देष्‍वतीतेष्‍वभिषेचनम् । राज्‍यस्‍यालभताभ्‍यर्च्‍यस्‍स नृखेशमरूद्वरै: ॥25॥
खपंचकेन्द्रियैकोक्‍तवर्षे राज्‍यव्‍यतिक्रमे । कदाचिदुल्‍कापतनहेतुनोत्‍पन्‍नबोधिक: ॥26॥ और जब राज्‍य करते हुए उन्‍हें पन्‍द्रह लाख वर्ष बीत गये तब किसी एक दिन उल्‍कापात देखकर
अज्ञानबीजसंरूढामसंयममहीधृताम् । प्रमादवारिसंसिक्‍तां कषायस्‍कन्‍धयष्टिकाम् ॥27॥
योगालम्‍बनसंवृद्धां तिर्यग्‍गतिपृथक्कृताम् । जराकुसुमसंछन्‍नां बह्नामयपलाशिकाम् ॥28॥
दु:खदु:फलसन्‍नम्रां दुष्‍कर्मविषवल्‍लरीम् । शुल्‍कध्‍यानासिनामूलं चिच्छित्‍सु: स्‍वात्‍मसिद्धये ॥29॥
लौकान्तिकै: समभ्‍येत्‍य प्रस्‍तुवद्भि: प्रपूजित: । अनन्‍तविजये राज्‍यं नियोज्‍य विजयी तुजि ॥30॥
सुरैस्‍तृतीयकल्‍याणपूजां प्राप्‍याधिरूढवान् । यानं सागरदत्‍ताख्‍यं सहेतुकवनान्‍तरे ॥31॥
ज्‍येष्‍ठे षष्‍ठोपवासेन रेवत्‍यां द्वादशीदिने । सहस्‍त्रेणासिते राज्ञामदीक्षिष्‍टापराह्नके ॥32॥
सम्‍प्राप्‍तोपान्‍त्‍यसंज्ञान: ससामायिकसंयम: । द्वितीयेऽह्नि स चर्यायै साकेतं समुपेयिवान् ॥33॥
विशाखभूपतिस्‍तस्‍मै दत्‍वाऽन्‍नं कनकच्‍छवि: । आश्‍चर्यपंचकं प्राप ज्ञापकं स्‍वर्गमोक्षयो: ॥34॥
संवत्‍सरद्वये याते छाद्मस्‍थ्‍ये प्राक्‍तने वने । अश्‍वत्‍थपादपोपान्‍ते कैवल्‍यमुदपीपदत् ॥35॥
चैत्रेऽमामास्‍यह:प्रान्‍ते रेवत्‍यां सुरसत्‍तमा: । तदैव तुर्यकल्‍याणपूजां च निरवर्तयन् ॥36॥
जयाख्‍यमुख्‍यपंचाशद्रणभृद्बृंहितात्‍मवाक् । सहस्‍त्रपूर्वभृद्वन्‍द्य: खद्वयद्वयग्निवाद्यधीट् ॥37॥
खद्वयेन्द्रियरन्‍ध्राग्निसंखयालक्षितशिक्षक: । शुन्‍यद्वयत्रिवार्ध्‍यक्‍ततृतीयज्ञानपूजित: ॥38॥
शून्‍यत्रयेन्द्रियप्रोक्‍तकेवलावगमान्वित: । शून्‍यत्रयवसूद्दिष्‍टविक्रियद्धिंविभूषित: ॥39॥
शून्‍यत्रयेन्द्रियप्रोक्‍तमन:पर्ययबोधन: । पिण्‍डीकृतोक्‍तषट्षष्टिसहस्‍त्रमुनिमानित: ॥40॥
सलक्षाष्‍टसहस्‍त्रोक्‍तसर्वश्र्याद्यार्यिकागण: । द्विलक्षश्रावकाभ्‍यर्च्‍यो द्विगुणश्राविकास्‍तुत: ॥41॥
असंखयदेवदेवीडचस्तिर्यक्संखयातसेवित: । इति द्वादशविख्‍यातभव्‍यवृन्‍दारकाग्रणी: ॥42॥ जय आदि पचास गणधरोंके द्वारा उनकी दिव्‍य ध्‍वनिका विस्‍तार होता था, वे एक हजार
सदसद्वादसद्भावमाविष्‍कुर्वन्‍ननन्‍तजित् । विह्णत्‍य विश्रुतान् देशान् विनेयान्‍योजयन्‍ पथि ॥43॥
सम्‍मेदगिरिमासाद्य विहाय विह्णतिं स्थित: । मासं शताधिकै: षड्भि: सहस्‍त्रै: मुनिभि: सह ॥44॥
प्रतिमायोगधारी संचमादस्‍याग्ररात्रिभाक् । तुरीयध्‍यानयोगेन सम्‍प्रापत्‍परमं पदम् ॥45॥
सद्यो द्युसत्‍समूहोऽपि सम्‍प्राप्‍यान्‍त्‍येष्टिमादरात् । विधाय विधिवत्‍स्‍वौक: स्‍वर्लोकं सर्वतो ययौ ॥46॥
मालिनी
कुनयघनतमोऽन्‍घं कुश्रुतोलूकविद्विट्
सुनयद्मयमयूखै: विश्‍वमाशु प्रकाश्‍य ।
प्रकटपरमदीप्तिर्बोधयन् भव्‍यपद्मान्
प्रदहतु स जिनेनोऽनन्‍तजिद् दुष्‍कृतं व: ॥47॥
वसनततिलका
प्राक्पालक: प्रथितपद्मरथ: पृथिव्‍या:
पश्‍चाद्विनिश्चिमतिस्‍तपसाच्‍युतेन्‍द्र: ।
तस्‍माच्‍च्‍युतोऽभवनन्‍तजिदन्‍तकान्‍तो
य: सोऽवताद् द्रुतमनन्‍तभवान्‍तकाद् व: ॥48॥ जो पहले पद्मरथ नाम के प्रसिद्ध राजा हुए, फिर तपके प्रभाव से नि:शंक बुद्धि के धारक अच्‍युतेन्‍द्र
हुए और फिर वहाँसे चयकर मरणको जीतनेवाले अनन्‍तजित् नामक जिनेन्‍द्र हुए वे अनन्‍त भवोंमें
तत्रैव सुप्रभो राम: केशव: पुरूषोत्‍तम: । व्‍यावर्ण्‍यते भवेषूच्‍चै: त्रिषु वृत्‍तकमेतयो: ॥49॥
एतस्मिन् भारते वर्षे पोदनाधिपति: नृप: । वसुषेणो महादेवी तस्‍य नन्‍देत्‍यनिन्दिता ॥50॥
देवी पंचशतेऽप्‍यस्‍यां स राजा प्रेमनिर्भर: । रेमे वसन्‍तमंजर्यां चंचरीक इवोत्‍सुक: ॥51॥
मलयाधीश्‍वरो नाम्‍ना कदाचिच्‍चण्‍डशासन: । आजगामं नृपं द्रष्‍टुं तत्‍पुरं मित्रतां गत: ॥52॥
नन्‍दासन्‍दर्शनेनासौ मोहित: पापपाकवान् । आह्णत्‍य तामुपायेन स्‍वदेशमगमत्‍कुधी: ॥53॥
वसुषेणोऽप्‍यशक्‍तत्‍वात्‍तत्‍पराभवदु:खित: । चिन्‍तान्‍तकसमाकृष्‍यमाणप्राण: स्‍मृतेर्बलात् ॥54॥
श्रेयोगणधरं प्राप्‍य प्रव्रज्‍यां प्रतिंपद्म स: । सिंहनि:क्रीडिताद्युग्रं तपस्‍तप्‍त्‍वा महाबल: ॥55॥
यदि विद्येत चर्याया: फलमन्‍यत्र जन्‍मनि । अलड्.घ्‍यशासन: कान्‍तो भवामीत्‍यकरोन्‍मतिम् ॥56॥
ततो विहितसंन्‍यास: सहस्‍त्रारं जगाम स: । अष्‍टादशसमुद्रायुर्द्वादशं कल्‍पमुत्‍तमम् ॥57॥
अथ जम्‍बूमति द्वीपे प्राग्विदेहे महाद्धिंके । नन्‍दनाख्‍ये पुरे प्राभून्‍नराधीशो महाबल: ॥58॥
प्रजानां पालको भोक्‍ता सुखानामतिधा‍र्मिक: । श्रीमान् दिक्प्रान्‍तविश्रान्‍तकीतिंरातिंहरोऽथिंनाम् ॥59॥
स कदाचिच्‍छरीरादियाथात्‍म्यावगमोदयात् । विरक्‍तस्‍तेषु निर्वाणपदवीप्रापणोत्‍सुक: ॥60॥
दत्‍वा राज्‍यं स्‍वपुत्राय प्रजापालार्हदन्तिके । गृहीतसंयम: सिंहनि:क्रीडिततप: श्रित: ॥61॥
संन्‍यस्‍यन्ति सहस्‍त्रारं प्राप्‍याष्‍टादशसागर- । स्थिति भोगांश्चिरं भुक्‍त्‍वा तदन्‍ते शान्‍तमानस: ॥62॥
अथेह भारते द्वारवत्‍यां सोमप्रभप्रभो: । जयवत्‍यामभूत्‍सूनु: सुरूप: सुप्रभाह्नय: ॥63॥
महायति: समुत्‍तुंग: सुरविद्याधराश्रय: । श्‍वेतिमानं दधत् सोऽभाद् विजयार्द्ध इवापर: ॥64॥
कलंकविकल: कान्‍त: सन्‍ततं सर्वचित्‍तह्णत् । पद्मानन्‍दविधायीत्‍थमतिशेते विधुं च स: ॥65॥
तस्‍यैव सुषेणाख्‍य: सीतायां पुरूषोत्‍तम: । तोकोऽजनि जनानन्‍दविधायी विविधैर्गुणै: ॥66॥
सेव्‍यस्‍तेजस्विभि: सर्वैरविलंघयमहोन्‍नति: । महारत्‍नसमुद्भासी सुमेरूरिव सुन्‍दर: ॥67॥
शुल्‍ककृष्‍णत्विषौ लोकव्‍यवहारप्रवर्तकौ । पक्षाविव विभात: स्‍म युक्‍तौ तौ रामकेशवौ ॥68॥
पंचाशद्धनुरूच्‍छूायौ त्रिंशल्‍लक्षसमायुषौ । समं समसुखौ कालं समजीगमतां चिरम् ॥69॥
अथ भ्रान्‍त्‍वा भवे दीर्घं प्राक्‍तनश्‍चण्‍डशासन: । चण्‍डांशुरिव चण्‍डोऽभूद्दण्डितारातिमण्‍डल: ॥70॥
काशिदेशे नृपो वाराणसीनगरनायक: । मधुसूदनशब्‍दाख्‍यो विख्‍यातबलविक्रम: ॥71॥
तौ तदोदयिनौ श्रुत्‍वा नारदादसहिष्‍णुक: । तव मे प्रेषय प्रार्थ्‍यगजरत्‍नादिकं करम् ॥72॥
तदाकर्णनकालान्‍तवातोद्धूतमनोऽम्‍बुधि: । युगान्‍तान्‍तकदु:प्रेक्ष्‍यश्‍चुक्रोध पुरूषोत्‍तम: ॥73॥ उसकी खबर सुनकर पुरूषोत्‍तमका मनरूपी समुद्र ऐसा क्षुभित हो गया मानो प्रलय - काल की
सुप्रभोऽपि प्रभाजालं विकिरन् दिक्षु चक्षुषो: । ज्‍वालावलिमिव क्रोधपावकाचिंस्‍तताशय: ॥74॥
न ज्ञात: क: करो नाम किं करो येन भुज्‍यते । तं दास्‍याम: स्‍फुरत्‍खंग शिरसाऽसौ प्रतीच्‍छतु ॥75॥
एतु गृह्नातु को दोष इत्‍याविष्‍कृततेजसौ । उभाववोचतामुच्‍चैर्नारदं परूषोक्तिभि: ॥76॥
ततस्‍तदवगम्‍यायात् संक्रुद्धो मधुसूदन: । हन्‍तुं तौ तौ च हन्‍तुं तं रोषादगमतां प्रति ॥77॥
सेनयोरूभयोरासीत्‍संग्राम: संहरन्निव । सर्वानहँस्‍तदारिस्‍तं चक्रेण पुरूषोत्‍तम: ॥78॥
त्रिखण्‍डाधिपतित्‍वं तौ चतुर्थौ रामकेशवौ । ज्‍योतिर्लोकाधिनाथत्‍वमन्‍वभूतामिवेन्द्विनौ ॥79॥ दोनों भाई चौथे बलभद्र और नारायण हुए तथा तीन खण्‍ड़के आधिपत्‍यका इस प्रकार अनुभव
केशवो जीवितान्‍तेऽगादवधिस्‍थानमायुषाम् । सुप्रभस्‍तद्वियोगोत्‍थशोकानलसमन्वित: ॥80॥
प्रबोधित: प्रसन्‍नात्‍मा सोमप्रभजिनेशिना । दीक्षित्‍वा श्रेणिमारूह्य स मोक्षमगमत्‍सुधी: ॥81॥
वसन्‍ततिलका
सम्‍भूय पोदनपुरे वसुषेणनामा कृत्‍वा तप: सुरवरोऽजनि शुक्‍ललेश्‍य: ।
तस्‍माच्‍च्‍युतोऽर्द्धभरताधिपतिर्हतारि: प्रापान्तिमां क्षितिमध: पुरूषोत्‍तमाख्‍य: ॥82॥
वियोगिनी
मलयाधिपचण्‍डशासनो नृपति: पापमतिर्भ्रमंश्चिरम् ।
भववारिनिधावभूदध: खलु गन्‍ता मधुसूदनाभिध: ॥83॥
वंशस्‍थवृत्‍तम्
महाबलाख्‍य: पुरि नन्‍दने नृप: महातपा द्वादशकल्‍पज: सुर: ।
पुनर्बल: सुप्रभसंज्ञयाऽगमत् परं पदं प्रास्‍तसमस्‍तसंगक: ॥84॥
आर्या
साम्राज्‍यसारसौख्‍यं सुप्रभपुरूषोत्‍तमौ समं भुक्‍त्‍वा ।
प्रथमो निर्वाणमगादपरोऽधो वृत्तिवैचित्र्यम् ॥85॥