पर्व - 65
अन्वयार्थ : सरतारं परं सारं नरनाथकृतानतिम् । अगाधासारसंसारसागरोत्‍तारकारणम् ॥1॥
द्वीपे जम्‍बूद्रुमख्‍याते सीतोत्‍तरतटाश्रिते । कच्‍छाख्‍यविषये क्षेमपुराधीशो महीपति: ॥2॥
नाम्‍ना धनपति: पाता प्रजानां जनताप्रिय: । धात्री धेनु: स्‍वयं तस्‍य दुग्‍धे स्‍म प्रस्‍नुतानिशम् ॥3॥
विनार्थिभिरपि त्‍यागी विनाप्‍यरिभिरूद्यमी । तर्पितार्थिनि धूतारौ तर्स्मिस्‍तौ सहजौ गुणौ ॥4॥
स्‍ववृत्‍त्‍यनुगमेनैव वर्गत्रयनिषेविण: । राजा प्रजाश्‍च राज्‍येऽर्स्मिस्‍तन्‍न धर्मव्‍यतिक्रम: ॥5॥
कदाचिद्धरणीधर्ता पीत्‍वार्हन्‍नन्‍दतीर्थकृद् । दिव्‍यध्‍वनिसमुद्भूतं धर्मसाररसायनम् ॥6॥
विरज्‍य राज्‍यभोगात्‍तरसाद्राज्‍यं निजात्‍मजे । नियोज्‍य मंक्षु प्रव्रज्‍यां जैनीं जन्‍मान्‍तकारिणीम् ॥7॥
आसाद्यैकादशांगोरूपारावारस्‍य पारग: । द्वयष्‍टकारणसम्‍बद्धतीर्थकृन्‍नामपुण्‍यकृत् ॥8॥
प्रायोपगमनेनापत्‍स जयन्‍तेऽहमिन्‍द्रताम् । त्रयस्त्रिंशत्‍समुद्रोपमायुर्हस्‍ततनुप्रम: ॥9॥
शुल्‍क-लेश्‍याद्वय: सार्द्धैर्मासै: षोडशभि: श्‍वसन् । त्रयस्त्रिंशत्‍सहस्‍त्रोक्‍तवर्षैर्मानसमाहरन् ॥10॥
अमृतं नि:प्रवीचारसुखसागरपारग: । स्‍वावधिज्ञाननिर्णीतलोकनाडयर्थविस्‍तृति: ॥11॥
स्‍वावधिक्षेत्रनिर्णीतप्रकाशबलविक्रिय: । अतिप्रशान्‍तरागादिरासन्‍नीकृतनिर्वृति: ॥12॥
सद्वेद्योदयसम्‍भूतमन्‍वभूत् भोगमुत्‍तमम् । उदितोदितपर्याप्तिपर्यन्‍तोपान्‍तमास्थित: ॥13॥
द्वीपेऽस्मिन् भारते क्षेत्रे देशोऽस्ति कुरूजांगल: । हस्तिनाख्‍यं पुरं तस्‍य पतिर्गोत्रेण काश्‍यप: ॥14॥
सोमवंशसमुद्भूत: सुदर्शनसमाह्वय: । मित्रसेना महादेवी प्राणेभ्‍योऽप्‍यस्‍य वल्‍लभा ॥15॥
वसुधारादिकां पूजां प्राप्‍य प्रीतानुफल्‍गुने । मासेऽसिततृतीयायां रेवत्‍यां निशि पश्चिमे ॥16॥
भागे जयन्‍तदेवस्‍य स्‍वर्गावतरणक्षणे । दृष्‍टषोडशसुस्‍वप्‍ना फलं तेषु निजाधिपम् ॥17॥
अनुयुज्‍यावधिज्ञानतदुक्‍तफलसंश्रुते: । प्राप्‍तत्रैलोक्‍यराज्‍येव प्रासीदत्‍परमोदया ॥18॥
तदा गतामराधीशकृतकल्‍याणसम्‍पदा । निर्वृता निर्मदा नित्‍यरम्‍या सौम्‍यानना शुचि: ॥19॥
संवाह्यमानान देवीभिस्‍तत्‍कालोचितवस्‍तुभि: । मेघमालेव सद्रर्भमुद्वहन्‍ती जगद्धितम् ॥20॥
मार्गशीर्षे सिते पक्षे पुष्‍ययोगे चतुर्दशी । तिथौ त्रिविधसद्वोधं तनूजमुदपीपदत् ॥21॥ उसी समय इन्‍द्रादि देवों ने जिसके गर्भकल्‍याणक का उत्‍सव किया है, जो अत्‍यन्‍त संतुष्‍ट है, मद
तस्‍य जन्‍मोत्‍सवस्‍थालं वर्णनाय मरूद्वरा: । यदि स्‍वर्ग समुद्वास्‍य सर्वेऽप्‍यत्र सजानय: ॥22॥
अत्‍यल्‍पं तृप्तिमापन्‍ना दीनानाथवनीपका: । इतीदमिह सम्‍प्राप्‍तं यदि तृप्तिं जगत्‍त्रयम् ॥23॥
कुन्‍थुतीर्थेशसन्‍ताने पल्‍ये तुर्थाशसम्मिते । सहस्‍त्रकोटिवर्षो ने तदभ्‍यन्‍तरजीवित: ॥24॥
अरो जिनोऽजनि श्रीमानशीर्ति चतुरूत्‍तराम् । वत्‍सराणां सहस्‍त्राणि परमायु: समुद्वहन् ॥25॥
त्रिंशच्‍चापतनूत्‍सेध: चारूचामीकरच्‍छवि: । लावण्‍यस्‍य परा कोटि: सौभाग्‍यस्‍याकर: पर: ॥26॥
सौन्‍दर्यस्‍य समुद्रोऽयमालयो रूपसम्‍पद: । गुणा: किमस्मिन् सम्‍भूता: किं गुणेष्‍वस्‍य सम्‍भव: ॥27॥
अभूद्गुणमय: किं वेत्‍याशंका सानयन् जनान् । अवर्द्धत समं लक्ष्‍म्‍या बालकल्‍पद्रमोपम: ॥28॥
तस्‍य शून्‍यत्रिकैकद्विप्रमाणामितवत्‍सरै: । गते कुमारकालेऽभूद्राज्‍यं माण्‍डलिकोचितम् ॥29॥
तावत्‍येव गते काले तस्मिन् सकलचक्रिता । भोगान्‍समन्‍वभूद्भागे तृतीये स निजायुष: ॥30॥
कदाचिच्‍छारदाम्‍भोदविलयप्रतिलोकनात् । समुद्भूतस्‍वजन्‍मोपयोगबोधि: सुरोत्‍तमै: ॥31॥
प्रबोधितोऽनुवादेन दत्‍वा राज्‍यं स्‍वसूनवे । अरविन्‍दकुमाराय सुरैरूढामधिष्ठित: ॥32॥
शिबिकां वैजयन्‍त्‍याख्‍यां सहेतुकवनं गत: । दीक्षां षष्‍ठोपवासेन रेवत्‍यां दशमीदिने ॥33॥
शुक्‍लेऽगान्‍मार्गशीर्षस्‍य सायाह्ने भूभुजां सह । सहस्‍त्रेण चतुर्ज्ञानधारी च समजायत ॥34॥
सम्‍यगेवं तप: कुर्वन् कदाचित्‍पारणादिने । प्रायाच्‍चक्रपुरं तस्‍मै दत्‍वान्‍नमपराजित: ॥35॥
महीपति: सुवर्णाभ: प्रापदाश्‍चर्यपन्‍चकम् । छाद्यस्‍थ्‍येनागमंस्‍तस्‍य मुनेर्वर्षाणि षोडश ॥36॥
ततो दीक्षावने मासे कार्तिके द्वादशीदिने । रेवत्‍यां शुक्‍लपक्षेऽपराह्णे चूततरोरध: ॥37॥
षष्‍ठोपवासेनाहत्‍य घातीन्‍यार्हन्‍त्‍यमासदत् । सुराश्‍चतुर्थकल्‍याणे सम्‍भूयैनमपूजयन् ॥38॥
कुम्‍भार्याद्या गणेशोऽस्‍य त्रिंशत्पूर्वांगवेदिन: । शून्‍यैकषट्मिता: ज्ञेया शिक्षका: सूक्ष्‍मबुद्धय: ॥39॥
पन्‍चवह्गयष्‍टपन्‍चाग्निमितास्त्रिज्ञानधारिण: । शून्‍यद्वयाष्‍टपक्षोक्‍ता: केवलज्ञानलोचना: ॥40॥
तावन्‍त: खद्वयाग्‍न्‍यग्धिनिमिता विक्रियर्द्धिका: । करणेन्द्रियखद्वयुक्‍ता मन:पर्ययबोधना: ॥41॥
शतानि षट्सहस्‍त्रं च तत्रानुत्‍तरवादिन: । सर्वे ते सन्चिता: पन्‍चाशत् सहस्‍त्राणि संयता: ॥42॥
ज्ञेया: षष्टिसहस्‍त्राणि यक्षिलाप्रमुखार्थिका: । लक्षा: षष्टिसहस्‍त्राणि श्रावका श्राविकाश्‍च ता: ॥43॥
लक्षं त्रयं विनिर्दिष्‍टा देवा: पूर्वोक्‍तमानका: । तिर्यग्‍भेदाश्‍च संखयाता1वृतोद्वादशभिर्गणै: ॥44॥
एभिर्धर्मोपदेशार्थ व्‍यहरद्विषयान् सुधी: । मासमात्रावशेषायु: सम्‍मेदगिरिमस्‍तके ॥45॥
सहस्‍त्रमुनिभि: सार्द्ध प्रतिमायोगमास्थित: । चैत्रकृष्‍णान्‍तरेवत्‍यां पूर्वरात्रेऽगमच्छिवम् ॥46॥
तदाऽऽगत्‍य सुराधीशा: कृतनिर्वाणपूजना: । स्‍तुत्‍वा स्‍तुतिशतैर्भक्‍त्‍या स्‍वं स्‍वमोक: समं ययु: ॥47॥
शार्दूलविक्रीडितम्
त्‍यक्‍तं येन कुलालचक्रमिव तच्‍चक्रं धराचक्रचित्,
श्रीश्‍चासौ घटदासिकेव परमश्रीधर्मचक्रेप्‍सया ।
युष्‍मान्‍भक्तिभरानतान्‍स दुरितारातेरवध्‍वंसकृत्,
पायाद्भव्‍यजनानरो जिनपति: संसारभीरून् सदा ॥48॥
वसन्‍ततिलकावृत्‍तम्
क्षुत्‍तृट्भयादिगुरूकर्मकृतोरूदोषा-
नष्‍टादशापि सनिमित्‍तमपास्‍य शुद्धिम् ।
यो लब्‍धवांस्त्रिभुवनैकगुरूर्गरीया-
नष्‍टादशो दिशतु शीघ्रमर: शिवं व: ॥49॥
शार्दूलविक्रीडितम्
प्राग्‍योऽभून्‍नृपतिर्महान् धनपति: पश्‍चाद्व्रतानां पति:,
स्‍वर्गाग्रे विलसज्‍जयन्‍तज‍पति: प्रोद्यत्‍सुखानां पति: ।
षट्खण्‍डाधिपतिश्‍चतुर्दशलसद्रलैर्निधीनां पति:,
त्रैलोक्‍याधिपति: पुनात्‍वरपति: सन् स श्रितान् वश्चिरम् ॥50॥
अथास्मिन्‍नेव तीर्थेऽभूत्‍सुभौमो नाम चक्रभृत् । तृतीये जन्‍मन्‍यत्रैव भरतेऽसौ भुव: पति: ॥51॥
भूपालो नाम संग्रामे वलिभिर्विजिगीषुभि: । प्राप्‍ताभिमानभंग: सन् भृशं निर्विद्य संसृते: ॥52॥
दीक्षां जैनेश्‍वरीमादात्‍संभूतगुरूसन्निधौ । कदाचित्‍स तप: कुर्वन्निदानमकरोत्‍कुधी: ॥53॥
भूयान्‍मे चक्रवर्तित्‍वमिति भोगानुषन्‍जनात् । धीरं विषेण वा तेन मनसा दूषितं तप: ॥54॥
स तथैवाचरन् घोरं तप: स्‍वास्‍यायुष: क्षये । समाधाय महाशुक्रे संन्‍यासेनोदपद्यत ॥55॥
तत्र षोडशवाराशिमानायु: सुखमास्‍त स: । द्वीपेऽस्मिन् भारते कौशलाख्‍य राष्‍ट्रे गुणान्विते ॥56॥
सहस्‍त्रबाहुरिक्ष्‍वाकु: साकेतनगराधिप: । राज्ञी तस्‍याभवच्चित्रमत्‍याख्‍या ह्णदयप्रिया ॥57॥
कन्‍याकुब्‍जमहीशस्‍य पारताख्‍यस्‍य सात्‍मजा । तस्‍यां सुत: सुपुण्‍येन कृतवीराधिपोऽभवत् ॥58॥
तत्र प्रवर्द्धमानेऽस्मिन्निदमन्‍यदुदीर्यते । सहस्‍त्रभुजभूमर्तु: पितृव्‍याच्‍छतबिन्‍दुत: ॥59॥
पारताख्‍य महीशस्‍य श्रीमत्‍त्‍यस्‍तनय: स्‍वसु: । जमदग्नि: सरामान्‍त: कौमारे मातृमृत्‍युत: ॥60॥
निर्वेगात्‍तापसो भूत्‍वा पन्‍चाग्नितपसि स्थित: । दृढग्राहिमहीशस्‍य विप्रेण हरिशर्मणा ॥61॥
अभूदखण्डितं सख्‍यमेवं काले प्रयात्‍यसौ । दृढग्राही तपो जैनमग्रहीद् ब्राह्मणोऽपि च ॥62॥
तापसव्रतमन्‍तेऽभूज्‍ज्‍योतिर्लोके द्विजोत्‍तम: । दृढग्राही च सौधर्मे सोऽवधिज्ञानचक्षुषा ॥63॥
मिथ्‍यात्‍वाज्‍ज्‍योतिषां लोके समुत्‍पन्‍नं द्विजोत्‍तमम् । विज्ञाय जैनसद्धर्म तं ग्राहयितुमागमत् ॥64॥
दृष्‍ट्वा तं तत्र मिथ्‍यात्‍वात्‍त्‍वमेवं कुत्सितोऽभव: । उत्‍कृष्‍टं शुद्धसम्‍यक्‍त्‍वाद्देवभूयमहं गत: ॥65॥
तस्‍मादुपेहि मोक्षस्‍य मार्गमित्‍यब्रवीत्‍तत: । तापसानां तप: कस्‍मादशुद्धमिति संशयात् ॥66॥
अन्‍वयुड़्क्‍त स तं सोऽपि दर्शयाम्‍येहि भूतलम् । इत्‍यन्‍योन्‍यं समालोच्‍य कीचकद्वन्‍द्वतागतौ ॥67॥
जमदग्निमुनेर्दीर्धश्‍मश्र्वाश्रयमुपाश्रितौ । कान्चित् कालकलां स्थित्‍वा सद्दृष्टि: सुरकीचक: ॥68॥
समभाषत मायाज्ञो ज्‍योतिष्‍कामरकीचकीम् । एतद्वनान्‍तरं गत्‍वा प्रत्‍यायास्‍याम्‍यहं प्रिये ॥69॥
प्रतीक्षस्‍वात्र मां स्थित्‍वेत्‍यसौ चाहागमं तव । न श्रद्दधामि मे देहि शपथं यदि यास्‍यसि ॥70॥
इत्‍यत: सोऽब्रवीद् ब्रूंहि पातकेषु किमिच्‍छसि । पन्‍चसु त्‍वमहं तस्मिन् दास्‍यामि तदिति स्‍फुटम् ॥71॥
साप्‍याह तेषु मे वान्‍छा कर्स्मिश्चिन्‍नैव देहि मे । तापसस्‍यास्‍य यास्‍यामि गतिं नैष्‍याम्‍यहं यदि ॥72॥
इतीमं शपथं गन्‍तुं मुन्‍चामि त्‍वां प्रियेति ताम् । तच्‍छ्र त्‍वा कीचक: प्राह मुक्‍त्‍वैनं किन्चिदीप्सितम् ॥73॥
ब्रूह्मन्‍यमिति तद्न्‍दविसंवादं स तापस: । श्रुत्‍वा क्रोधेन सन्‍तप्‍तो विघूर्णितविलोचन: ॥74॥
हस्‍ताभ्‍यां हन्‍तुमु त्‍क्रौर्याद् गृहीत्‍वा निश्‍चलं द्विजौ । मद्दुर्द्धरतप: प्राप्‍य भाविलोकोऽनभीप्सित: ॥75॥
युवाभ्‍यां केन तद्वाच्‍यमित्‍याहात: खगोऽब्रवीत् । मागम: कोपमेतेन सौजन्‍यं तव नश्‍यति ॥76॥
यदातन्‍चनतक्रेण पयोऽल्‍पेन न किं क्षतिम् । श्र्णुते दुर्गतेर्हेतु चिरं घोरं तपस्‍यत: ॥77॥
कौमारब्रह्मचारित्‍वं तव सन्‍तन्तिविच्छिदे । सन्‍तानघातिन: पुंस: का गतिर्नरकाद्विना ॥78॥
अपुत्रस्‍य गतिर्नास्‍तीत्‍यार्ष किं न त्‍वया श्रुतम् । कुतोऽविचारयन्‍नेवं क्लिश्‍नासि जडधीरिति ॥79॥
श्रुत्‍वा तद्वचनं मन्‍दमिति निश्चित्‍य तत्‍तथा । वधूजनेषु सक्‍तानाममज्ञानतपस: क्षिति: ॥80॥
ममोपकारकावेताविति मुक्‍त्‍वा द्विजद्वयम् । वन्चितोऽगात्‍कुधीस्‍ताभ्‍यां कन्‍याकुब्‍जाधिपं प्रति ॥81॥
स्‍थास्‍नु नाज्ञानवैराग्‍यमित्‍यत्राघोषयन्निव । दृष्‍ट्वा पारतभूपालमात्‍ममातुलमत्रप: ॥82॥
आकारेणैव कन्‍यार्थागमनं स निवेदयन् । आसनद्वयमालोक्‍य सरागासनमास्थित: ॥83॥
निजागमनवृत्‍तान्‍तं महीपतिमजीगमत् । तदाकर्ण्‍य नृप: खेदाद्धिग्धिगज्ञानमित्‍यमुम् ॥84॥
कन्‍याशतं ममास्‍त्‍यत्र या त्‍वामिच्‍छति साऽस्‍तु ते । इत्‍यवोचदसौ चागात्‍कन्‍यकास्‍तं निरीक्ष्‍य ता: ॥85॥
अर्द्धदग्‍धशवं मत्‍वा तपोदग्‍धशरीरकम् । जुगुप्‍सयाऽपलायन्‍त काश्चित्‍काश्चिद्भयाहिता: ॥86॥
व्रीडया पीडित: सोऽपि तास्‍त्‍यक्‍त्‍वा बालिकां सुताम् । तस्‍यैवालोक्‍य मूढात्‍मा पांसुक्रीडापरायणाम् ॥87॥
कदलीफलमादर्श्‍य प्राह मामिच्‍छतीति ताम् । वान्‍छामीत्‍यब्रुवत्‍सा च मामियं वान्‍छतीति ताम् ॥88॥
नृंप निवेद्य संगृह्य समायासीद्वनं प्रति । पदं प्रति जनैर्निन्‍द्यमानो दीनतमो जड: ॥89॥
रेणुकीत्‍यभिधां तस्‍या विधाय स्‍वीचकार स: । प्रवृत्तिर्धर्म इत्‍येषा तदा प्रभृति वागभूत् ॥90॥
बोधौ श्रद्धा विशेषस्‍य भेदौ वा तपसो यते: । बाह्याभ्‍यन्‍तरनामानौ तावभूतां सुतौ स्‍तुतौ ॥91॥
इन्‍द्र: श्‍वेतश्‍च रामान्‍तौ चन्‍द्रादित्‍यसमात्विषौ । कामार्थौ वा जनाभीष्‍टौ युक्‍तौ वा नयविक्रमौ ॥92॥
प्रयात्‍येवं तयो: काले मुनिरन्‍येद्युरागत: । अरिंजयोऽग्रजो गेहं रेणुक्‍यास्‍ताद्दिदृक्षया ॥93॥
दृष्‍ट्वा यथोपचारेण मुर्नि भर्तृप्रचोदिता । पूज्‍य ! मद्दानकाले मे दत्‍तं किं भवता धनम् ॥94॥
वदेत्‍याह ततस्‍तेन मया दत्‍तं न किन्‍चन । इदार्नी दीयते भद्रे त्रिजगत्‍स्‍वपि दुर्लभम् ॥95॥
गृहाण येन प्राप्रोषि त्‍वं सुखानां परम्‍पराम् । सम्‍यक्‍त्‍वं व्रतसंयुक्‍तं शीलमालासमुज्‍ज्‍वलम् ॥96॥
इत्‍युक्‍त्‍वा काललब्‍ध्‍येव तद्वाचा चोदिता सती । सम्‍यग्‍गृहीतभित्‍याख्‍यन्‍मुनीशश्‍चातितुष्‍टवान् ॥97॥
कामधेन्‍वभिधां विद्यामीप्सितार्थप्रदायिनीम् । तस्‍यै विश्राणयान्‍चके समन्‍त्रं परशुं च स: ॥98॥
अथान्‍यदा ययौ सार्द्ध कृतवीरेण तत्पिता । तपोवनं सनाभित्‍वाद् भुक्‍त्‍वा गन्‍तव्‍यमित्‍यमुम् ॥99॥
सहस्‍त्रबाहुं सम्‍भाष्‍य जमदग्निरभोजयत् । महाराजकुलेऽप्‍येषा सामग्री नास्ति भोजने ॥100॥
तपोवननिविष्‍टानामागता भवतां कुत: । इति स्‍वमातुरनुजामप्राक्षीद्रेणुकीं 2मिथ: ॥101॥
कृतवीरोऽब्रवीत्‍साऽपि तद्विद्यालम्‍भनादिकम् । सोऽपि मोहोदयाविष्‍टस्‍तां धेनुमकृतज्ञक: ॥102॥
होमधेनुरियं तात वर्णाश्रगगुरोस्‍त्‍व । याचनैषा न युक्‍तेति तदुक्‍त्‍या कोपवेगत: ॥103॥
परार्द्ध यद्धनं लोके तद्योग्‍यं पृथिवीभुजाम् । न धेनुरीदृशी भोग्‍या कन्‍दमूलफलाशिभि: ॥104॥
इत्‍यस्‍या धेनुमादाय हठात्‍कारेण गच्‍छत: । अवस्थितं पुरस्‍तात्‍तं जमदग्निं महीपति: ॥105॥
हत्‍वा स्‍वमार्गमुल्‍लड़्ध्‍य कुमार्गोऽभूत्‍पुरोन्‍मुख: । रूदन्‍तीं रेणुकीं भर्तृमरणात् प्रहतोदरीम् ॥106॥
अथ पुत्रौ वनात्‍पुष्‍पकन्‍दमूलफलादिकम् । आदायालोक्‍य सम्‍प्राप्‍तौ किमेतदिति विस्‍मयात् ॥107॥
पृष्‍ट्वा विज्ञाय तत्‍सर्व सकोपौ शोकनिर्भराम् । निर्वाप्‍य युक्तिमद्वाग्भिस्‍तौ नैसर्गिकविक्रमौ ॥108॥
ध्‍वजीकृतनिशातोग्रपरशू यमसन्निभौ । गोग्रहे मरणं पुण्‍यहेतुरित्‍यविगानत: ॥109॥
श्रूयते तत्‍तथैवास्‍तां क: सहेत पितुर्वधम् । इत्‍युक्‍त्‍वानुगताशेषस्त्रिह्मन्‍मुनिकुमारकौ ॥110॥
तद्रतं मार्गमन्‍वेत्‍य साकेतनगरान्तिकम् । सम्‍प्राप्‍य कृतसंग्रामौ कृतवीरेण भूपतिम् ॥111॥
सहस्‍त्रबाहुमाहत्‍य सायाह्गेऽविक्षतां पुरम् । हालाहलोपमान्‍याशु घोरांह:स्‍फूर्जितान्‍यलम् ॥112॥
फलन्‍त्‍यकार्यचर्याणां दु:सहां दु:खसन्‍ततिम् । सहस्‍त्रबाहुसन्‍ता‍ननि:शेषीकरणोत्‍सुकम् ॥113॥
ज्ञात्‍वा परशुरामीयमभिप्रायं महीपति: । भूपालचरदेवेन निदानविषदूषितात् ॥114॥
समुद्भूतेन तपसो महाशुक्रेऽत्र जन्मिना । रार्ज्ञी सगर्भा चित्रमतीं तां शाण्डिल्‍यतापस: ॥115॥
तदग्रज: समादाय गत्‍वा विज्ञातचर्यया । स सुबन्‍ध्‍वाख्‍यनिर्ग्रन्‍थमुनेरावेद्यवृत्‍तकम् ॥116॥
तत्‍समीपे निधायार्य मठे मे नास्ति कश्‍चन । तत्र गत्‍वा समीक्ष्‍यागमिष्‍याम्‍येषाऽत्र तिष्‍ठतु ॥117॥
देवीति गतबांस्‍तस्‍मात्‍तदैवासूत सा सुतम् । तदानीमेव तं तत्र भविष्‍यद्भरताधिप: ॥118॥
बालकोऽयमिति ज्ञानात्‍स्‍वीचक्रु र्वनदेवता: । ताभि: प्रपाल्‍यमानोऽयमनाबाधमवर्द्धत ॥119॥
दिनानि कानिचिन्‍नीत्‍वा महीमाश्लिष्‍य जातवान् । बालकोऽयं कथम्‍भावी भट्टारक, शुभाशुभम् ॥120॥
अनुगृह्यास्‍य वक्‍तव्‍यमिति देव्‍योदितो मुनि: । एष चक्री भवेदम्‍ब वत्‍सरे षोडशे ध्रुवम् ॥121॥
साग्निचुल्‍लीगतस्‍थूल6किलासघृतमध्‍यगान् । उष्‍णापूपानुपादाय भक्षयिष्‍यति बालक: ॥122॥
अभिज्ञानमिदं भावि चक्रित्‍वस्‍यास्‍य निश्चितम् । तस्‍मान्‍मा स्‍म भयं यासीरिति तामिति दु:खिताम्॥123॥
सुबन्‍ध्‍वाख्‍यो भृशं स्‍वास्‍थ्‍यमनैषीत्‍करूणात्‍मक: । ततस्‍तदग्रजोऽभेत्‍य तां नीत्‍वा गृहमात्‍मन: ॥124॥
समुद्भूतोऽयमाश्र्लिष्‍य मेदिनीमिति तस्‍य स: । सुभौम इति सम्‍प्रीत्‍या चक्रे नाम कृतोत्‍सव: ॥125॥ जब कुछ दिन व्‍यतीत हो गये तब एक दिन रानी ने मुनि से पूछा कि हे स्‍वामिन् ! यह बालक पृथिवी का आश्‍लेषण करता हुआ उत्‍पन्‍न हुआ था अत: अनुग्रह करके इसके शुभ-अशुभ का निरूपण कीजिये । इस प्रकार रानी के कहने पर मुनि कहने लगे कि हे अम्‍ब ! यह बालक सोलहवें वर्ष में अवश्‍य ही चक्रवर्तीहोगा और चक्रवर्ती होने का यह चिह्न होगा कि यह बालक अग्नि से जलते हुए चूल्‍हे के ऊपर रखी कढ़ाई के घी के मध्‍य में स्थित गरम गरम पुत्रों को निकालकर खा लेगा । इसलिए तू किसी प्रकार का भय मत कर । इस प्रकार दया से परिपूर्ण सुबन्‍धु मुनि ने दु:खिनी रानी चित्रमती को अत्‍यन्‍त सुखी किया।
तत्र शास्‍त्राणि सर्वाणि सप्रयोगाणि सन्‍ततम् । सोपदेशं समभ्‍यस्‍यन् वर्द्धते स्‍म स गोपित: ॥126॥
अथ तौ रेणुकीपुत्रौ प्रवृद्धोग्रपराक्रमौ । त्रि: सप्‍तकृत्‍वो निर्मूलमापाद्य 2क्षत्रियान्‍वयम् ॥127॥
रवहस्‍ताखिलभूपालशिरांसि स्‍थापनेच्‍छया । शिलास्‍तम्‍भेषु संगृह्य बद्धवैरो गुरोर्वधात् ॥128॥
सार्वभौर्मी श्रियं सम्‍यक् सम्‍भूयानुबभूवतु: । निमित्‍तकुशलो नात्रा कदाचित्‍स निमित्‍तवित् ॥129॥
भवत: शत्रुरूत्‍पन्‍न: प्रयत्रोऽत्र विधीयताम् । क: प्रत्‍ययोऽस्‍य चेद्वच्मि विध्‍वस्‍ताखिलभूभुजाम् ॥130॥
दन्‍ता यस्‍याशनं भूत्‍वा परिणंस्‍यत्‍यसौ रिपु: । इतीन्‍द्ररामं राजानं परश्‍वीशमबूबुधत् ॥131॥
श्रुत्‍वा यथावन्‍नैमित्तिकोक्‍तं चेतसि धारयन् । कृत्‍वा परशुरामोऽपि दानशालां सुभोजनाम् ॥132॥
तत्‍परीक्षार्थमायान्‍तु येऽत्र विश्‍वणनार्थिन: । इत्‍याघोषयति स्‍मैतत् श्रुत्‍वा तेऽपि समागमन् ॥133॥
तेषां पात्रस्‍थतद्दन्‍तान् सम्‍प्रदर्श्‍य परीक्षितुम् । तान् भोजयति भूपाले प्रत्‍यर्ह स्‍वनियोगिभि: ॥134॥
पितुर्मरणवृत्‍तान्‍तं स्‍वमातुरवबुद्धवान् । स्‍वचक्रेशित्‍वसम्‍प्राप्तिकालायानं च तत्‍त्‍वत: ॥135॥
सुसिद्धमुनिनिर्दिष्‍टसंवृत्‍तात्‍मस्‍वरूपक: । परिव्राजकवेषेण स्‍वरहस्‍यार्थवेदिना ॥136॥
राजपुत्रसमूहेन सुभौमोऽध्‍यागमत्‍पुरम् । सभाग्‍यांश्‍चोदयत्‍येव काले कल्‍याणकृद्विधि: ॥137॥
तदा साकेतवास्‍तव्‍यदेवताक्रन्‍दनं महत् । महीकम्‍पो दिवा तारादृष्‍ठयादिरभवत्‍परे ॥138॥
तथागत्‍य कुमारोऽसौ शालां भोक्‍तुमुपागत: । तमाहूय निवेश्‍योंचैरासने हतभूभुजाम् ॥139॥
नियुक्‍ता दर्शयन्ति स्‍म दन्‍तांस्‍तम्‍यानुभावत: । कलभान्‍नं तदासंस्‍ते तद्दृष्‍ट्रा परिचारिण: ॥140॥
व्‍यजिज्ञपन्‍नृपं सोऽपि स धृत्‍वा नीयतामिति । समर्थान्‍प्राहिणोद् भृत्‍यांस्‍तेऽपि तं प्राप्‍य निष्‍ठुरा: ॥141॥
आहूतोऽसि महीशेन त्‍वमेह्याश्वित्‍युदाहरन् । नाहं यूयमिवास्‍यादां जीविकां तत्‍तदन्तिकीम् ॥142॥
किमित्‍येष्‍यामि यातेति तजिंतास्‍तत्‍प्रभावत: । भटा भयज्‍वरग्रस्‍ता ययु: सर्वे यथायथम् ॥143॥
श्रुत्‍वा परशुरामस्‍तत्‍क्रुद्ध्‍वा सन्‍नद्धसाधन: । समागतस्‍तदालोक्‍य सुभौमोऽभिमुखं ययौ ॥144॥
बलं परशुराम: स्‍वं तेन योद्धुं सहादिशत् । जन्‍मप्रभृति तत्‍पाता भरतव्‍यन्‍तराधिप: ॥145॥
रक्षित्‍वाऽस्‍थात्‍कुमारं तं तस्‍मात्‍तस्‍याग्रतो बलम् । स्‍थातुमक्षममालोक्‍य स्‍वयं गजमचोदयत् ॥146॥
सहसैव सुभौमसुभौमस्‍याप्‍यभवद् गन्‍धवारण: । चक्रं च सन्निधौ दिव्‍यं सार्वभौमत्‍वसाधनम् ॥147॥
सहस्‍त्रदेवतारक्ष्यं किन्‍न स्‍यात् सम्‍मुखे विधौ । वारणेन्‍द्रं समारूह्य पूर्वाद्रिमिव भास्‍कर: ॥148॥
सहस्‍त्रारं करे कृत्‍वा कुमारश्‍वक्रमाबभौ । तं दृष्‍ट्वा रूष्‍टवान् हन्‍तुं जामदग्‍न्‍योऽभ्‍युपागमत् ॥149॥
चक्रेण तं कुमारोऽपि लोकान्‍तरमजीगमत् । अकरोंचान्‍यसैन्‍यस्‍य तदैवाभयघोषणाम्8॥150॥
अरेशतीर्थसन्‍तानकाले द्विशतकोटिषु । स द्वात्रिंशत्‍सु जातेऽभमत्‍सुभौमौ वत्‍सरेष्‍वयम् ॥151॥
अभिभूताखिलारातिरष्‍टामश्‍वक्रवर्तिषु । समा षष्टिसहस्‍त्रायुरष्‍टार्विशतिचापम: ॥152॥
जातरूपच्‍छबि: श्रीमानिक्ष्‍बाकुकुलकेसरी । विराजमानो विस्‍पष्‍टचक्रादिशुभलक्षणै: ॥153॥ यह सुभौम समस्‍त शत्रुओं को नष्‍ट करने वाला था और चक्रवर्तियों में आठवाँ चक्रवर्ती था ।
उसकी साठ हजार वर्ष की आयु थी, अट्ठाईस धनुष ऊँचा शरीर था, सुवर्ण के समान उसकी कान्‍ति थी,
ततो रत्‍नानि शेषाणि निधयोऽपि नवाभवन् ।षटखण्‍डस्‍याधिपत्‍येन प्रादुरासीत्‍स चक्रभृत् ॥154॥
चक्रवर्तित्‍वसम्‍प्राप्‍यान् भोगान् दशविधांश्विरम् । अन्‍वभूदिव देवेन्‍द्रो दिवि दिव्‍याननारतम् ॥155॥
अन्‍येद्यु: सूपकारोऽस्‍य नात्राऽमृतरसायन: । रसायनाह्निकामस्‍मै मुदाऽदादम्लिकां हित: ॥156॥
तत्रामश्रुतिमात्रेण तद्रुणस्‍याविचारक: । तद्वैरिचोदित: कोपाद् भूपतिस्‍तमदण्‍डयत् ॥157॥
सोऽपि तेनैव दण्‍डेन निम्‍नयमाणोऽतितीव्ररूट् । वध्‍यासं नृपमित्‍यात्‍तनिदान: पुण्‍यलेशत: ॥158॥
ज्‍योतिर्लोकेऽमरो भूत्‍वा विभंगज्ञानवीक्षण: । अनुस्‍मृत्‍य रूषा वैरं जिघांसु: स महीपतिम् ॥159॥
जिह्वालोलुपमालक्ष्‍य सन्‍धृत्‍य वणिगाकृतिम् । सुस्‍बादुफलदानेन प्रत्‍यहं तमसेवत ॥160॥
निष्ठिता विफलानी‍ति कदाचित्‍तेन भाषित: । आनेतव्‍यानि तान्‍येव गत्‍वेत्‍याख्‍यन्‍नृपोऽपि तम् ॥161॥
आनेतुं तान्‍यशक्‍यानि प्राड़्मयाराध्‍य देवताम् । तद्वनस्‍वामिर्नी दीर्घ लब्‍धान्‍येतानि कानिचित् ॥162॥
आसक्तिस्‍तेषु चेदस्ति देवस्‍य तद्वनं मया । सह तत्र त्‍वमायाहि यथेष्‍टं तानि भक्षय ॥163॥
इति प्रलम्‍भनं तस्‍य विश्‍वास्‍य प्रतिपन्‍नवान् । राजा प्रक्षीणपुण्‍यानां विनश्‍यति विचारणम्6॥164॥
एतद्राज्‍यं परित्‍यज्‍य रसनेन्द्रियलोलुप: । मत्‍स्‍यवर्क्ति विनष्‍टेति मन्त्रिभिर्वारितोऽप्‍यसौ ॥165॥
तदुक्‍तमतिलड्ध्‍याज्ञ: पोतेनागाहताम्‍बुधिम् । तदा रत्‍नानि तद्गेहात् न्‍यपेतान्‍यखिलान्‍यपि ॥166॥
सहस्‍त्रयक्षरक्षाणि प्रत्‍येकं निधिभि: समम् । तद्विदित्‍वा बणिग्‍वैरी नीत्‍वा मध्‍येऽम्‍बुधिं द्विषम् ॥167॥
स्‍वप्राग्‍जन्‍माकृतिं तस्‍य प्रकटीकृत्‍य दुर्वच: । उक्‍त्‍वा वैरानुबन्‍धं च क्रूरश्रित्रबधं व्‍यधात् ॥168॥
सुभौमोऽपि विपद्यान्‍ते रौद्रध्‍यानपरायण: । श्‍वाभ्रीं गर्ति समापन्‍नो दौर्मत्‍यात्किन्‍न जायते ॥169॥
लोभात्‍सहसूबाहुश्र प्राप तिर्यग्‍गर्ति सतुक् । जमदग्निसुतौ हिंसापरतन्‍त्रौ गतावध: ॥170॥
तत एव त्‍यजन्‍त्‍येतौ रागद्वेषौ मनीषिण: । तत्‍यागादाप्रुवन्‍त्‍यापन्‍नाप्‍स्‍यन्ति च परं पदम् ॥171॥
वसन्‍ततिलका
एकोऽपि सिंहसदृश: सकलावनीशो
हत्‍वा पितुर्वधकृ तौ जमदग्निसूनू ।
कीर्त्‍या स्‍वया धवलिताऽखिलदिक् सुभौम –
श्‍वक्री सुदुर्नयवशान्‍नरकेऽष्‍टमोऽभूत् ॥172॥
भूपालभूपतिरसह्यतपोविधायी
शुल्‍केऽभवन्‍महति षोडशसागरायु: ।
च्‍युत्‍वा तत: सकलचक्रधर: सुभौमौ
रामान्‍तकृन्‍नरनायकतां जगाम ॥173॥
नन्दिषेणो बल: पुण्‍डरीकोऽर्द्धभरताधिप: । राजपुत्राविमौ जातौ तृतीयेऽत्र भवान्‍तरे ॥174॥
सुकेत्‍वाश्रयशल्‍येन तप: कृत्‍वायुषोऽवधौ । भाद्ये कल्‍पे समुत्‍पद्य तत: प्रच्‍युत्‍य चक्रिण: ॥175॥
पश्‍चात्‍षट्छतकोटयब्‍दातीतौ तत्रैव भारते । राज्ञश्‍चक्रपुराधीशादिक्ष्‍वाकोर्वरसेनत: ॥176॥
वैजयन्‍स्‍यां बलो देवो लक्ष्‍मीमत्‍यामजायत । पुण्‍डरीकस्‍तयोरायु: खत्रयर्त्‍वेन्द्रियाब्‍दवत् ॥177॥
षड़्विंशतितनूत्‍सेधौ धनुषां नियतायुषो: । स्‍वतप:सन्चितात्‍पुण्‍यात्‍काले यात्‍यायुषो: सुखम् ॥178॥
अन्‍यदोपेन्‍द्रसेनाख्‍यमहीडिन्‍द्रपुराधिप: । पद्यावर्ती सुतां स्‍वस्‍य पुण्‍डरीकाय दत्‍तवान् ॥179॥
अथ दर्पी दुराचार: सुकेतु: प्राक्‍तनो रिपु: । निजोपार्जितकर्मानुरूपेण भवसन्‍ततौ ॥180॥
भ्रान्‍त्‍वा क्रमेण सन्चित्‍य शुभं तदनुरोधत: । भूत्‍वा चक्रपुराधीशो वशीकृतवसुन्‍धर: ॥181॥
ग्रीष्‍मार्कमण्‍डलाभत्‍वादसोढा परतेजसाम् । तद्विवाहश्रुते: क्रुद्ध: सन्‍नद्धाशेषसाधन: ॥182॥
निशुम्‍भो मारकोऽरीणां नारकेभ्‍योऽपि निर्दय: । प्रास्थिताखण्‍डविक्रान्‍त: पुण्‍डरीर्क जिघांसुक: ॥183॥
युद्ध्वा बहुविधेनामा तेनोद्यत्‍तेजसा चिरम् । तच्‍चक्राशनिघातेन घातितासुरयादध: ॥184॥
तावुभाविव चन्‍द्रार्कौ संयुक्‍तौ लोकपालकौ । स्‍वप्रभाक्रान्‍तदिक्चक्रौ पालयित्‍वा चिरं धराम् ॥185॥
अविभक्‍तश्रियौ प्रीर्ति परमां प्रापतु: पृथक् । व्‍याप्‍तचक्षुर्विशेषौ वा रम्‍यैकविषयेप्‍सणौ ॥186॥
तयोर्भवत्रयायातपरस्‍परसमुद्भवात् । प्रेम्‍णस्‍तृप्‍तेरयान्‍नांशमपि तृप्तिर्नृपत्‍वजा ॥187॥
पुण्‍डरीकश्चिरं भुक्‍त्‍वा भोगांस्‍तत्रातिसक्तित: । बध्‍वायुर्नारकं घोरं बह्वारम्‍भपरिग्रह: ॥188॥
प्रान्‍ते रौद्राभिसन्‍धानाद्रढमिथ्‍यात्‍वभावन: । प्राणैस्‍तम:प्रभां भृत्‍वा प्राविशत्‍पापपाकवान् ॥189॥
हलभृत्‍तद्वियोगेन जातनिर्वेदसारथि: । शिवघोषयर्ति प्राप्‍य संयमं प्रत्‍यपद्यत ॥190॥
स बाह्याभ्‍यन्‍तरं शुद्धं तप: कृत्‍वा निराकुल: । मूलोत्‍तराणि कर्माणि निर्मूल्‍यावाप निर्वृतिम् ॥191॥
वसन्‍ततिलका
जातौ तृतीयजनने धरणीशपुत्रौ
पश्‍चात्‍सुरौ प्रथमकल्‍पगतावभूताम् ।
श्रीनन्दिषेणहलभृत्‍सुनिशुम्‍भशत्रु:
षष्‍ठस्त्रिखण्‍डधरणीट्सु च पुण्‍डरीक: ॥192॥