पर्व - 71
अन्वयार्थ : अथ कंसवधूमुक्‍तलोचनाम्‍भ:प्रपायिन: । भूभूरूहात्‍समुत्‍पन्‍ना: समन्‍तादुत्‍सवांकुरा: ॥1॥
वसुदेवमहीशस्‍य किलैष कृतिन: सुत: । व्रजे कंसभयाद् वृद्धिं शूर: प्रच्‍छन्‍नमाप्‍तवान् ॥2॥
वृद्धिरस्‍य स्‍वपक्षस्‍य वृद्धये नैव केवलम् । जगतश्‍च तुषारांशोरिव वृद्धिश्चिता क्रमात् ॥3॥
इत्‍यभिष्‍टूयमानस्‍य पौरतदेशवासिभि: । विपाशितोग्रसेनाख्‍यमहीशस्‍य महात्‍मन: ॥4॥
विसर्जितवतो नन्‍दगोपांश्‍चापूज्‍य सद्धनै: । प्रविश्‍य बन्‍धुभि: संगतस्‍य शौर्यपुरं हरे: ॥5॥
काले सुखेन यात्‍येवं देवी जीवद्यशास्‍तत: । दु:खिता मरणात्‍पत्‍युर्जरासन्‍धमुपेत्‍य सा ॥6॥
तत्र प्रवृत्‍तवृत्‍तान्‍तमशेषं तमबूबुधत् । श्रुत्‍वाऽसौ च रूषा पुत्रानादिशद्यादवान् प्रति ॥7॥
तेऽपि सन्‍नाह्य सैन्‍यं स्‍वं गत्‍वा युध्‍वा रणांगणे । भंगमापन्‍नके वापुर्दैवं वैमुख्‍यमीयुषि ॥8॥
प्राहिणोत्‍स पुन: कोपात्‍तनूजमपराजितम् । मत्‍वैवान्‍वर्थनामानं तद्द्विषामन्‍तकोपमम् ॥9॥
शतत्रयं सषट्चत्‍वारिंशत्‍सोऽपि महाबल: । चिरं विधाय युद्धानां विपुण्‍योऽभूत्‍पराड़्मुख: ॥10॥
पुन: पितृनिदेशेन प्रस्‍थानमकृतोद्यमी । यादवानुद्धरामीति तुक्‍कालयवनाभिध: ॥11॥
यादवाश्‍च तदायानमाकर्ण्‍यागामिवेदिन: । जहु: शौर्यपुरं हास्तिनाह्णयं मधुरामपि ॥12॥
मार्गे स्थितां सदा यादवेशिनां कुलदेवताम् । विविधेन्‍धनसंवृद्धज्‍बालमुत्‍थाप्‍य पावकम् ॥13॥
धृतवृद्धाकृतिं वीक्ष्‍य तां कालयवनो युवा । किमेतदिति पप्रच्‍छ साप्‍याह श्रृणु भूपते ॥14॥
अस्मिज्‍ज्‍वालाकरालाग्‍नौ सर्वेऽपि मम सूनव: । भयेन भवतोऽभूवन् व्‍यसवो यादवै: सह ॥15॥
इति तद्वचनात्‍सोऽपि मद्भयात्किल शत्रव: । प्राविशन्‍मत्‍प्रतापाशुशुक्षणिं वाशुशुक्षणिम् ॥16॥
इति प्रतिनिवृत्‍त्‍याशु मिथ्‍यागर्वं समुद्वहन् । जगाम पितुरभ्‍याशं धिगनीक्षितचेष्टितम् ॥17॥
इतो जलनिधेस्‍तीरे बले यादवभूभुजाम् । निविष्‍टवति निर्मापयितुं स्‍थानीयमात्‍मन: ॥18॥
अष्‍टोपवासमादाय विधिमन्‍त्रपुरस्‍सरम् । कंसारि: शुद्धभावेन दर्भशय्यातलं गत: ॥19॥
अश्‍वाकृतिधरं देवं मामारूह्य पयोनिधे: । गच्‍छतस्‍ते भवेन्‍मध्‍ये पुरं द्वादशयोजनम् ॥20॥
इत्‍युक्‍तो नैगमाख्‍येन सुरेण मधुसूदन: । चक्रे तथैव निश्चित्‍य सति पुण्‍ये न क: सखा ॥21॥
प्राप्‍तवेगोद्धतौ तस्मिन्‍नारूढे तुरगद्विषा । हये धावति निर्द्वन्‍द्वं निश्‍चलत्‍कर्णचामरे ॥22॥
द्वेधाभेदमयाद्वार्धिर्भयादिव हरेरयात् । भेद्यो धीशक्तियुक्‍तेन संघातोऽपि जलात्‍मनाम् ॥23॥
शक्राज्ञया तदा तत्र निधीशो विधिवर्धितम् । सहस्‍त्रकूटं व्‍याभासि भास्‍वद्रत्‍नमयं महत् ॥24॥
कृत्‍वा जिनगृहं पूर्वं मंगलानान्‍च मंगलम् । वप्रप्राकारपरिखागोपुराट्टालकादिभि: ॥25॥
राजमानां हरे: पुण्‍यात्‍तीर्थेशस्‍य च सम्‍भवात् । निर्ममे नगरीं रम्‍यां सारपुण्‍यसमन्विताम् ॥26॥
सरित्‍पतिमहावीचीभुजालिंगितगोपुराम् । दीप्‍त्‍या द्वारवतीसन्‍ज्ञां हसन्‍तीं वामरीं पुरीम् ॥27॥
सपिता साग्रजो विष्‍णुस्‍तां प्रविश्‍य यथासुखम् । लक्ष्‍मीकटाक्षसंवीक्ष्‍यस्‍तस्थिवान्‍यादवै: सह ॥28॥
अथातो भुवनाधीशे जयन्‍तादागमिष्‍यति । विमानादहमिन्‍द्रेऽमूं महीं मासै: षडुन्मितै: ॥29॥
राज्ञ: काश्‍यपगोत्रस्‍य हरिवंशशिखामणे: । समुद्रविजयाख्‍यस्‍य शिवदेवी मनोरमा ॥30॥
देवतोपास्‍यमानाड़्घ्रिर्वसुधाराभिनन्दिता । षण्‍मासावसितौ मासे कार्तिके शुक्‍लपक्षगे ॥31॥
षष्‍ठयामथोत्‍तराषाढे निशान्‍ते स्‍वप्‍नमालिकाम् । आलोकतानुवक्‍त्राब्‍जं प्रविष्‍टन्‍च गजाधिपम् ॥32॥
ततो वन्दिवचोयामभेरीध्‍वनिविबोधिता । कृत‍मंगलसुस्‍नाना धृतपुण्‍यप्रसाधना ॥33॥
उपचारवदभ्‍येत्‍य नृपमर्धासने स्थिता । स्‍वदृष्‍टस्‍वप्‍नसाफल्‍य मन्‍वयुंक्‍त श्रुतागमम् ॥34॥
संकलय्य नरेन्‍द्रोऽपि फलं तेषामभाषत । त्‍वद्रर्भे विश्‍वलोकेशोऽवतीर्ण इति सूक्ष्‍मधी: ॥35॥
श्रुत्‍वा तदैव तं लब्‍धवतीवातुषदप्‍यसौ । ज्ञात्‍वा स्‍वचिह्गैर्देवेन्‍द्रा: सम्‍भूयागत्‍य संमदात् ॥36॥
स्‍वर्गावतारकल्‍याणमहोत्‍सवविधायिन: । स्‍वेषां पुण्‍यन्‍च निर्वर्त्‍य स्‍वधाम समुपागमन् ॥37॥
स पुन: श्रावणे शुक्‍लपक्षे षष्‍ठीदिने जिन: । ज्ञानत्रितयभृत्‍त्‍वष्‍टृयोगे तुष्‍ढयामजायत ॥38॥
अथ स्‍वविष्‍टराकम्‍पसमुत्‍पन्‍नावधीक्षणा: । बुद्ध्‍वा भगवदुत्‍पत्तिं सौधर्मेन्‍द्रपुरस्‍सरा: ॥39॥
सन्‍जातसम्‍पदा: प्राप्‍य परिवेष्‍ढय पुरं स्थिता: । ऐरावतगजस्‍कन्‍धमारोप्‍य भुवनप्रभुम् ॥40॥
सौधर्माधिपतिर्भक्‍तया नीलाम्‍भोजदलद्युतिम् । ईशमीशानकल्‍पेशधृतातपनिवारणम् ॥41॥
नमच्‍चमरवैरोचनोद्धूतचमरीरूहम् । धनेशनिर्मितत्रेधामणिसोपानमार्गग: ॥42॥
नीत्‍वा पयोदमार्गेण गिरीशेशानदिग्‍गते । पाण्‍डुकाख्‍यशिलाग्रस्‍थमणिसिंहधृतासने ॥43॥
अनादिनिधने बालमारोप्‍यात्‍यर्कतेजसम् । क्षीराम्‍भोधिपय: पूर्णसुवर्णकलशोत्‍तमै: ॥44॥
अष्‍टाधिकसहस्‍त्रेण प्रमितैरमितप्रभै: । हस्‍ताद्धस्‍तं क्रमेणामराधिनाथसमर्पितै: ॥45॥
अभिषिच्‍य यथाकाममलड़्कृत्‍य यथोचितम् । नेर्मि सद्धर्मचक्रस्‍य नेमिनाम्‍ना तमभ्‍यधात् ॥46॥
तस्‍मादानीय मौलीन्‍द्रमाननीयमहोदयम् । मातापित्रो: पुनर्दत्‍वा विधायानन्‍दनाटकम् ॥47॥
विकृत्‍य विविधान्‍बाहून् रसभावनिरन्‍तरम् । स्‍वावासमगमत्‍सर्वैरादिमेन्‍द्र: सहामरै: ॥48॥
नमेर्भगवतस्‍ती‍र्थसन्‍तानसमयस्थि‍ते: । पन्‍चलक्षसमाप्रान्‍ते तदन्‍तर्गतजीवित: ॥49॥
जिनो नेमि: समुत्‍पन्‍न: सहस्‍त्राब्‍दायुरन्वित: । दशचापसमुत्‍सेध: शस्‍तसंस्‍थानसं‍हति: ॥50॥
त्रिलोकनायकाभ्‍यर्च्‍य: स्‍वभ्‍यर्णीकृतनिर्वृति: । तस्‍थौ सुखानि दिव्‍यानि तस्मिन्‍ननुभवंश्चिरम् ॥51॥
गच्‍छत्‍येवं क्षणे वास्‍य काले बहुतरेऽन्‍यदा । आत्‍तवारिपथोद्योगा नष्‍टदिक्‍का वणिक्‍सुता: ॥52॥
प्राप्‍य द्वारावर्ती केचित्‍पुण्‍यान्‍मगधवासिन: । राज्‍यलीलां विलोक्‍यात्र विभूतिन्‍च सविस्‍मया: ॥53॥
बहूनि रत्‍नान्‍यादाय सारभूतानि तत्‍पुरात् । गत्‍वा राजगृहं प्राप्‍तचक्ररत्‍नं महीपतिम् ॥54॥
रत्‍नान्‍युपायनीकृत्‍य पुरस्‍कृत्‍य वणिक्‍पतिम् । ददृशु: कृतसन्‍मानस्‍तानपृच्‍छत्‍प्रजेश्‍वर: ॥55॥
भो भवद्भि: कुतो लब्‍धमिदं रत्‍नकदम्‍बकम् । उदंशुभिरिवोन्‍मीलितेक्षणं कौतुकादिति ॥56॥
श्रृणु देव महच्चित्रमेतदस्‍मद्विलोकितम् । पातालादेत्‍य वादृष्‍टपूर्वमुर्वीमुपस्थितम् ॥57॥
संकुलीकृतसौधोरूभवनत्‍वादिवाम्‍बुधे: । फेनराशिस्‍तदाकार‍परिणाममुपागत: ॥58॥
अलड़्ध्‍यत्‍वात्‍परै: पुण्‍यं वापरं भरतेशितु: । नेमिस्‍वामिसमुत्‍पत्तिहेतुत्‍वान्‍नगरोत्‍तमम् ॥59॥
असंहतम नासेव्‍यमर्थिभिर्वीतगौरवम् । शरदब्‍दकुलं तिष्‍ठत्‍युपर्येतन्‍ममेति वा ॥60॥
सौधाग्रान्‍दोलितालोलपताकाबहुबाहुभि: । निराचिकीर्षु: संन्‍घर्षाद्दूरमभ्रपथोच्छ्रितम् ॥61॥
परार्घ्‍यभूरि रत्‍नत्‍वात्‍कृष्‍णतेजोविराजनात् । सदा गम्‍भीरशब्‍दत्‍वादम्‍भोधिजलसन्निभम् ॥62॥
नवयोजनविस्‍तारं दैर्घ्‍यद्वादशयोजनम् । पुरं द्वारावती नाम यादवानां पयोनिधे: ॥63॥मध्‍ये प्रवर्तते तस्‍मादेतद्रत्रकदम्‍बकम् । लब्‍धमस्‍माभिरित्‍येवमब्रुवंस्‍तेऽपि भूपति: ॥64 ।
श्रुत्‍वा तद्वचनं क्रोधेनान्‍धीभूतोग्रवीक्षण: । जरासन्‍धो धियाप्‍यन्‍धो दर्पी दैवातिसन्धित: ॥65॥
चचालाकालकालान्‍तचलितात्‍मबलाम्‍बुधि: । कर्तुं यादवलोकस्‍य विलयं वाविलम्बितम् ॥66॥
नारदस्‍तत्‍तदा ज्ञात्‍वा निर्हेतुसमरप्रिय: । हरिं सत्‍वरमभ्‍येत्‍य तद्विकारं न्‍यवेदयत् ॥67॥
श्रुत्‍वा शांर्गधर: शत्रुसमुत्‍थानमनाकुलम् । कुमारं नेमिमभ्‍येत्‍य प्रशाधि त्‍वमिदं पुर: ॥68॥
विजिगीषु: किलाद्याभूत्‍प्रत्‍यस्‍मान्‍मगधाधिप: । भनज्मि तमहं जीर्णे द्रुमं वा घुणभक्षितम् ॥69॥
तूर्णं भवत्‍प्रभावेनगत्‍वेत्‍यवददूर्जितम् । प्रसन्‍नचेतास्‍तच्‍छ्रत्‍वा सस्मितो मधुरेक्षण: ॥70॥
सावधिर्विजयं तेन विनिश्चित्‍य विरोधिनाम् । स्‍फुरद्दन्‍तरूचिर्विष्‍णुं नेमिरोमित्‍यभाषत ॥71॥
स्मिताद्यै: स्‍वं जयं सोऽपि निश्चिचाय जगत्‍प्रभो: । जैनो वादीव पक्षाद्यैरेकलक्षणभूषणै: ॥72॥
अथ शत्रू न् समुज्‍जेतुं जयेन विजयेन च । सारणेनांगदाख्‍येन दवाह्वेनोद्धवेन च ॥73॥
सुमुखाक्षरपद्यैश्‍च जराख्‍येन सुदृष्टिना । पाण्‍डवै: पन्‍चभि: सत्‍यकेनाथ द्रुपदेन च ॥74॥
यादवै: सविराटाख्‍यैरप्रमेयैर्महाबलै: । धृष्‍टार्जुनोऽग्रसेनाभ्‍यां चमरेण रणेप्‍सुना ॥75॥
विदुरेण नृपैरन्‍यैश्‍चान्वितौ बलकेशवौ । सन्‍नद्धावुद्धतौ योद्धुं कुरूक्षेत्रमुपागतौ ॥76॥
जरासन्‍धोऽपि युद्धेच्‍छुर्भीष्‍मेणाविष्‍कृत्‍तोष्‍मणा । सद्रोणेन सकर्णेन साश्‍वत्‍थामेन रूग्मिणा ॥77॥
शल्‍येन वृषसेनेन कृपेण कृपवर्मणा । रूदिरेणेन्‍द्रसेनेन जयद्रभमहीभृता ॥78॥
हेमप्रभेण भूभर्त्रा दुर्योधनधरेशिना । दुश्‍शासनेन दुर्मर्षणेन दुर्धर्षणेन च ॥79॥
दुर्जयेन कलिंगेशा भगदत्‍तेन भूभुजा । परैश्‍च भूरिभूपालैराजगाम स केशवम् ॥80॥
तदा हरिबले युद्धदुन्‍दुभिध्‍वनिरूच्‍चरन् । शूरचेतो रसो वास: कौसुम्‍भो वान्‍वरन्‍जयत् ॥81॥
तदाकर्ण्‍य नृपा: केचित्‍पूजय‍न्ति स्‍म देवता: । अहिंसादिव्रतान्‍यन्‍ये जगृहुर्गुरूसन्निधौ ॥82॥
परे निस्‍तारकेष्‍वर्थान्वितरन्ति स्‍म सात्त्विका: । आमुन्‍चत तनुत्राणं गृह्णीतासिलतां शिताम् ॥83॥
आरोपयत चापौघान् सन्‍नह्यन्‍तं गजाग्रिमा: । हरयो नद्धपर्याणा: क्रियन्‍तामधिकारिषु ॥84॥
समर्प्‍यन्‍तां कलत्राणि युज्‍यन्‍तां वाजिभी रथा: । भोगोपभोगवस्‍तूनि भुज्‍यन्‍तामनिवारितम् ॥85॥
वन्दिमागधवृन्‍देन वन्‍द्यन्‍तां निजविक्रमा: । इति केचिज्‍जगुर्भृत्‍यान् नृपा: संगामसम्‍मुखा: ॥86॥
पतिभक्‍तया निसर्गात्‍मपौरूषेण विरोधिनाम् । मात्‍सर्येण यशोहेतो: शूरलोकसमीप्‍सया ॥87॥
निजान्‍वयाभिमानेन परैश्‍च रणकारणै: । समजायन्‍त राजान: प्राणव्‍ययविधायिन: ॥88॥
वसुदेवसुतोऽप्‍याप्‍तगर्व: सर्वविभूषण: । कुंकुमांकितगात्रत्‍वादिव सिन्‍दूरितद्विप: ॥89॥
जय जीवेति वन्‍दारूवृन्‍देन कृतमंगल: । नवो वाम्‍भोधरश्‍चारूचातकध्‍वनिलक्षित: ॥90॥
सज्‍जनावर्ज्‍य निर्णिक्‍तसौवर्णोरूगलन्तिका । जलैराचम्‍य शुद्धाच्‍छक्षिप्रपूर्णजलान्‍जलि: ॥91॥
गन्‍धपुष्‍पादिभिर्विघ्‍नविनायकमनायकम् । भक्‍तया जिनेन्‍द्रमभ्‍यर्च्‍य भव्‍यकल्‍पमहीरूहम् ॥92॥
अभिवन्‍द्याप्‍तसामन्‍तै: समन्‍तात्‍परिवारित: । प्रतिपक्षमपक्षेप्‍तुं न्‍यक्षेणाभिमुखं ययौ ॥93॥
तत: कृष्‍णेन निर्दिष्‍टा: प्रशास्‍तृपरिचारिण: । सैन्‍यं यथोक्‍तविन्‍यासं रचयन्ति स्‍म रागिण: ॥94॥
जरासन्‍धोऽपि संग्रामरंगमध्‍यमधिष्ठित: । स्‍वसैन्‍यं निष्‍ठुरारावैरध्‍यक्षैरन्‍वयोजयत् ॥95॥
इति विन्‍यासिते सैन्‍ये दध्‍वने समरानकै: । शूरधानुष्‍कनिर्भुक्‍तशरनाराचसंकुलम् ॥96॥
नभो न्‍यरूणदुष्‍णांशुप्रसरत्‍करसन्‍ततिम् । वियोगमगमन्‍मोहात्‍तदास्‍तमयशंकया ॥97॥
कोकयुग्‍मं विहंगाश्‍च रूवन्‍तो नीडमाश्रयन् । नेक्षन्‍ते स्‍म भटा योद्धुमन्‍योन्‍यं समरांगणे ॥98॥
संक्रुद्धमत्‍तमातंगदन्‍तसंघट्टजन्‍मना । सप्‍तार्चिषा विधूतेऽन्‍धकारे दिगवलोकनात् ॥99॥
पुन: प्रवृत्‍तसंग्रामा: सर्वशस्‍त्रविचलक्षा: । नदीं रक्‍तमयीं चक्रुर्विक्रमैकरसा: क्षणम् ॥100॥
करालकरवालाग्र निकृत्‍तचरणद्वया: । तुरंगमा गतिं प्रापुर्वने नष्‍टतपोधना: ॥101॥
विच्छिन्‍नचरणा: पेतुर्द्विपा: प्रान्‍तमहामरू- । न्निर्मूलपातितानीलविपुलाचललीलया ॥102॥
पातितानां परै: स्‍तूयमानसाहसकर्मणाम् । प्रसादवन्ति वक्‍त्राणि स्‍थलपद्मश्रियं दधु: ॥103॥
भटै: परस्‍परास्‍त्राणि खण्डितानि स्‍वकौशलात् । तत्‍खण्‍डैस्‍तत्र पार्श्‍वस्‍था बहवो व्‍यसवोऽभवन् ॥104॥
न मत्‍सरेण न क्रोधान्‍न ख्‍यातेर्न फलेच्‍छया । भटा: केचिदयुध्‍यन्‍त न्‍यायोऽमिति केवलम् ॥105॥
सर्वशस्‍त्रसमुद्भिन्‍नशरीरा वीरयोधना: । परिच्‍युता गजस्‍कन्‍धाच्‍चूलिकालिंगितांघ्रय: ॥106॥
चिरं परिचितस्‍थानं परित्‍यक्‍तुमिवाक्षमा: । प्रलम्‍बन्‍ते स्‍म कर्णाग्रमवलम्‍ब्‍यानतानना: ॥107॥
केचिद्वामकरोपात्‍तचित्रदण्‍डस्‍वरक्षणा: । दक्षिणास्‍त्रभुजेनाघ्‍नन् भटाश्‍चटुलचारिण: ॥108॥
तत्र वाच्‍यो मनुष्‍याणां मृत्‍योरूत्‍कृष्‍टसन्‍चय: । कदलीघातजातस्‍येत्‍युक्तिमत्‍तद्रणांगणम् ॥109॥
एवं तुमुलयुद्धेन प्रवृत्‍ते संगरे चिरम् । सेनयोरन्‍तकस्‍यापि सन्‍तृप्ति: समजायत ॥110॥
विलंघितं बलं विष्‍णोर्बलेन द्विषतां तथा । यथा क्षुद्र सरिद्वारि महासिन्‍धुप्‍लवाम्‍बुना ॥111॥
तदालोक्‍य हरि: क्रुद्धो हरिर्वा करिणां कुलम् । सामन्‍तबलसन्‍दोहसहितो हन्‍तुमुद्यत: ॥112॥
भास्‍करस्‍योदयाद्वान्‍धकारं शत्रुबलं तदा । विलीनं तन्निरीक्ष्‍यैत्‍य जरासन्‍धोऽन्वित: क्रुधा ॥113॥
द्योतिताखिलदिक्‍चक्रं चक्रमादाय विक्रमात् । त्रिविक्रमं समुद्दिश्‍य न्‍यक्षिपद्रूक्षवीक्षण: ॥114॥
तत्‍तं प्रदक्षिणीकृत्‍य स्थितवद्दक्षिणे भुजे । तदेवादाय कंसारिर्मगधेशोऽच्छिनच्छिर: ॥115॥
सद्यो जयानकानीकं नदति स्‍मागलन् दिव: । सुरद्रुमप्रसूनानि सह गन्‍धाम्‍बुबिन्‍दुभि: ॥116॥
चक्री चक्रं पुरस्‍कृत्‍य विजिगीषुर्दिशो भृशम् । प्रस्‍थानमकरोत्‍सार्धं बलेन स्‍वबलेन च ॥117॥
मागधादीन्‍सुरान् जित्‍वा विधेयीकृत्‍य विश्रुतान् । गृहीत्‍वा साररत्‍नानि तद्दत्‍तान्‍यूर्जितोदय: ॥118॥
सिन्‍धुसिन्‍धुखगाद्रयन्‍तरालव्‍याधधराधिपान् । स्‍वपादनखभाभारमानमय्योदवाहयन् ॥119॥
खेचराचलवाराशिगंगामध्‍यगतान् पुन: । वशीकृत्‍य वशी तूर्णं म्‍लेच्‍छराजान् सखेचरान् ॥120॥
भरतार्धमहीनाथो दूरोच्छ्रितपताकिकाम् । उद्वद्धतोरणां द्वारवर्ती ह्णष्‍टो विवेश स: ॥121॥
प्रविष्‍टवन्‍तं तं देवविद्याधरधराधिपा: । त्रिखण्‍डाधिपतिश्‍चक्रीत्‍यभ्‍यषिन्‍चन्‍नयाचितम् ॥122॥
स सहस्‍त्रसमायुष्‍को दशचापसमुच्छ्रिति: । लसन्‍नीलाब्‍जवर्णाभो लक्ष्‍म्‍यालिंगितविग्रह: ॥123॥
चक्रं शक्तिर्गदा शंखो धनुर्दण्‍ड: सनन्‍दक: । बभूवु: सप्‍तरत्‍नानि रक्षाण्‍यस्‍याक्षपालकै: ॥124॥
रत्‍नमाला गदा सीरो मुसलन्‍च हलेशिन: । महारत्‍नानि चत्‍वारि स्‍फुरर्त्त्विष्‍यभवन् विभो: ॥125॥
रूक्मिणी सत्‍यभामा च सती जाम्‍बवतीति च । सुसीमा लक्ष्‍मणा गान्‍धारी गौरी सप्‍तमी प्रिया ॥126॥
पद्मावती च देव्‍योऽमूरष्‍टौ पट्टप्रसाधना: । सर्वा: देव्‍य: सहस्‍त्राणि चाणूरान्‍तस्‍य षोडश ॥127॥
बलस्‍याष्‍ट सहस्‍त्राणि देव्‍योऽभीष्‍टसुखप्रदा: । ताभिस्‍ताबामरं सौख्‍यमाप्‍तौ वा प्रीतिमीयतु: ॥128॥
स्‍वपूर्वकृतपुण्‍यस्‍य परिपाकेन पुष्‍कलान् । भोगान्‍प्राप्‍नुवतस्‍तस्‍य काले गच्‍छति शांर्गिण: ॥129॥
अन्‍येद्युर्वारिदान्‍तेऽन्‍त:पुरेणामा सरोवरे । मनोहराभिधानेऽभूज्‍जलकेली मनोहरा ॥130॥
तत्र नेमीशितु: सत्‍यभामायाश्‍चाम्‍बुसेचनात् । सल्‍लापोऽभवदित्‍युच्‍चैश्‍चतुरोक्‍तया मनोहर: ॥131॥
तत्प्रियावत्‍कुतो रन्‍ता मयि त्‍वं किं ममाप्रिया । प्रियास्मि चेत्‍तव भ्राता यातु कां कामदायिनीम् ॥132॥
कासौ र्कि तां न वेत्सि त्‍वं सम्‍यक्‍सा वेदयिष्‍यति । वदन्ति त्‍वामृजुं सर्वे कुटिलस्‍त्‍वं तथापि च ॥133॥
पुन: स्‍नानविनोदावसाने तामेवमब्रवीत् । स्‍नानवस्‍त्रं त्‍वया ग्राह्यं नीलोत्‍पलविलोचने ॥134॥
तस्‍य मे किं करोम्‍येतत्‍प्रक्षालय हरिर्भवान् । यो नागशय्यामास्‍थाय दिव्‍यं शांर्गशरासनम् ॥135॥
हेलयारोपयद्यश्‍च प्रपूरितदिगन्‍तरम् । शंखमापूरयर्त्कि तत्‍साहसं नो भवेत्‍त्‍वया ॥136॥
कार्यं साधु करिष्‍यामीत्‍युक्‍त्‍बा गर्वप्रचोदित: । तत: पुरं समभ्‍येत्‍य विधातुं कर्म सोऽद्भुतम् ॥137॥
सम्‍प्रविश्‍यायुधागारं नागशय्यामधिष्ठित: । स्‍वां शय्यामिव नागेन्‍द्रमहामणिविभास्‍वराम् ॥138॥
भूयो बिफालनोन्‍नादज्‍यालतं च शरासनम् । आरोपयत्‍पयोजन्‍च दव्‍मौ रूद्धदिगन्‍तरम् ॥139॥
तदा संभावयामास स्‍वं समाविष्‍कृतोन्‍नतिम् । रागाहंकारयोर्लेशोऽप्‍यवश्‍यं विकृतिं नयेत् ॥140॥
सहसेत्‍यद्भूतं कर्म श्रुत्‍वाध्‍यास्‍य सभावनिम् । हरि: कुसुमचित्राख्‍यामाकुलाकुलमानस: ॥141॥
उद्भूतविस्‍मयोऽपृच्‍छत्किमेतदिति किंकरान् । ते च तत्‍सम्‍यगन्विष्‍य चक्रनाथं व्‍यजिज्ञपन् ॥142॥
श्रुत्‍वा तद्वचनं चक्री सावधानं वितर्कयन् । रागि चेत: कुमारस्‍य चिराच्चित्रमजायत ॥143॥
अभूत्‍कल्‍याणयोग्‍योऽयमारूढनवयौवन: । बाधा खलेन कामेन कस्‍य न स्‍यात्‍सकर्मण: ॥144॥
इत्‍युग्रवंशवार्धीन्‍दोरूग्रसेनमहीभुज: । जयावत्‍याश्‍च सर्वांग शस्‍या राजीमति: सुता ॥145॥
तद्रृहं तां स्‍वयं गत्‍वा कन्‍यां मान्‍यामयाचत । त्रिलोकस्‍वामिनो नेमे: प्रियास्‍त्‍वेषेति सादरम् ॥146॥
त्रिखण्‍डजातरत्‍नानां त्‍वं पतिर्नो विशेषत: । देव त्‍वमेव नाथोऽसि प्रस्‍तुतार्थस्‍य के वयम् ॥147॥
इत्‍युग्रसेनवाचोद्यत्‍संमदो यादवाधिप: । शुभेऽहनि समारभ्‍य विधातुं स तदुत्‍सवम् ॥148॥
पन्‍चरत्रमयं रम्‍यं समानयदनुत्‍तरम् । विवाहमण्‍डपं तस्‍य मध्‍यस्‍थे जगतीतले ॥149॥
नवमुक्‍ताफलालोलरंगवल्‍लीविराजिनि । मंगलामोदि पुष्‍पोपहारासारविलासिनि ॥150॥
विस्‍तृताभिनवानर्घ्‍यवस्‍त्रे सौवर्णपट्टके । बध्‍वा सह समापार्द्रतण्‍डुलारोपणं वर: ॥151॥
परेद्यु: समये पाणिजलसेकस्‍य माधव: । यियासुर्दुर्गर्ति लोभसुतीव्रानुभवोदयात् ॥152॥
दुराशय: सुराधीशपूज्‍यस्‍यापि महात्‍मन: । स्‍वराज्‍यादानमाशंकय नेमेर्मायाविदां वर: ॥153॥
निर्वेदकारणं किन्चिन्निरीक्ष्‍यैष विरंस्‍यति । भोगेभ्‍य इति सन्चित्‍य तदुपायविधित्‍सया ॥154॥
व्‍याधाधिपैर्धृतानीतं नानामृगकदम्‍बकम् । विधायैकत्र संकीर्णां वृर्ति तत्‍परितो व्‍यधात् ॥155॥
अशिक्षयच्‍च तद्रक्षाध्‍यक्षान्‍यदि समीक्षितुम् । दिशो नेमीश्‍वरोऽभ्‍येति भवद्भि: सोऽभिधीयताम् ॥156॥
त्‍वद्विवाहे व्‍ययीकर्तुं चक्रिणैष मृगोत्‍कर: । समानीत इति व्‍यक्‍तं महापापोपलेपक: ॥157॥
अथ नेमिकुमारोऽपि नानाभरणभासुर: । सहस्‍त्रकुन्‍तलो रक्‍तोत्‍पलमालाद्यलड़्कृत: ॥158॥
तुरंगमखुरोद्धूतधूलीलिप्‍तदिगानन: । सवयोभिरिति प्री‍तैर्महासामन्‍तसूनुभि: ॥159॥
परीत: शिबिकां चित्रामारूह्य नयनप्रिय: । दिशो विलोकितुं गच्‍छंस्‍तत्रालोक्‍य यदृच्‍छया ॥160॥
मृगानितस्‍ततो घोरं रूदित्‍वा करूणस्‍वनम् । भ्रमतस्‍तृषितान् दीनदृष्‍टीनतिभयाकुलान् ॥161॥
किमर्थमिदमेकत्र निरूद्धं तृणभुक्‍कुलम् । इत्‍यन्‍वयुड़्क्‍त तद्रक्षानियुक्‍ताननुकम्‍पया ॥162॥
देवैतद्वासुदेवेन त्‍वद्विवाहमहोत्‍सवे । व्‍ययीकर्तुमिहानीतमित्‍यभाषन्‍त तेऽपि तम् ॥163॥
वसन्‍त्‍यरण्‍ये खादन्ति तृणान्‍यनपराधका: । किलैतांश्‍च स्‍वभोगार्थं पीडयन्ति धिगीदृशान् ॥164॥
किं न कुर्वन्‍त्‍यमी मूढा: प्रौढमिथ्‍यात्‍वचेतस: । प्राणिन: प्राणितु प्राणैर्निर्घृणा: स्‍वैर्विनश्‍वरै: ॥165॥
स्‍वराज्‍यग्रहणे शंकां विधाय मयि दुर्मति: । व्‍यधात्‍कपटमीदृक्षं कष्‍टं दुष्‍टविचेष्टितम् ॥166॥
इति निर्ध्‍याय निर्विद्य निर्वृत्‍त्‍य निजमन्‍दिरम् । प्रविश्‍याविर्भवद्वोधिस्‍तत्‍कालोपगतामरै: ॥167॥
बोधित: समतीतात्‍मभवानुस्‍मृतिवेपित: । तदैवागत्‍य देवेन्‍द्रै: कृतनिष्‍क्रमणोत्‍सव: ॥168॥
शिबिकां देवकुर्वाख्‍यामारूह्यामरवेष्टित: । सहस्‍त्राम्रवणे षष्‍ठाशन: श्रावणे सिते ॥169॥
पक्षे चित्राख्‍यनक्षत्रे षष्‍ठयां सायाह्नमाश्रित: । शतत्रयकुमाराब्‍दव्‍यतीतौ सह भूभुजाम् ॥170॥
सहस्‍त्रेण समादाय संयमं प्रत्‍यपद्यत । चतुर्थज्ञानधारी च बभूवासन्‍नकेवल: ॥171॥
सन्‍ध्‍येव भानुमस्‍ताद्रावनु राजीमतिश्‍च तम् । ययौ वाचापि दत्‍तानां न्‍यायोऽयं कुलयोषिताम् ॥172॥
स्‍वदु:खेनापि निर्विण्‍ण: श्रुयते न जन: पर: । परदु:खेन सन्‍तोऽमी त्‍यजन्‍त्‍येव महाश्रियम् ॥173॥
बलकेशवमुख्‍यावनीशा: सम्‍पूज्‍य संस्‍तवै: । ससुरेशास्‍तमीशानं स्‍वं धाम समुपाश्रयन् ॥174॥
पारणादिवसे तस्‍मै वरदत्‍तो महीपति: । कनकाभ: प्रविष्‍टाय पुरीं द्वारावतीं सते ॥175॥श्रद्धादिगुणसम्‍पन्‍न: प्रतीच्‍छादिनवक्रिय: । अदितान्‍नं मुनिग्राह्यं पंचाश्‍चर्याणि चाप स: ॥176 ।
कोटीर्द्वादशरत्‍नानां सार्धा: सुरकरच्‍युता: । वृष्टिं सौमनसीं वायुं मान्‍द्यादित्रिगुणान्वितम् ॥177॥
घनान्‍तरितकायामराभिताडितदुन्‍दुभि । ध्‍वानं मनोहरं साधुदानघोषणपूर्वकम् ॥178॥
एवं तपस्‍यतस्‍यस्‍य षट्पन्‍चाशद्दिनप्रमे । छद्मस्‍थसमये याते गिरौ रैवतकाभिधे ॥179॥
षष्‍ठोपवासयुक्‍तस्‍य महावेणोरध: स्थिते: । पूर्वेऽह्नयश्‍वयुजे मासि शुक्‍लपक्षादिमे दिने ॥180॥
चित्रायां केवलज्ञानमुदपद्यत सर्वगम् । पूजयन्ति स्‍म तं देवा: केवलावगमोत्‍सवे ॥181॥
वरदत्‍तादयोऽभूवन्‍नेकादश गणेशिन: । चतु:शतानि पूर्वज्ञा: श्रुतज्ञानाब्धिपारगा: ॥182॥
शून्‍यद्वितयवस्‍वैकैकमितास्‍तस्‍य शिक्षका: । शून्‍यद्वितयपन्‍चैकमितास्त्रिज्ञानलोचना: ॥183॥
तावन्‍त: पन्‍चमज्ञाना विक्रियर्द्धिसमन्विता: । शताधिकसहस्‍त्रं तु मन:पर्ययबोधना: ॥184॥
शतानि नव विज्ञेया वादिनोऽष्‍टशतानि च । अष्‍टादशसहस्‍त्राणि ते सर्वेऽपि समुच्चिता: ॥185॥
यक्षी राजीमति: कात्‍यायन्‍यन्‍याश्‍चाखिलार्यिका: । चत्‍वारिंशत्‍सहस्‍त्राणि श्रावका लक्षयेक्षिता: ॥186॥
त्रिलक्षा श्राविका देवा देव्‍यश्‍चासंखययोदिता: । तिर्यन्‍च: संखयया प्रोक्‍ता गणैरेभिर्द्विषण्मितै: ॥187॥
परीतो भव्‍यपद्यानां विकासं जनयन्‍मुहु: । धर्मोपदेशनार्कांशुप्रसरैणाघनाशिना ॥188॥
विश्‍वान् देशान् विह्णत्‍यान्‍ते प्राप्‍य द्वारावर्ती कृती । स्थितो रैवतकोद्याने तन्निशम्‍यान्‍त्‍यकेशव: ॥189॥
बलदेवश्‍च सम्‍प्राप्‍य स्‍वसर्वर्द्धिसमन्वितौ । वन्दित्‍वा श्रु तधर्माणौ प्रीतवन्‍तौ ततो हरि: ॥190॥
प्राहुर्नास्‍तीति यं केचित् केचिन्नित्‍यं क्षणस्थितिम् । केचित्‍केचिदणुं चाणो: केचिच्‍छयामाकसम्मितम् ॥191॥
केचिदंगुष्‍ठमातव्‍यं योजनानां समुच्छ्रितम् । केचिच्‍छतानि पन्‍चैव केचिद्रगनवद्विभुम् ॥192॥
केचिदेकं परेनाना परेऽज्ञमपरेऽन्‍यथा । तं जीवाख्‍यं प्रतिप्राय: सन्‍देहोऽस्‍तीत्‍यधीश्‍वरम् ॥193॥
पप्रच्‍छ सोऽपि नैतेषु कोऽपि विद्धयस्‍य लक्षणम् । ध्रौव्‍योत्‍पादव्‍ययात्‍मासौ गुणी सूक्ष्‍म: स्‍वकृत्‍यभुक् ॥194॥
ज्ञातात्‍तदेहसम्‍मेय: स्‍वसंवेद्य: सुखादिभि: । अनादिकर्मसम्‍बनध: सरन् गतिचतुष्‍टये ॥195॥
कालादिलब्धिमासाद्य भव्‍यो नष्‍टाष्‍टकर्मक: । सम्‍यक्‍त्‍वाद्यष्‍टकं प्राप्‍य प्राग्‍देहपरिमाणधृत् ॥196॥
उर्ध्‍वव्रज्‍यास्‍वभावत्‍वाज्‍जगन्‍मूर्धनि तिष्‍ठति । इति जीवस्‍य सद्भावं जगाद जगतां गुरू: ॥197॥ तदनन्‍तर श्रीकृष्‍णने कहाकि हे भगवन् ! कोई तो कहते हैं कि जीव नाम का पदार्थ है ही नहीं, कोई उसे नित्‍य मानते हैं, कोई क्षणस्‍थायी मानते हैं, कोई अणु से भी सूक्ष्‍म मानते हैं ? कोई श्‍यामाक नामक धान्‍य के बराबर मानते हैं, कोई एस अंगुष्‍ठ प्रमाण मानते हैं, कोई पाँचसौ योजन मानते हैं, कोई आकाशकी तरह व्‍यापक मानते हैं ? कोई एक मानते हैं, कोई नाना मानते हैं, कोई अज्ञानी मानते हैं और कोई उसके विपरीत ज्ञानसम्‍पन्‍न मानते हैं । इसलिए हे भगवन्, मुझे जीव तत्‍त्‍वके प्रति संदेह हो रहा है, इस प्रकार श्रीकृष्‍णने भगवान् से पूछा । भगवान् उत्‍तर देने लगे कि जीव तत्‍त्‍वके विषय में अब तक आप लोगोंने जो विकल्‍प उठाये हैं उनमेंसे इस जीव का एक भी लक्षण नहीं है यह आप निश्चित समझिए । यह जीव उत्‍पाद व्‍यय तथा ध्रौव्‍यसे युक्‍त है, गुणवान् है, सूक्ष्‍म है, अपने किये हुए कर्मों का फल भोगता है, ज्ञाता है, ग्रहण किये शरीर के बराबर है, सुख - दु:ख आदिसे इसका संवेदन होता है, अनादि काल से कर्मबद्ध होकर चारों योनियोंमें भ्रमण कर रहा है । यदि यह जीव भव्‍य होता है तो कालादि लब्धियोंका निमित्‍त पाकर ज्ञानावरणादि आठ कर्मों का क्षय हो जानेसे सम्‍यक्‍त्‍व आदि आठ गुण प्राप्‍त कर लेता है और मुक्‍त होकर चरम शरीर के बराबर हो जाता है । चूँकि इस जीव का स्‍वभाव ऊर्ध्‍वगमनका है इ‍सलिए वह तीन लोक के ऊपर विद्यमान रहता है । इस प्रकार जगद्गुरू
तन्निशम्‍यास्तिका: सर्वे तथेति प्रतिपेदिरे । अभव्‍या दूरभव्‍याश्‍च मिथ्‍यात्‍वोदयदूषिता: ॥198॥
नामुन्‍चन्‍केचनानादिवासनां भववर्धनीम् । देवकी च तथापृच्‍छद्वरदत्‍तगणेशिनम् ॥199॥
भगवन्‍मद्रृहं द्वौ द्वौ भूत्‍वा भिक्षार्थमागता: । बान्‍धवेष्विव षट्स्‍वेषु स्‍नेह: किमिति जातवान् ॥200॥
इति सोऽपि कथामित्‍थं वक्‍तुं प्रारब्‍धवान्‍गणी । जम्‍बूपलक्षिते द्वीपे क्षेत्रेऽस्मिन्‍मथुरापुरे ॥201॥
शौर्यदेशाधिप: शूरसेनो नाम महीपति: । तत्रैव भानुदत्‍ताख्‍यश्रेष्ठिन: सप्‍त सूनव: ॥202॥
मातैषां यमुनादत्‍ता सुभानु: सकलाग्रिम: । भानुकीर्तिस्‍ततो भानुषेणोऽभूद्भानुशूरवाक् ॥203॥
पन्‍चम: शूरदेवाख्‍य: शूरदत्‍तस्‍ततोऽप्‍यभूत् । सप्‍तम: शूरसेनाख्‍य: पुत्रैस्‍तैस्‍तावलंकृतौ ॥204॥
स्‍वपुण्‍यफलसारेण जग्‍मतुर्गृहमेधिताम् । धर्ममन्‍येद्युरभ्‍यर्णादाचार्याभयनन्दिन: ॥205॥
श्रुत्‍वा नृपो वणिड़्मुख्‍योऽप्‍यग्रहीष्‍टां सुसंयमम् । जिनदत्‍तार्यिकाभ्‍यर्णे श्रेष्ठिभार्या च दीक्षिता ॥206॥
सप्‍तव्‍यसनसम्‍पन्‍ना जाता: सप्‍तापि तत्‍सुता: । पापान्‍मूलहरा भूत्‍वा राज्ञा निर्वासिता: पुरात् ॥207॥
अवम्तिविषयं गत्‍वा विशालाया: श्‍मशानके । शूरसेनमवस्‍थाप्‍य शेषाश्‍चोरयितुं पुरम् ॥208॥
प्राविशन्‍प्रकृतं तस्मिन्निदमन्‍यदुपस्थितम् । तत्‍पुराधिपतिर्भूपो बभूव वृषभध्‍वज: ॥209॥
भृत्‍यो दृढप्रहार्याख्‍य: स सहस्‍त्रभट: पटु: । वप्रश्रीरस्‍य जायाऽऽसीद्वज्रमुष्टिस्‍तयो: सुत: ॥210॥
विमलाया: सुता मंगी विमलेन्‍दुविशश्‍च सा । तत्प्रिया भूभुजा सार्द्धं वसन्‍ते वनमन्‍यदा ॥211॥
विहर्तुमुद्यता: सर्वे तत्‍कालसुखलिप्‍सया । वप्रश्री: सह मालाभि: कालाहिं कलशेऽक्षिपत् ॥212॥
स्रुषाभ्‍यसूयया कार्यं नाम नास्ति हि योषिताम् । मंगी चोद्यानयानार्थं मालादानसमुद्यता ॥213॥
दष्‍टा वसन्‍तकालोग्रविषेण विषभर्तृणा । विषव्‍याप्‍तशरीरत्‍वादस्‍पन्‍दाभूदसौ तदा ॥214॥
पलालवर्त्‍या सावेष्‍ढय स्‍त्रुषां प्रेतवनेऽत्‍यजत् । वज्रमुष्टिर्वनक्रीडाविरामेऽभ्‍येत्‍य पृष्‍टवान् ॥215॥
मंगी क्‍केत्‍याकुलो माताप्‍यसद्वार्तां न्‍यवेदयत् । सशोक: ससमुत्‍खातनिशातकरवालधृत् ॥216॥
तामन्‍वेष्‍टुं व्रजत्रात्रौ श्‍मशाने योगमास्थितम् । वरधर्ममुनिं दृष्‍ट्वा नमद्भक्‍त्‍या कृतान्‍जलि: ॥217॥
यदि पूज्‍य प्रियां प्रेक्षे सहस्‍त्रदलवारिजै: । त्‍वां समभ्‍यर्चयिष्‍यामीत्‍याशास्‍य गतवांस्‍तदा ॥218॥
वीक्षते स्‍म प्रियामीषच्‍चेतनां विषदूषिताम् । पलालवर्ति मुक्‍त्‍वाशु समानीयान्तिकं मुने: ॥219॥
तेन तत्‍पादसंपर्शभेषजेनाविषीकृता । सापि सद्य: समुत्‍थाय प्रियस्‍य प्रीतिमातनोत् ॥220॥
गुरूप्रीतमनस्‍यस्मिन्‍नम्‍भोजार्थं गते सति । शूरसेनस्‍तदा सर्वं तत्‍कर्मान्‍तर्हितो द्रमै: ॥221॥
वीक्ष्‍य मंगया: परीक्ष्‍यार्थं तदभ्‍यर्णमुपागत: । स्‍वांगसन्‍दर्शनं कृत्‍वा मधुरालापचेष्टितै: ॥222॥
लीलावलोकनैर्हासैर्व्‍यधाद्विस्रम्‍भणं भृशम् । साप्‍याह भवता सार्धमागमिष्‍यामि मां भवान् ॥223॥
गृहीत्‍वा यात्विति व्‍यक्‍तं श्रुत्‍वा तत्‍त्‍वत्‍पतेरहम् । बिभेमि तन्‍न वक्‍तव्‍यमिति तेनाभिलाषिता ॥224॥