पर्व - 72
अन्वयार्थ : अथ स्वज्ञातपूर्वन्च जगत्त्रयसभावनौ । प्रकाशयितुकामेन बलदेवेन धीमता ॥1॥
प्रद्युम्नशम्भवोत्पत्तिसम्बन्ध: पृच्छयते स्म स: । नरदत्तग णेन्द्रोनु रून्द्रबुद्धयेत्थमब्रवीत् ॥2॥
द्वीपेऽस्मिन्मगधे देशे शालिग्रामनिवासिन: । द्विजस्य सोमदेवस्य भार्याऽभूदग्निलाख्यया ॥3॥
अग्निभूतिरभूत्सूनुर्वायुभूतिस्तयोरनु । तावन्येद्यु: पुरे नन्दिवर्धनाख्ये मनोहरे ॥4॥
नन्दने नन्दिघोषाख्ये वने मुनिमपश्यताम् । नन्दिवर्धननामानं मुनिसंघविभूषणम् ॥5॥
दुष्टावुपागतौ दृष्ट्वा तौ मुनीन्द्रोऽब्रवीन्मुनीन् । विसंवदितुमायातावेतौ मिथ्यात्वदूषितौ ॥6॥
भवद्भि: कैश्चिदप्याभ्यां न कार्या सह संकथा । एतन्निबन्धनो भूयानुपसर्गो भविष्यति ॥7॥
इति तद्वचनं श्रुत्वा गुरूशासनकारिण: । मौनव्रतेन सर्वेऽपि स्थिता: संयमिनस्तदा ॥8॥
दृष्ट्वा तावेत्य सर्वेषां मूकीभूय व्यवस्थितिम् । कृतापहासौ स्वं ग्रामं गच्छन्तावशितुं गतम् ॥9॥
ग्रामान्तरात्समायातं मुनिमालोक्य सत्यकम् । तत्समीपमहंकारप्रेरितावुपगम्य तम् ॥10॥
नास्त्याप्तो नागमो नैव पदार्थो नग्न केवलम् । किं क्लिश्नासि वृथोन्मार्गे मूढो दृष्टविनाशिनि ॥11॥
इत्यध्यक्षिपतां सोऽपि जिनवक्त्रविनिर्गतम् । विवक्षितेतरानेकस्वरूपान्तसमाश्रयम् ॥12॥
द्रव्यतत्वं यथादृष्टं कथयन्तं सहेतुकम् । स्याद्वादमवलम्ब्योच्चैस्तत्प्रणेतृप्रमाणताम् ॥13॥
प्रसाध्यादृष्टभागेऽपि तदुक्तागम सुस्थितिम् । निरूप्य वादकण्डूतिमपनीय दुरात्मनो: ॥14॥
तयोर्जयध्वजं प्रापद्विद्वज्जनसमर्पितम् । तौ मानभंगसम्भूतक्रोधौ निशि शितायुधौ ॥15॥
परेद्यु: पापकर्माणौ विजने शुद्धचेतसम् । प्रतिमायोगमापन्नं सत्यकं मुनिपुंगवम् ॥16॥
शस्त्रेणाहन्तुमुद्युक्तावन्यायोऽयमिति क्रुधा । द्विजौ सुवर्णयक्षेण स्तम्भितौ कीलिताविव ॥17॥
तदा शरणमायातास्तन्मातृपितृबान्धवा: । मुनीनामाकुलीभूय यक्षस्तानवदत्सुधी: ॥18॥
हिंसाधर्मं परित्यज्य यदि जैनेश्वरं मतम् । भवन्त: स्वीकरिष्यन्ति भवेन्मोक्षोऽनयोरिति ॥19॥
तेऽपि भीतास्तथा बाढं करिष्याम इति द्रुतम् । मुनिं प्रदक्षिणीकृत्य प्रणम्य विधिपूर्वकम् ॥20॥
मिथ्यैव प्रत्यपद्यन्त धर्मं श्रावकपालितम् । ततस्तत्स्तम्भनापाये सति तैस्तावुदीरितौ ॥21॥
विरन्तव्यमितो धर्मादस्माद्धेतोरूपासितात् । इति नात्मात्तसन्मार्गाच्चेलतु: काललब्धित: ॥22॥
तेन संक्रुध्य ते ताभ्यां मृत्वा पापविपाकत: । अभ्राम्यन् कुगतीर्दीर्धं तौ च ब्राह्मणपुत्रकौ ॥23॥
सव्रतौ जीवितस्यान्ते कल्पे सौधर्मनामनि । पन्चपल्योपमायुष्कौ जातौ पारिषदाग्रिभौ ॥24॥
तत्रानुभूय सद्भोगान् द्वीपेऽस्मिन् कौशले पुरे । साकेतेऽरिन्जयो राजा सशौर्योऽभूदरिन्जय: ॥25॥
तयार्हद्दासवाक्छ्रेष्ठी वप्रश्रीस्तन्मन:प्रिया । अग्निभूतिस्तयो: पूर्णभद्रोऽन्यो माणिभद्रक: ॥26॥
सुतौ समुदभूतां तावन्येद्यु: स महीपति: । सिद्धार्थवनमध्यस्थमहेन्द्रगुरूसन्निधिम् ॥27॥
वहुभि: सह सम्प्राप्य श्रुत्वा धर्मं विशुद्धधी: । अरिन्दमे समारोप्य राज्यभारं भरक्षमे ॥28॥
अर्हद्दासादिभि: सार्द्धं संयमं प्रत्यपद्यत । तत्रैव पूर्णभद्रेण प्राक्तनं मद्गुरूद्वयम् ॥29॥
क्काद्य वर्तत इत्येतत्परिपृष्टो मुनिर्जगौ । जिनधर्मविरूद्धत्वात्कृतपापोऽभवन्मृत: ॥30॥
रत्नप्रभाबिले सर्पावर्तनान्नि ततोऽजनि । मातंग: काकजंघाख्य: सोमदेवो भवत्पिता ॥31॥
माताग्निला च तस्यैव जायते स्म शुनी गृहे । इहेत्याकर्ण्य तत्प्रोक्त तेन तौ परिबोधितौ ॥32॥
सम्प्राप्योपशमं भावं सन्न्यस्य विधिना मृत: । काकजंघोऽभवन्नन्दीश्वरद्वीपे निधीश्वर: ॥33॥
तत्पुराधीश्वरारिन्दमाख्यभूभृत्पते: सुता । श्रीमत्याश्च शुनी सुप्रबुद्धाख्याजायत प्रिया ॥34॥
सम्पूर्णयौवना यान्ती सा स्वयंवरमण्डपम् । यक्षेण बोधिता दीक्षामित्वाप्य प्रियदर्शनाम् ॥35॥
जीवितान्तेऽभवद्देवी मणिचूलेति रूपिणी । सौधर्माधिपते: पूर्णभद्रस्तदनुजोऽपि च ॥36॥
सप्तस्थानगतौ ख्यातश्रावकौ तौ दृढव्रतौ । प्रान्ते सामानिकौ देवौ जातौ सौधर्मनामनि ॥37॥