
श्रीब्रह्मदेव : संस्कृत
अथ तस्यैव मोक्षस्यानन्तचतुष्टयस्वरूपं फलं दर्शयति - एतदुपलक्षणमनन्तवीर्याद्यनन्तगुणाः [समउ ण तुट्टइ] एतद्गुणकदम्बकमेकसमयमपि यावन्न त्रुटयति न नश्यति [जासु] यस्य मोक्षपर्यायस्याभेदेन तदाधारजीवस्य वा [सो पर] तदेव केवलज्ञानादिस्वरूपं [सासउ मोक्ख-फलु] शाश्वतं मोक्षफलं भवति । [बिज्जउ अत्थि ण तासु] तस्यानन्तज्ञानादि-मोक्षफलस्यान्यद् द्वितीयमधिकं किमपि नास्तीति । अयमत्र भावार्थः । अनन्तज्ञानादिमोक्षफ लंज्ञात्वा समस्त रागादित्यागेन तदर्थमेव निरन्तरं शुद्धात्मभावना कर्तव्येति ॥११॥ एवं द्वितीय-महाधिकारे मोक्षफ लकथनरूपेण स्वतन्त्रसूत्रमेकं गतम् । आगे मोक्ष का फल अनंत-चतुष्टय है, यह दिखलाते हैं - मोक्ष का फल अनंत-ज्ञानादि जानकर समस्त रागादिक का त्याग करके उसी के लिये निरंतर शुद्धात्मा की भावना करनी चाहिये ॥११॥ |