
श्रीब्रह्मदेव : संस्कृत
अथ निश्चयरत्नत्रयपरिणतो निजशुद्धात्मैव मोक्षमार्गो भवतीति प्रतिपादयति - पेच्छइ इत्यादि । [पेच्छइ] पश्यति [जाणइ] जानाति [अणुचरइ] अनुचरति । केन कृत्वा । [अप्पिं] आत्मना कारणभूतेन । कं कर्मतापन्नम् । [अप्पउ] निजात्मानम् । [जो जि] य एव कर्ता [दंसणु णाणुचरित्तु] दर्शनज्ञानचारित्रत्रयं भवतीति क्रियाध्याहारः । कोऽसौ भवति । [जिउ] जीवः य एवाभेदनयेनसम्यग्दर्शनज्ञानचारित्रत्रयं भवतीति [मोक्खहं कारणु] निश्चयेन मोक्षस्य कारणं एक एव [सो जि] स एव निश्चयरत्नत्रयपरिणतो जीव इति । तथाहि । यः कर्ता निजात्मानं मोक्षस्य कारणभूते आत्मना कृत्वा पश्यति निर्विकल्परूपेणावलोक यति । अथवा तत्त्वार्थश्रद्धानापेक्षया चलमलिनागाढ-परिहारेण शुद्धात्मैवोपादेय इति रुचिरूपेण निश्चिनोति न केवलं निश्चिनोति वीतरागस्वसंवेदन-लक्षणाभेदज्ञानेन जानाति परिच्छिनत्ति । न केवलं परिच्छिनत्ति । अनुचरति रागादिसमस्त-विकल्पत्यागेन तत्रैव निजस्वरूपे स्थिरीभवतीति स निश्चयरत्नत्रयपरिणतः पुरुष एव निश्चयमोक्षमार्गो भवतीति । अत्राह प्रभाकरभट्टः । तत्त्वार्थश्रद्धानरुचिरूपं सम्यग्दर्शनं मोक्षमार्गोभवति नास्ति दोषः, पश्यति निर्विकल्परूपेणावलोकयति इत्येवं यदुक्तं तत्सत्तावलोकदर्शनं कथं मोक्षमार्गो भवति यदि भवति चेत्तर्हि तत्सत्तावलोकदर्शनमभव्यानामपि विद्यते तेषामपि मोक्षो१भवति स चागमविरोधः इति । परिहारमाह । तेषां निर्विकल्पसत्तावलोकदर्शनं बहिर्विषये विद्यतेन चाभ्यन्तरशुद्धात्मतत्त्वविषये । कस्मादिति चेत् । तेषामभव्यानां मिथ्यात्वादिसप्त-प्रकृत्युपशमक्षयोपशमक्षयाभावात् शुद्धात्मोपादेय इति रुचिरूपं सम्यग्दर्शनमेव नास्ति चारित्रमोहोदयात् पुनर्वीतरागचारित्ररूपं निर्विकल्पशुद्धात्म सत्तावलोकनमपि न संभवतीति भावार्थः ॥१३॥ निश्चयेनाभेदरत्नत्रयपरिणतो निजशुद्धात्मैव मोक्षमार्गो भवतीत्यस्मिन्नर्थे संवाद-गाथामाह - रयणत्तयं ण वट्टइ अप्पाणं मुइत्तु अण्णदवियम्हि । तम्हा तत्तियमइओ होदि हुमोक्खस्स कारणं आदा ॥ आगे निश्चय-रत्नत्रयरूप परिणत हुआ निज शुद्धात्मा ही मोक्ष का मार्ग है, ऐसा कहते हैं - जो सम्यग्दृष्टि जीव
|