स्वरूपं चेतना जन्तो: सा सामान्यात्सदेकधा ।
सद्विशेषादपि द्वेधा क्रमात्सा नाऽक्रमादिह ॥192॥
एका स्याच्चेतना शुद्धा स्थादशुद्धा परा ततः ।
शुद्धा स्यादात्मनस्तत्वमस्त्यशुद्धाऽऽत्मकर्मजा ॥193॥
एकध चेतना शुद्धा शुद्धस्यैकविघत्वतः ।
शुद्धा शुद्धोपलब्धित्वा:ऽज्ञानत्वाज्ज्ञानचेतना ॥194॥
अशुद्धा चेतना द्वेघा तद्यथा कर्मचेतना ।
चेतनत्वात्‌ फलस्यास्य स्यात्कर्मफलचेतना ॥194॥
अत्रात्मा ज्ञानशब्देन वाच्यस्तन्मात्रतः स्वयम्‌ ।
स चेत्यतेऽनया शुद्धः शुद्धा सा ज्ञानचेतना ॥196॥