पद्मप्रभमलधारिदेव : संस्कृत
स्वभावविभावपर्यायसंक्षेपोक्ति रियम् । तत्र स्वभावविभावपर्यायाणां मध्ये स्वभावपर्यायस्तावद् द्विप्रकारेणोच्यते । कारण-शुद्धपर्यायः कार्यशुद्धपर्यायश्चेति । इह हि सहजशुद्धनिश्चयेन अनाद्यनिधनामूर्तातीन्द्रियस्वभाव-शुद्धसहजज्ञानसहजदर्शनसहजचारित्रसहजपरमवीतरागसुखात्मकशुद्धान्तस्तत्त्वस्वरूपस्व-भावानन्तचतुष्टयस्वरूपेण सहांचितपंचमभावपरिणतिरेव कारणशुद्धपर्याय इत्यर्थः । साद्यनिधनामूर्तातीन्द्रियस्वभावशुद्धसद्भूतव्यवहारेण केवलज्ञानकेवलदर्शनकेवलसुखकेवल-शक्ति युक्त फ लरूपानंतचतुष्टयेन सार्धं परमोत्कृष्टक्षायिकभावस्य शुद्धपरिणतिरेव कार्यशुद्ध- पर्यायश्च । अथवा पूर्वसूत्रोपात्तसूक्ष्मऋजुसूत्रनयाभिप्रायेण षड्द्रव्यसाधारणाः सूक्ष्मास्ते हिअर्थपर्यायाः शुद्धा इति बोद्धव्याः । उक्त : समासतः शुद्धपर्यायविकल्पः ।इदानीं व्यंजनपर्याय उच्यते । व्यज्यते प्रकटीक्रियते अनेनेति व्यञ्जनपर्यायः । कुतः ? लोचनगोचरत्वात् पटादिवत् । अथवा सादिसनिधनमूर्तविजातीयविभावस्वभावत्वात्,द्रश्यमानविनाशस्वरूपत्वात् । व्यंजनपर्यायश्च — पर्यायिनमात्मानमन्तरेण पर्यायस्वभावात् शुभाशुभमिश्रपरिणामेनात्मा व्यवहारेण नरो जातः, तस्य नराकारो नरपर्यायः; केवलेनाशुभकर्मणा व्यवहारेणात्मा नारको जातः, तस्य नारकाकारो नारकपर्यायः; किञ्चिच्छुभमिश्रमायापरिणामेन तिर्यक्कायजो व्यवहारेणात्मा, तस्याकारस्तिर्यक्पर्यायः; केवलेन शुभकर्मणा व्यवहारेणात्मा देवः, तस्याकारो देवपर्यायश्चेति ।अस्य पर्यायस्य प्रपञ्चो ह्यागमान्तरे द्रष्टव्य इति । (कलश--मालिनी) अपि च बहुविभावे सत्ययं शुद्धद्रष्टिः सहजपरमतत्त्वाभ्यासनिष्णातबुद्धिः । सपदि समयसारान्नान्यदस्तीति मत्त्वा स भवति परमश्रीकामिनीकामरूपः ॥२७॥ यह, स्वभाव-पर्यायों तथा विभाव-पर्यायों का संक्षेप-कथन है । वहाँ, स्वभाव-पर्यायों और विभाव-पर्यायों के बीच प्रथम
(कलश--रोला)
बहु विभाव होने पर भी, सहज परम-तत्त्व के अभ्यास में जिसकी बुद्धि प्रवीण है ऐसा यह शुद्ध-दृष्टिवाला पुरुष, 'समयसार से अन्य कुछ नहीं है' ऐसा मानकर, शीघ्र परमश्रीरूपी सुन्दरी का वल्लभ होता है ।
बहुविभाव होने पर भी हैं शुद्धदृष्टि जो । परम-तत्त्व के अभ्यासी निष्णात पुरुष वे ॥ 'समयसार से अन्य नहीं है कुछ भी' - ऐसा । मान परमश्री मुक्तिवधू के वल्लभ होते ॥२७॥ |