प्रभाचन्द्राचार्य :
[[विक्षेपा:]] अतिचारा: । पञ्च [[लक्ष्यन्ते]] निश्चीयन्ते । कस्य ? परिमितपरिग्रहस्य न केवलमहिंसाद्यणुव्रतस्य पञ्चातिचारा निश्चीयन्ते अपि तु परिमितपरिग्रहस्यापि । च शब्दोऽत्रापिशब्दार्थे । के तस्यातिचारा इत्याह- अतिवाहनेत्यादि । लोभातिगृद्धिनिवृत्त्यर्थं परिग्रहपरिमाणे कृते पुनर्लोभवेशवशादतिवाहनं करोति । यावन्तं हि मार्गं बलीवर्दादय: सुखेन गच्छन्ति ततोऽप्यतिरेकेण वाहनमतिवाहनम् । अतिशब्द: प्रत्येकं लोभान्तानां सम्बध्यते । इदं धान्यादिकमग्रे विशिष्टं लाभं दास्यतीति लोभावेशादतिशयेन तत्सङ्ग्रहं करोति । तत्प्रतिपन्नलाभेन विक्रीते तस्मिन् मूलतोऽप्यसङ्गृहीत्वाधिकेऽर्थे लब्धे लोभावेशादतिविस्मयं विषादं करोति । विशिष्टेऽर्थे लब्धेऽप्यधिकलाभाकाङ्क्षावशादतिलोभं करोति । लोभावेशादतिधकभारारोपणमतिभारवाहनम् । ते विक्षेपा: पञ्च ॥ |
आदिमति :
विक्षेप का अर्थ अतिचार है । जिस प्रकार अहिंसादि अणुव्रतों के पाँच-पाँच अतिचार बतलाये गये हैं, उसी प्रकार परिग्रह-परिमाणाणुव्रत के भी पाँच अतिचार निश्चित किये गये हैं। श्लोक में आया हुआ च शब्द 'अपि' अर्थ में प्रयुक्त हुआ है। वे अतिचार इस प्रकार हैं --
|