+ दानों में प्रसिद्ध नाम -
श्रीषेणवृषभसेने कौण्डेशः सूकरश्च दृष्टान्ताः
वैयावृत्यस्यैते चतुर्विकल्पस्य मन्तव्याः ॥118॥
अन्वयार्थ : श्रीषेण राजा आहार दान के फल से श्री शांतिनाथ तीर्थंकर हुये हैं। वृषभसेना ने औषधिदान के प्रभाव से अपने शरीर के स्पर्शित जल से बहुतों के दु:ख दूर किये हैं। कोंडेश ने मुनि को शास्त्रदान देकर अपने श्रुतज्ञान को पूर्ण कर प्रसिद्धि पाई है और सूकर ने मुनि को अभयदान देने के पुण्य से देवगति को प्राप्त किया है ।

  प्रभाचन्द्राचार्य    आदिमति    सदासुखदास 

प्रभाचन्द्राचार्य :

तच्चतुष्प्रकारं दानं किं केन दत्तमित्याह --
चतुर्विकल्पस्य चतुर्विधवैयावृत्यस्य दानस्यैते श्रीषेणादयो दृष्टान्ता मन्तव्या: ।

तत्राहारदाने श्रीषेणो दृष्टान्त: । अस्य कथा --

मलयदेशे रत्नसञ्चयपुरे श्रीषेणो राज्ञो सिंहनन्दिता द्वितीया अनिन्दिता च । पुत्रौ क्रमेण तयोरिन्द्रोपेन्द्रौ । तत्रैव ब्राह्मण: सात्यकिनामा, ब्राह्मणी जम्बू, पुत्री सत्यभामा । पाटलिपुत्रनगरे ब्राह्मणो रुद्रभट्टो वटुकान् वेदं पाठयति । तदीयचेटिकापुत्रश्च कपिलनामा तीक्ष्णमतित्वात् छद्मना वेदं शृण्वन् तत्पारगो जातो। रुद्रभट्टेन च कुपितेन पाटलिपुत्रान्निर्घाटित: । सोत्तरीयं यज्ञोपवीतं परिधाय ब्राह्मणो भूत्वा रत्नसञ्चयपुरे गत: । सात्यकिना च तं वेदपारगं सुरूपं च दृष्ट्वा सत्यभामया योग्योऽयमिति मत्वा सा तस्मै दत्ता। सत्यभामा च रतिसमये विटचेष्टां तस्य दृष्ट्वा कुलजोऽयं न भविष्यतीति सा सम्प्रधार्य चित्ते विषादं वहन्ती तिष्ठति । एतस्मिन् प्रस्तावे रुद्रभट्टस्तीर्थयात्रां कुर्वाणो रत्नसञ्चयपुरे समायात: । कपिलेन प्रणम्य निजधवलगृहे नीत्वा भोजनपरिधानादिकं कारयित्वा सत्यभामाया: सकललोकानां च मदीयोऽयं पितेति कथितम् । सत्यभामया चैकदा रुद्रीभट्टस्य विशिष्टं भोजनं बहुसुवर्णं च दत्वा पादयोर्लगित्वा पृष्टं- तात ! तव शीलस्य लेशोऽपि कपिले नास्ति, तत: किमयं तव पुत्रो भवति न वेति सत्यं मे कथय । ततस्तेन कथितं, पुत्रि! मदीयचेटिकापुत्र इति । एतदाकण्र्य तदुपरि विरक्ता सा हठादयं मामभिगमिष्यतीति मत्वा सिंहनन्दिताग्रमहादेव्या: शरणं प्रविष्टा, तया च सा पुत्री ज्ञाता । एवमेकदा श्रीषेणराजेन परमभक्त्या विधिपूर्वककर्मकीत्र्यामितगतिचारणमुनिभ्यां दानं दत्तम् । तत्फलेन राज्ञा सह भोगभूमावुत्पन्ना । तदनुमोदनात् सत्यभामापि तत्रैवोत्पन्ना । स राजा श्रीषेणो दानप्रथमकारणात् पारम्पर्येण शान्तिनाथतीर्थङ्करो जात: । आहारदानफलम् ।

औषधदाने वृषभसेनाया दृष्टान्त: । अस्या: कथा-

जनपददेशे कावेरीपत्तने राजोग्रसेन:, श्रेष्ठी धनपति:, भार्या धनश्री:, पुत्री वृषभसेना, तस्या धात्री रूपवती नाम । एकदा वृषभसेनास्नानजलगर्तायां रोगगृहीतं कुक्कुरं पतितलुठितोऽत्थितं रोगरहितमालोक्य चिन्तितं धात्र्या- पुत्रीस्नानजलमेवास्यारोग्यत्वे कारणम्। ततस्तया धात्र्या निजजनन्या द्वादशवार्षिकाक्षिरोगगृहीता: कथिते तया लोचने तेन जलेन परीक्षार्थमेकदिने धौतदृष्टे च शोभने जाते । तत: सर्वरोगापनयने सा धात्री प्रसिद्धा तत्र नगरे सञ्जाता । एकदोग्रसेनेन रणपिङ्‍गलमन्त्री बहुसैन्यपेतो मेघपिङ्गलोपरि प्रेषित: । स तं देशं प्रविष्टो विषोदकसेवनात् ज्वरेण गृहीत: । स च व्याघुट्यागत: रूपवत्या च तेन जलेन नीरोगीकृत: । उग्रसेनोऽपि कोपात्तत्र गत: तथा ज्वरितो व्याघुट्याघातो रणपिङ्गलाज्जलवृत्तान्तमाकण्र्य तज्जलं याचितवान् । तो मन्‍त्री उक्तो धनश्रिया भो: श्रेष्ठिन् ! कथं नरपते: शिरसि पुत्रीस्नानजलं क्षिप्यते ? धनपतिनोक्तं यदि पृच्छति राजा जलस्वभावं तदा सत्यं कथ्यते न दोष: । एवं भणिते रूपवत्या तेने जलेन नीरोगीकृत उग्रसेन:। ततो नीरोगेण, राज्ञा पृष्टा रूपवती जलस्य माहात्म्यम्। तया च सत्यमेव कथितम् । ततो राज्ञा व्याहूत: श्रेष्ठी, स च भीत: राज्ञ: समीपमायात:। राज्ञा च गौरवं कृत्वा वृषभसेनां परिणेतुं स याचित:। तत: श्रेष्ठिना भणितं देव ! यद्यष्टाह्निकां पूजां जिनप्रतिमानां करोषि तथा पञ्जरस्थान् पक्षिगणान् मुञ्चसि तथा गुप्तिषु सर्वमनुष्यांश्च मुञ्चसि तदा ददामि । उग्रसेनेन च तत् सर्वं कृत्वा परिणीता वृषभसेना पट्टरानी च कृता । अतिवल्लभया तथैव च सह विमुच्यान्यकार्यं क्रीडां करोति । एतस्मिन् प्रस्तावे यो वाराणस्या: पृथिवीचन्द्रो नाम राजा धृत आस्ते सोऽतिप्रचण्डत्वात्तद्विवाहकालेऽपि न मुक्त: । ततस्तस्य या राज्ञी नारायणदत्ता तया मन्त्रिभि: सह मन्त्रयित्वा पृथिवीचन्द्रमोचनार्थं वाराणस्यां सर्वत्रावारितसत्कारा वृषभसेनाराज्ञीनाम्रा कारितास्तेषु भोजनं कृत्वा कावेरीपत्तनं ये गतास्तेभ्यो ब्राह्मणादिभ्यस्तं वृत्तान्तमाकण्र्य रुष्टया रूपवत्या भणिता वृषभसेने ! त्वं मामपृच्छन्ती वाराणस्यां कथं सत्कारान् कारयसि ? तया भणितमहं न कारयामि किन्तु मम नाम्ना केनचित्कारणेन केनापि कारिता: । तेषां शुद्धिं कुरु त्वमिति चरपुरुषै: कृत्वा यथार्थं ज्ञात्वा तया वृषभसेनाया: सर्वं कथितम्। तया च राजानं विज्ञाप्य मोचित: पृथ्वीचन्द्र:। तेन च चित्रफलके वृषभसेनोग्रसेनयो रूपे कारिते । तयोरधो निजरूपं सप्रणामं कारितम्। स फलकस्योर्दर्शित: भणिता च वृषभसेना राज्ञी- देवि! त्वं मम मातासि त्वत्प्रसादादिदं जन्म सफलं मे जातम्। तत उग्रसेन: सन्मानं दत्वा भणितवान् त्वया मेघपिङ्गलस्योपरि गन्तव्यमित्युक्त्वा स च ताभ्यां वाराणस्यां प्रेषित: । मेघपिङ्गलोऽप्येतदाकण्र्य ममायं पृथ्वीचन्द्रो मर्मभेदीति पर्यालोच्यागत्य चोग्रसेनस्यातिप्रसादित: सामन्तो जात:। उग्रसेनेन चास्थानस्थितस्य यन्मे प्राभृतमागच्छति तस्यार्धं मेघपिङ्गलस्य दास्यामि अर्धं च वृषभसेनाया इति व्यवस्था कृता। एवमेकदा रत्नकम्बलद्वयमागतमेकैकं सनामाङ्कं कृत्वा तयोर्दत्तम्। एकदा मेघपिङ्गलस्य राज्ञी विजयाख्या मेघपिङ्गलकम्बलं प्रावृत्य प्रयोजनेन रूपवतीपाश्र्वे गता । तत्र कम्बलपरिवर्तो जात:। एकदा वृषभेसनाकम्बलं प्रावृत्य मेघपिङ्गल: सेवायामुग्रसेनसभायामागत: राजा च तमालोक्यातिकोपाद्रक्ताक्षो बभूव । मेघपिङ्गलश्च तं तथाभूतमालोक्य ममोपरि कुपितोऽयं राजेति ज्ञात्वा दूरं नष्ट: । वृषभसेना च रुष्टेनोग्रसेनेन मारणार्थं समुद्रजले निक्षिप्ता । तया च प्रतिज्ञा गृहीता यदि एतस्मादुपसर्गादुद्धरिष्यामि तदा तप: करिष्यामीति । ततो व्रतमाहात्म्याज्जलदेवतया तस्या: सिंहासनादिप्रातिहार्यं कृतम् । तच्छ्रुत्वा पश्चात्तापं कृत्वा राजा तमानेतुं गत: । आगच्छता वनमध्ये गुणधरनामाऽवधिज्ञानी मुनिर्दृष्ट: । स च वृषभसेनया प्रणम्य निजपूर्वभव चेष्टितं पृष्ट: । कथितं च भगवता । यथा- पूर्वभवे त्वमत्रैव, ब्राह्मणपुत्री नागश्रीनामा जातासि । राजकीयदेवकुले सम्मार्जनं करोषि तत्र देवकुले चैकदाऽपराह्ने प्राकाराभ्यन्तरे निर्वातगर्तायां मुनि: दत्तनामा मुनि: पर्यङ्ककायोत्सर्गेण स्थित: । त्वया च रुष्टया भणित: कटकाद्राजा समायातोऽत्रागमिष्यतीत्युत्तिष्ठोत्तिष्ठ सम्मार्जनं करोमि लग्रेति बु्रवाणायास्तत्र मुनि: कायोत्सर्गं विधाय मौनेन स्थित: । ततस्त्वया कचवारेण पूरयित्वोपरि सम्मार्जनं कृतम् । प्रभाते तत्रागतेन राज्ञा तत्प्रदेशे क्रीडता उच्छ्वसितन:श्वसितप्रदेशं दृष्ट्वा उत्खन्य नि:सारितश्च स मुनि: । ततस्त्वयात्मनिन्दां कृत्वा धर्मे रुचि: कृता । परमादरेण च तस्य मुनेस्त्वया तत्पीडोपशमनार्थं विशिष्टमौपषदानं वैयावृत्यं च कृतम् । तेन निदानेन मृत्वेह धनपतिधनश्रियो: पुत्री वृषभसेना नाम जातासि । औषधदानफलात् सर्वौषधद्र्धिफलं जातम् । कचवारपूरणात् कलङ्किता च । इति श्रुत्वात्मानं मोचयित्वा वृषभसेना तत्समीपे आर्यिका जाता । औषधदानस्य फलम् ।

श्रुतदाने कौण्डेशो दृष्टान्त: । अस्य कथा --

कुरुमणिग्रामे गोपालो गोविन्दनामा। तेन च कोटरादुद्धृत्य चिरन्तनपुस्तकं प्रपूज्य भक्त्या पद्मनन्दिमुनये दत्तम् । तेन पुस्तकेन तत्राटव्यां पूर्वभट्टारका: केचित् किल पूजां कृत्वा कारयित्वा च व्याख्यानं कृतवन्त: कोटरे च गतवन्तश्च । गोविन्देन च वाल्यात्प्रभृति तं दृष्ट्वा नित्यमेव पूजा कृता वृक्षकोटरस्यापि । एष स गोविन्दो निदानेन मृत्वा तत्रैव ग्रामकूटस्य पुत्रोऽभूत् । तमेव पद्मनन्दिमुनिमालोक्य जातिस्मरो जात: । तपो गृहीत्वा कोण्डेशनामा महामुनि: श्रुतधरोऽभूत्। इति श्रुतदानस्य फलम् ।

वसतिदाने सूकरो दृष्टान्त: । अस्य कथा --

मालवदेशे घटग्रामे कुम्भकारो देविलनामा नापितश्च धमिल्लनामा । ताभ्यां पथिकजनानां वसतिनिमित्तं देवकुलं कारितम् । एकदा देविलेन मुनये तत्र प्रथमं वसतिर्दत्ता धमिल्लेन च पश्चात् परिव्राजकस्तत्रानीय धृत: । ताभ्यां च धमिल्लपरिव्राजकाभ्यां नि:सारित: स मुनिर्वृक्षमूले रात्रौ दंशमशकशीतादिकं सहमान: स्थित: । प्रभाते देविलधमिल्लौ तत्कारणेन परस्परं युद्धं कृत्वा मृत्वा विन्ध्ये क्रमेण सुकरव्याघ्रौ प्रौढौ जातौ । यत्र च गुहायां स सूकरस्तिष्ठति तत्रैव च गुहायामेकदा समाधिगुप्तत्रिगुप्तमुनी आगत्य स्थितौ । तौ च दृष्ट्वा जातिस्मरो भूत्वा देविलचरसूकरो धर्ममाकण्र्य व्रतं गृहीतवान् । तत्प्रस्तावे मनुष्यगन्धमाघ्राय मुनिभक्षणार्थं स व्याघ्रोऽपि तत्रायात: । सूकरश्च तयो रक्षानिमित्तं गुहाद्वारे स्थित: । तत्रापि तौ परस्परं युध्वा मृतौ । सूकरो मुनिरक्षणाभिप्रायेण शुभाभिसन्धित्वात् मृत्वा सौधर्मे महद्र्धिको देवो जात: । व्याघ्रस्तु मुनिभक्षणाभिप्रायेणातिरौद्राभिप्रायत्वान्मृत्वा नरकं गत: । वसतिदानस्य फलम् ॥
आदिमति :

श्रीषेण राजा आहारदान में, वृषभसेना औषधदान में, कौण्डेश उपकरणदान में और शूकर आवासदान में दृष्टान्त हैं, ऐसा जानना चाहिए ।

आहारदान में श्रीषेण राजा का दृष्टान्त है । इसकी कथा इस प्रकार है --

श्रीषेण राजा की कथा

यहाँ कथाएँ टाइप करनी हैं ।