
प्रभाचन्द्राचार्य :
पूजामाहात्म्यं किं क्वापि केन प्रकटितमित्याशङ्क्याह -- भेको मण्डूक: । प्रमोदमत्तो विशिष्टधर्मानुरागेण हृष्ट: । अवदत् कथितवान् । किमित्याह -- अर्हदित्यादि । अर्हतश्चरणौ अर्हच्चरणौ तयो: सपर्या पूजा तस्या: महानुभावं विशिष्टं माहात्म्यम् । केषामवदत्? महात्मनां भव्यजीवानाम् । केन कृत्वा ? कुसुमेनैकेन । क्व ? राजगृहे । अस्य कथा मगधदेशे राजगृहनगरे राजा श्रेणिक:, श्रेष्ठी नागदत्त:, श्रेष्ठिनी भवदत्ता । स नागदत्त: श्रेष्ठी सर्वदा मायायुक्तत्वान्मृत्वा निजप्राङ्गणवाप्यां भेको जात: । तत्र चागतामेकदा भवदत्ताश्रेष्ठिनीमालोक्य जातिस्मरो भूत्वा तस्या: समीपे आगत्य उपर्युत्प्लुत्य चटित: । तया च पुन: पुनर्निर्घाटितो रटति, पुनरागत्य चटति च । ततस्तया कोऽप्ययं मदीयो इष्टो भविष्यतीति सम्प्रधार्यावधिज्ञानी सुव्रतमुनि: पृष्ट: । तेन च तद्वृत्तान्ते कथिते गृहे नीत्वा परमगौरवेणासौ धृत:। श्रेणिकमहाराजश्चैकदा वर्धमानस्वामिनं वैभारपर्वते समागतमाकण्र्य आनन्दभेरीं दापयित्वा महता विभवेन तं वन्दितुं गत: । श्रेष्ठिन्यादौ च गृहजने वन्दनाभक्त्यर्थं गते स भेक: प्राङ्गणवापीकमलं पूजानिमित्तं गृहीत्वा गच्छन् हस्तिन: पादेन चूर्णयित्वा मृत: । पूजानुरागवशेनोपार्जितपुण्यप्रभावात् सौधर्मे महद्र्धिकदेवो जात: । अवधिज्ञानेन पूर्वभववृत्तान्तं ज्ञात्वा निजमुकुटाग्रे भेकचिह्नं कृत्वा समागत्य वर्धमानस्वामिनं वन्दमान: श्रेणिकेन दृष्ट: । ततस्तेन गौतमस्वामी भेकचिह्नेऽस्य किं कारणमिति पृष्ट: तेन च पूर्ववृत्तान्त: कथित:। तच्छ्रुत्वा सर्वे जना: पूजातिशयविधाने उद्यता: सञ्जाता इति ॥ |
आदिमति :
विशिष्ट धर्मानुराग से हर्षित मेंढक ने राजगृही नगरी में भव्य जीवों को यह बतलाया कि एक फूल से अर्हन्त भगवन्त के चरणों की पूजा करने वालों को क्या फल होता है । इसकी कथा इस प्रकार है -- मेंढक की कथा यहाँ कथा टाइप करनी है। |