
अतिसूक्ष्ममतिस्थूल,-मेकं चाऽनेकमेव यत् ।
स्वसंवेद्यमवेद्यं च, यदक्षरमनक्षरम् ॥
अनौपम्यमनिर्देश्य - मप्रमेयमनाकुलम् ।
शून्यं पूर्णं च यन्नित्य,-मनित्यं च प्रचक्ष्यते ॥
निःशरीरं निरालम्बं, निःशब्दं निरुपाधि यत् ।
चिदात्मकं परंज्योति,-रवाङनसगोचरम् ॥
इत्यत्र गहनेऽत्यन्त,-दुर्लक्ष्ये परमात्मनि ।
उच्यते यत्तदाकाशं, प्रत्यालेख्यं विलिख्यते ॥61॥