पर्व - 76
अन्वयार्थ : अथान्येद्युर्महावीर: सुरासुरपरिष्कृत: । विह्णत्य विविधान् देशान् पुनस्तत्पुरमागत: ॥1॥
गणैर्द्वादशभि: पूज्य: स्थित: स विपुलाचले । गच्छंस्तं श्रेणिक: स्तोतुं वृक्षमूलशिलातले ॥2॥
मुनिं धर्मरूचिं नाम्ना निस्तरंगमिवोदधिम् । प्रदीपमिव निष्कम्पं साम्बुं वाम्भोदमुन्नतम् ॥3॥
जितेन्द्रियसमाहारं पर्यंकविहितासनम् । ईषन्निरूद्धनि:श्वासं मनाड्.मीलितलोचनम् ॥4॥
ध्यायन्तं वीक्ष्य वन्दित्वा साशंको विकृताननात् । ततो गत्वा जिनं प्राप्य स्तुत्वा मुकुलितांजलि: ॥5॥
गौतमंच मया दृष्ट: कश्चिदेकस्तपोधन: । ध्यायन्साक्षादिव ध्यातिस्तद्रूपेण व्यवस्थिता ॥6॥
स को मे कौतुकं तस्मिन् ब्रूहि नाथेत्यभाषत । अनुयुक्तो गणी तेन प्रोषाच वचसां पति: ॥7॥
अस्त्यत्र विषयोऽगांख्य: संगत: सर्ववस्तुभि: । नगरी तत्र चम्पाख्या तत्पति: श्वेतवाहन: ॥8॥
श्रुत्वा धर्म जिनादस्मात्त्रिनिर्वेगाहिताशय: । राज्यभारं समारोप्य सुते विमलवाहने ॥9॥
संयमं बहुभि: सार्धमत्रैव प्रतिपन्नवान् । चिरं मुनिगणै: साकं विह्णत्याखण्डसंयम: ॥10॥
धर्मेषु रूचिमातन्वन् दशस्वप्यनिशं जनै: । प्राप्तधर्मरूचिख्याति: सक्ष्यं यत्सर्वजन्तुषु ॥11॥
अद्य मासोपवासान्ते भिक्षार्थ प्राविशत्पुरम् । पुरूषा: संहतास्तत्र तत्समीपमितास्त्रय: ॥12॥
नरलक्षणशास्त्रज्ञस्तेष्वेको वीक्ष्य तं मुनिम् । लक्षणान्यस्य साम्राज्यपदवीप्राप्तिहेतव: ॥13॥
अटत्येष च भिक्षायै शास्त्रोक्तं तन्मृषेत्यसौ । वदन्नभिहितोऽन्येन न मृषा शास्त्रभाषितम् ॥14॥
व्यक्तसाम्राज्यतन्त्रोऽयमृषि: केनापि हेतुना । निर्विण्णस्तनये वाले निधाय व्यापृर्ति निजाम् ॥15॥
एवं तप: करोतीति श्रुत्वा तद्वचनं पर: । अवोचत्किमनेनास्य तपसा पापहेतुना ॥16॥
दुरात्मन: कृपां हित्वा बालं तमसमर्थकम् । लोकसंव्यवहाराज्ञं स्थापयित्वा धरातले ॥17॥
स्वयं स्वार्थं समुद्दिश्य तप: कर्तुमिहागत: । मन्त्रिप्रभृतिभि: सर्वै: कृत्वा तं श्रृंखलावृतम् ॥18॥
राज्यं विभज्य तत्स्वैरं पापैस्तदनुभूयते । इति तद्वचनं श्रुत्वा स्नेहमानप्रचोदित: ॥19॥
अभुंजान: पुरादाशु निवृत्यैत्य वनान्तरे । वृक्षमूलं समाश्रित्य बाह्यकारणसन्निधौ ॥20॥
अन्त:क्रोधकषायानुभागोग्रस्पर्धकोदयात् । संक्लेशाध्यवसानेन वर्धमानत्रिलेश्यक: ॥21॥
मन्त्र्यादिप्रतिकूलेषु हिंसाद्यखिलनिग्रहान् । ध्यायन् संरक्षणानन्दरौद्रध्यानं प्रविष्टवान् ॥22॥
अत: परं मुहुर्तं चेदेवमेव स्थितिं भजेत् । आयुषो नारकस्यापि प्रायोग्योऽयं भविष्यति ॥23॥
ततस्त्वयाशु सम्बोध्यो ध्यानमेतत्यजाशुभम् । शमय क्रोधदुर्वह्निं मोहजालं निराकुरू ॥24॥
गृहाण संयमं त्यक्तं पुनस्त्वं मुक्तिसाधनम् । दारदारकबन्ध्वादिसम्बन्धनमबन्धुरम् ॥25॥
संसारवर्धनं साधो जहीहीत्येवमादिभि: । युक्तिमाद्भिर्वचोभि: सप्रत्यवस्थानमाप्तवान् ॥26॥
शुल्कध्यानाग्निनिर्दग्धघातिकर्मघनाटवि: । नवकेवललब्धीद्धशुद्धभावो भविष्यति ॥27॥
इत्यसौ च गणाधीशवचनान्मगधाधिप: । गत्वा तदुक्तमार्गेण सद्य: प्रासादयन्मुनिम् ॥28॥
सोऽपि सम्प्राप्य सामग्रीं कषायक्षयक्षान्तिजाम् । द्वितीयशुल्कध्यानेन कैवल्यमुदपादयत् ॥29॥
तदा पूजां समायातै: श्रेणिको वृत्रहादिभि: । सह धर्मरूचे: कृत्वा पुनर्वीरं समाश्रित: ॥30॥
भरते कोऽत्र पाश्चात्य: स्तुत्य: केवलवीक्षण: । इत्यप्राक्षीद्रणी चैवं विवक्षुरभवत्तदा ॥31॥
ब्रह्मकल्पाधिपो ब्रह्मह्णदयाख्यविमानज: । विद्युन्माली ज्वलन्मौलि: प्रियस्वाद्युक्तिदर्शने ॥32॥
विद्युदादिप्रभावेगे देव्योऽन्याश्चास्य तद्वत: । जिनमागत्य वन्दित्वा यथास्थानमुपाविशत् ॥33॥
तं निरूप्य परिच्छेदोऽनेन स्यात्केवलद्युते: । तत्कथंचेद्वदिष्यामि दिनेऽस्मात्सप्तमे दिनात् ॥34॥
ब्रह्मेंद्रोऽयं दिवोऽभ्येत्य पुरेऽस्मिन्नेव वारणम् । सर: शालिवनं निर्धूमानलं प्रज्वलच्छिखम् ॥35॥
द्युकुमारसमानीयमानजम्बूफलानि च । स्वप्नानेतान् पुर: कुर्वन्नर्हद्दासाभिधानकात् ॥36॥
इभ्यात्कृती सुतो भावी जिनदास्यां महाद्युति: । जम्ब्वाख्योऽनावृताद्देवादाप्तपूजोऽतिविश्रुत: ॥37॥
विनीतो यौवनारम्भेऽप्यनाविष्कृतविक्रिय: । वीर: पावापुरे तस्मिन् काले प्राप्स्यति निर्वतिम् ॥38॥
तदैवाहमति प्राप्य बोधं केवलसंज्ञकम् । सुधर्माख्यगणेशेन सार्ध संसारवह्निना ॥39॥
करिष्यन्नतितप्तानां ह्लादं धर्मामृताम्बुना । इदमेव पुरं भूय: सम्प्राप्यात्रैव भूधरे ॥40॥
स्थास्याम्येतत्समाकर्ण्य कुणिकश्चेलिनीसुत: । तत्पुराधिपति: सर्वपरिवारपरिष्कृत: ॥41॥
आगत्याभ्यर्च्य वन्दित्वा श्रुत्वा धर्म ग्रहीष्यति । दानशीलोपवासादि साधनं स्वर्गमोक्षयो: ॥42॥
जम्बूनामापि निर्वेदात्प्रव्रज्याग्रहणोत्सुक: । सहैवाल्पेषु वर्षेषु व्यतीतेषु वयं त्वया ॥43॥
सर्वे दीक्षां ग्रहीष्याम इति बन्धुजनोदितम् । सोऽशक्रुचन्निराकर्तुमायास्यति पुरं तदा ॥44॥
मोहं विधित्सुभिस्तस्य बन्धुभि: सुखबन्धन: । आरप्स्यते विवाहस्तै: श्रेयो विघ्ना हि बन्घव: ॥45॥
सुता सागरदत्तस्य पद्मावत्यां सुलक्षणा । पद्मश्रीरपरा श्रीर्वा कनकश्री: शुभेक्षणा ॥46॥
सुता कुबेरदत्तस्य जाता कनकमालया । वीक्ष्या विनयवत्याश्च या वैश्रवणदत्तजा ॥47॥
विनयश्री रैदत्तस्य रूपश्रीश्च धनश्रिय: । आभि: सागरदत्तादिपुत्रिकाभिर्यथाविधि ॥48॥
सौधागारे निरस्तान्धकारे सन्मणिदीप्तिभि: । विचित्ररत्नसंचूर्णरंगवल्लीविभूषिते ॥49॥
नानासुरभिपुष्पोपहाराढये जगतीतले । स्थास्यत्याप्तविवाहोऽयं पाणिग्रहणपूर्वकम् ॥50॥
सुतो मसायं रागेण प्रेरितो विकृर्ति भजन् । स्मितहासकटाक्षेक्षणादिमान्किं भवेन्न वा ॥51॥
इत्यात्मानं तिरोधाय पश्यन्ती स्थास्यति स्निहा । माता तस्य तदैवैक: पापिष्ठ: प्रथमांशक: ॥52॥
सुरम्यविषये ख्यातपौदनाख्यपुरेशिन: । विद्युद्राजस्य तुग्विद्युत्प्रभो नाम भटाग्रणी: ॥53॥
ताक्ष्णे विमलवत्याश्च क्रध्वा केनापि हेतुना । निजाग्रजाय निर्गत्य तस्मात्पन्नशतैर्भटै: ॥54॥
विद्युच्चोराह्णयं कृत्वा स्वस्य प्राप्य पुरीमिमाम् । जानन्नदृश्यदेहत्वकवाटाद्घाटनादिकम् ॥55॥
चोरशास्त्रोपदेशेन तन्त्रमन्त्रविधानत: । अर्हद्दासगृहाभ्यन्तरस्थं चोरयितुं धनम् ॥56॥
प्रविश्य नष्टनिद्रान्तां जिनदासीं विलोक्य स: । निवेद्यात्मानमेवं किं विनिद्रासीति वक्ष्यति ॥57॥
सूनुर्ममैक एवायं प्रातरेव तपोवनम् । अहं गमीति संकल्प्य स्थितस्तेनास्मि शोकिनी ॥58॥
धीमानसि यदीमं त्वं च्यावयस्वाग्रहात्तत: । उपायैरद्य ते सर्व धनं दास्याम्यभीप्सितम् ॥59॥
इति वक्त्री भवेत्सापि सोऽपि सम्प्रतिपद्य तत् । एवं सम्पन्नभोगोऽपि किलैष विरिरंसति ॥60॥
धिड्मां धनमिहाहर्तु प्रविष्टमिति निन्दनम् । स्वस्य कुर्वन्गताशंक: सम्प्राप्यानु तदन्तिकम् ॥61॥
कन्यकानां कुमारं तं तासां मध्यमधिष्ठितम् । विजम्भमाणसद्बुद्धिं पंजरस्थमिवाण्डजम् ॥62॥
जाललग्नैणपोतं वा भद्रं वा कुंजराधिपम् । अपारकर्दमे मग्नं सिंहं वा लोहपंजरे ॥63॥
निरूद्धं लब्धनिर्वेगं प्रत्यासन्नभवक्षयम् । विद्युच्चोर: समीक्ष्यैवं वक्तोष्ट्राख्यानकं सुधी: ॥64॥
कुमार: श्रूयतां कश्चिदेकदा स्वेच्छया चरन् । गिरे: क्रमेलक: स्वादु तृणं तुंगात्प्रदेशत: ॥65॥
पतन्मधुरसोन्मिश्रमास्वाद्य सकृदुत्सुक: । तादृगेवाहरिष्यामीत्येतत्पाताभिवांछया ॥66॥
तृणान्तरोपयोगादिपराड्.मुखतया स्थित: । मृतस्तथैव त्वं चैतान् भोगान् भोक्तुमुपस्थितान् ॥67॥
अनिच्छन् स्वर्गभोगार्थी भविता रहितो धिया । इत्यैकागारिकप्रोक्तं तदाकर्ण्य वणिग्वर: ॥68॥
प्रतिवक्ता स तं चोरं स्पष्टदृष्टान्तपूर्वकम् । नर: कश्चिन्महादाहज्वरेण परिपीडित: ॥69॥
नदीसरस्तटाकादिपय: पीत्वा मुहुर्मुहु: । तथाप्यगततृष्ण: किं तृणाग्रस्थाम्बुबिन्दुना ॥70॥
तृप्तिं प्राप्नोत्यसौ वायं जीवो दिव्यसुखं चिरम् । भुक्त्वाऽप्रतृप्त: स्वप्नेऽपि गजकणोस्थिरात्मना ॥71॥
सुखेनासाधुनानेन कथं तृप्तिमवाप्नुयात् । इति तद्वाचमाकर्ण्य चोरोऽनुव्याहरिष्यति ॥72॥
वने वनेचरश्चण्ड: कृत्वाधारं महाद्रुमम् । गण्डान्ताकृष्टकोदण्ड: काण्डेनाखण्डय वारणम् ॥73॥
महीरूट्कोटरस्थेन सन्दष्ट: फणिना स्वयम् । स चाहिंच गजंचाज्ञो गत्यन्तरमजीगमत् ॥74॥
अथ सर्वान् मृतान् दृष्ट्वा तान्क्रोष्टैकोऽतिलुब्धक: । तावदेतानहं नाद्मि राहिाारि र्वीद्वयाग्रगम् ॥75॥
खादामीति कृतोद्योगस्तच्छेदमकरोद्विधी: । सद्यश्चापाग्रनिर्भिन्नगल: सोऽपि वृथा मृत: ॥76॥
ततोऽतिगृध्नुता त्याज्येत्यस्योक्तिविरतौ सुधी: । कुमार: स्मृतिमाधाय सूक्तं प्रत्यभिधास्यति ॥77॥
चतुर्मार्गसमायोगदेशमध्ये महाद्युतिम् । रत्नराशिं समभ्येत्य सुग्रहं पथिको विधी: ॥78॥
तदानादाय केनापि हेतुना गतवान्पुन: । समादित्सुस्तमागत्य किं तद्देशं लभेत स: ॥79॥
तथा दुष्प्रापमालोक्य गुणमाणिक्यसंचयम् । अस्वीकुर्वन् कथं पश्चात्प्राप्नुयाद्भववारिधौ ॥80॥
तदुदीरितमेतस्य कृत्वा चित्ते परस्वह्णत । वदिष्यति तदाख्यानमन्यदन्यायसूचनम् ॥81॥
श्रृगाल: कश्चिदास्यस्थं मांसपिण्डं विसृष्टवान् । संक्रीडमानमीनादानेच्छुर्निपतितोऽम्भसि ॥82॥
तद्वेगवत्प्रवाहेण प्रेर्यमाणोऽगमन्मृतिम् । ततो मीनोऽपि दीर्घायुर्जलमध्ये स्थित: सुखम् ॥83॥
एवं श्रृगालवल्लुब्धो मुग्धोऽन्योऽपि विनश्यति । इति तस्करमुख्योक्तिमाकर्ण्यानाकुलात्मक: ॥84॥
प्रत्यासन्नविनेयत्वाद्वच: प्रतिभणिष्यति । निद्रालुको वणिक्कश्चिन्निद्रासुखविमोहित: ॥85॥
सुप्त: परार्ध्यमाणिक्यगर्भकक्षपुटे निजे । चोरैरपह्णतोऽनेन दु:खेनामृत दुर्मृति: ॥86॥
विषयाल्पसुखेष्वेवं संसक्तो रागचोरकै: । ज्ञानदर्शनचारित्ररत्नेष्वपह्णतेष्वयम् ॥87॥
जन्मी नश्यति निर्मूलमित्यत: स गदिष्यति । स्वमातुलानीदुर्वाक्यकोपात्कांचिन्मुमुर्षुकाम् ॥88॥
वृक्षमूले स्थितां वीक्ष्य सर्वाभरणभूषिताम् । अज्ञातोद्वन्धनोपायामाकुलाकुलचेतसम् ॥89॥
सुवर्णदारको नाम पापी मार्दंगिकस्तदा । तदाभरणमादित्सुर्मृदगं स्वं तरोरध: ॥90॥
स्थापयित्वा समारूह्य स्वगलोद्वद्धरज्जुक: । उद्वन्धनक्रमं तस्या दर्शयन् मृत्युचोदित: ॥91॥
मृदंगे पतिते भूमौ सद्य: केनापि हेतुना । रज्जुपाताविलीभूतकण्ठ: प्रोद्वत्तलोचन: ॥92॥
प्रापत्प्रेताधिबासं तद्वीक्ष्यासौ दुर्मृतेर्भयात् । आयाद्रृहमतस्तद्वल्लोभो हेयो महांस्त्वया ॥93॥
इत्यस्य सोऽपि वाग्जालमसोढोदाहरिष्यति । किल धूर्तविटं वीक्ष्य ललितांगाभिधामकम् ॥94॥
कम्यचित्सा महादेवी जाता मदनविह्णला । तद्विटानयनोपायनिरन्तरनियुक्तया ॥95॥
तद्धात्र्या गुप्तमानीत: पथिकोऽन्त: प्रवेशित: । सह तेन महादेवी रममाणा यथेप्सितम् ॥96॥
अहोभिर्बहुभिर्ज्ञाता शुद्धै: शुद्धान्तरक्षिभि: । तन्मुखात्तद्दुराचारे राज्ञापि विदिते सति ॥97॥
जारापनयनोपायमाज्ञप्ता: परिचारिका: । अवस्करगृहं नीत्वा सा तं तत्राक्षिपन्खलम् ॥98॥
स दुर्गन्धेन तज्जनतुभिश्च दु:खमवाप्नुवन् । अत्रैव नरकावासमाप्तवान् पापपाकत: ॥99॥
तद्वदल्पसुखस्याभिलाषिणो नरकादिषु । भवन्ति दुस्तरापारघोरदु:खा गतिष्विति ॥100॥
पुन: कुमार एवैकं प्रपंचाद्रदिता स तम् । येन संसारनिर्वेगो जायते सहसा सताम् ॥101॥
भ्राम्यन्संसारकान्तारे मृत्युमत्तद्विपेशिना । रूषा जिघांसुना जन्तुरनुपातोऽतिभीलुक: ॥102॥
पलायमानो मानुष्यभूरूहान्तहिंतात्मक: । तन्मूले कुलगोत्रादिनानावल्लीसमाकुले ॥103॥
जन्मकूपे पतित्वायुर्वल्लीलग्नशरीरक: । सितासितादिनानेकमूषकोच्छेद्यतल्लक: ॥104॥
नरकव्यात्तवक्त्रोरूसर्पसप्तकसन्निधि: । तद्भूजेष्टार्थसूनोत्थसौख्यक्षौद्ररसोत्सुक: ॥105॥
तद्ग्रहोत्थापितात्युग्रव्यापन्माक्षिकभक्षित: । तत्संसेवां सुखं मत्वा कष्टं सर्वोऽपि जीवति ॥106॥
विधीर्विषयसंसक्तो धीमानपि कथं तथा । वर्तते त्यक्तसंग: सन्नकुर्वन्दुर्वहं तप: ॥107॥
इत्याकर्ण्य व चस्तस्य माता कन्याश्च तस्कर: । तनुसंसारभोगेषु यातारोऽतिविरागताम् ॥108॥
तदा तम: समाधूय भासमानो दिवाकर: । योजयन् प्रियया कोकं कुमारमिव दीक्षया ॥109॥
करैर्निजै: कुमारस्य मनो वास्पृश्य रंजयन् । उद्यमस्तपसीवोच्चै: शिखरेऽद्रेरूदेष्यति ॥110॥
सर्वसन्तापकृत्तीक्ष्णकर: क्रूरोऽनवस्थित: । रवि: कुवलयध्वंसी व्रजिता कुनृपोपमाम् ॥111॥
नित्योदयो बुधाधीशो विशुद्धाखण्डमण्डल: । पद्माह्लादी प्रवृद्धोष्मा सुराजानं स जेष्यति ॥112॥
ज्ञात्वा संसारवैमुख्यं कुमारस्यास्य बान्धवा: । तदा कुणिमहाराज: श्रेणयोऽष्टादशापि च ॥113॥
सहानावृतदेवेन परिनिष्क्रमणं प्रति । अभिषेकं करिष्यन्ति संगता मंगलैर्जलै: ॥114॥
तत्कालोचितवेषोऽसौ शिविकां देवनिर्मिताम् । आरूह्य भूतिभूत्योच्चैविंपुलाचलमस्तके ॥115॥
मां निविष्टं समभ्येत्य महामुनिनिषेवितम् । भक्त्या प्रदक्षिणीकृत्य नमस्कृत्य यथाविधि ॥116॥
वर्णत्रयसुद्भूतैर्विनेयैर्बहुभि: समम् । विद्युच्चोरेण तत्पंचशतभृत्यैश्च संयमम् ॥117॥
सुधर्मगणभृत्पार्श्वे समाचित्तो ग्रहीष्यति । कैवल्यं द्वादशाब्दान्ते मय्यन्त्यां गोतमांगते ॥118॥
सुधर्मा केवली जम्बूनामा व श्रुतकेवली । भूत्वा पुनस्ततो द्वादशाब्दान्ते निर्वृतिंगते ॥119॥
सुधर्मण्यैन्तिमं ज्ञानं जम्बूनाम्नो भविष्यति । तस्य शिष्यो भवो नाम चत्वारिंशत्समा महान् ॥120॥
इह धर्मोपदेशेन धरित्र्यां विहरिष्यति । इत्यवादीत्तदाकर्ण्य स्थितस्तस्मिन्ननावृत: ॥121॥
देवो मदीयवंशस्य माहात्म्यमिदमद्भुतम् । अन्यत्रादृष्टमित्युच्चैरकृतानन्दनाटकम् ॥122॥
कस्मादनेन बन्धुत्वमस्येति श्रेणिकोऽभ्यघात् । गौतमं विनयात्सोऽपि न्यगदत्तदतिस्फुटम् ॥123॥
जम्बूनाम्नोऽन्वये पूर्व धर्मप्रियवणिक्पते: । गुणदेव्याश्च नाम्नार्हद्दास: पुत्रोऽजनिष्ट स: ॥124॥
धनयौवनदर्पेण शिक्षामगणयन् पितु: । निरंकुशोऽभवत्सप्तव्यसनेषु विधेर्वशात् ॥125॥
स दुश्चेष्टितदौर्गत्यात्संजातानुशयो मया । न श्रुता मत्पितु: शिक्षेत्यवाप्तशमभावन: ॥126॥
किंचित्पुण्यं समावर्ज्य व्यन्तरत्वमुपागत: । आददेऽनावृताख्योऽयं तत्र सम्यक्त्वसम्पदम् ॥127॥
इति तद्वचनप्रान्ते गौतमं मगधाधिप: । अन्वयुड्.क्तागत: कस्मार्त्कि पुण्यं कृतवानयम् ॥128॥
विद्युन्माली भवेऽतीते प्रभाऽस्यान्तेऽप्यनाहता । इत्यनुग्रहबुद्धयैव भगवानेवमब्रवीत् ॥129॥
अस्मिन्विदेहे पूर्वस्मिन् बीतशोकाह्णयं पुरम् । विषये पुष्कलावत्यां महापद्मोऽस्य पालक: ॥130॥
वनमालास्य देव्यस्या: सुत: शिवकुमारक: । नवयौवनसम्पन्न: सवयोभि: समं वने ॥131॥
विह्णत्य पुनरागच्छन्सम्भ्रमेण समन्तत: । गन्धपुष्पादिमांगल्यद्रव्यसद्वरिवस्यया ॥132॥
जनानाव्रजतो दृष्ट्वा किमेतदिति विस्मयात् । तनूजं पृच्छति स्मासौ बुद्धिसागरमन्त्रिण: ॥133॥
कुमार श्रृणु वक्ष्यामि मुनीन्द्र: श्रुतकेवली । ख्यात: सागरदत्ताख्यस्तपसा दीप्तसंज्ञया ॥134॥
असौ मासोपवासान्ते पारणायै प्रविष्टवान् । पुरं सामसमृद्धाख्य: श्रेष्ठी तस्मै यथाविधि ॥135॥
दत्वा विष्वणनं भक्त्या प्रापदाश्चर्यपंचकम् । मुनिं मनोहरोद्यानवासिनं तं सकौतुका: ॥136॥
सम्पूज्य वन्दितुं यान्ति पौरा: परमभक्तित: । इत्याख्यत्सोsपि तच्छूत्वा पुनरप्यन्वयुड्.क्त स: ॥137॥
कथं सागरदत्ताख्यां विविधर्द्धीस्तप: श्रुती: प्रापदित्यब्रवीन्मन्त्रिसुतोsप्यनु यथाश्रुतम् ॥138॥
विषये पुष्कलावत्यां नगरी पुण्डरीकिणी । वज्रदन्त: पतिस्तस्याश्चक्रेणाक्रान्तभूतल: ॥139॥
देवी यशोधरा तस्य गर्भिणी जातदौह्णदा । महाविभूत्या गत्वासौ सीतासागरसंगमे ॥140॥
महाद्वारेण सम्प्राप्य जलधिं जलजानना । जलकेलीविधौ पुत्रमलब्धाभ्यर्णनिर्वृतिम् ॥141॥
तस्मात्सागरदत्ताख्यामस्याकुर्वन्सनाभय: । अथ यौवनसम्प्राप्तौ स कदाचन नाटकम् ॥142॥
सार्धं स्वपरिवारेण पश्यन् हर्स्यतले स्थित: । चेटकेनानुकूलाख्यनामधेयेन भाषित: ॥143॥
कुमार मन्दराकारस्तिष्ठत्येष पयोधर: । पश्याश्चर्यमिति प्रीत्या प्रोन्मुखो लोचनप्रियम् ॥144॥
तं निरीक्षितुमैहिष्ट नष्टस्तत्काल एव स: । जलदस्तद्विचिन्त्यैवं यौवनं विभवो वपु: ॥145॥
आयुरन्यच्च विध्वंसि यथायं स्तनयित्नुक: । इति संसारनिर्वेगयोगभाक्समजायत ॥146॥
स्वपित्रा सममन्येद्य: सम्प्राप्यामृतसागरम् । स्थितं मनोहरोद्याने धर्मतीर्थस्य नायकम् ॥147॥
श्रुत्वा धर्मं तदभ्यर्णे निर्णीतसकलस्थिति: । संयमं बहुभि: सार्धं कृतबन्धुविसर्जन: ॥148॥
प्रतिगृह्य मन:पर्ययादिं प्राप्यर्द्धिसम्पदम् । देशान् विह्णत्य सद्धर्मदेशेनेह समागत: ॥149॥
इति तच्छूवणात्सद्य: प्रतिचेता: स्वयंच स: । गत्वा मुनीश्वरं स्तुत्वा पीत्वा धर्मामृतं तत: ॥150॥
भवन्तं भगवन्दृष्ट्वा स्नेहो मे समभून्महान् । हेतुना केन वक्तव्यमित्यपृच्छत्स चाब्रवीत् ॥151॥
द्वीपेsस्मिन् भारते क्षेत्रे विषये मगधाह्णये । वृद्धग्रामे सुतौ जातौ रेवत्यां नरजन्मन: ॥152॥
ज्येष्ठोsत्र राष्ट्रकूटस्य भगदत्तस्तत: पर: । भवदेवस्तयोर्ज्यायान् संयमं प्रत्यपद्यत ॥153॥
सुस्थिताख्यगुरूं प्राप्य तेनामा विनयान्वित: । नानादेशान् विह्णत्यायात् स्वजन्मग्राममेव स: ॥154॥
तदा तद्बान्धवा: सर्वे समागत्य ससम्मदा: । मुनिं प्रदक्षिणीकृत्य सम्पूज्यानन्तुमुद्यता: ॥155॥
ग्रामे दुर्मर्षणो नाम तस्मिन्नेव गृहाधिप: । तस्य नागवसुर्भार्या नागश्रीरनयो: सुता ॥156॥
ताभ्यां सा भवदेवाय प्रादायि विधिपूर्वकम् । अग्रजागमनं श्रुत्वा सद्य: सन्जातसम्मद: ॥157॥
भवदेवोsप्युपागत्य भगदत्तमुनीश्वरम् । विनयात्प्रप्रणम्यास्त तत्कृताशासनार्द्रित: ॥158॥
आख्याय धर्मयाथात्म्यं वैरूप्यमपि संसृते: । गृहीतपाणिरेकान्ते संयमो गृह्यतां त्वया ॥159॥
इत्याह तं मुनि: सोsपि प्रत्यवादीदिदं वच: । नागश्रीमोक्षणं कृत्वा कर्तास्मि भवतोदितम् ॥160॥
इति तन्मुनिराकर्ण्य जगादाजनने जन: । भार्यादिपाशसंलग्न: करोत्यात्महितं कथम् ॥161॥
त्यज तन्मोहमित्येनं भवदेवोsप्यनुत्तर: । मतिं ज्येष्ठानुरोधेन व्यधाद्दीक्षाविधौ च स: ॥162॥
नीत्वा स्वगुरूसामीप्य भगदत्तो भवच्छिदे । दीक्षामग्राहयन्मौक्षीं सतां सोदर्यमीदृशम् ॥163॥ अन्त में भगदत्तने अपने गुरूके पास ले जाकर उसे संसारका छेद करने के लिये मोक्ष प्राप्त
स द्रव्यसंयमी भत्वा विधीर्द्वादशवत्सरान् । विह्णत्य गुरूभि: सार्धमन्येद्युरसहायक: ॥164॥
वृद्धग्रामं निजं गत्वा सुव्रतागणिनीमभि । समीक्ष्यास्मिन् किमस्त्यम्ब नागश्रीर्नाम काचन ॥165॥
इति सम्प्रश्नयामास सा तस्येंगितवेदिनी । नाहं वेद्मि मुने सम्यगुदन्तं तन्निबन्धनम् ॥166॥
इत्यौदासीन्यमापन्ना गुणवत्यार्यिकां प्रति । संयमे तं स्थिरीकर्तुकर्थाख्यानकमब्रवीत् ॥167॥
वैश्य: सर्वसमृद्धाख्यस्तद्दासीतनय: शुचि: । दारूकाख्य: स्वमात्रास्मच्छेूष्ठयुच्छिष्टाशितं त्वया ॥168॥
भोक्तव्यमिति निर्बन्धाद्भोजित: स जुगुप्सया । वान्तवान् कंसपात्रेण तत्तन्मात्राहितं पुन: ॥169॥
बुभुक्षुर्मातरं भोक्तुं प्रार्थयामास दारूक: । तयापि कंसपात्रस्थं पुरस्तादुपढौकितम् ॥170॥
बुभुक्षापीडितोऽप्येष नाग्रहीद्वान्तमात्मना । सोऽपि चेत्तादृश: साधु: कथं त्यक्तमभीप्सति ॥171॥
अथाख्यानमिदंचैकं श्रृणु रूध्वाशयं स्थिरम् । नरेशो नरपालाख्य: श्वानमेकं सकौतुक: ॥172॥
मृष्टाशनेन सम्पोष्य स्वर्णाभरणभूषितम् । सदा वनविह्णत्यादिगतौ कनककल्पिताम् ॥173॥
आरोप्य शिबिकामेवं मन्दबुद्धिरपालयत् । कदाचिच्छिबिकां रूढो गच्छन्कौलेयमाधम: ॥174॥
विष्टामालोक्य बालस्य लिप्सुरापतति स्म ताम् । तद्दृष्ट्वापाकरोद्भूपो लकुटीपाडनेन तम् ॥175॥
तद्वनमुनिश्च सर्वेषां पूजनीय: पुरातन: । त्यक्ताभिवांछया भूय: सम्प्राप्नोति पराभवम् ॥176॥
इदमन्यत्कचित्कश्चित्पथिक: सद्वनान्तरे । सुगन्धिफलपुष्पादिसेवयाऽऽयन् सुखं तत: ॥177॥
गत्वा विहाय सन्मार्ग महागहनसंकटे । दृष्ट्वा क्षुघितमत्युग्रं स चमूरं जिघांसुकम् ॥178॥
भीत्वा धावन् तदैकस्मिन् भीमकूपेऽपतद्विधी: । तत्र शीतादिभि: पापाद्दोषत्रितयसम्भवे ॥179॥
वाग्दृष्टिश्रुतिगत्यादिहीनं सर्पादिबाधितम् । तं तन्निर्गमनोपायमजानन्तं यदृच्छया ॥180॥
कश्चिद्भिषग्वरो वीक्ष्य दययार्द्रीकृताशय: । निर्गमय्य तत: केनाप्युपायेन महादरात् ॥181॥
मन्त्रौषधिप्रयोगेण कृतपादप्रसारणम् । सूक्ष्मरूपसमालोकनोन्मीलितविलोचनम् ॥182॥
स्पष्टाकर्णनविज्ञातस्वशक्तिश्रवणद्वयम् । व्यक्तवाक्प्रसरोपेतरसनं च व्यधादनु ॥183॥ इसी प्रकार जो मुनि पहले सबके पूजनीय होते हैं वही छोड़ी हुई वस्तुकी इच्छाकर फिर अनादर को प्राप्त होने लगते हैं । इस कथाके बाद एक कथा और कहती हूँ –
स सर्वरमणीयाख्यं पुरं तन्मार्गदर्शनात् । प्रास्थापयन्न कस्योपकुर्वन्ति विशदाशया: ॥184॥
पुन: स विषमासक्तमति: पथिकदुर्मति: । प्रकटीकृतदिग्भेदमोह: प्राक्तनकूपकम् ॥185॥
सम्प्राप्य पतितस्तस्मिंस्तथा कांश्चन संसृतौ । मिथ्यात्वादिकपंचोग्रबाधिर्यादीन्युपागतान् ॥186॥
जन्मकूपे क्षुधादाहाद्यार्तान् संवीक्ष्य सन्मति: । गुरूवैद्यो दयालुत्वाद्धर्माख्योपायपण्डित: ॥187॥
निर्गमय्य ततो जैनभाषोषधनिषेवणात् । सम्यक्त्वनेत्रमुन्मील्य सम्यग्ज्ञानश्रुतिद्वयम् ॥188॥
समुद्घटय्य सद्वत्तपादौ कृत्वा प्रसारितौ । व्यक्तां दयामयीं जिह्णां विधाय विधिपूर्वकम् ॥189॥
पंचप्रकारस्वाध्यायवचनान्यभिधाप्य तान् । सुधीरगमयन्मार्ग साधु: स्वर्गापवर्गयो: ॥190॥
निजपापोदयाद्दीर्घसंसारास्तत्र केचन । सुगन्धिबन्धुरोद्भिन्नचम्पकाभ्याशवर्तिन: ॥191॥
तत्सौरभावबोधावमुक्ता: षट्चरणा यथा । पार्श्वस्थाख्या: सदृग्ज्ञानचारित्रोपान्तवर्तनात् ॥192॥
कषायविषयारम्भलौकिकज्ञानवेदकै: । जिह्णाषड्भेदसम्बन्धा: कुशीलाख्या दुराशया: ॥193॥
संसक्ताख्या निषिद्धेषु द्रव्यभावेषु लोलुपा: । अवसन्नाह्णया हीयमानज्ञानादिकत्वत: ॥194॥
समाचारबहिर्भूता मृगचार्यभिधानका: । महामोहानिवृत्याजवंजवागाधकूपके ॥195॥
पतन्ति स्म पुनश्चेति भवदेवोऽपि तच्छूते: । सम्प्राप्तशान्तभावोऽभूद्ज्ञात्वा तत्सार्यिकाग्रणी: ॥196॥
नागश्रियं च दौर्गत्यभावोत्पादितदु:स्थितिम् । आनाय्यादर्शयत्सोऽपि तां दृष्ट्वा संसृतिस्थितिम् ॥197॥
स्मृत्वा धिगिति निन्दित्वा गृहीत्वा संयमं पुन: । मात्रा सहायुष: प्रान्ते क्रमात्स्वाराधनां श्रित: ॥198॥
मृत्वा माहेन्द्रकल्पेऽभूद्वलभद्रविमानके । सामानिक: सुर: सप्तसागरोपमजीवित: ॥199॥
ज्यायानहमजाये त्वं कनिष्ठोऽभूस्ततश्च्युत: । इति सोऽपि मुनिप्रोक्तश्रवणेन विरक्तवान् ॥200॥
दीक्षां गृहीतुमुद्युक्तो मात्रा पित्रा च वारित: । प्रविश्य नगरं जातसंविदप्रासुकाशनम् ॥201॥
नाहमाहारयामीति कुमारोऽकृत निश्चितिम् । तद्वार्ताश्रवणाद्भूयो य: कश्चिद्भोजयत्यमुम् ॥202॥
तस्मै सम्प्रार्थितं दास्यामीति संसद्यघोषयत् । तद्ज्ञात्वा दृढवर्माख्य: सप्तस्थानसमाश्रय: ॥203॥
श्रावक: समुपेत्यैनं कुमार, ज्ञातिशत्रव: । तवैते स्वपरध्वंसकोविदा: पापहेतव: ॥204॥
भावसंयमविध्वस्तिमकृत्वा प्रासुकाशनै: । करिष्ये भद्र पर्युष्टिमविमुक्तस्य बन्धुभि: ॥205॥
दुर्लभा संयमे वृत्तिरित्यवोचद्धितं वच: । सोऽपि मत्वा तदाचाम्लनिर्विकृत्य रसाशन: ॥206॥
दिव्यस्त्रीसन्निधौ स्थित्वा सदाविकृतचेतसा । तृणाय मन्यमानस्तास्तपो द्वादशवत्सरान् ॥207॥
चरन्निव निशातासिधारायां सम्प्रवर्तयन् । सन्न्यस्य जीवितप्रान्ते कल्पे ब्रह्मेन्द्रनामनि ॥208॥
विद्युन्माल्येष देवोऽभूद्देहदीप्त्याप्तदिक्तट: । इत्यथ श्रेणिकप्रश्नादिदं चोवाच गौतम: ॥209॥
विद्युन्मालिन एवामूर्देव्योऽत्रैत्येभ्यपुत्रिका: । जम्बूनाम्नश्चतस्त्रोऽपि भार्यास्तेनाप्य संयमम् ॥210॥
सहान्त्यकल्पे भूत्वेह यास्यन्ति परमं पदम् । गत्वा सागरदत्ताख्यो दिवमत्रैत्य निर्वृतिम् ॥211॥
जम्बूनाम्नो गृहत्यागसमये यास्यतीत्यपि । सर्वमेतद्रणाधीशनायकव्याह्णतं मुदा ॥212॥
निशम्य मगधाधीशो जिनं तं चान्ववन्दत । मानयन्ति न के सन्त: श्रेयो मार्गोपदेशिनम् ॥213॥
अथान्येद्य: पुन: प्राप्य भगवन्तं भवान्तकम् । प्रपूज्य प्रणतस्तस्मिन् सदस्युदिततेजसम् ॥214॥
दृष्ट्वा तारागणे तारापतिं वा प्रीतिकेतनम् । प्रीतिंकर पुरानेन किं कृत्वा रूपमीदृशम् ॥215॥
सम्प्राप्तमिति सोऽप्राक्षीद्रणभृच्चैवमब्रवीत् । एतस्मिन् मगधे देशे सुप्रतिष्ठाह्णयं पुरम् ॥216॥
जयसेनो महीपाल: पालकस्तस्य लीलया । तत्र सागरदत्ताख्य: श्रेष्ठी तस्य प्रभाकरी ॥217॥
भार्या तयोरभून्नागदत्तो ज्येष्ठ: सुतोऽनुज: । कुबेरदत्तो वित्तेशसमस्तद्गृहवासिन: ॥218॥
नागदत्तं विवर्ज्यान्ये सर्वेऽभूवन्नुपासका: । रत्नाकरेऽपि सद्रत्नं नाप्नोत्यकृतपुण्यक: ॥219॥
तेषां काले व्रजत्येवं गिरौ धरणिभूषणे । वने प्रियंकरोद्याने कदाचित्समवस्थितम् ॥220॥
मुनिं सागरसेनाख्यं जयसेननृपादय: । गत्वा सम्पूज्य वन्दित्वा धर्म साध्वन्वयुंजत ॥221॥
सोऽप्येवमब्रवीत्प्राप्तसम्यग्दर्शनलोचना: । दानपूजाव्रतोपोषितादिभि: प्राप्तपुण्यका: ॥222॥
प्राप्नुवन्ति सुखं स्वर्गे चापवर्गे च संयमात् । मिथ्यादृशश्च दानादिपुण्येन स्वर्गजं सुखम् ॥223॥
सम्प्राप्नुवन्ति तत्रैते शममाहात्म्यत: पुन: । कालादिलब्धिमाश्रित्य स्वतो वा परतोऽपि वा ॥224॥
सद्धर्मेलाभयोग्याश्च भवन्त्यभ्यर्णमोचना: । अन्ये तु भोगसंसक्ता माढमिथ्यात्वशल्यका: ॥225॥
हिंसानृतान्यरैरामारत्यारम्भपरिग्रहै: । पापं सन्चित्य संसारदुष्कूपे निपतन्ति ते ॥226॥
इति तद्वचनं श्रुत्वा बहवो धर्ममाचरन् । अथ सागरदत्ताख्यश्रेष्ठिना स्वायुषोऽवधौ ॥227॥
परिपृष्टे मुनिश्चाह दिवसास्त्रिंशदित्यसौ । तच्छ्र्त्वा नगरं श्रेष्ठी प्रविश्याष्टाह्निकीं मुदा ॥228॥
पूजां विधाय दत्वात्मपदं ज्येष्ठाय सूनवे । आपृछय बान्धवान् सर्वान् द्वार्विशतिदिनानि स: ॥229॥
सन्नयस्य विधिवल्लोकमवापदमृताशिनाम् । अन्येद्युर्नागदत्तोऽसौ लोभेनाद्येन चोदित: ॥230॥
कुबेरदत्तमाहूय तव सारधनं पिता । किमदर्शयदित्येवं पृष्टवान् दुष्टचेतसा ॥231॥
तीव्रलोभविषक्तोऽयमित्यसाववगम्य तत् । किमावाभ्यामविज्ञातं धनमस्ति गुरो: पृथक् ॥232॥
सन्नयस्य विधिना स्वर्गगतस्योपरि दूषणम् । महत्पापमिदं वक्तुं भ्रातस्तव न युज्यते ॥233॥
श्रोतुं ममापि चेत्याह सोऽप्यपास्यास्य दुर्मतिम् । विभज्य सकलं वस्तु चैत्यचैत्यालयादिकम् ॥234॥
निर्माप्य जिनपूजाश्च विधाय विविधा: सदा । दानं चतुर्विधं पात्रत्रये भक्त्या प्रवर्त्य तौ ॥235॥
कालं गमयत: स्मोद्यत्प्रीती प्रति परस्परम् । दत्वा सागरसेनाय कदाचिद्भक्तिपूर्वकम् ॥236॥
भिक्षां कुबेरदत्ताख्य: सहितो धनमित्रया । अभिवन्द्य किमावाभ्यां तनूजो लप्स्यते न वा ॥237॥
नैवं चेत्प्रव्रजिष्याव इत्यप्राक्षीत्स चाब्रवीत् । युवां सुतं महापुण्यभागिनं चरमांगकम् ॥238॥
लभेथामिति तद्वाक्यश्रवणात्तोषिताशयौ । यद्येवं पूज्यपादस्य भवत: क्षुल्लकोऽस्त्वसौ ॥239॥
तस्मिन्नुत्पन्नवत्येव दास्याव इति तौ सुखम् । भुंजानौ कतिचिन्मासान्गमयित्वा सुतोत्तमम् ॥240॥
लब्ध्वा प्रीतिंकराह्णनमेतस्याकुरूतां मुदा । करोतु स्वगुणैस्तोषं सर्वेषां जगतामिति ॥241॥
पंचसंवत्सरातीतौ तस्मिन्धान्यपुरान्मुनौ । आगते सति गत्वैनमभिवन्द्य मुनीन्द्र ते ॥242॥
क्षुल्लकोऽयं गृहाणेति तस्मै दत्त: स्म ते तदा । प्रतिगृह्य गुरूर्धान्यपुरमेव गत: पुन: ॥243॥
तत्र तं सर्वशास्त्राणि दशवर्षाण्यशिक्षयत् । सोऽप्यासन्नविनेयत्वात्संयमग्रहणोत्सुक: ॥244॥
गुरूभिर्नार्य ते दीक्षाकालोऽयमिति वारित: । तथैवास्विति तान्भक्त्या वन्दित्वा पितरौ प्रति ॥245॥
पथि स्वाभ्यस्तशास्त्राणि शिष्टानां समुपादशन् । छात्रवेषधरो गत्वा सर्वबन्धुकदम्बकम् ॥246॥
विलोक्यानन्तरं राज्ञा सम्यग्विहितसत्कृति: । असाधारणमात्मानं मन्यमान: कुलादिभि: ॥247॥
धनं बहुतरं सारं यावन्नावर्जयाम्यहम् । तावन्न संग्रहीष्यामि पत्नीमिति विचिन्तयन् ॥248॥
अन्येद्युर्नागरै: कैश्चिज्जलयात्रोन्मुखै: सह । यियासुर्बान्धवान्सर्वानापृच्छयैतत्प्रयोजनम् ॥249॥
सम्मतस्तैरर्नमस्कर्तु गत्वा गुरूमुदात्तधी: । पत्रमेकं निजाभिप्रेतार्थाक्षरसमर्थितम् ॥250॥
गुरूणार्पितमादाय कर्णे सुस्थाप्य सादरम् । शकुनाद्यनुकूल्येन ससख: पोतसाधन: ॥251॥
अवगाह्य पयोराशिं पुरं भूतिलकाह्णयम् । परीतं बलयाकारगिरिणा प्राप पुण्यवान् ॥252॥
शंखतूर्यादिभिस्तस्मिन् ध्वनद्भि: सम्मुखान्जनान् । निर्गच्छतो प्रपश्यद्भिराशंकय वणिजां वरै: ॥253॥
गत्वैतत्पुरमन्विष्य प्रत्येतुमिह क: सह: । इत्युदीरितमाकर्ण्य प्रीतिंकरकुमारक: ॥254॥
कर्मणोऽस्य समर्थोऽहमिति संगीर्णवांस्तदा । चोचबल्कजनिष्पन्नरज्ज्वा तैरवतारित: ॥255॥
विस्मयात्परित: पश्यन्प्रविश्य नगरं पुरा । निरीक्ष्य भवनं जैनं परीत्य विहितस्तुति: ॥256॥
ततो गत्वायुधापातविगतासून्निरूपयन् । समन्तात्कन्यकां कान्चिद्रच्छन्तीं सरसो गृहान् ॥257॥
केयमित्यनुयातोऽसौ तं सालोक्य गृहांगणे । भद्रागत: कुतो चेति पीठमस्मै समर्पयत् ॥258॥
सोऽपि तस्योपरि स्थित्वा नगरं केन हेतुना । सन्जातमीदृशं ब्रूहीत्याह तामथ साब्रवीत् ॥259॥
तद्वक्तुं नास्ति कालोऽस्माद्भद्र त्वं याहि सत्वरम् । भयं महत्तवेहास्तीत्येतच्छ्रु त्वा स निर्भय: ॥260॥
यो भयं मम कर्ताऽत्र स किं बाहुसहस्त्रक: । इत्याह तद्भयोन्मुक्तवाग्गम्भीरविजृम्भणात् ॥261॥
शिथिलीभूतभी: कन्याप्यवोचद्विस्तरेण तत् । एतत्खगाद्रयुदीच्यालकेश्वरा: सहजास्त्रय: ॥262॥
ज्यायान्हरिबलस्तस्य महासेनोऽनुजोऽनुज: । तस्य भूतिलकस्तेषु धारिण्यां ज्यायसोऽभवत् ॥263॥
तनूजो भीमकस्तस्मादेव विद्याधरेशिन: ।हिरण्यवर्मा श्रीमत्यामजायत सुतोऽपर: ॥264॥
महासेनस्य सुन्दर्यामुग्रसेन: सुतोऽजनि । वरसेनश्च तस्यानुजा जाताहं वसुन्धरा ॥265॥
कदाचिन्मत्पिता भौमविहारे विपुलं पुरम् । निरीक्ष्येदं चिरं चित्तहारीति स्वीचिकीर्षुक: ॥266॥
एतन्निवासिनीर्जित्वा रणे व्यन्तरदेवता: । अत्र भूतिलकाख्येन सोदर्येण समन्वित: ॥267॥
इह संवासिभिर्भूपै: सेव्यमान: सुखेन स: । कालं गमयति स्मैवं कन्चित्सन्चितपुण्यक: ॥268॥
इत: कनीयसे विद्यां भीमकायालकश्रियम् । दत्वा संसारभीरूत्वान्निविंद्य विजितेन्द्रिय: ॥269॥
कर्मनिर्मूलनं कर्तु दीक्षां हरिबलाह्वय: । विद्वान्विपुलमत्याख्यचारणस्याप्यसन्निधौ ॥270॥
शुक्लध्यानानलालीढदुरिताष्टकदुष्टक: । अष्टमीमगममत्पृथ्वीमिष्टामष्टगुणान्वित: ॥271॥
प्रकुर्वन् भीमको राज्यं विद्या: शाठयेन केनचित् । हिरण्यवर्मणो ह्णत्वा तं च हन्तुं समुद्यत: ॥272॥
ज्ञात्वा हिरण्यवर्मैतत्सम्मेदाद्रिमशिश्रियत् । भीमकस्तं क्रुधान्वित्य गिरिं गन्तुमशक्तक: ॥273॥
तीर्थेशसन्निधानेन तीर्थत्वादागमत्पुरम् । ततो हिरण्यवर्मापि पितृव्यं समुपागत: ॥274॥
तच्छूत्वा तं निराकर्तुं पूज्यपादोऽर्हतीत्यसौ । महासेनमहाराजं प्राहिणोत्प्रतिपत्रकम् ॥275॥
तस्यानिराकृतिं तस्माद्ज्ञात्वायातं युयुत्सया । क्रूर एष दुरात्मेति मत्पिता भीमकं रणे ॥276॥
निर्जित्य श्रृंखलाक्रान्तमकरोत्क्रमयोर्द्वयो: । पुन: क्रमेण शान्तात्मा नैतद्युक्तं ममेति तम् ॥277॥
मुक्त्वा विधाय सन्धानं प्रशमय्य हितोक्तिभि: । हिरण्यवर्मणा सार्ध दत्वा राज्यन्च पूर्ववत् ॥278॥
विससर्ज तथावज्ञा बद्धवैर: स भीमक: । हिरण्यवर्मणि प्रायो विद्यां संसाध्य राक्षसीम् ॥279॥
तया हिरण्यवर्माणं पापी मत्पितरं पुरम् । मद्वन्धूनपि विध्वस्य मामुद्दिश्यागमिष्यति ॥280॥
इति सर्वं समाकर्ण्य कुमारो विस्मयं वहन् । शय्यातलस्थमालोक्य खड्गमेष सुलक्षण: ॥281॥
यस्य हस्तगतो जेतुं तं शक्रोऽपि न शक्नुयात् । इति मत्वा पितानेन किं ते केनापि युद्धवान् ॥282॥
इत्यप्राक्षीत्स तां सापि न स्वप्नेऽपीत्यभाषत । तदा प्रीतिंकरों हस्तगतमस्त्रं विधाय तत् ॥283॥
तं हन्तुं निर्भयो भीमं गोपुराभ्यन्तरे स्थित: । निगूढतनुराविष्कृतोन्नतिर्वसुनं दधत् ॥284॥
तस्मिन्क्षणे समागत्य समन्ताद्वीक्ष्य भीमक: । स्वविद्यां प्रेषयामास दृष्ट्वा दुष्टं जहीति तम् ॥285॥
सम्यग्दृष्टिरयं सप्तविधभीतिविदूरग: । चरमांगो महाशूरो नाहं हन्तुमिमं क्षमा ॥286॥
इति भीत्वा तदभ्यर्णे सन्चरन्तीमितस्तत: । विलोक्य भीमको विद्यां शक्तिहीनां व्यसर्जयत् ॥287॥
निस्साराभूर्व्रजेत्युक्त्वा साप्यगच्छददृश्यताम् । स्वयमेवासिमुत्खाय भीमकस्तं जिघांसुक: ॥288॥
सम्प्राप्तवान्कुमारोऽपि तर्जयन्नतिभीषणम् । तद्घातं वन्चयित्वाहंस्तं प्राणै: सोऽप्यमुच्यत ॥289॥
ततो विध्वस्य दुष्टारिमायान्तमभिवीक्ष्य सा । कुमारं कन्यकाभ्येत्य व्यधास्त्वं भद्र साहसम् ॥290॥
इत्यारोप्यासनं स्वर्णमयं राजगृहांगणे । अभिषिच्य जलापूर्णै: कलशै: कलधौतकै: ॥291॥
विन्यस्य मणिभाभासि मुकुटं चारूमस्तके । यथास्थानमशेषाणि विशिष्टाभरणान्यपि ॥292॥
विलासिनीकरोद्धूयमानचामरशोभिनम् । अकरोत्तन्निरीक्ष्याह प्रीतिंकरकुमारक: ॥293॥
किमेतदिति सावोचदस्म्यस्या: स्वामिनी पुर: । दत्वा राज्यं मदीयं ते पट्टबन्धपुरस्सरम् ॥294॥
रत्नमालां गले कृत्वा त्वां प्रेम्णा समभीभवम् । इति तत्प्रोक्तमाकर्ण्य कुमार: प्रत्यभाषत ॥295॥
विना पित्रोरनुज्ञानान्नैव स्वीक्रियसे मया । कोऽपि प्रागेव संकल्पो विहितोऽयमिति स्फुटम् ॥296॥
यद्येवं तत्समायोगकालेऽभीष्टं भविष्यति । इति तद्वचनं कन्या प्रतिपद्य धनं महत् ॥297॥
बध्वावतरणायामि रज्ज्वा तेन सह स्वयम् । यियासुरासीद्रज्जुं तां प्रमोदात्सोऽप्यचालयत् ॥298॥
सद्यस्तच्चालनं दृष्ट्वा नागदत्तो बहिर्गत: । समाकृष्याग्रहीत्तन्च तान्च द्रव्यन्च तुष्टवान् ॥299॥
पोतप्रस्थानकालेऽस्या: साराभरणसंहतिम् । विस्मृतां स कुमारस्तामानेतुं गतवान् पुन: ॥300॥
नागदत्तस्तदा रज्जुमाकृष्य द्रव्यमेतया । सारं सम्प्राप्तमेतन्मे भोक्तुमामरणाद्भवेत् ॥301॥
कृतार्थोऽहं कुमारेण यद्वा तद्वानुभूयताम् । इति प्रास्थित सार्ध तैर्लब्धरन्ध्रो वणिग्जनै: ॥302॥
नागदत्तेऽन्गितं ज्ञात्वा कन्यका मौनमब्रवीत् । प्रीतिंकराद्विनात्रान्यैर्न वदाम्यहमित्यसौ ॥303॥
नागदत्तोऽपि कन्यैषा मूकीति प्रतिपादयन् । तां द्रव्यरक्षणेऽयौक्षीत्प्रीत्या स्वांगुलिसन्ज्ञया ॥304॥
क्रमात्म्वनगरं प्राप श्रेष्ठी प्रीतिंकरस्तदा । गतो भूतिलकं नायात्कुत इत्यवदत्स तम् ॥305॥
नागदत्तमसौ नाहं जानामीत्युत्तरं ददौ । भूषणानि समादाय समुद्रतटमागत: ॥306॥
नागदत्तेन पापेन स कुमारोऽतिसन्धित: । अदृष्ट्वा पोतमुर्द्विग्न: पुरं प्रति निवृत्तवान् ॥307॥
सचिन्तस्तत्र जैनेन्द्रगेहमेकं विलोक्य तम् । पुष्पादिभि: समभ्यर्च्य विधाय विधिवन्दनाम् ॥308॥
जिन त्वद्द्ष्टमात्रेण मत्पापं काप्यलीयत । निशि दीपेन वा ध्वान्तं समुन्मीलितचक्षुष: ॥309॥
चेतन: कर्मभिर्ग्रस्त: सर्वोऽप्यन्यदचेतनम् । सर्ववित्कर्मनिर्मुक्तो जिन केनोपमीयसे ॥310॥
सांखयादीन् लोकविख्यातान् सर्वथा सावधारणान् । एको भवान् जिनाजैषीच्चित्रं निरवधारण: ॥311॥
अबोधतमसाक्रान्तमनाद्यन्तं जगत्त्रयम् । सुप्तं त्वमेव जागसिं शश्वद्विश्वं च पश्यसि ॥312॥
वस्तुबोधे विनेयस्य जिनेन्द्र भवदागम: । निर्मल: शर्मदो हेतुरालोको वा सचक्षुष: ॥313॥
इत्थं स्वकृतसंस्तोत्र: शुद्धश्रद्धावबोधन: । सम्यक्संसारसद्भावं भावयन्कर्मनिर्मितम् ॥314॥
अभिषेचनशालायां सुप्तवान्किन्चिदाकुल: । तदा नन्दमहानन्दावागतौ गुह्यकामरौ ॥315॥
वन्दितुं मन्दिरं जैनं वीक्ष्य तं कर्णपत्रकम् । तौ तदीयं समादाय सधर्मा वां कुमारक: ॥316॥
इति प्रापयतं देवौ द्रव्येण महता सह । सुप्रतिष्ठं पुरं प्रीतिंकरमेनं प्रमोदिनम् ॥317॥
प्रेषणं युवयोरेतदस्माकमिति तद्रतम् । गुरो: सन्देशमालोक्य स्मृत्वा प्राग्भववृत्तकम् ॥318॥
वाराणस्यां पुरे पूर्व धनदेववणिक्पते: । भूत्वावां जिनदत्तायां शान्तवो रमण: सुतौ ॥319॥
तत्र शास्त्राणि सर्वाणि विदित्वा ग्रन्थतोऽर्थत: । चोरशास्त्रबलात्पापौ परार्थहरणे रतौ ॥320॥
अभूवास्मद्गुरूस्तस्मान्निवारयितुमक्षम: । सर्वसंगपरित्यागमकरोदतिदुस्तरम् ॥321॥
इतो धान्यपुराभ्यर्णशिखिभूधरनामनि । भूधरे मुनिमाहात्म्याद् दुष्टा: शार्दूलकादय: ॥322॥
मृगा: कांश्चिन्न बाधन्त इति श्रुत्वा जनोदितम् । कृततद्भूधरावासौ तत्र भूरितपोधनम् ॥323॥
दृष्ट्वा सागरसेनाख्यं तत्समीपे जिनोदितम् । श्रुत्वा धर्म परित्यज्य मधुमांसादिभक्षणम् ॥324॥
तस्मिन्गुरौ तत: सुप्रतिष्ठाख्यनगरं गते । शार्दूलोपद्रवान्मृत्वा देवभूयं गताविदम् ॥325॥
सर्वमेतद्गुरोरात्तव्रतादित्यभिमत्य तम् । गत्वा सम्प्राप्य सम्पूज्य किमावाभ्यां निदेशनम् ॥326॥
कर्तव्यमिति सम्पृष्टो मुनिनाथोऽब्रवीदसौ । अत: परं दिनै: कैश्चित्कर्तव्यं यद्भविष्यति ॥327॥
भवद्भयामेव तद्ज्ञात्वा विधेयमिति सादरम् । स एष तस्य सन्देश इति पत्रं प्रदश्य तत् ॥328॥
द्रव्येण बहुमा सार्ध विमानमधिरोप्य तम् । सुप्रतिष्ठपुराभ्यर्ण गिरिं धरणिभूषणम् ॥329॥
सद्य: प्रापयत: स्मैतौ किं न कुर्यादयोदय: । तदागमनमाकर्ण्य भूपतिस्तस्य बान्धवा: ॥330॥
नागराश्च विभूत्यैनं सम्मदात्समुपागता: । तेभ्य: प्रीतिंकरं दत्वा स्वावासं जग्मतु: सुरौ ॥331॥
पुरं प्रविश्य सद्रत्नै: स महीशमपूजयत् । सोऽपि सम्भाव्य तं स्थानमानादिभिरतोषयत् ॥332॥
अथान्येद्यु: कुमारस्य ज्यायसीं प्रियमित्रिकाम् । मातरं स्वतनूजस्य प्राप्ये परिणयोत्सवे ॥333॥
आत्मस्रुषामलंकर्तुं रत्नाभरणसंहतिम् । गृहीत्वा रथमारूह्य महादर्शनकर्मणे ॥334॥
यान्तीं द्रष्टुं समायाता रथ्यायां मूकिका स्वयम् । वीक्ष्य स्वभूषासन्दोहं स्पष्टमंगुलिसन्ज्ञया ॥335॥
मदीयमेतदित्युक्त्वा जनान् सा तां रथस्थिताम् । रूध्वा स्थितवती सापि प्राहैषा ग्रहिलेति ताम् ॥336॥
तद्ज्ञाश्च मन्त्रतन्त्रादिविधिभि: सुप्रयोजितै: । परीक्ष्येयं न भूतोपसृष्टेति व्यक्तमब्रुवन् ॥337॥
कुमारोऽपि तदाकर्ण्य न बिभेतु कुमारिका । राजाभ्याशं समभ्येतु तत्राहं चास्म्युपस्थित: ॥338॥
इत्यस्या: प्राहिणोत्पत्रं गूढं तद्वीक्ष्य तत्तथा । श्रद्धायाह्णायिता राज्ञ: समीपमगमन्मुदा ॥339॥
तदाभरणवृत्तान्तपरिच्छेदाय भूपति: । धर्माध्यक्षान्समाहूय विचाराय न्ययोजयत् ॥340॥
वसुन्धरान्च तत्रैव कृत्वा सन्निहितां तदा । राजा कुमारमप्राक्षीद्वेत्तीदं किं भवानिति ॥341॥
अभिधाय स्वविज्ञातं शेषं वेत्तीयमेव तत् । देवता नाहमित्येवं सोऽपि भूपमबोधयत् ॥342॥
गन्धादिभि: समभ्यर्च्य तां पटान्तरितां नृप: । देव ते ब्रूहि यद्दृष्टं तत्तथेत्यनुयुक्तवान् ॥343॥
सा नागदत्तदुश्चेष्टां महीनाथमबूबुधत् । श्रुत्वा तत्सुविचार्यास्मै कुपित्वानेन पापिना ॥344॥
कृत: पुत्रवध: स्वामिवधश्चेति महीपति: । सर्वस्वहरणं कृत्वा निगृहीतुं तमुद्यत: ॥345॥
प्रतिषिद्ध: कुमारेण नैतद्युक्तं तवेति स: । सौजन्यतस्तदा तुष्ट्वा कुमाराय निजात्मजाम् ॥346॥
पृथिवीसुन्दरीं नाम्ना कन्यकान्च वसुन्धराम् । द्वात्रिंशद्वैश्यपुत्रीश्च कल्याणविधिना ददौ ॥347॥
सह पूर्वधनस्थानमर्धराज्यन्च मावते । पुरा विहितपुण्यानां स्वयमायान्ति सम्पद: ॥348॥
प्रीत: प्रीतिंकरस्तत्र कामभोगान्समीप्सितान् । स्वेच्छया वर्धमानेच्छश्चिरायानुबभूव स: ॥349॥
मुनौ सागरसेनाख्ये सन्न्यस्यान्येद्युरीयुषि । लोकान्तरं तदागत्य चारणौ समुपस्थितौ ॥350॥
ऋजुश्च विपुलाख्यश्च मत्यन्तौ मतिभूषणौ । रम्ये मनोहरोद्याने गत्वा स्तुत्वा वणिग्वर: ॥351॥
धर्मं समन्वयुड्.क्तैतावित्याहर्जुमतिस्तयो: । धर्मोऽपि द्विविधो ज्ञेय: स गृहागृहभेदत: ॥352॥
एकादशविधस्तत्र धर्मो गृहनिवासिनाम् । श्रद्धा न व्रतभेदादि: शेषो दशविध: स्मृत: ॥353॥
क्षान्त्यादि: कर्मविध्वंसी तच्छूत्वा तदनन्तरम् । स्वपूर्वभवसम्बन्धं पप्रच्छैवन्च सोऽब्रवीत् ॥354॥
श्रृणु सागरसेनाख्यमुनिमातपयोगिनम् । पुरेऽस्मिन्नेव भूपालप्रमुखा वन्दितुं गता: ॥355॥
नानाविधार्चनाद्रव्यै: सम्पूज्य पुरमागता: । शंखतूर्यादिनिर्घातं श्रुत्वैकमिह जम्बुकम् ॥356॥
कश्चिल्लोकान्तरं यात: पुरेऽद्यैतं जनो बहि: । क्षिप्त्वा यातु ततो भक्षयिष्यामीत्यागतं मुनि: ॥357॥
भव्योऽयं व्रतमादाय मुक्तिमाशु गमिष्यति । इति मत्वा तमासन्नमसावेवमभाषत ॥358॥
प्राग्जन्मकृतपापस्य फलेनाभू: श्रृगालक: । इदानीन्च कुधी: साधुसमायोगेऽपि मन्यसे ॥359॥
दुष्कर्म विरमैतस्माद्दुरन्तदुरितावहात् । गृहाण व्रतमभ्येहि परिणामशुभावहम् ॥360॥
इति तद्वचनादेष मुनिर्मन्मनसि स्थितम् । ज्ञातवानिति संजातसम्मदं स श्रृगालकम् ॥361॥
मुनिस्तदिंगिताभिज्ञ: पुनरेवं समब्रवीत् । त्वमन्यस्य न शक्नोषि व्रतस्यामिषलालस: ॥362॥
गृहाणेदं व्रतं श्रेष्ठं रात्रिभोजनवर्जनम् । परलोकस्य पाथेयमिति धर्म्य मुनेर्वच: ॥363॥
श्रुत्वा भक्त्या परीत्यैनं प्रणम्य कृतसम्मद: । गृहीत्वा तद्व्रतं मद्यमांसादीनि च सोऽत्यजत् ॥364॥
तदा प्रभृति शाल्यादि विशुद्धाशनमाहरन् । अतिकृच्छूं तप: कुर्वन् कन्चित्कालमजीगमत् ॥365॥
शुष्काहारमथान्येद्युर्भुक्त्वा तृष्णातिबाधित: । अकास्तमयवेलायां पय:पानाभिलाषया ॥366॥
कूपं सोपानमार्गेण प्रविश्यान्त: किमप्यसौ । तत्रालोकमनालोक्य दिनेशोऽस्तमुपागत: ॥367॥
इति निर्गत्य दृष्ट्वामां पुन: पातुं प्रविष्टवान् । गोमायुरेवं द्विस्त्रिर्वा कुर्वस्तत्र गमागमौ ॥368॥
दिनेशमस्तमानीय सोढतृष्णापरीषह: । विशुद्धपरिणामेन मृतिमित्वा दृढव्रत: ॥369॥
एवं कुबेरदतस्य भूत्वा प्रीतिंकर: सुत: । व्रतेन धनमित्रायामीदृगैश्वर्यमाप्तवान् ॥370॥
इति तद्वचनाज्जातसंवेगस्तं यतीश्वरम् । शंसन् व्रतस्य माहात्म्यमभिवन्द्य ययौ गृहम् ॥371॥
निर्व्रत: संसृतौ दीर्घमश्ननन् दु:खान्यनारतम् । अपारं खेदमायाति दुर्भिक्षे दुर्विधो यथा ॥372॥
व्रतात्प्रत्ययमायाति निर्व्रत: शंकयते जनै: । व्रती सफलवृक्षो वा निर्व्रतो वन्ध्यवृक्षवत् ॥373॥
अभीष्टफलमाप्नोति व्रतवान्परजन्मनि । न व्रतादपरो बन्धुर्नाव्रतादपरो रिपु: ॥374॥
सर्वैर्वाग्वतिनो ग्राह्या निर्व्रतस्य न केनचित् । उग्राभिर्देवताभिश्च व्रतवान्नाभिभूयते ॥375॥
जरन्तोऽपि नमन्त्येव व्रतवनतं वयोनवम् । वयोवद्धो व्रताद्धीनस्तृणवद्गण्यते जनै: ॥376॥
प्रवृत्यादीयते पापं निवृत्या तस्य सड्.क्षय: । व्रतं निवृत्तिमेवाहुस्तद्गृह्णात्युत्तमो व्रतम् ॥377॥
व्रतेन जायते सम्पन्नाव्रतं सम्पदे भवेत् । तस्मात्सम्पदमाकांक्षन्नि:कांक्ष: सुव्रतो भवेत् ॥378॥
स्वर्गापवर्गयोर्बीजं जन्तो: स्वल्पमपि व्रतम् । तत्र प्रीतिंकरो वाच्यो व्यक्तं दृष्टान्तकांक्षिणाम् ॥379॥
पूर्वोपात्तव्रतस्येष्टं फलमत्रानुभूयते । कचित्कदाचित्किन्चिर्त्कि जायते कारणाद्विना ॥380॥
कारणादिच्छता कार्य कार्ययो: सुखदु:खयो: । धर्मपापे विपर्यस्ते तदा वान्यत्तदीक्ष्यताम् ॥381॥
धर्मपापे विमुच्यान्यद्द्वितयं कारणं वदन् । को विधीर्व्यसनी नोचेन्निर्घृणो नास्तिकोऽथवा ॥382॥
धीमानुदीक्षते पश्यन् जन्मनोऽस्य हिताहिते । भाविनस्ते प्रपश्यन्त: स्युर्न धीमत्तमा: कथम् ॥383॥
इति मत्वा जिनप्रोक्तं व्रतमादाय शुद्धधी: । स्वर्णापवर्गसौख्याय यतेताविष्कृतोद्यम: ॥384॥
अथ प्रियंकराख्याय साभिषेकं स्वसम्पदम् । वसुन्धरातुजे प्रीतिंकरोऽदत्त विरक्तधी: ॥385॥
एत्य राजगृहं सार्ध बहुभिर्भृत्यबान्धवै: । भगवत्पार्श्वमासाद्य संयमं प्राप्तवानयम् ॥386॥
निश्चयव्यवहारात्मसारनिर्वाणसाधनम् । त्रिरूपमोक्षसन्मार्गभावनं तद्वलोदयात् ॥387॥
निहत्य घातिकर्माणि प्राप्यानन्तचतुष्टयम् । अघातीनि च विध्वस्य पारमात्म्यं प्रयास्यति ॥388॥
इति श्रीमद्गणाधीशनिदेशान्मगधेश्वर: । प्रीतवानभिवन्द्यायान्मन्वान: स्वकृतार्थताम् ॥389॥
अथान्यदा महाराज: श्रेणिक: क्षायिकीं दृशम् । दधन्नत्वा गणाधीशं कुड्मलीकृतहस्तक: ॥390॥
शेषावसर्पिणीकालस्थितिं निरवशेषत: । आगाम्युत्सर्पिणीकालस्थितिमप्यनुयुक्तवान् ॥391॥
गणी निजद्विजाभीषुप्रसरै: प्रीणयन् सभाम् । गिरा गम्भीरया व्यक्तमुक्तवानिति स क्रमात् ॥392॥
चतुर्थकालपर्यन्ते स्थिते संवत्सरत्रये । साष्टमासे सपक्षे स्वात्सिद्ध: सिद्धार्थनन्दन: ॥393॥
दुष्षमाया: स्थितिर्वर्षसहस्त्राण्येकविंशति: । शतवर्षायुषस्तस्मिन्त्नुकृष्टेन मता नरा: ॥394॥
सप्तारत्निप्रमाणांगा रूक्षच्छाया विरूपका: । त्रिकालाहारनिरता: सुरतासक्तमानसा: ॥395॥
परेऽपि दोषा: प्रायेण तेषां स्यु: कालदोषत: । यतोऽस्यां पापकर्माणो जनिष्यन्ते सहस्त्रश: ॥396॥
यथोक्तभूभुजाभावाज्जाते वर्णादिसंकरे । दुष्षमायां सहस्त्राब्दव्यतीतौ धर्माहानित: ॥397॥
पुरे पाटलिपुत्राख्ये शिशुपालमहीपते: । पापी तनूज: पृथिवीसुन्दर्या दुर्जनादिम: ॥398॥
चतुर्मुखाह्णय: कल्किराजो वेजितभूतल: । उत्पत्स्यते माघसंवत्सरयोगसमागमे ॥399॥
समानां सप्ततिस्तस्य परमायु: प्रकीर्तितम् । चत्वारिंशत्समा राज्यस्थितिश्चाक्रमकारिण: ॥400॥
षण्णवत्युक्तपाषण्डिवर्गस्याज्ञाविधायिन: । निजभृत्यत्वमापाद्य महीं कृत्स्त्रां स भोक्ष्यति ॥401॥
अथान्येद्यु: स्वमिथ्यात्वपाकाविष्कृतचेतसा । पाषाण्डिषु किमस्माकं सन्त्यत्राज्ञापराड्.मुखा: ॥402॥
कथ्यतामिति पापेन प्रष्ठव्यास्तेन मन्त्रिण: । निर्ग्रन्था: सन्ति देवेति ते वदिष्यन्ति सोऽपि तान् ॥403॥
आचार: कीदृशस्तेषामिति प्रक्ष्यति भूपति: । निजपाणिपुटामत्रा धनहीना गतस्पृहा: ॥404॥
अहिंसाव्रतरक्षार्थ त्यक्तचेलादिसंवरा: । साधनं तपसो मत्वा देहस्थित्यर्थमाह्णतिम् ॥405॥
एकद्वयुपोषितप्रान्ते भिक्षाकालेऽगंदर्शनात् । निर्याचनात्स्वशास्त्रोक्तां ग्रहीतुमभिलाषिण: ॥406॥
आत्मनो घातके त्रायके च ते समदर्शिन: । क्षुत्पिपासादिबाधाया: सहा: सत्यपि कारणे ॥407॥
परपाषण्डिवन्नान्यैरदत्तमभिलाषुका: । सर्पा वा विहितावासा ज्ञानध्यानपरायणा: ॥408॥
अनृसंचारदेशेषु संवसन्ति मृगै: समम् । इति वक्ष्यन्ति दृष्टं स्वैर्विशिष्टास्तेऽस्य मन्त्रिण: ॥409॥
श्रुत्वा तत्सहितुं नाहं शंकोम्यक्रमवर्तनम् । तेषां पाणिपुटे प्राच्य: पिण्ड: शुल्को विधीयताम् ॥410॥
इति राजोपदेशेन याचिष्यन्ते नियोगिन: । अग्रपिण्डमभुंजाना: स्थास्यन्ति मुनयोऽपि ते ॥411॥
तद्दृष्ट्वा दर्पिणो नग्ना नाज्ञां राज्ञ: प्रतीप्यव: । किं जातमिति ते गत्वा ज्ञापयिष्यन्ति तं नृपम् ॥412॥
सोपि पाप: स्वयं क्रोधादरूणीभूतवीक्षण: । उद्यमी पिण्डमाहर्तु प्रस्फुरद्दशनच्छद: ॥413॥
सोढुं तदक्षम: कश्चिदसुर: शुद्धदृक्तदा । हनिष्यति तमन्यायं शक्त: सन् सहते न हि ॥414॥
सोऽपि रत्नप्रभां गत्वा सागरोपमजीवित: । चिरं चतुर्मुखो दु:खं लोभादनुभविष्यति ॥415॥
धर्मनिर्मूलविध्वंसं सहन्ते न प्रभावुका: । नास्ति सावद्यलेशेन विना धर्मप्रभावना ॥416॥
धर्मो माता पिता धर्मो धर्मस्त्राताभिवर्धक: । धर्ता भवभृतां धर्मो निर्मले निश्चले पदे ॥417॥इस संसार में धर्म ही प्राणियोंकी माता है, धर्म ही पिता है, धर्म ही रक्षक है, धर्म ही बढ़ाने
धर्मध्वसे सतां ध्वंसस्तस्माद्धर्मद्रुहोऽधमान् । निवारयन्ति ये सन्तो रक्षितं तै: सतां जगत् ॥418॥
निमित्तैरष्टधाप्रोक्तैस्तपोभिर्जनरंजनै: । धर्मोपदेशनैरन्यवादिदर्पातिशातनै: ॥419॥
नृपचेतोहरै: श्रव्यै: काव्यै: शब्दार्थसुन्दरै: । सद्भि: शौर्येण वा कार्य शासनस्य प्रकाशनम् ॥420॥
चिन्तामणिसमा: केचित्प्रार्थितार्थप्रदायिन: । दुर्लभा धीमतां पूज्या धन्या धर्मप्रकाशका: ॥421॥
रूचि: प्रवर्तते यस्य जैनशासनभासने । हस्ते तस्य स्थिता मुक्तिरिति सूत्रे निगद्यते ॥422॥
स शाब्द: स हि तर्कज्ञ: स सैद्धान्त: स सत्तपा: । य: शासनसमुद्भासी न चेत्किं तैरनर्थकै: ॥423॥
भास्वतेव जगद्येन भासते जैनशासनम् । तस्य पादाम्बुजद्वन्द्वं ध्रियते मूर्ध्नि धार्मिकै: ॥424॥
उदन्वानिव रत्नस्य मलयश्चन्दनस्य वा । धर्मस्य प्रभव: श्रीमान् पुमान् शासनभासन: ॥425॥
कण्टकानिव राज्यस्य नेता धर्मस्य कण्टकान् । सदोद्धरतिसोद्योगो य: स लक्ष्मीधरो भवेत् ॥426॥
प्रमदप्रसवाकीर्णे मनोरंगे महानट: । नटताज्जैनसद्धर्मभासनाभिनयो मम ॥427॥
तनूज: कल्किराजस्य बुद्धिमानजितंजय: । पत्न्या वालनया सार्ध यात्येनं शरणं सुरम् ॥428॥
सम्यग्दर्शनरत्नंच महार्घ स्वीकरिष्यति । जिनेन्द्रधर्ममाहात्म्यं दृष्ट्वा सुरविनिर्मितम् ॥429॥
तदा प्रभृति दुर्दर्पस्त्याज्य: पाषण्डिपापिभि: । कंचित्कालं जिनेन्द्रोक्तधर्मो वर्तिष्यतेतराम् ॥430॥
एवं प्रतिसहस्त्राब्दं तत्र विंशतिकल्किषु । गतेषु तेषु पापिष्ठ: पश्चिमो जलमन्थन: ॥431॥
राज्ञां स भविता नाम्ना तदा मुनिंषु पश्चिम: । चन्दाचार्यस्य शिष्य: स्यान्मुनिर्वीरांगजाह्णय: ॥432॥
सर्वश्रीरार्यिकावर्गे पश्चिम: श्रावकोत्तम: । अग्निल: फल्गुसेनाख्या श्राविका चापि सद्व्रता ॥433॥
एते सर्वेऽपि साकेतवास्तव्या दुष्षमान्त्यजा: । सत्सु पंचमकालस्य त्रिषु वर्षेष्वथाष्टसु ॥434॥
मासेष्वह:सु मासार्धमितेषु च सुभावना: । कार्तिकस्यादिपक्षान्ते पूर्वाह्णे स्वातिसंगमे ॥435॥
वीरांगजोऽग्निल: सर्वश्रीस्त्यक्त्वा श्राविकापि सा । देहमायुश्च सद्धर्माद् गमिष्यन्त्यादिमां दिवम् ॥436॥
मध्याह्ने भूभुजो ध्वंस: सायाह्ने पाकभोजनम् । षट्कर्मकुलदेशार्थहेतुधर्माश्च मूलत: ॥437॥
सार्ध स्वहेतुसम्प्राप्तौ प्राप्स्यन्ति विलयं ध्रुवम् । ततोऽतिदुष्षमादौ स्युर्विशत्यब्दपरायुष: ॥438॥
नरोऽर्धाभ्यधिकारत्नित्रयमानशरीरका: । सतताहारित: पापा गतिद्वयसमागता: ॥439॥
पुनस्तदेव यास्यन्ति तिर्यड्.नारकनामकम् । कार्पासवसनाभावाद् गतेष्वब्देषु केषुचित् ॥440॥
पर्णादिवसना: कालस्यान्ते नग्ना यथेप्सितम् । चरिष्यन्ति फलादीनि दीना: शाखामृगोपमा: ॥441॥
एकविंशतिरब्दानां सहस्त्राण्यल्पवृष्टय: । जलदा: कालदोषेण कालो हि दुरतिक्रम: ॥442॥
क्रमाद्धीबलकायायुरादिहासो भविष्यति । प्रान्ते षोडशवर्षायुर्जीविनो हस्तदेहका: ॥443॥
अस्थिराद्यशुभान्येव प्रफलिष्यन्ति नामसु । कृष्णा रूक्षतनुच्छाया दुर्भगा दुस्वरा: खला: ॥444॥
दुरीक्ष्या विकटाकारा दुर्बला विरलद्विजा: । निमग्नवक्षोगण्डाक्षिदेशाश्चिपुटनासिका: ॥445॥
त्यक्तसर्वसदाचारा: क्षुत्पिपासादिबाधिता: । सरोगा निष्प्रतीकारा दु:खास्वादैकवेदिन: ॥446॥
एवं गच्छति कालेऽस्मिन्नेतस्य परमावधौ । निश्शेषशोषमेताम्बु शरीरमिव संक्षयम् ॥447॥
अतिरौक्ष्या धरा तत्र भाविनी स्फुटिता स्फुटम् । विनाशचिन्तयेवांघ्रिपाश्च प्रम्लानयष्टय: ॥448॥
प्रलय: प्राणिनामेवं प्रायेणोपजनिष्यते । सुरसिन्धोश्च सिन्धोश्च खेचराद्रेश्च वेदिका: ॥449॥
श्रित्वा नदीसमुद्भूतमीनमण्डूककच्छपान् । कृत्वा कर्कटकादींश्च निजाहारान्मनुष्यका: ॥450॥
विष्ट्वा क्षुद्रबिलादीनि द्वासप्ततिकुलोद्भवा: । हीना दीना दुराचारास्तदा स्थास्यन्ति केचन ॥451॥
सरसं विरसं तीक्ष्णं रूक्षमुष्णं विषं विषम् । क्षारं मेघा: क्षरिष्यन्ति सप्त सप्तदिनान्यलम् ॥452॥
ततो धरण्या वैषम्यविगमे सति सर्वत: । भवेच्चित्रा समा भूमि: समाप्तात्रावसर्पिणी ॥453॥
इतोऽतिदुष्षमोत्सर्पिण्या: पूर्वोक्तप्रमाणभाक् । वर्तिष्यति प्रजावृद्धयै तत: क्षीरपयोधरा: ॥454॥
तावद्दिननिबन्धेन निर्विराममहर्दिवम् । पय: पयांसि दास्यन्ति धात्री त्यक्ष्यति रूक्षताम् ॥455॥
तन्निबन्धनवर्णादिगुणं चावाप्स्यति क्रमात् । तथैवामृतमेघाश्च तावद्दिवसगोचरा: ॥456॥
वृष्टिमापातयिष्यतिं निष्पत्स्यन्तेऽत्र पूर्ववत् । ओषध्यस्तरवो गुल्मतृणादीन्यप्यनन्तरम् ॥457॥
ततो रसाधिकाम्भोदवर्षणात्षडूसोद्भव: । यस्यामादौ बिलादिभ्यो निर्गत्य मनुजास्तदा ॥458॥
तेषां रसोपयोगेन जीविष्यन्त्याप्तसम्मदा: । वृद्धिर्गलति कालेऽस्मिन् क्रमात्प्राग्हासमात्मनाम् ॥459॥
तन्वादीनां पुनर्दुष्षमासमाया: प्रवेशने । आयुर्विशतिवर्षाणि नराणां परमं मतम् ॥460॥
सार्धारत्नित्रयोत्सेधदेहानां वृद्धिमीयुषाम् । प्राक्प्रणीतप्रमाणेऽस्मिन् । काले विमलबुद्धय: ॥461॥
षोडशाविर्भविष्यन्ति क्रमेण कुलधारिण: । प्रथमस्य मनागूना तनुश्चतुररत्निषु ॥462॥
अन्त्यस्यापि तनु: सप्तारत्निभि: सम्मिता भवेत् । आदिम: कनकस्तेषु द्वितीय: कनकप्रभ: ॥463॥
तत: कनकराजाख्यश्चतुर्थ: कनकध्वज: । कनक: पुंगवान्तोऽस्मान्नलिनो नलिनप्रभ: ॥464॥
ततो नलिनराजाख्यो नवमो नलिनध्वज: । पुंगवान्तश्च नलिन: पद्म: पद्मप्रभाह्नय: ॥465॥
पद्मराजस्तत: पद्मध्वज: पद्मादिपुंगव: । महापद्मश्च विज्ञेया: प्रज्ञापौरूषशालिन: ॥466॥
एतेषां क्रमश: काले शुभभावेन वर्धनम् । महीसलिलकालानां धान्यादीनांच संगतम् ॥467॥
मनुष्याणामनाचारत्यागो योग्यान्नभोजनम् । काले परिमिते मैत्री लज्जा सत्यं दया दम: ॥468॥
सन्तुष्टिर्विनयक्षान्ती रागद्वेषाद्यतीव्रता । इत्यादि साधुवृत्तंच वह्निपाकेन भोजनम् ॥469॥
द्वितीयकाले वर्तेत तृतीयस्य प्रवर्तने । सप्तारत्निप्रमाणांगा: खद्वयेकाब्दायुषो नरा: ॥470॥
ततस्तीर्थकरोत्पत्तिस्तेषां नामाभिधीयते । आदिम: श्रेणिकस्तस्मात्सुपार्श्वोदंकसंज्ञक: ॥471॥
प्रोष्ठिलाख्य: कटप्रूश्च क्षत्रिय: श्रेष्ठिसंज्ञक: । सप्तम: शंखनामा च नन्दनोऽय सुनन्दवाक् ॥472॥
शशांक: सेवक: प्रेमकश्चातोरणसंज्ञक: । रैवतो वासुदेवाख्यो बलदेवस्तत: पर: ॥473॥
भगलिर्वागलिर्द्वैपायन: कनकसंज्ञक: । पादान्तो नारदश्चारूपाद: सत्यकिपुत्रक: ॥474॥
त्रयोर्विशतिरित्येते सप्तारत्निप्रमादिका: । तत्रैवान्येऽपि तीर्थेशाश्चतुर्विशतिसम्मिता: ॥475॥
तत्राद्य: षोडशप्रान्तशताब्दायु:प्रमाणक: । सप्तारत्नितनूत्सेघश्चरमस्तीर्थनायक: ॥476॥
पूर्वकोडिमिताब्दायुश्चापपंचशतोच्छिूति: । तेषामाद्यो महापद्म: सुरदेव: सुपार्श्ववाक् ॥477॥
स्वयंप्रभश्च सर्वात्मभूताख्यो देवपुत्रवाक् । कुलपुत्रस्तथोदंक: प्रोष्ठिलो जयकीर्तिवाक् ॥478॥
मुनिसुव्रतनामारसंज्ञोऽपापाभिधानक: । निष्कषाय: सविपुलो निर्मलश्चित्रगुप्तक: ॥479॥
समाधिगुप्तसंज्ञश्च स्वयम्भूरिति नामभाक् । अनिवर्ती च विजयो विमलो देवपालवाक् ॥480॥
अनन्तवीर्यो विश्वेन्द्रवन्दिताडि्.घ्रसरोरूह: । कालेऽस्मिन्नेव चक्रेशा भाविनो द्वादशोच्छिूय: ॥481॥
भरतो दीर्घदन्तश्च मुक्तदन्तस्तृतीयक: । गूढदन्तश्चतुर्थस्तु श्रीषेण: पंचमो मत: ॥482॥
षष्ठ: श्रीभूतिशब्दाख्य: श्रीकान्त: सप्तम: स्मृत: । पद्मोऽष्टमो महापद्मो विचित्रादिश्च वाहन: ॥483॥
दशमोऽस्मात्पर: ख्यातश्चक्री विमलवाहन: । अरिष्टसेन: सर्वान्त्य: सम्पन्न: सर्वसम्पदा ॥484॥
सीरिणोऽपि नवैवात्र तत्राद्यश्चन्द्रनामक: । महाचन्द्रो द्वितीय: स्यात्ततश्चक्रधरो भवेत् ॥485॥
हरिचन्द्राभिध: सिंहचन्द्रश्चन्द्रो वरादिक: । पूर्णचन्द्र: सुचन्द्रश्च श्रीचन्द्र: केशवार्चित: ॥486॥
केशवाश्च नवैवात्र तेष्वाद्यो नन्दिनामक: । नन्दिमित्रो द्वितीय: स्यान्नन्दिषेणस्तत: पर: ॥487॥
नन्दिभूतिश्चतुर्थस्तु प्रतीत: पंचमो बल: । षष्ठो महाबलस्तेषु सप्तमोऽतिबलाह्नय: ॥488॥
अष्टमोऽभूत् त्रिपृष्ठाख्यो द्विपृष्ठो नवमो विभु: । तद्वैरिणापि तावन्त एव विज्ञेयसंज्ञका: ॥489॥
ततस्तत्कालपर्यन्ते भवेत्सुषमदुष्षमा । आदौ तस्या मनुष्याणां पंचचापशतोच्छिूति: ॥490॥
साधिका पूर्वकोठयायु:स्थितिर्यातेषु केषुचित् । वर्षेषु निर्विशेषात्र जघन्यार्यजनस्थिति: ॥491॥
तत: पंचमकालेऽपि मध्यभोगभुव: स्थिति: । षष्ठकालेऽपि विज्ञेया वर्यभोगभुव: स्थिति: ॥492॥
एवं शेषनवस्थानकर्मभूमिषु वर्तनम् । एवं कल्पस्थिति: प्रोक्ता भूतेष्वपि च भाविषु ॥493॥
एष एव विधिर्ज्ञेय: कल्पेषु जिनभाषित: । विदेहेषु च सर्वेषु पंचचापशतोच्छिूति: ॥494॥
मनुष्याणां परंचायु: पूर्वकोटिमितं मतम् । तत्र तीर्थकृतश्चक्रवर्तिनो रामकेशवा: ॥495॥
पृथक्पृथग्बहुत्वेन शतं षष्ठयधिकं स्मृता: । अल्पत्वेनापि ते र्विशतिर्भवन्ति पृथक्पृथक् ॥496॥
उत्कृष्टेन शतं सप्ततिश्च स्यु: सर्वभूमिजा: । उत्पद्यन्ते नरास्तत्र चतुर्गतिसमागता: ॥497॥
गतीर्गच्छन्ति पंचापि निजाचारवशीकृता: । भोगभूमिषु सर्वासु कर्मभूमिसमुद्भवा: ॥498॥
मनुष्या: सन्ज्ञिनस्तिर्यंचश्च यान्त्युपपादनम् । आदिकल्पद्वये भावनादिदेवेषु च त्रिषु ॥499॥
जीवितान्ते नियोगेन सर्वे ते देवभाविन: । मनुष्येषूत्तमा भोगभूमिजा: कर्मभूभुव: ॥500॥
निजवृत्तिविशेषेण त्रिविधास्ते प्रकीर्तिता: । शलाकापुरूषा: काम: खगाश्चान्ये सुरार्चिता: ॥501॥
सन्तो दिव्यमनुष्या: स्यु: षष्ठकाला: कनिष्ठका: । एकोरूकास्तथा भाषाविहीना: शंकुकर्णका: ॥502॥
कर्णप्रावरणालम्बशशकाश्वादिकर्णका: । अश्वसिंहमुखाश्चान्ये दुष्प्रेक्ष्या महिषानना: ॥503॥
क्रोलव्याघ्रमुखाश्चैवमुलूकमुखनामका: । शाखामृगमुखा मत्स्यमुखा: कालमुखास्तथा ॥504॥
गोमेषमेघवक्त्राश्च विद्युदादर्शवक्त्रका: । हस्तिवक्त्रा कुमानुष्यजा लांगूलविषाणिन: ॥505॥
एते च नीचकायस्मादन्तरद्वीपवासिन: । म्लेच्छखण्डेषु सर्वेषु विजयार्धेषु च स्थिति: ॥506॥
तीर्थकृत्कालवद्व्रद्धिहासवत्कर्मभूमिषु । इदंच श्रेणिकप्रश्नादिन्द्रभूतिर्गणाधिप: ॥507॥
इत्याह वचनाभीषु निरस्तान्तस्तमस्तति: । इहान्त्यतीर्थनाथोऽपि विह्णत्य विषयान् बहून् ॥508॥
क्रमात्पावापुरं प्राप्य मनोहरवनान्तरे । बहूनां सरसां मध्ये महामणिशिलातले ॥509॥
स्थित्वा दिनद्वयं वीतविहारो वृद्धनिर्जर: । कृष्णकार्तिकपक्षस्य चतुर्दश्यां निशात्यये ॥510॥
स्वातियोगे तृतीयेद्धशुल्कध्यानपरायण: । कृतत्रियोगसंरोध: समुच्छिन्नक्रियं श्रित: ॥511॥
हताघातिचतुष्क: सन्नशरीरो गुणात्मक: । गन्ता मुनिसहस्त्रेण निर्वाणं सर्ववान्छितम् ॥512॥
तदेव पुरूषार्थस्य पर्यन्तोऽनन्तसौख्यकृत् । अथ सर्वेऽपि देवेन्द्रा वह्नीन्द्रमुकुटस्फुरत् ॥513॥
हुताशनशिखान्यस्ततद्देहा मोहविद्विषम् । अभ्यर्च्य गन्धमाल्यादिद्रव्यैर्दिव्यैर्यथाविधि ॥514॥
वन्दिष्यन्ते भवातीतमर्थ्यैर्वन्दारव: स्तवै: । वीरनिर्वृतिसम्प्राप्तदिन एवास्तघातिक: ॥515॥
भविष्याम्यहमप्युद्यत्केवलज्ञानलोचन: । भव्यानां धर्मदेशेन विह्णत्य विषयांस्तत: ॥516॥
गत्वा विपुलशब्दादिगिरौ प्राप्स्यामि निर्वृतिम् । मन्निर्वृतिदिने लब्धा सुधर्म: श्रुतपारग: ॥517॥
लोकालोकावलोकैकालोकमन्त्यविलोचनम् । तन्निर्वाणक्षणे भावी जम्बूनामात्तकेवल: ॥518॥
अन्त्य: केवलिनामस्मिन्भरते स प्ररूप्यते । नन्दी मुनिस्तत: श्रेष्ठो नन्दिमित्रोऽपराजित: ॥519॥
गोवर्धनश्चतुर्थोऽन्यो भद्रबाहुर्महातपा: । नानानयविचित्रार्थसमस्तश्रुतपूर्णताम् ॥520॥
एते क्रमेण पंचापि प्राप्स्यन्त्याप्तविशुद्धय: । ततो भावी विशाखार्य: प्रोष्ठिल: क्षत्रियान्तक: ॥521॥
जयनामानुनागाह्न: सिद्धार्थो धृतिषेणक: । विजयो बुद्धिलो गंगदेवश्च क्रमतो मता: ॥522॥वही उनका, अनन्त सुख को करनेवाला सबसे बड़ा पुरूषार्थ होगा-उनके पुरूषार्थकी वही अन्तिम सीमा होगी । तदनन्तर इन्द्रादि सब देव आवेंगे और अग्नीन्द्रकुमार के मुकुटसे प्रज्वलित होनेवाली अग्निकी शिखा पर भगवान् महावीर स्वामी का शरीर रक्खेंगे । स्वर्गसे लाये हुए गन्ध, माला आदि उत्तमोत्तम पदार्थों के द्वारा मोहके शत्रुभूत उन तीर्थंकर भगवान् की विधिपूर्वक पूजा करेंगे । जिस दिन भगवान् स्वामीको निर्वाण प्राप्त होगा उसी दिन मैं भी घातिया कर्मों को नष्ट कर केवलज्ञान रूपी नेत्र को प्रकट करनेवाला होऊँगा और भव्य जीवों को धर्मोपदेश देता हुआ अनेक देशोंमें विहार करूँगा । तदनन्तर विपुलाचल पर्वतपर जाकर निर्वाण प्राप्त करूँगा । मेरे निर्वाण जानेके दिन ही समस्त-श्रुतज्ञान के पारगामी सुधर्म गणधर भी लोक और अलोकको प्रकाशित करनेवाले केवलज्ञान रूपी अन्तिम लोचनको प्राप्त करेंगे और उनके मोक्ष जानेके समय ही जम्बू स्वामी केवलज्ञान प्राप्त करेंगे । वह जम्बू स्वामी भरत क्षेत्र में अन्तिम केवली कहलावेंगे ।
एकादश सह श्रीमद्धर्मसेनेन धीमता । द्वादशांगार्थकुशला दशपूर्वधराश्च ते ॥523॥
भव्यानां कल्पवृक्षा: स्युर्जिनधर्मप्रकाशका: । ततो नक्षत्रनामा च जयपालश्च पाण्डुना ॥524॥
द्रुमसेनोऽनुकंसार्यो विदितैकादशांगका: । सुभद्रश्च यशोभद्रो यशोबाहु: प्रकृष्ठधी: ॥525॥
लोहनामा चतुर्थ: स्यादाचारांगविदस्त्वमी । जिनेन्द्रवदनोद्गीर्ण पावनं पापलोपनम् ॥526॥
श्रुतं तपोभृतामेषां प्रणेष्यति परम्परा । शेषैरपि श्रुतज्ञानस्यैको देशस्तपोधनै: ॥527॥
जिनसेनानुगैर्वीरसेनै: प्राप्तमहर्द्धिभि: । समाप्ते दुष्षमाया: प्राक्प्रायशो वर्तयिष्यते ॥528॥
भरत: सागराख्योऽनु सत्यवीर्यो जनै: स्तुत: । महीशो मित्रभावाह्नो मित्रवीर्योऽर्यमद्युति: ॥529॥
धर्मदानादिवीर्यौ च मघवान् बुद्धवीर्यक: । सीमन्धरस्त्रिपृष्ठाख्य: स्वयम्भू: पुरूषोत्तम: ॥530॥
पुण्डरीकान्तपुरूषो दत्त: सत्यादिभि: स्तुत: । कुनाल: पालक: पृथ्व्या: पतिर्नारायणो नृणाम् ॥531॥
सुभौम: सार्वभौमौऽजितंजयो विजयाभिध: । उग्रसेनो महासेनो जिनस्त्वं श्रेणिकेत्यमी ॥532॥
सर्वे क्रमेण श्रीमन्तो धर्मप्रश्नविदां वरा: । चतुर्विशतितीर्थेशां सन्ततं पादसेविन: ॥533॥
पुरूरवा: सुर: प्राच्यकल्पेऽभूद्भरतात्मज: । मरीचिर्ब्रह्मकल्पोत्थस्ततोऽभूज्जटिलद्विज: ॥534॥
सुर: सौधर्मकल्पेऽनु पुष्पमित्रद्विजस्तत: । सौधर्मजोऽमरस्तस्माद्विजन्माग्निसमाह्णय: ॥535॥
सनत्कुमारदेवोऽस्मादग्निमित्राभिधो द्विज: । मरून्माहेन्द्रकल्पेऽभूद्भारद्वाजो द्विजान्वये ॥536॥
जातो माहेन्द्रकल्पेऽनु मनुष्योऽनु ततश्च्युत: । नरकेषु त्रसस्थावरेष्वसंख्यातवत्सरान् ॥537॥
भ्रान्त्वा ततो विनिर्गत्य स्थावराख्यो द्विजोऽभवत् । ततश्चतुर्थकल्पेऽभूद्विश्वनन्दी ततश्च्युत: ॥538॥
महाशुक्रे ततो देवस्त्रिखण्डेशस्त्रिपृष्ठवाक् । सप्तमे नरके तस्मात्तस्माच्च गजविद्विष: ॥539॥
आदिमे नरके तस्मात्सिंह: सद्धर्मनिर्मल: । तत: सौधर्मकल्पेऽभूत्सिंहकेतु: सुरोत्तम: ॥540॥
कनकोज्ज्वलनामाभूत्ततो विद्याधराधिप: । देव: सप्तमकल्पेऽनु हरिषेणस्ततो नृप: ॥541॥
महाशुक्रे ततो देव: प्रियमित्रोऽनु चक्रभृत् । स सहस्त्रारकल्पेऽभूद्देव: सूर्यप्रभाह्णय: ॥542॥
राजा नन्दाभिधस्तस्मात्पुष्पोत्तरविमानज: । अच्युतेन्द्रस्ततश्च्युत्वा वर्धमानो जिनेश्वर: ॥543॥
प्राप्तपंचमहाकल्याणर्द्धि: प्रस्तुतसिद्धिभाक् । प्रदिश्याद्गुणभद्रेभ्य: स विभु: सर्वमंगलम् ॥544॥
शार्दूलविक्रिडितम्
इत्थं गौतमवक्त्रवारिजलसद्वाग्वल्लभावाड्.मयै:
पीयूषै: सुकथारसातिमधुरैर्भक्तयोपयुक्तैश्चिरम् ।
सा संसन्मगधाधिपश्च महतीं तुष्टिं समं जग्मतु:
पुष्टिं दृष्टिविबोधयोर्विदधतीं सर्वार्थसम्पत्करीम् ॥545॥
वसन्तिलका
श्रीवर्धमानमनिशं जिनवर्धमानं
त्वां तं नये स्तुतिपथं पथि सम्प्रधौते ।
योऽन्त्योऽपि तीर्थकरमग्रिमप्यजैषीत्
काले कलौ च पृथुलीकृतधर्मतीर्थ: ॥546॥
स्तुत्यं प्रसादयितुमर्थिजनो विनौति
न त्वय्यदस्तव स मोहजयस्तवोऽयम् ।
तन्नार्थिन: स्तुतिरिहेश ममास्ति बाढं
स्तुत्यस्तुतिप्रणयिनोऽर्थपराड्.मुखस्य ॥547॥
येषां प्रमेयविमुखं सुमुखप्रमाणं
ते न स्तुतेहिंतजुषां विषयीभवेयु: ।
त्वं विश्वभावविहितावगमात्मकोऽर्हन्
वक्ता हि तस्य तत एव हितैषिवन्द्य: ॥548॥
दातासि न स्तुतिफलं समुपैत्यवश्यं
स्तोता महज्झटिति शुभ्रमयाचितोऽयम् ।
कुर्या कुतस्तव न संस्तवनं जिनेश
दैन्यातिभीरूरहमय्यफलाभिलाषी ॥549॥
निष्कारणं तृणलवंच ददद्विधी: को
लोके जिन त्वयि ददाति निरर्थकृत्वम ।
मुक्तिप्रदायिनि तथापि भवन्तमेव
प्रेक्षावतां प्रथमगण्यमुशन्ति चित्रम् ॥550॥
सर्वस्वमर्थिजनता: स्वमिह स्वकीयं
चक्रु: परे निरूपधिस्थिरसत्वसारा: ।
प्रोल्लंघय तान् जिन वदन्ति वदान्यवर्य
त्वां वाग्भिरेव वितरन्तमहो विदग्धा: ॥551॥
धी: पौरूषंच विजयार्जनमेव येषां
सौख्यंच विश्वविषया विरतोपभोग: ।
तेषां कथं तदुभयप्रतिपक्षरूपं
त्वच्छासनं श्रवणभिज्जिन मा जनिष्ट ॥552॥
पुण्यं त्वया जिन विनेयविधेयमिष्टं
गत्यादिभि: परमनिर्वृतिसाधनत्वात् ।
नैवामराखिलसुखं प्रति तंच यस्माद्
बन्धप्रदं विषयनिष्ठमभीष्टघाति ॥553॥
कायादिकं सदसि ते विफलं किलाहु –
र्नैतद्वचस्तव निशम्य निशाम्य साक्षात् ।
त्वां यान्ति निर्वृतिमिहैव विनेयमुख्या
मुख्यं फलं ननु फलेषु परोपकार: ॥554॥
यल्लक्षणक्षतिकृदात्मनि तद्धि कर्म
नामादिकं किमु निहन्ति तवोपयोगम् ।
तत्सत्तया जिन भवन्तमसिद्धमिच्छ
न्निच्छेदनूर्ध्वगमनादतनोरसिद्धिम् ॥555॥
साद्यन्तहीनमनद्यमनादिसान्तं
सावद्यमादिरहितानवसानमाहु: ।
त्वां दु:खिनं सुखिनमप्युभयव्यपेतं
तेनैव दुर्गमतमोऽसि नयानभिज्ञै: ॥556॥
संयोगज: स्वज इति द्विविधो हि भावो
जीवस्य योगविगमाद्विगमी तदुत्थ: ।
स्वोत्थे स्थिति: परमनिर्वृतिरेष मार्गो
दुर्ग: परस्य तव वाक्यबहिष्कृतस्य ॥557॥
आस्तामनादि निगलच्छिदया ददासि
यन्मुक्तिमन्तरहितां तदिहालमेषा ।
स्नेहादिहेतुविनिवृत्तसमस्तसत्व-
सम्पालनप्रवणतैव तवाप्ततायै ॥558॥
बोधस्तवाखिलविलोकनविभ्रमी किं
किं वाग्मितामितपदार्थनिरूपणायाम् ।
किं स्वार्थसम्पदि परार्थपराड्.मुखस्त्वं
किं नासि सत्सु जिन पूज्यतमस्त्वमेव ॥559॥
विश्वावलोकनवितन्वदनन्तवीर्य-
व्यापारपारसरणं न कदापि ते स्यात् ।
चित्रं तथापि सुखिनां सुखिनं भवन्तं
सन्तो वदन्ति किमु भक्तिरूतावबोध: ॥560॥
भव्यात्मनां परमनिर्वृतिसाधनार्थ
त्वच्चेष्टितं तव न तत्र फलोपलिप्सा ।
तस्मात्वमेव जिन वागमृताम्बुवृष्ढया
सन्तर्पयन् जगदकारणबन्धुरेक: ॥561॥
जीवोऽयमुद्यदुपयोगगुणोपलक्ष्य-
स्तस्योपहन्तृ ननु घातिचतुष्कमेव ।
घातेन तस्य जिन पुष्कललक्षणस्त्वं
त्वां तादृशं वद वदन्तु कथं न सिद्धम् ॥562॥
साधारणास्तव न सन्तु गुणास्तदिष्टं
दृश्यो न तेषु जिन सत्सु गुणेषु साक्षात् ।
दृष्टे भवेद्भवति भक्तिरसौ ययाय -
श्चेचीयते स्त्रवति पापमपि प्रभूतम् ॥563॥
देवावगाढ़मभवत्तव मोहघाता-
च्छूद्धानमावृतिहते: परमावगाढम् ।
आद्ये चरित्रपरिपूर्तिरथोत्तरत्र-
विश्वावबोधविभुतासि ततोऽभिवन्द्य: ॥564॥
ध्वस्तं त्वया प्रबलपापबलं परन्च
प्रोद्भिन्नपालिजलवत्प्रवहत्यजस्त्रम् ।
श्रद्धादिभिस्त्रिभिरभूत्त्रितयी च सिद्धि:
सद्धर्मचक्रसुभवद्भुवनैकनाथ: ॥565॥
देहो विकाररहितस्तव वाग्यथार्थ-
दृक्छ्रोत्रनेत्रविषयत्वमुपेत्य सद्य: ।
त्वामस्तरागमखिलाव्रगमन्च कस्य
न स्थापयेन्मनसि मन्मथमानमदिंन् ॥566॥
किं वस्त्विहाक्षणिकमन्वयरूपमस्ति
व्यस्तान्वयं वद हि किं क्षणिकन्च किन्चित् ।
बुद्धादयो बुधप गर्भगतार्भकाभा
भेदोऽयमर्थविमुखोवगमो ह्यमीषाम् ॥567॥
तिष्ठत्यगोचरमनन्तचतुष्टयं ते
स्वाभाविकाद्यतिशयेष्वपरोऽपि कश्चित् ।
कस्यापि सम्भवति किं कपिलादिकानां
केनाप्त पडि्.क्तमुपयान्ति तपस्विनोऽमी ॥568॥
त्वामामनन्ति मुनय: परमं पुमांसं
ध्वस्तत्रिवेदमपि किं परमांगसंगात् ।
किं मोहमल्लदहनात्किमनन्तवीर्यात्
किं सिद्धतापरिणतेर्गुणगौरवाद्धा ॥569॥
देहत्रयापनयनेन विनापि सिद्धि –
स्त्वं शुद्धिशक्तयतुलधृत्त्युदितोदितत्वात् ।
आधिक्यमस्त्य धिपते त्वदुदीरितोरू-
सन्मार्गगान्नयसि यत्परमात्मभावम् ॥570॥
अस्त्येव देव तव चौदयिकोऽपि भाव:
किं त्वेष मोहरहितस्य न बन्धहेतु: ।
योगानुरोधसमवाप्तशुभाणुवेद्य-
बन्धं निबन्धन मुशन्त्यविरोधकत्वात् ॥571॥
त्वत्पादपंकजषडड्.घ्रितयाप्तपुण्याद्
गण्योऽभवत्सुरगणो गणनातिगश्री: ।
आनम्रमौलिरत एव नखोन्मुखांशु-
भास्वन्मुख: शतमख: सुमुखस्तवाड़्घ्न्यो: ॥572॥
मालिनी
प्रशमपरमकाष्ठानिष्ठितोदात्तमूर्ते:
क्रमकरणविहीनज्ञानधामैकधाम्न: ।
द्वितयनयमयोद्यद्धीरदिव्यध्वनेस्ते
ननु जिन परमात्मप्राभवं भाति भर्तु: ॥573॥
शार्दूलविक्रीडितम्
ज्ञानं सर्वगतं स्वरूपनियतं ते स्यादहेतु: कृते-
र्वीतेच्छायतना: स्वकृत्यपटवो वाचो विवाचामपि ।
प्रस्थानस्थितयोऽप्यनात्मविहिता मात्मान्यबाधाप्रदा:
स त्वं निर्मलबोधदर्पणतले ज्ञेयाकृतिं धत्स्व मे ॥574॥
विश्वस्यास्खलितं प्रशास्ति तव वाग्याथात्म्यमात्मेशिनो
यस्माद्दृष्टविरोधरोधरहिता रागाद्यविद्याच्छिद: ।
तस्माद्धीर विकायसायकशिखामौखर्यवीर्यद्रु हो
मोहद्रोहजयस्तवैव न परेष्वन्यायविन्यासिषु ॥575॥
देवो वीरजिनोऽयमस्तु जगतां वन्द्य: सदा मूर्ध्नि मे
देवस्त्वं ह्णदये गणेश वचसा स्पष्टेन येनाखिलम् ।
कारूण्यात्प्रथमानुयोगमवद: श्रद्धाभिवृद्धयावहं
मद्भाग्योदयत: सतां स सहजो भावो ह्ययं तादृशाम् ॥576॥
मालिनी
इति कतिपयवाग्भिर्वर्धमानं जिनेन्द्रं
मगधपतिरूद्रीर्णश्रद्धया सिद्धकृत्य: ।
गणधृतमपि नुत्वा गौतमं धर्मधुर्य:
स्वपुरमविशदुद्यत्तुष्टिरागामिसिद्धि: ॥577॥
अनुष्टुप्छन्दसा ज्ञेया ग्रन्थसंखया तु विंशति: ।
सहस्त्राणां पुरागस्य व्याख्यातृश्रोतृलेखकै: ॥578॥